अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥

समाप्तं याज्ञवल्कीयं काण्ड­मै­का­त्म्य­नि­ष्ठि­तम् ।।
खिल­का­ण्ड­म­थे­दानीं यथावदुपवर्ण्यते ।। १ ।।

संभावितं न यत्पूर्वं कर्म­वि­ज्ञा­न­का­ण्डयोः ।।
तदत्र भण्यते सर्वं खिल­का­ण्ड­त्व­हे­तुतः ।। २ ।।

अपा­स्त­नि­खि­ल­ध्वा­न्त­तज्जं ब्रह्मो­प­व­र्णि­तम् ।।
पूर्वै­श्च­तु­र्भि­र­ध्या­यै­र्यद्धीः कैवल्यसिद्धये ।। ३ ।। ।।

सोपाधकस्य तस्यैव व्यवा­हा­रा­नु­पा­तिनः
उपासनानि वाच्यानि यान्य­नु­क्ता­न्यतः परम् ।। ४ ।।

प्रकृ­ष्टा­भ्यु­द­या­र्थानि क्रममुक्तिकराणि च ।।
सर्वोा­स्त्य­ङ्ग­भू­तानि वक्तव्यानीति यत्यते ।। ६ ।।

कार्य­का­र­ण­सं­ब­न्ध­व्या­ज­मा­श्रित्य तत्परम् ।।
व्याख्यातं यत्नतः पूर्व­मा­त्म­ज्ञा­न­प्र­सि­द्धये ।। ७ ।।

चरि­ता­र्थ­त्व­त­स्तस्य कार्य­का­र­ण­व­स्तुनः ।।
निषे­धा­ये­य­मुक्तिः स्यात्पू­र्ण­मि­त्ये­व­मा­दिना ।। ८ ।।

न व्यावृत्तमिदं सर्वं परा­क्प्र­त्य­य­मा­न­गम् ।।
नानुवृत्तं तथै­वै­त­न्ना­प्य­भा­वै­क­नि­ष्ठि­तम् ।। ९ ।।

अव्या­वृ­त्ता­न­नु­ग­त­मा­त्म­प्र­त्य­य­मी­रि­तम् ।।
यस्मा­त्पू­र्ण­मिदं साक्षा­त्ता­दात्म्यं तेन वर्ण्यते ।। १० ।।

अज्ञा­ता­मि­थ्या­वि­ज्ञा­त­त­त्त्व­मा­त्रै­क­नि­ष्ठि­तम् ।।
सम्यग्ज्ञानं यत­स्त­स्मा­त्पूर्णं तज्ज्ञेयमुच्यते ।। ११ ।।

गोत्व­व­न्ना­नु­वृत्तं यन्न व्यावृत्तं च खण्डवत् ।।
अनन्यमानमानन्दं पूर्णं तदभिधीयते ।। १२ ।।

अदः परोक्षमत्यन्तं सर्वकार्यस्य कारणम् ।।
कार्यानुमेयं तद्वि­द्या­त्पू­र्ण­मा­त्र­स­त­त्त्व­कम् ।। १३ ।।

इदं यज्ज­नि­म­त्किं­चि­न्ना­म­रू­प­क्रि­या­त्म­कम् ।।
प्रत्य­क्षा­द्य­व­सेयं यत्पूर्णं तदपि पूर्ववत् ।। १४ ।।

कार्य­का­र­ण­यो­श्चेष्टा पूर्णा­त्पू­र्ण­मि­ती­र्यते ।।
वस्तुवृत्तमिदं तावत्प्रगपि ज्ञानसंगतेः ।। १५ ।।

अथ हेतु­फ­ला­वे­श­नि­षे­धाय परं वचः ।।
पूर्णस्य पूर्णमादाय पूर्ण­मे­वा­व­शि­ष्यते ।। १६ ।।

ब्रह्म वा इदमित्यादि मधुकाण्डे यदीरितम् ।।
तदेव पूर्ण­मि­त्या­दि­वा­क्ये­ने­हो­प­सं­हृ­तम् ।। १७ ।।

अपीताखिलकार्यं सत्त­मो­मा­त्रा­व­शे­ष­गम् ।।
भास्वत्स्वार्थं चिदेकस्थमदः पूर्णामिहोच्यते ।। १८ ।।

तमोन्वितं च यत्कार्यं साक्षिणः साक्ष्यतां गतम् ।।
प्रत्य­क्ष­मा­ग­मा­पायि विद्या­त्पू­र्ण­मिदं तथा ।। १९ ।।

