बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ चतुर्थाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (२)
मनोमयादिविषयः क्रतुः पुंसो विधीयते ||
स हि तस्मिन्यतः शक्तो लोकाग्न्यादिविधौ यथा || ४५० ||
अतः कर्त्रादितन्त्रत्वात्सर्वकामादिवस्तुनः ||
अतिच्छन्दोक्तिबाधः स्याद्वस्तुतन्त्रत्वहेतुतः || ४५१ ||
विकल्पोऽत्र न युक्तः स्यादेवमुक्तेन वर्त्मना || ४५२ ||
असत्यकामनुत्त्यर्था कामोक्तिर्याऽपि चाष्टमी ||
सत्यास्त इम इत्यादि स्तुतिर्वा स्याद्विधित्सिते || ४५३ ||
सन्त्यात्मनि न चेत्कामास्तदेवं फ़लवद्वचः ||
अतिच्छन्दा इति शुभं कामशोकनिषेधकृत् || ४५४ ||
निषिध्यन्ते न चेत्कामा यथोक्ताः प्रत्यगात्मनि ||
अथ काममयत्वेऽस्य संसारोऽपि न वार्यते || ४५५ ||
मतं नालं प्ररोहाय ये कामाः प्रत्यगात्मनि ||
किमर्था तर्हि तत्रैषां कल्प्यते भवता स्थितिः || ४५६ ||
न कश्चिदुपयोगोऽत्र कामानां विद्यते स्थितौ ||
अजागलस्तनस्येव प्रमाणाद्बन्धमोक्षयोः || ४५७ ||
प्रमाणबलसद्भावो निष्फ़लोऽपि न वार्यते ||
प्रतीचि कामसंबन्धो न तथेति निषिध्यते || ४५८ ||
कामादीनामनर्थानां प्रतीचि शतशः श्रुतौ ||
निषेधकानि वाक्यानि सन्त्यपि स्मृतिशासने || ४५९ ||
कामक्लृप्तिरतो नेह प्रत्यगात्मनि युज्यते ||
प्रमाणासंभवात्तस्मात्सा न कल्प्या विपश्चिता || ४६० ||
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि ||
अदृष्टशतभागोऽपि न कल्प्यो निष्प्रमाणकः || ४६१ ||
न चाऽऽत्मकाम इत्यत्र कामाधारत्व आत्मनः ||
मानान्तरप्रसिद्धत्वात्प्रामाण्यं लभ्यते श्रुतेः || ४६२ ||
न चोपास्योऽयमप्यर्थः सर्वकामादिवच्छ्रुतेः ||
ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपरत्वतः || ४६३ ||
कणभुङ्न्यायसिद्धा चेत्कामाद्याश्रयताऽऽत्मनः ||
श्रुतेस्तदनपेक्षत्वान्नापेक्ष्यं कणभुङ्मतम् || ४६४ ||
तन्निषेधश्रुतेश्चापि नापेक्ष्यं तद्विरोधतः ||
सौगताद्युक्तिवत्तस्मान्न कामाश्रयताऽऽत्मनः || ४६५ ||
न च कामाश्रयत्वेऽन्यत्प्रमाणं किंचिदीक्ष्यते ||
मानमेयातिवर्तित्वात्स्वतः सिद्धेश्च वस्तुनः || ४६६ ||
मातृमानप्रमेयार्थांश्चाऽऽगमापायिनः सदा ||
वीक्षते योऽविलुप्ताक्षः स आत्माऽनन्यमानगः || ४६७ ||
यः स्वतो नाऽऽगमापायी तद्विरुद्धेषु सर्वदा ||
तत्रैवाऽऽत्मेति धीरेषा नाऽऽगमापायिवस्तुषु || ४६८ ||
कामिनं दुःखिनं मूढं योऽविलुप्ताक्ष ईक्षते ||
नासौ कामोऽथवा कामी तत्संबन्धोऽथवा स्वयम् || ४६९ ||
एवं दुःखादिषु ज्ञेयमुक्तं प्रत्यक्षसंश्रयाम् ||
इच्छादेश्चित्तधर्मत्वात्कर्मस्थत्वं सुनिश्चितम् || ४७० ||
इच्छादिधर्मवत्साक्षाद्यः सदा वीक्षते मनः ||
तस्येच्छाद्यभिसंबन्धः केन मानेन गम्यते || ४७१ ||
प्रत्यग्वस्तु पराग्बुद्धिगम्यैरिच्छादिभिः कथम् ||
विरुद्धत्वाद्विशेष्यं स्यात्तमसा दिनकृद्यथा || ४७२ ||
एकबुद्ध्यधिगम्यत्वं विशेषणविशेष्ययोः ||
नीलोत्पलादिवदृष्टं न तद्दृष्टं विरुद्धयोः || ४७३ ||
नापि चाऽऽत्मातिरेकेण ग्राहकोऽन्योऽवसीयते ||
ग्राहकस्थश्च कामादिः स कथं ग्राह्यतां व्रजेत् || ४७४ ||
चक्षुर्दृष्टेर्न चक्षुस्थं कृष्णत्वाद्येति दृश्यताम् ||
