अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ तृतीयाध्यायस्य षष्ठं ब्राह्मणम् ॥

यः सर्वान्तर इत्यु­क्त­स्त­न्नि­र्ण­य­वि­व­क्षया ।।
आ शाकल्यात्परो ग्रन्थ इतो व्याख्या­य­तेऽ­धुना ।। १ ।।

विशेषणस्य सर्वस्य साक्षा­दि­त्या­दि­कस्य च ।।
सर्वो­न्त­र­वि­नि­र्णीतौ निर्णयः स्यात्कथं न्विति ।। २ ।।

अश­ना­या­द्य­ति­क्रान्त्या प्रश्ना­र्था­वि­ष्कृतिः कृता ।।
न सम्यगिति मन्वाना गार्ग्यपृच्छदतः पुनः ।। ३ ।।

क्षित्या­दे­र्वि­य­द­न्तस्य याव­न्नै­का­त्म्य­मु­च्यते ।।
निर्णीतार्थो न ताव­त्स्या­त्प्रश्नः साक्षादितीरितः ।। ४ ।।

बुभु­क्षा­द्ये­क­दे­ह­स्थ­नि­षे­धा­द­नि­षे­धतः ।।
क्षित्या­दे­र्वि­य­द­न्तस्य नातः प्रश्ना­र्थ­नि­र्णयः ।। ५ ।।

य एते पार्थिवा भावा लोष्टकुम्भादयो मताः ।।
तेषा­म­न्त­र्ब­हि­र्व्याप्तिः पृथिव्यैवेह लक्ष्यते ।। ६ ।।

यथैव पार्थिवा भावाः पृथिव्यैवं धरित्र्यपि ।।
अद्भि­र­न्त­र्ब­हि­श्चेयं व्याप्तैवेह समीक्ष्यते ।। ७ ।।

एवं दृष्टं यत­स्त­स्मा­द्गार्गी पप्रच्छ लिङ्गतः ।।
प्रश्नं यदिदमित्येवं याज्ञवल्क्यं महाधियम् ।। ८ ।।

ओतप्रोतात्मना कार्यं येन येन समाप्लुतम् ।।
तस्य तस्या­न्य­सं­व्या­प्ति­र्दृष्टा लोके क्षितेर्यथा ।। ९ ।।

अद्भिश्चेयं क्षिति­र्व्याप्ता तस्मा­त्त­सा­म­पी­ष्यते ।।
अन्येन केन­चि­द्व्या­प्ति­र्व्या­प­क­त्वा­द्यथा भुवः ।। १० ।।

प्रत्यु­क्ति­र्गार्गि वाया­वि­त्ये­व­मे­वो­त्त­रे­ष्वपि ।।
वाक्येषु प्रतिपत्तव्या प्रत्यु­क्ति­प्र­श्न­यो­र्गतिः ।। ११ ।।

पार्थिवाप्यौ समाश्रित्य तेजोऽभिव्यज्यते यतः ।।
धातू न तु स्वतन्त्रं सन्ना­व­द­त्ते­ज­सी­त्यतः ।। १२ ।।

सूक्ष्म­ता­व्या­पिते ज्ञेये भूम्या­दे­रु­त्त­रो­त्त­रम् ।।
अक्ष­रा­त्मा­व­सा­नानां पूर्व­पू­र्व­प्र­हा­णतः ।। १३ ।।

आर­म्भ­क­ब­हु­त्वाच्च बहूक्तिरिह गृह्यते ।।
आत्मनोऽन्यद्यतः सर्वं पञ्चभूतात्मकं विदुः ।। १४ ।।

द्वात्रिं­श­द्गु­णितो मार्गो रथगत्या विवस्वतः ।।
य उक्तस्तस्य संस्थित्या तस्थु­रि­न्द्रा­न्त­दे­वताः ।। १५ ।।

स्थूल­सू­क्ष्मा­त्मना सर्वा­स्ता­र­त­म्येन संस्थिताः ।।
व्याप्य­व्या­पि­त­याऽ­न्योन्यं सर्व­तः­प­रि­म­ण्डलाः ।। १६ ।।

प्रजा­प­ति­र्वि­रा­डत्र योऽण्ड­स्या­न्त­र्व्य­व­स्थितः ।।
ओतप्रोतानि तत्त्वानि तेन पूर्वाणि सर्वशः ।। १७ ।।

तस्यो­त­प्रो­त­भा­वोऽयं ब्रह्मलोकेषु भण्यते ।।
अण्डा­र­म्भ­क­भू­तानां ब्रह्म­लो­का­भि­धे­ष्यते ।। १८ ।।

तदे­त­ल्लो­क­नि­र्मा­ण­मो­त­प्रो­ता­त्म­नो­दि­तम् ।।
अण्डान्तमेव व्याख्यातं किमन्यदवशिष्यते ।। १९ ।।

सम­ष्टि­व्य­ष्टि­भा­वेन वायुः सर्वाश्रयः पुरा ।।
व्याख्यातो यः स वक्तव्यस्तदर्थः प्रश्न उत्तरः ।। २० ।।

ओतोः प्रोताश्च कस्मिन्नु ब्रह्मलोका इतीर्यताम् ।।
इति पृष्टोऽ­ब्र­वी­द्रार्गि माऽतिप्राक्षीः कथंचन ।। २१ ।।

माऽतीत्य प्रश्नविषयं गार्गि प्राक्षीः कथंचन ।।
मा ते मूर्धा व्यपप्तेति त्वामहं वारयाम्यतः ।। २२ ।।

उचितोऽस्या भवेत्प्रश्नो देवता येन पृच्छ्यते ।।
वर्तते यस्तमुल्लङ्घ्य सोऽति­प्र­श्नोऽ­नु­मो­च्यते ।। २३ ।।

या तमर्हति पूर्वोक्ता साऽतिप्रश्न्येह देवता ।।
तदन्यत्वादिमां त्वाहु­र­न­ति­प्र­श्न्य­ना­मि­काम् ।। २४ ।।

तामे­ता­म­न­ति­प्रा­श­न्या­म­ति­प्र­श्नेन साहसात् ।।
पृच्छन्त्या मूर्धपातस्ते स्यादेव स्वापराधतः ।। २५ ।।

स्थूलान्यनुमया युक्तं प्रष्टुं तत्त्वानि कामतः ।।
इयं तु न तथा स्थूला यां त्वं पृच्छसि देवताम् ।। २६ ।।

अचिन्त्या चाप्रतर्क्या च प्राणभावेन च स्थिता ।।
नातोऽन्येन प्रमाणेन प्रष्टव्या देवताऽऽगमात् ।। २७ ।।

एतस्मादेव हेतोस्तां तर्कशास्त्रेषु तार्किका ।।
नैवानुमिन्वते त्रासा­त्पृ­थि­व्या­दी­न्यथा तथा ।। २८ ।।

प्राणोऽ­य­म­नि­रुक्तो हि कस्तं निर्वक्तुमर्हति ।।
माना­न्त­रे­णाऽऽ­ग­मतो मा प्राक्षीरित्यतो वचः ।। २९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिक तृतीयाध्यायस्य षष्ठं गार्गि­ब्रा­ह्म­णम्