ईश­क्षे­त्र­ज्ञ­यो­रेवं तम­स्त­ज्जा­भि­सं­स्थयोः ।।
सामा­ना­धि­क­र­ण्या­दे­र्वा­क्या­दै­का­त्म्य­मु­च्यते ।। २० ।।

क्षेत्र­ज्ञे­श्व­र­भे­देन ह्यभिन्नं वस्त्वविद्यया ।।
भिन्नं बोधा­त्त­मो­ध्वस्तौ नेती­त्या­त्माऽ­व­शि­ष्यते ।। २१ ।।

न भेदो न च संसर्गो नाप्य­भा­वोऽ­व­सी­यते ।।
तन्मू­ला­ज्ञा­न­वि­ध्व­स्ते­र्य­थो­क्ता­ग­म­मा­नतः ।। २२ ।।

स्रगज्ञानमनादाय तदुत्थैः संगतिः स्रजः ।।
नैव संभाव्यते यद्व­त्त­थे­हाऽऽ­त्मनि वीक्ष्यताम् ।। २३ ।।

कार्य­का­र­ण­यो­र्ध्व­स्ता­व­पू­र्वा­द्यु­क्ति­बो­धतः ।।
आत्म­प्र­त्य­य­मा­गम्यः स्वार्थ आत्माऽवशिष्यते ।। २४ ।।

यादृगस्य द्वये रूप­मा­त्म­नै­वा­व­ग­म्यते ।।
तावदेव हतान्ध्यस्य तदन्यानवशेषतः ।। २५ ।।

यदेवेहेति च तथा मन्त्रोऽ­प्यु­च्चै­र्ज­गाद नः ।।
अन्यदेवेति च श्रुतिः कार्ये­त­र­नि­षे­धिनी ।। २६ ।।

आत्मे­ति­दृ­ष्टे­र्मे­यत्वं स्वार्या­व­ग­ति­तोऽ­प­रम् ।।
नान्यदुत्सहते वोढुमिति पूर्वमवादिषम् ।। २७ ।।

एवं यथोदिते ताव­त्प्र­मा­णा­र्थेऽ­प्य­व­स्थिते ।।
अन्यथेदं वचः केचि­द्व्या­च­ख्यु­र­ति­नै­पु­णात् ।। २८ ।।

पूर्ण­मि­त्या­दि­वा­क्यस्य षष्ठान्त्यवचसा सह ।।
वक्तुकामो हि संबन्धमेवं यत्नादचीक्लृपत् ।। २९ ।।

द्वैता­द्वै­ता­त्मकं ब्रह्म मैत्रेय्यै वर्णितं किल ।।
यत्र हि द्वैत­मि­त्युक्त्या यत्र त्वस्येति चाऽऽदरात् ।। ३० ।।

यद्यद्वैतं परं ब्रह्म तत्र स्यात्परमार्थतः ।।
कल्पितं प्रसजेद्दूैतं तोय­बु­द्धि­रि­वो­षरे ।। ३१ ।।

मृषा­त्वा­द्भे­द­जा­तस्य सर्ग­स्थि­त्या­द्य­सं­भ­वात् ।।
सर्ग­स्थि­ति­ल­यानां स्यादन्वाख्यानं मृषैव तु ।। ३२ ।।

श्रवणप्रतिपत्ती च व्यर्थे स्यातां तथाऽद्वये ।।
अथ स्वेनैव रूपेण द्वैतमस्तीति भण्यते ।। ३३ ।।

अन्वाख्यानं सतामेव सर्गादीनां तथा भवेत् ।।
तथाऽ­प्य­द्वै­त­सं­दृ­ष्टे­र्मृ­षात्वं स्याद्विरोधतः ।। ३४ ।।

परिकल्पिततादोष एवमत्र प्रसज्यते ।।
तद्दो­षा­प­नु­नु­त्सायै पूर्णमित्यादिका श्रुतिः ।। ३५ ।।

न कश्चिदपि दोषोऽत्र यथा तदभिधीयते ।।
स्वानु­भू­त्य­नु­सा­रेण सर्वं सुस्थं भवेदतः ।। ३६ ।।

ब्रह्मणो याऽद्वयावस्था सैव तावदिहोदिता ।।
एवं चेदद्वयं ब्रह्म द्वैतावस्था न सिध्यति ।। ३८ ।।