प्रमातृस्थं न कामादि तद्वदेयात्प्रमेयताम् || ४७५ ||
आत्मत्वावगमाद्वाऽपि जडस्यैवेह वस्तुनः ||
कामकाम्यादि तस्यास्तु दृष्टिमात्रात्मनो न तु || ४७६ ||
अचेतनैकनीडत्वं मयाऽपीह प्रसाध्यते || ४७७ ||
स्वेन भासेति च स्वप्ने सर्वकामादिवर्जितम् ||
स्वेनैव ज्योतिषेत्युक्तं स्वयंज्योतिष्ट्वसिद्धये || ४७८ ||
स्वयंज्योतिष्ट्वसिद्धिश्च श्रुतिन्यायपुरःसरा ||
कामाद्याश्रयतोक्त्याऽर्थात्सा त्वया बाधिता भवेत् || ४७९ ||
तथैवाऽऽत्मनि दृष्टे च सर्वं दृष्टं भवेदिति ||
कामादेरात्मनोऽन्यत्वे तच्चापि स्यात्प्रबाधितम् || ४८० ||
सर्ववेदान्तबाधश्च कामाद्याश्रयता यदि ||
अत्मनोऽभ्युपगम्येत तेषां तत्प्रतिषेधतः || ४८१ ||
ऐकात्म्यस्याऽऽगमार्थत्वाच्छ्रुतेश्चान्यानपेक्षतः ||
यतोऽतस्तार्किकोक्तीस्ता नैवापेक्षामहे वयम् || ४८२ ||
हृद्याश्रितत्वं कामानां नन्वत्रोक्तं विशेषणम् ||
संभवे व्यभिचारे च तच्च स्यात् फ़लवत् सति || ४८३ ||
हृद्यनाश्रितकामानां संभवादिष्टमेव तत् ||
आत्माश्रयातिरेकेण तच्चावो चं पुराऽप्यहम् || ४८४ ||
मूर्तं मर्त्यं स्थितं सच्च पृथिव्यप्तेजसामिदम् ||
न विशेषणमित्यस्मादमूर्तत्वादिकल्पनम् || ४८५ ||
चलनात्मा मरुन्नित्यं दाहकोऽग्निरितीरिते ||
विशेषणश्रवात् कृप्तिः नैतयोस्तद्विरुद्धयोः || ४८६ ||
वास्येऽर्थे वासनाः सर्वाः सजातीये च ता यतः ||
निःसङ्गे भिन्नजातीये ताः कुतः प्रत्यगात्मनि || ४८७ ||
प्रत्यगात्मातिरेकेण प्राज्ञोऽन्यश्चेद्विवक्ष्यते ||
नेति नेतीति तस्योक्तान्निषेधान्नेह संभवः || ४८८ ||
निःशेषकामकर्मादेर्व्युत्थाप्याऽऽत्मानमब्रवीत् ||
तद्वा अस्यैतदित्युक्त्या नातः कामादयोऽत्र ते || ४८९ ||
तद्वा अस्यैतदित्यादेः प्राज्ञस्याऽऽन्तररूपतः ||
वासनाकामकर्मादेः कुतोऽस्याऽऽन्तररूपता || ४९० ||
पीतरक्तादिभी रूपैः कर्मकार्यैः प्रयुज्यते ||
निर्देष्टुं शक्यते तस्मादनिर्देश्योऽपि सन्नसौ || ४९१ ||
भावनैव विजृम्भन्ती स्थूलत्वमुपगच्छति ||
अव्याकृतादिभावेन खवाय्वादित्यसंज्ञितम् || ४९२ ||
मूर्तामूर्तादिभावाच्च क्षीयमाणा हि सैव तु ||
निर्गुणं सन्तमात्मानं रञ्जयित्वाऽवतिष्ठते || ४९३ ||
भावना बहुरूपाऽसौ बहुरूपत्वमात्मनः ||
करोत्यनामरूपस्य मणेरास्तरणं यथा || ४९४ ||
इत्यादि भवतैवोक्तं वासनोक्तिप्रसङ्गतः ||
इहोक्तेस्तद्विरुद्धत्वात्परस्परविरुद्धता || ४९५ ||
कर्मराशिगिराऽऽत्माऽपि यदि तत्र विवक्षितः ||
निषेधात्तस्य नेतीति शून्यतैव प्रसज्यते || ४९६ ||
परमार्थात्मनोऽथान्यः कश्चिदात्मेति भण्यते ||
अस्तु कामं स कामादेराश्रयो न निवार्यते || ४९७ ||
शक्त्यात्मनाऽप्यवस्थानं कारणात्मनि युज्यते ||
तस्य शक्त्यभिसंबन्धान्न त्वकारण आत्मनि || ४९८ ||
न च कारणमात्रत्वं रूपमिष्टं परात्मनः ||
अनिर्मोक्षप्रसक्तित्वाच्छ्रुत्यनारम्भसक्तितः || ४९९ ||
स्थूलादीनां च सर्वेषां प्रतीचि प्रतिषेधतः ||
विशेषणानां संबन्धो नातः स्यात्प्रत्यगात्मनः || ५०० ||
आत्माश्रयत्वं कामानां न युक्त्या नापि शास्त्रतः ||
अपव्याख्यानतस्तेषां कामा आत्माश्रया इति || ५०१ ||
एवं समवनीतेषु प्राणेष्वात्मनि तद्विदः ||
पूर्ववद्देहसंबन्धः किमिवेह न जायते || ५०२ ||