इति­दो­ष­नि­षे­धा­र्थ­मिदं पूर्णमितीर्यते ।।
यथो­क्ता­व­स्थ­योर्मा भून्मृषात्वं ब्रह्मणः सदा ।। ३९ ।।

पूर्ण­ब्र­ह्म­प­रि­ज्ञा­ना­व्य­ति­रे­क­त्व­हे­तुतः ।।
अदो­व­त्का­र्य­म­प्ये­त­त्पू­र्ण­मे­वा­व­सी­य­ताम् ।। ४० ।।

पूर्णेनाभेदतः कार्यं पूर्णं स्यान्न मृषा श्रुतेः ।।
यद्यते नातिरेकेण तत्तदेवेति निश्चितिः ।। ४१ ।।

एवं तर्ह्ये­क­रू­पेऽ­स्मिं­स्तत्त्वे सत्ये समर्थिते ।।
ततः सर्गाद्यभावः स्यादेकरूपतया स्थितेः ।। ४२ ।।

नैवं यतः श्रुतिः प्राह पूर्णा­त्पू­र्ण­मु­द­च्यते ।।
पूर्णात्कारणतः पूर्णं द्वैत­मे­त­दु­द­च्यते ।। ४३ ।।

यस्मा­दु­द्रि­च्य­मानं हि द्वैतं नैवातिरिच्यते ।।
तदेवोद्रेचनं चेत्स्या­द्वै­त­स्येति मतं यदि ।। ४४ ।।

नैतदेवं कुतो यस्मा­द्दृ­ष्ट­हानं प्रसज्यते ।।
प्रत्यक्षतो हि दृष्टोऽयं द्वैताख्यो विषयः स्फुटः ।। ४५ ।।

तथा दर्शनतः सिद्धो विधितश्चावसीयते ।।
प्रामाण्योच्छेद एव स्याच्छ्रु­ते­रेवं समर्थते ।। ४६ ।।

पारमार्थ्यं क्वचिच्छास्रं कच्चि­च्चा­प्य­नृ­ता­त्म­ताम् ।।
विदधन्मानतां जह्या­त्प­र­स्प­र­वि­रो­धतः ।। ४७ ।।

पूर्णत्वेनाजहद् वृत्त्या त्रिष्वप्यध्वसु वर्तते ।।
द्वैता­द्वै­ता­त्मकं ब्रह्म पूर्ण­त्वे­ना­वि­भा­गतः ।। ४८ ।।

कुतोऽविभागो माना­च्चे­दु­भ­यो­र­प्य­व­स्थयोः ।।
पूर्णा­दि­त्या­दि­व­च­ना­न्म­हा­प्र­लय आत्मनि ।। ४९ ।।

इदं च द्वैतस्त्येव तथाऽदोऽद्वैतमेव च ।।
पूर्ण­त्वा­ख्या­ज­ह­द्वृत्त्या समु­द्रो­र्मि­व­दी­क्ष्य­ताम् ।। ५० ।।

अग्ने चलत्वमूर्मीणां मध्य ईषच्चलात्मता ।।
निष्कम्पत्वं तथा मूले समुद्रः सर्वरूपभृत् ।। ५१ ।।

यथैता यौगपद्येन वृत्ती­रू­र्मि­भि­रा­त्मनः ।।
अनुभूयन्त एकत्र देवदत्तादिके तथा ।। ५२ ।।

निष्कम्पा देवदत्तस्य वृत्तिः स्यात्परमात्मना ।।
ईषत्प्रचलिता प्राण­भा­वे­ने­त्य­व­ग­म्यते ।। ५३ ।।

विराड् भावेनातितरां चण्ड­प्र­च­लि­तो­र्मि­वत् ।।
ऊर्म्य­ग्र­व­त्पि­ण्ड­भावे नाम­रू­प­क्रि­या­त्मना ।। ५४ ।।

जनि­स्थि­ति­ल­ये­ष्वेवं त्रिषु कालेषु पूर्णता ।।
कार्य­का­र­ण­यो­र्ज्ञेया द्वैता­द्वै­त­स्व­भा­वयोः ।। ५५ ।।

सा चैैकै­वा­वि­भा­ग­त्वा­त्का­र्य­का­र­ण­भे­दतः ।।
भेदेन व्यपदेशार्हा सर्वमेवं समञ्जसम् ।। ५६ ।।

आवि­र्भा­व­ति­रो­भावैः कार्य­का­र­ण­रू­पिभिः ।।
समु­द्र­व­न्नृ­त्यति च प्रत्यवस्थं विभुः स्थितः ।। ५७ ।।

एवं द्वैतस्य सत्यत्वे कर्मकाण्डस्य मानता ।।
अन­न्त­पु­रु­षा­र्था­प्ति­रि­ष्यते कर्मकाण्डतः ।। ५८ ।।

यदा तु कल्पितं द्वैतमद्वैतं परमार्थतः ।।
उच्छिन्नं कर्मकाण्डस्य प्रामाण्यं विषयादृते । ५९ ।।

एकदेशस्य चामात्वे वेद­स्या­प्य­प्र­मा­णता ।।
सर्वनाशो भवेदेवं सर्वा­प्रा­मा­ण्य­हे­तुतः ।। ६० ।।

अतो विरो­ध­नु­त्त्यर्थं सत्य­त्व­प्र­ति­प­त्तये ।।
कार्यकारणयोः शास्रं पूर्ण­मि­त्या­दि­नाऽ­व­दत् ।। ६१ ।।

प्रत्यक्षादीनि मानानि भेदग्राहीणि सर्वदा ।।
तेषां चाप्यप्रमाणत्वं प्राप­द­द्वै­त­वा­दिनः ।। ६२ ।।

इति वेदविदः केचि­द्भि­न्ना­भि­न्न­स­त­त्त्व­कम् ।।
सर्वं वस्त्व­भि­वा­ञ्छन्ति तत्तु युक्त्या न युज्यते ।। ६३ ।।

न युक्तिमदिदं गीतं ह्यप­वा­द­वि­क­ल्प­नम् ।।
न्यायासंभवतः स्पष्टं स च न्यायो विभाव्यते ।। ६४ ।।

अहिं­स­न्स­र्व­भू­ता­नी­त्य­हिंसा सर्वभूतगा ।।
शास्त्रे­णो­त्स­र्गतः प्राप्ता तीर्थे साऽपोद्यते यथा ।। ६५ ।।

न तथेहाद्वावस्था श्रुत्यो­त्स­र्गेण यत्नतः ।।
प्रापिता तद्विशेषेऽसौ निर्भा­ग­त्वा­न्नि­षे­ध­भाक् ।। ६६ ।।

विक­ल्पा­नु­प­प­त्तेश्च पोडशग्रहणादिवत् ।।
वस्तुतन्त्रं हि नो मानं कर्तृतन्त्रं विकल्पते ।। ६७ ।।

यत्कर्तुं वाऽप्यकर्तुं वाऽप्यन्यथा कर्तुमेव वा ।।
कारकैः शक्यते लोके तद्विकल्पस्य गोचरः ।। ६८ ।।

पस्स्प­र­वि­रो­धाच्च नैकदैकत्र संभवः ।।
द्वयो­र­व­स्थ­यो­र्य­द्व­त्प्र­का­श­त­म­सो­रिह ।। ६९ ।।

श्रुति­न्या­य­वि­रो­धाच्च कल्पनेयमशोभना ।।
अपू­र्वा­न­प­रा­न­न्त­प्र­ज्ञा­नै­क­र­सा­द्व­यम् ।। ७० ।।

अपू­र्वा­न­प­रा­बाह्यं भेद­सं­स­र्ग­व­र्जि­तम् ।।
अस्थूलं नेति नेतीति यथोक्तार्थे वचांसि हि ।। ७१ ।।

अमा­त्वा­श­ङ्का­स­द्भा­वा­द्य­थो­क्ता­र्थ­वि­नि­श्चितौ ।।
अब्धौ क्षिप्तानि तानि स्युर­न्या­र्था­सं­भ­व­त्वतः ।। ७२ ।।

तथा न्यायविरोधोऽपि क्रिया­का­र­क­रू­पिणः ।।
जडा­ध्रु­वा­ना­त्मनो हि त्वत्कृता कल्पनेष्यते ।। ७३ ।।

न तु चिन्मात्ररूपस्य ध्रुवानंशात्मनः स्वतः ।।
नित्यत्वं चाऽऽत्मनः सिद्धं प्रत्य­भि­ज्ञा­दि­मा­नतः ।। ७४ ।।

प्रस­जे­त्त­द्वि­रो­धश्च भिन्ना­भि­न्न­त्व­वा­दिनः ।।
कल्पनायाश्च वैफ­ल्य­म­नि­त्यत्वे परात्मनः ।। ७५ ।।