सर्पनिर्मोकवत्कृत्स्नमात्माविद्यैकहेतुजम् ||
यथावस्तुधिया हित्वा निर्ममो निरहंकृतः || ५०३ ||
वर्तमानोऽपि देहादौ लोकदृष्टिव्यपेक्षया ||
नाऽऽत्माऽऽत्मीयत्वबुद्ध्याऽसौ देहादीन्समुदीक्षते || ५०४ ||
षष्ठ्यर्थहेतुविध्वंसाद्यथावस्त्ववबोधतः ||
अव्यावृत्ताननुगतं पूर्णं वस्त्ववतिष्ठते || ५०५ ||
अहिनिर्ल्वयनीवाचा सर्पनिर्मोक उच्यते ||
मृता सत्यहिना न्यस्ता वल्मीकान्तर्बिलाश्रये || ५०६ ||
अहिदेहवियोगोऽत्र मृतशब्देन भण्यते ||
वल्मीकाश्रयणं तस्याः प्रत्यस्तेत्यभिधीयते || ५०७ ||
अहिनिर्मोकविषयो व्यापारस्तावदीरितः ||
निर्ममाहंकृतित्वं तु सर्पदृष्टान्तसंश्रयम् || ५०८ ||
बिले त्यक्तेऽहिना यद्वत्स्वनिर्मोके न पूर्ववत् ||
निर्गच्छन्प्रविशन्सर्पो निर्मोकमनुरुध्यते || ५०९ ||
नाहं ममेति वा बुद्धिस्तत्राहेरुपजायते ||
तत्रैव वर्तमानस्य यथैवं प्रत्यगात्मनः || ५१० ||
संबन्धहेतोरुच्छित्तेरात्मसंबन्धवर्जितम् ||
शेते शरीरं सूक्ष्मं च स्थूलं चैकात्म्यधीह्नुतम् || ५११ ||
अहिनिर्मोकदृष्टान्तदार्ष्टान्तिकमितीरितम् ||
दार्ष्टान्तिकोऽर्थः सर्पस्य दृष्टान्तस्याथ उच्यते || ५१२ ||
अहिनिर्मोकयोरत्र संगतिः पूर्ववन्मिथः ||
निषिध्यते प्रयत्नेन स्थितिर्नात्र विवक्षिता || ५१३ ||
प्रधानवादः प्राप्नोति यदि देहात्मनोः पृथक् ||
विवक्ष्यते स्थितिरिह न्यषेधि बहुशः स च || ५१४ ||
हेत्वर्थे त्वथशब्दोऽयं हेतूक्तेः प्रकृतत्वतः ||
सकारणस्य देहस्य त्यागो हेतुर्विवक्षितः || ५१५ ||
स्रगज्ञानमनादाय नाहियोगः स्रजो यथा ||
प्रतीचो देहसंबन्धो नाऽऽत्माज्ञानादृते तथा || ५१६ ||
प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ||
नेतिनेतिस्वरूपत्वादशरीरो भवेत्ततः || ५१७ ||
स्वतोऽदिग्देशकालादेः प्रत्यक्चिन्मात्रवस्तुनः ||
देशादिमच्छरीरेण न संबन्धस्तमो विना || ५१८ ||
कल्पितेनाभिसंबन्धो न ह्यकल्पितवस्तुनः ||
अज्ञानकालेऽप्यस्तीह किमुताज्ञाननिह्नुतौ || ५१९ ||
अनस्थिकगिरा स्थूलदेहस्येह निवारणम् ||
तथाऽशरीरशब्देन सूक्ष्मो देहो निषिध्यते || ५२० ||
सूक्ष्मदेहनिषेधोक्त्या स्थूलस्यापि निषेधतः ||
तन्निषेधाय यत्नोऽतः काण्वश्रुत्या न भण्यते || ५२१ ||
यद्वाऽशरीरशब्देन तच्छ्रुतौ लिङ्गनिह्नुतिः ||
स्थूलस्यामृत इत्युक्त्या निषिद्धत्वान्न निह्नुतिः || ५२२ ||
साक्षिणः प्राणशब्देन विशेष्यस्याभिधेष्यते ||
ब्रह्मैवेति तु शब्देन तद्विशेषणमुच्यते || ५२३ ||
साक्षिणः सद्वितीयत्वं ब्रह्मणश्च परोक्षताम् ||
तद्धेतुप्रतिषेधेन वाक्यमेतन्निषेधति || ५२४ ||
नामोपक्रममाशान्तं प्राणकारणसंश्रयम् ||
प्राणो ब्रह्मेति वचसा तदात्मनि निषिध्यते || ५२५ ||
ब्रह्मात्मनोश्च संसर्गो मा प्रापत्कृष्णसर्पवत् ||
इत्यर्थं तेज एवेति श्रुतिः संसर्गवारिणी || ५२६ ||
व्यावर्त्यभेदादाभाति भेदो ब्रह्मात्मशब्दयोः ||
वस्तुतस्त्वेक एवाऽऽत्माऽमानित्वादिर्यथा तथा || ५२७ ||
ब्रह्मैव तेज एवेति ह्युभयत्रावधारणम् ||
संसर्गप्रतिषेधार्थं मा भून्नीलोत्पलादिवत् || ५२८ ||
सर्वानर्थैकबीजस्य प्रत्यगज्ञानरूपिणः ||
कार्योऽत्र वचसा बाधः केवलो नान्य इष्यते || ५२९ ||
यस्मादेतत्स्वतो बुद्धमतः शुद्धमसंगतेः ||