अकृताभ्यागमः प्राप्तः कृतनाशश्च सत्वरः ।।
कर्मकाण्डस्य वैफल्यमेवं कल्पयतो भवेत् ।। ७६ ।।

मकरी ननु दृष्टान्तो भिन्ना­भि­न्न­त्व­सि­द्धि­कृत् ।।
ब्रह्मणः प्रागु­प­न्य­स्तोऽ­सा­ध्वीयं कल्पना कथम् ।। ७७ ।।

अतोऽ­न्य­वि­ष­य­त्वा­त्सोऽ­वि­रोधः प्रागुदीरितः ।।
नतु चिन्मात्ररूपस्य ह्यत्रावोचं विरुद्धताम् ।। ७८ ।।

नाध्येयत्वाच्च शास्रा­र्थ­क­ल्प­नेयं त्वया कृता ।।
षड्भावविक्रियं वस्तु ध्येयं वक्ति न हि श्रुतिः ।। ७९ ।।

स्वतस्तस्य च संप्रा­प्ते­र्वि­नाऽ­प्या­ग­मा­शा­स­नम् ।।
ध्येयत्वेनेह सर्वेषां खारो­ष्ट्रा­दे­र­पी­क्ष­णात् ।। ८० ।।

एक­धै­वा­नु­वि­ज्ञे­य­मिति च श्रुतिशासनम् ।।
भेद­दृ­ष्ट्य­प­वा­दाच्च मृत्योरिति विनिन्दनात् ।। ८१ ।।

यत्तूक्तं वेद­भा­ग­त्वा­द्भि­न्न­व­स्त्व­व­बो­धिनः ।।
नामात्वं कर्म­का­ण्ड­स्ये­त्यत्र प्रतिविधीयते ।। ८२ ।।

न हि जात्या­दि­सं­भे­द­सं­सिद्धौ मानता श्रुतेः ।।
प्रत्य­क्षा­द्य­न­व­ष्टब्धे तस्यामात्वं यतः स्थितम् ।। ८३ ।।

भेदग्राहि न नो मानं लौकिकं वैदिकं च यत् ।।
अवि­चा­रि­त­सं­सि­द्धि­स्त­स्मा­द्भे­दोऽ­व­सी­य­ताम् ।। ८४ ।।

न स्वतः परतो वाऽयं भेदो वस्तुन ईक्ष्यते ।।
सर्वस्यैव स्वतोऽ­भि­त्ते­स्त­द­न्य­स्या­प्य­भे­दतः ।। ८५ ।।

वस्तु वस्त्वन्तरं भिन्द्या­द्यो­गा­द्यद्वा विभागतः ।।
योगोे नाति­श­यै­क­त्वा­त्त­यो­श्चा­प्ये­क­रू­पतः ।। ८६ ।।

विभागेऽपि न भेदः स्यात्त­यो­रे­का­त्मना स्थितेः ।।
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना ।। ८७ ।।

मेय­या­था­त्म्य­सं­लेहि मानं मानत्वमश्नुते ।।
भेदं न लभते मेये, मेयादन्यत्र न प्रमा ।। ८८ ।।

सतो न व्यतिरेकेण भेदो नापि सदन्वयात् ।।
यथैवं नासतोऽप्येवं भेदो नैवावसीयते ।। ८९ ।।

सर्वं सदेव यस्येष्टमथवाऽ सदिदं जगत् ।।
भेदः किमाश्रयस्तस्य विरोधान्न द्वयाश्रयः ।। ९० ।।

अन्यापेक्षं गृथक्त्वं चेत्स्वत एवापृथग्घटः ।।
बली­या­न­न्त­र­ङ्ग­त्वा­द्व­हि­रङ्गं प्रबोधते ।। ९१ ।।

द्रव्याद्भिन्नं पृथक्त्वं चेदनवस्थैति सत्वरा ।।
द्रव्यमेव पृथक्त्वं चेद­पृ­थ­क्स्या­दिदंं जगत् ।। ९२ ।।

स्वत­श्चे­द्व­स्तुनो भेदो वस्तु शून्यं प्रसज्यते ।।
आपेक्षिकोऽपि क्लृप्तत्वान्न भेदो रज्जुसर्पवत् ।। ९३ ।।

इत्येवमादि बहुशो भिन्ना­भि­न्न­त्व­दु­ष­णम् ।।
प्रागप्यक्तं तदत्रापि संधेयं वस्तुसिद्धये ।। ९४ ।।

अपि वेद्वैकदेशस्य प्रामाण्यं यदि नेष्यते ।।
कर्मकाण्डस्य सर्वस्य वेदस्यापि प्रसज्यते ।। ९५ ।।

इति यत्प्रा­गु­प­न्यस्तं तस्य दूषणमुच्यते ।।
साध्य­सा­ध­त­सं­वन्धे तस्यापाीष्टा प्रमाणता ।। ९६ ।।

भेदः प्रमान्तरैः सिद्धो न त्वाग­म­स­मा­श्र­यात् ।।
पशवोऽपि हि जानन्ति भेदमक्षादिमानतः ।। ९७ ।।

न च मिथ्या­त्व­धी­र्भेदे जन्मनैवेह कस्यचित् ।।
अप्यु­त्था­पि­त­बु­द्धीनां भेदेऽसंभावना न च ।। ९८ ।।

क्रिया­का­र­क­सं­भित्तौ वस्तुतत्त्वेन मा श्रुतिः ।।
साध्य­सा­ध­न­सं­ब­न्ध­मा­त्रै­क­वि­ष­य­त्वतः ।। ९९ ।।

लोकसिद्धमतो भेद­मा­दा­ये­ष्टा­र्थ­सि­द्धये ।।
इदं कार्यमिदं नेति वेदशास्रं प्रवर्तते ।। १०० ।।

सर्वतस्तु विरक्तो यः कर्मभिः शुद्धधीर्नरः ।।
कामयानः पूर्ण­फ­ल­मु­त्प­त्त्या­दि­वि­ल­क्ष­णम् ।। १०१ ।।

तमो­मा­त्रा­न्त­रा­य­त्वा­त्प्र­तीचः पूर्णरूपिणः ।।
स्वतः­सि­द्ध­त्व­त­स्तस्य व्यञ्ज­का­न्ना­न्य­दी­क्ष्यते ।। १०२ ।।

स्वतः प्राप्तस्य संप्राप्तौ वाक्या­न्मो­ह­प्र­हा­णतः ।।
मानापेक्षा न भूयः स्यात्फ­ला­प्ते­स्त­त्कृ­ता­र्थतः ।। १०३ ।।

साध्ये हि साधनापेक्षा सिद्धेऽसौ विनिवर्तते ।।
किम्वसाध्ये समस्तस्य पूर्णत्वेन समाप्तितः ।। १०४ ।।

द्वैता­द्वै­ता­त्मकं ब्रह्म यदाऽ­ण्व­भ्यु­प­ग­म्यते ।
तदाऽपि न विरोधोऽयं केन­चि­द्वि­नि­वा­र्यते ।। १०५ ।।

सम­स्त­व्य­स्त­भू­तस्य ब्रह्म­ण्य­व­सि­ता­त्मनः ।।
बूत कर्मणि को हेतुः सर्वा­न­न्य­त्व­द­र्शिनः ।। १०६ ।।

सर्व­जा­त्या­दि­मत्त्वे च परस्परविरोधतः ।।
व्याघातान्न प्रवृत्तिः स्यान्निषेधेऽथ विधौ तथा ।। १०७ ।।

न चाव­च्छे­द­मा­नित्वं विदु­षोऽ­स्त्या­सु­र­त्वतः ।।
विदु­षोऽ­प्या­सु­रत्वे स्यान्निष्फलं ब्रह्मदर्शनम् ।। १०८ ।।

तस्मादसदिदं गीतं भिन्ना­भि­न्न­त्व­सि­द्धये ।।
श्रुति­न्या­य­वि­रु­द्ध­त्वा­त्प्र­कृतं त्वधुनोच्यते ।। १०९ ।।

ओं खं ब्रह्मेति मन्त्रोऽयं श्रुत्येह ध्यानकर्मणि ।।
नियुज्यते फलप्राप्तौ यथा तदभिधीयते ।। ११० ।।

परस्य ब्रह्मणः साक्षा­द्या­था­त्म्या­धि­गमो यथा ।।
पूर्वै­श्च­तु­र्भि­र­ध्या­यै­स्तथा श्रुत्यो­दि­तोऽ­ञ्जसा ।। १११ ।।