मुक्तं चातः स्वतो वस्तु किमन्यत्कार्यमिष्यते || ५३० ||
कृतं चिकीर्षितं सर्वं बुद्धं यच्च बुभुत्सितम् ||
आप्तं बोधात्तथाऽऽप्तव्यं वर्जनीयं च वर्जितम् || ५३१ ||
कामप्रश्नः समाप्तोऽतो निराकाङ्क्षोऽभवन्नृपः ||
सोऽहं सहस्रमित्याह तस्मादेव च कारणात् || ५३२ ||
ननु प्रश्नः समाप्तश्चेन्नादात्सर्वं स किं नृपः ||
सहस्रमेव तु प्रादादेकदेशोक्तिवत्कथम् || ५३३ ||
मतं विद्यारसाकृष्टो विद्यां भूयोऽपि चेन्नृपः ||
शुश्रूषति तदर्थं च सहस्रं मुनये ददौ || ५३४ ||
शुश्रूषालिङ्गमेतत्स्यान्न त्वियं गुरुदक्षिणा || ५३५ ||
सर्वस्वं चेदहं दद्यामिहैव च तदा मुनिः ||
निवृत्तकामं मां मत्वा विद्यां भूयो न वक्ष्यति || ५३६ ||
इत्येतस्माद्भयाद्राजा श्लोकशुश्रूषयेरितः ||
प्रादात्सहस्रमेवास्मै शुश्रूषालिङ्गवित्तये || ५३७ ||
इति चेन्नैतदेवं स्याच्छ्रुतेः प्रामाण्यकारणात् ||
श्रुतौ न युक्ता व्याजोक्तिरप्रमाणनरोक्तिवत् || ५३८ ||
संभवाच्चार्थशेषस्य सर्वसंन्यासरूपिणः ||
प्राग्यथोक्तात्मविज्ञानसाधनस्येह चाश्रवात् || ५३९ ||
यत एवमतोऽयुक्ता पुनरुक्तार्थकल्पना ||
गतौ सत्यामनृज्वीयं नापि विद्यास्तुतिर्मता || ५४० ||
ननु यद्यर्थशेषोऽस्ति कस्माद्ब्रूते न पूर्ववत् ||
विमोक्षायैव मे ब्रूहीत्यदोषोऽयं कुतो यतः || ५४१ ||
विमोक्षायेह नैवालमन्यदात्मावबोधतः ||
मुक्तस्य च मुमुक्षोश्च सर्वत्यागव्यपेक्षतः || ५४२ ||
स्वरूपसाधनत्वाभ्यां त्यागस्यैवान्तरङ्गतः ||
नापूर्ववद्विधेयत्वं न च त्यागाद्विमुक्तता || ५४३ ||
प्रागात्मज्ञानसंभूतेः संन्यासो ज्ञानसाधनम् ||
उत्पन्नात्मधियः पश्चाज्ज्ञानमेव हि तत्तथा || ५४४ ||
उक्तब्रह्मविदो मोक्ष इत्यर्थे ब्राह्मणोदिते ||
श्लोका अपि भवन्त्यत्र ब्राह्मणोक्तविनिश्चितौ || ५४५ ||
अणुस्थूलादिनिः शेषविकल्पातिक्रमादयम् ||
अणुरात्मैकयाथात्म्यज्ञानं पन्थाः पुरातनः || ५४६ ||
अनन्तात्मैकमेयत्वाद्विततश्चातिविस्तृतः ||
अनुत्पन्नागमोत्थत्वात्पुराणश्चेति शब्द्यते || ५४७ ||
तरन्त्यनेन विस्पष्टं संसारानर्थसागरम् ||
यतोऽतो वितरः पन्थाः प्रत्यग्बोधोऽभिधीयते || ५४८ ||
मां मुक्त्वाऽसंभवो यस्मादब्रह्मार्थस्यात उच्यते ||
मां स्पृष्टो मामनुप्राप्त एष पन्था यथोदितः || ५४९ ||
शास्त्राचार्योक्तितः पश्चादनुवित्तो मयैव च ||
ज्ञेयाज्ज्ञाता परो नास्ति प्रत्यग्ज्ञाने यतस्ततः || ५५० ||
प्रागप्यवोचं बहुश इममर्थं यथोदितम् ||
श्रुतितो न्यायतः स्पष्टं नाऽऽत्मनोऽन्योऽस्ति वेदिता || ५५१ ||
तेनानेन पथा धीराः प्रत्यग्ध्वान्तच्छिदा सदा ||
ब्रह्मापियन्ति निर्द्वंद्वा आप्तमेव तमोन्हुतेः || ५५२ ||
आत्मैव ब्रह्म चाऽऽत्माऽपि ब्रह्मैव स्याद्यतः स्वतः ||
तद्याथात्म्यापरिज्ञानात्तद्विपर्ययधीरियम् || ५५३ ||
निःशेषमिथ्याविज्ञानहेत्वविद्याविनाशकृत् ||
नान्योऽस्ति ब्रह्मसंबोधाच्छ्रुतिस्तेनेत्यतोऽवदत् || ५५४ ||
स्वर्गोऽयमेव प्रागुक्तः स्वर्गकामवचस्यपि ||
कर्मभिस्तदसिद्धर्हि वेदान्तज्ञानसिद्धितः || ५५५ ||
परमानन्द एवातः स्वर्गशब्देन भण्यते ||
मोक्षप्रकरणान्नित्यः क्रियोत्थोऽतो न गृह्यते || ५५६ ||
इत उक्तात्मसंबोधमोहोच्छित्तेरनन्तरम् ||
स्वत एव यतो मुक्ता मुच्यन्तेऽत्स्तमोन्हुतेः || ५५७ ||
देहपातव्यपेक्षा स्याद्यत्र कारणसंगतिः ||
सर्वकारणविध्वस्तौ नान्यद्बोधादपेक्ष्यते || ५५८ ||
मुक्तौ तमोतिरेकेण नान्तरायोऽन्य इष्यते ||
यतोऽतोऽज्ञानविध्वस्तौ मुक्तः सन्ना विमुच्यते || ५५९ ||
ब्रह्मैव सन्निति तथा प्रागपीदं श्रुतीरितम् ||
देहपातव्यपेक्षाऽतो न स्यादूर्ध्बश्रुतेरिह || ५६० ||
मोक्षमार्गे यथोक्तेऽस्मिन्नविद्योपप्लुताशयाः ||
दर्शनानि विचित्राणि कल्पयन्ति यथारुचि || ५६१ ||
शुक्लं ब्रह्मातिसंशुद्धमिति केचिद्विनिश्चिताः ||
शरदि व्योमवन्नीलमित्याहुरपरे जनः || ५६२ ||
पिङ्गलं तत्परं ब्रह्म वह्निज्वालेव शाश्वतम् ||
वैडूर्यवच्च हरितं केचिदाहुर्विपश्चितः || ५६३ ||
अपरे लोहितं प्राहुर्जपाकुसुमसंनिभम् ||
यथा रूपे तथा ज्ञेया शब्दादिष्वपि कल्पना || ५६४ ||
अविद्यापटसंवीतचेतसामागमादृते ||
कामापहतबुद्धीनामेवमाद्या विकल्पनाः || ५६५ ||
एकमेवैकरूपं सद्वस्त्वज्ञातं निरञ्जनम् ||
जात्यन्धगजदृष्ट्येव कोटिशः कल्प्यते मृषा || ५६६ ||
अस्थूलाशब्दनेतीति सर्वमात्रादिनिन्हुतेः ||
कुतोऽकारणकार्येऽस्मिञ्शुक्लादेः संभवः परे || ५६७ ||
यस्तु वेदोदितोपायक्षपिताशेषकल्मषः ||
ब्रह्मणैवानुवित्तोऽयं तेन पन्था गुरूक्तितः || ५६८ ||
अव्यावृत्ताननुगतब्रह्मरूपातिरेकतः ||
न रूपमात्मनोऽस्त्यन्यच्छ्रुतिन्यायानुभूतितः || ५६९ ||
यतोऽतो ब्रह्मणैवायं पन्था ज्ञातः प्रमाणतः || ५७० ||
ब्रह्मणैवेति च ज्ञेया इत्थंभूतार्थलक्षणा ||
तृतीयेयं न कर्त्रादौ प्रतीचि तदसंभवात् || ५७१ ||
क्रियाकारकभेदोऽयं प्रत्यगज्ञानहेतुजः ||
यतोऽतो न तृतीयेयं कर्त्रादाविह युज्यते || ५७२ ||
ब्रह्मात्मनोरभिन्नत्वं वस्तुतो यद्यपीक्ष्यते ||
अनन्तानर्थसंप्राप्तिस्तथाऽपि तदबोधतः || ५७३ ||
तथाच यदि नाम स्याद्यथोक्तज्ञानपूर्वकम् ||
पराक्सर्वार्थविज्ञानं वस्तुवृत्तानुरोधतः || ५७४ ||
तथाऽप्यब्रह्मवित्तेन न कैवल्यं पथैति तत् ||
तेनैति ब्रह्मवित्तस्मान्नान्यः पन्था इति श्रुतेः || ५७५ ||
ब्रह्मवित्त्वे च को हेतुरित्याशङ्क्याऽऽह नः श्रुतिः ||
पुण्यकृत्तैजसश्चेति भवेद्ब्रह्मविदुत्तमः || ५७६ ||
पुण्यकृज्जायते यस्माच्छुद्धधीरिह मानवः ||
शुद्धसत्त्वोऽथ तद्ब्रह्म साक्षादात्मनि पश्यति || ५७७ ||
तेजःशब्देन संशुद्धं सत्त्वमेवाभिधीयते ||
तस्मिन्भवस्तैजसः स्यात्प्रत्यक्प्रवणधीर्नरः || ५७८ ||
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ||
यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि || ५७९ ||
गार्भैर्होमैर्जातकर्मचूडाम्रौञ्जीनिबन्धनैः ||
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ||
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये || ५८० ||
योगी वा तैजसोऽत्र स्यात्प्रत्यग्दृष्टौ समर्थतः ||
विषयाकृष्टधीर्यस्मान्न क्षमः प्रत्यगीक्षणे || ५८१ ||
सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि ||
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || ५८२ ||
इत्येवं स्मृतयः सन्ति श्रुतयश्च सहस्रशः ||
कर्मभिः शुद्धसत्त्वस्य सम्यग्ज्ञानस्य जन्मनि || ५८३ ||
यस्मिन्विशुद्ध इत्येवं सत्त्वशुद्धौ ध्रुवा स्मृतिः ||