अस्यैव प्रति­प­त्त्य­र्थ­मु­पा­स­न­म­थो­क्तते ।।
ओं खं ब्रह्मेति वचसा पुंसां श्रेयो­भि­वा­ञ्छ­ताम् ।। ११२ ।।

ब्रह्मेतीह विशेष्यार्थः खमित्यपि विशेषणम् ।।
सामा­ना­धि­क­र­ण्यो­क्ते­स्त­दु­वृत्तिः कृष्णसर्पवत् ।। ११३ ।।

प्रवृ­त्ति­र्ब्र­ह्म­श­ब्दस्य बृह­द्व­स्त्वे­क­गो­चरा ।।
खेन तद्वि­शि­न­ष्ट्यत्र सामा­न्यां­शै­क­पा­तिना ।। ११४ ।।

अना­का­श­स्व­भा­वेभ्यः खेन ब्रह्म निवर्त्यते ।।
तथाऽ­ब्र­ह्म­स्व­भा­वेभ्यः साम­र्थ्या­द्ब्र­ह्मणा च खम् ।। ११५ ।।

सामा­न्य­मा­त्र­वा­चि­त्वा­त्ख­श­ब्दस्य विशेषणम् ।।
पुराणमिति निर्वक्ति कारणप्रतिपत्तये ।। ११६ ।।

यत्तद्ब्रह्म खमित्युक्तं तदों­श­ब्दा­भि­धा­न­कम् ।।
चिन्तयेत्सततं धीमा­नो­मा­ल­म्ब­न­मेव वा ।। ११७ ।।

एतदालम्बनं श्रेष्ठमिति च श्रुतिशासनम् ।।
एते­नै­वा­क्ष­रे­णेति ह्यथ­र्वा­णोऽ­प्य­धी­यते ।। ११८ ।।

अती­न्द्रि­त्स्वा­त्त­स्यापि कथं स्यात्तदुपासनम् ।
वायुरं खमिति प्राह तदालम्बनसिद्धये ।। ११९ ।।

खं पुराणं न विज्ञेयं मन्त्रेऽ­स्मि­न्निति मन्यते ।।
कौरव्यायणिजो धीमा­न्वा­यु­रे­ति­प्र­सि­द्धितः ।। १२० ।।

रूढ्या वृत्तिः खशब्दस्य वायुरे व्योम्नि लक्ष्यते ।।
बहुशश्च प्रयोगोऽतो वायुरं खं प्रतीयताम् ।। १२१ ।।

पुराणं यदि तद्व्योम यदि वा वायुरं भवेत् ।।
ध्येयं तदोमिति सदा पक्षयोरुभयोरपि ।। १२२ ।।

आलम्बनतर्योकार उपास्तिविषयो भवेत् ।।
चतुर्भुजाङ्कितं दारु विष्णोरिव निगच्छति ।। १२३ ।।

नेदीयो ब्रह्मणः स्थानमोमितीदं प्रतीयताम् ।।
शालग्रामो हरे­र्य­द्व­त्स­र्वा­न­र्था­प­हा­रिणः ।। १२४ ।।

यद्वाऽभिधानमों विद्यात्तस्यैव परमात्मनः ।।
तस्मि­न्नि­वि­ष्ट­चि­त्तस्य तद्ब्रह्माऽऽशु प्रसीदति ।। १२५ ।।

ओंकारो वेद एवेति ब्राह्मणास्तु प्रचक्षते ।।
वेदैनेन यतो वेद्यं ब्रह्म वेदस्ततो मतः ।। १२६ ।।

अभि­धा­न­त­यै­वै­न­मों­कारं विदुरञ्जसा ।।
ब्राह्म­णा­स्त­द­भि­ध्या­ना­द्वि­दन्ति ब्रह्म निर्भयम् ।। १२७ ।।

वेदोऽयमिति चोक्तिः स्याद्य­थो­क्तो­पा­सनं प्रति ।।
स्तुति­त्वा­द­र्थ­वा­दोऽयं नातोऽ­न्योऽ­र्थोऽ­व­सी­यते ।। १२८ ।।

उद्गी­था­दि­प्र­भे­देन यं वा संविद्रते द्विजाः ।।
वेदोऽसाविति विज्ञे­य­स्त्र­य्या­स्तत्र समाप्तितः ।। १२९ ।।

तस्मि­न्प्र­यु­ज्य­मा­नेऽतः सर्वो वेदः ससंग्रहः ।।
प्रयुक्तः स्यादतो वेद ओंकार इति गम्यताम् ।। १३० ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्