तमेतमिति च स्पष्टं श्रौतानि च वचांसि नः || ५८४ ||
प्रसिद्धमहिमानौ वा पुण्यकृद्योगिनाविह ||
ब्रह्मवित्स्तूयते ताभ्यां ब्रह्मविद्याप्रवृत्तये || ५८५ ||
इह केचिन्महात्मानः प्रत्यङ्भोहच्छिदा सह ||
पुण्यकृत्तैजसत्वाभ्यां ज्ञानेनाऽऽहुः समुच्चयम् || ५८६ ||
पुण्यकृत्पुण्यकर्मा यो योगी तैजस उच्यते || ५८७ ||
ब्रह्मज्ञानैकनिष्ठः सन्पुण्यकृत्तैजसश्च सन् ||
शास्त्रोपदिष्टमैकात्म्यं शक्तो योगेन वीक्षितुम् || ५८८ ||
परस्परं व्यपाश्रित्य यथोक्तं साधनत्रयम् ||
एकार्थसिद्धयेऽलं स्यान्नान्यथेदं त्रिदण्डवत् || ५८९ ||
समुच्चयोऽयमस्माभिर्यथाऽभाणि तथा यदि ||
व्याख्यायते न दोषः स्यात्तत्र मानस्य संभवात् || ५९० ||
इतोऽन्यथा चेद्व्याख्यानं क्रियते बुद्धिलाघवात् ||
दुर्निवारेह साऽऽप्नोति योक्ता दोषपरंपरा || ५९१ ||
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ||
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः || ५९२ ||
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ||
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज || || ५९३ ||
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ||
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः || ५९४ ||
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ||
शिलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः || ५९५ ||
अर्थस्य मूलं निकृतिः क्षमा च कामस्य रूपं च वयो वपुश्च ||
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः || ५९६ ||
इत्येवं स्मृतिशास्राणि सर्वत्यागपुरःसरम् ||
ज्ञानजन्माभिदधति तथा श्रुतिवचांसि च || ५९७ ||
ऐकात्म्यदर्शनादुक्ताद्यदन्यद्दर्शनान्तरम् ||
अन्धं तम इति श्रुत्या तदिहापोद्यतेऽखिलम् || ५९८ ||
तमोमोहादिभेदेन तमोऽनेकस्वलक्षणम् ||
यतोऽतोऽन्धं तम इति विशिनष्टि श्रुतिस्तमः || ५९९ ||
अन्धं मूढं तमो यान्ति येऽविद्यां समुपासते ||
विरक्ता अपि संसारान्नैकात्म्यं ये विदुर्नराः || ६०० ||
संभूतिवचसाऽपीयमविद्यैवाभिधीयते ||
अविद्यातो हि संभूतिः सर्वस्य जगतो यतः || ६०१ ||
ततो भूयस्तमो यान्ति ये विद्यायां रता जनाः ||
अणिमादावविद्योत्थे पराक्चित्ततया रताः || ६०२ ||
ग्राह्यग्राहकभेदेन या विद्यामात्रकारणा ||
विद्येति सेह विज्ञेया नैकात्म्यप्रसमीक्षणम् || ६०३ ||
कर्मार्थद्योतिका वेह विद्याऽत्राप्यभीधीयते ||
तस्यामभिरता ये स्युर्वेदान्तार्थानपेक्षिणः || ६०४ ||
विशन्त्यज्ञास्तु ते सन्तस्ततो भूयः परं तमः ||
मिथ्याज्ञानाधिकत्वेन भूयस्त्वं तमसो भवेत् || ६०५ ||
यदि ते तत्तमो यान्तिर को दोष इति चोदिते ||
अनन्दा इति वाक्येन तद्दोषोऽथाभिधीयते || ६०६ ||
अनानन्दाभिधा लोकास्तीव्रदोषसमन्विताः || ६०७ ||
तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसोऽबुधो जनाः ||
अविद्वांसो न सामान्यात्किंतु येऽत्राबुधो जनाः || ६०८ ||
आत्मानं चेद्विजानीयात्सर्वधीवृत्तिसाक्षिणम् ||
अशनायाद्यतिक्रान्तं कथंचित्सत्त्वशुद्धितः || ६०९ ||
कथं तमभिजानीयादित्युक्त इदमुच्यते ||
पुरुषः परमात्माऽयमयस्मीतिवाक्यतः ||
किमिच्छन्कस्य वाऽर्थाय शरीरं संज्वरेत्तदा || ६१० ||
सर्वेच्छानां समाप्तत्वादात्मकामप्रबोधतः ||
आक्षिप्यतेऽत इच्छेह किमिच्छन्नितिवाक्यतः || ६११ ||
प्रत्यागात्मातिरेकेण यस्माच्चान्यन्न पश्यति ||
कस्य कामाय वा चातोऽप्यनात्माऽऽक्षिप्यतेऽखिलः || ६१२ ||
शरीरज्वरमन्वेष संज्वरेद्ब्रह्म सन्कथम् ||
निःसङ्गस्य हि संबन्धो देहेनास्य न कश्चन || ६१३ ||
नातो देहादिदुःखेन दुःखित्वं प्रत्यगात्मनः ||
निःशेषदुःखसंबन्धहेतूच्छित्तेः प्रबोधतः || ६१४ ||
भूयोऽसह्यमहादुःखनीडदेहप्रवेशन-
हेत्वविद्यासमुच्छित्तेर्देहं चानुविशेत्कुतः || ६१५ ||
शास्त्राचार्यप्रसादात्तु क्षपिताशेषपाप्मनः ||
वित्तो बुद्ध्यादिसाक्षीशः प्रतिबुद्धस्तथैकलः || ६१६ ||
अन्नाप्तेजोभिरत्यर्थं देहः संदिह्यते यतः ||
संदेहस्तेन देहोऽयं संदेघश्छान्दसत्वतः || ६१७ ||
आध्यात्मिकाधिभूताधिदैविकार्थातिसंकरात् ||
गुणप्रधानभावेन गहनोऽयं ततो मतः || ६१८ ||
संदेहे गहनेऽत्राऽऽत्मा प्रविष्टो जलसूर्यवत् ||
विविच्य येन विज्ञातः स स्याद्विश्वकृदीश्वरः || ६१९ ||
प्रत्यग्याथात्म्यसंबोधात्सर्वं तेन कृतं भवेत् ||
निःशेषपुरुषार्थाप्तेर्न कार्यं शिष्यते परम् || ६२० ||
स हि सर्वस्य कर्तेति तस्मादेवाभिधीयते ||
कृतकृत्यत्वतो हेतोः र्लोकोऽयं तस्य लोकिनः || ६२१ ||
निःशेषजनिमत्कार्यहेतोर्वा ज्ञाततत्त्विनः ||
विश्वकृत्त्वं भवेदेवं हीतिहेतुपरिग्रहात् || ६२२ ||
तस्य साक्षादयं लोको योऽहं ब्रह्मेतिबोधितः ||
भेदाशङ्कापनुत्त्यर्थं स उ लोक इतीर्यते || ६२३ ||
इहैव कृतकृत्यत्वात्सन्तः स्याम परं यदि ||
ब्रह्म प्रत्यक्तया विद्मः कथंचित्कल्मषक्षयात् || ६२४ ||
न चेदथ परं विद्मः शास्त्राचार्यानुसारतः ||
अवेदिनं तदा बालं विनष्टिर्महती व्रजेत् || ६२५ ||
विनष्टिं महतीं चेयाद्योऽवेद्यात्माऽविचक्षणः || ६२६ ||
विनष्टिर्महती चेह विनाशादिप्रसूतितः ||
आत्माविद्यैव निर्दिष्टा सामानाधिकरण्यतः || ६२७ ||
उक्तार्थस्य प्रकाशार्थमुत्तरार्धेन भण्यते ||
ये तद्विदुरिति श्रुत्या स्पष्टार्थप्रतिपत्तये || ६२८ ||
ब्रह्मैव सन्तो विज्ञानात्प्रागतो ब्रह्मबोधतः ||
भवामो ब्रह्म नानाप्तं दशमो दशमं यथा || ६२९ ||
ब्रह्मास्मीति यदैवैतमात्मानं देवमञ्जसा ||
अनुपश्यति साक्षात्तमीश्वरं भूतभव्ययोः || ६३० ||
ईश्वरप्रत्यगात्माप्तेस्तदा तद्भेदनाशतः ||
ईशितव्यत्वसंक्रान्तेर्न ततो विजुगुप्सते || ६३१ ||
गुप्तिमिच्छति सर्वोऽपि यत ईशाद्भयातुरः ||
अयं तु तदभिन्नत्वान्न ततो गुप्तिमिच्छति || ६३२ ||
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ||
आनन्दं ब्रह्मणो विद्वान्न विभेतीति शास्त्रगीः || ६३३ ||
न वा निन्दति निःशेषद्वैतहेतुविनाशतः ||
ऐकात्म्यदर्शनाद्विद्वान्यत्र त्वस्येतिशास्त्रतः || ६३४ ||
निःशेषविक्रियाहेतुकालातिक्रमहेतुतः ||
जन्मादिविक्रियाषट्कसंगतिस्तस्य नेष्यते || ६३५ ||
अर्वाग्यस्मादयं कालो विकुर्वञ्जनिमज्जगत् ||
संवत्सरः स्वावयवैरहोभिः परिवर्तते ||
ज्योतिषामपि तज्ज्योतिरायुर्देवा उपासते || ६३६ ||
कौटस्थ्यादमृतं ज्योतिर्मृत्युभूम्यतिलङ्घनात् ||
कालस्य जरणादात्मा श्रुतौ कालंजरो मतः || ६३७ ||
भावाभावात्मकस्यास्य कार्यकारणवस्तुनः ||
परमात्मा स्वतः सिद्धेरायुरस्य परार्थतः || ६३८ ||
गन्धर्वाः पितरो देवा रक्षोभिश्च सहासुराः ||
यस्मिन्पञ्चजनाः पञ्च वियदन्ताः प्रतिष्ठिताः || ६३९ ||
पञ्च प्राणादयो वा स्युरन्नन्तास्तच्छ्रुतत्वतः ||
अन्नाभावे विवक्ष्यन्ते काण्वानां ज्योतिषा सह ||
तमेव कारणात्मानं विद्वान्मन्येऽमृतोऽमृतम् || ६४० ||
कार्यकारणयोस्तत्त्वं यस्मादात्मैव निर्द्वयः ||
मन्य आत्मानमेवातः कार्यकारणवज्जगत् || ६४१ ||
प्रध्वस्तभेदहेतुत्वात्कारणादेरसंभवात् ||
अमृतोऽमृतमित्याह स्वयं विद्वानिति श्रुतिः || ६४२ ||
यतः प्राणआदिभावोऽयं प्राणादीनां तमेव ये ||
निचिक्युस्ते विदुः साक्षादग्र्यं ब्रह्म सनातनम् || ६४३ ||
निरपेक्षात्मनैवेह सर्वस्याऽऽत्मवतो यतः ||
प्राणादेरात्मवत्ता स्यात्प्राणस्य प्राणमित्यतः || ६४४ ||
अनात्मा हि स्वतोऽसिध्यन्स्वतःसिद्धमपेक्षते ||
आत्मनस्तु स्वतः सिद्धेर्नापेक्षाऽनात्मसंश्रयात् || ६४५ ||
अन्यतः संगतिः सेयमविचारितसिद्धिका ||
अविद्योत्सङ्गसंस्थैव तत्त्वज्ञानाद्विनश्यति || ६४६ ||
अकार्याकारणात्मैव कार्यकारणवस्तुनः ||
तत्त्वमुक्तं पृथिव्यादेर्नभोन्तस्याक्षरं परम् || ६४७ ||
तस्यास्य दर्शनोपायः कः स्यादित्यभिचोदिते ||
मनसैवेत्यतः प्राह श्रुतिर्ब्रह्मावबोधने || ६४८ ||
अवदध्रे यतश्चैयं मनसैवेति च श्रुतिः ||
मनोतिरेकतोऽपेक्षा नैवातः साधनान्तरे || ६४९ ||
आत्मानात्मपदार्थेषु विज्ञानोत्पत्तिसाधनम् ||
मनः साधारणं दृष्टं सर्वज्ञानैकहेतुतः || || ६५० ||
प्रत्यक्चिदाकृतिस्तत्र सर्वदा धर्मधर्मिणोः ||
हेत्वन्तरानपेक्षत्वादात्मत्वात्संनिधेः सदा || ६५१ ||
आत्माकृतिरतो नित्या तद्धेतोः संभवात्सदा ||
अज्ञानादेश्च चिद्रूपं तद्याथात्म्यान्न वार्यते || ६५२ ||
धर्माधर्माद्यपेक्षत्वादन्यत्वाच्चान्यवस्तुनः ||
शब्दाद्याकारता तस्मात्कादाचित्की धियो भवेत् || ६५३ ||
यद्यपीमौ जगत्यस्मिन्नात्मज्ञानपुरःसरौ ||
शब्दाद्यनात्मविज्ञानभावाभावौ स्वभावतः || ६५४ ||
तथाऽप्यनुभवादेव प्रत्यक्तत्त्वानभिज्ञता ||
अनात्मबोधवत्सिद्धाऽविद्याऽतः प्रत्यगात्मनि || ६५५ ||
उत्पन्नस्यापि चोत्पत्तिः कूपाकाशादिवत्ततः ||
प्रत्यग्याथात्म्यबोधस्य व्युत्पत्तेर्गुरुशास्त्रतः || ६५६ ||
प्रसादादनु शास्त्रादेर्मनसैवेत्यतः श्रुतिः ||
द्रष्टव्यमात्मनस्तत्त्वमित्याहास्मद्धितैषिणी || ६५७ ||
दृश्यं चेन्मनसैवैतद्द्रष्टृत्वादिप्रभेदतः ||
पुनः प्रसक्तं नानात्वं मैवं यस्मान्निषिध्यते || ६५८ ||
नेह प्रमाणतो मेयं यस्मान्नानाऽस्ति किंचन ||
अज्ञातं यदि वा ज्ञातं वस्तु नानात्वभाङ्न हि || ६५९ ||
नानात्वबुद्धये नालममितोऽर्थो यतस्ततः ||
अज्ञातः संशयज्ञातो मिथ्याज्ञातो न भित्तये || ६६० ||
सम्यग्ज्ञातोऽपि नैवार्थो द्वैतबोधकृदिष्यते ||
द्वैतकारणबाधेन सम्यग्ज्ञातत्वसिद्धितः || ६६१ ||
मेयव्याप्तिश्च मानानां नान्यव्यावृत्तिवर्त्मना ||
व्यावर्त्येष्वपि तत्सक्तेर्न चापि लभतेऽवधिम् || ६६२ ||
मेयेनैव समाप्तत्वात्ततोऽन्या व्यापृतिर्न च ||
नातो वत्स्वन्तरव्याप्तिं व्यावृत्तिं वाऽश्नुते प्रमा || ६६३ ||
व्यावृत्तेश्चाप्यवस्तुत्वान्न सद्वस्तूपलम्भनैः ||
प्रमाणैरपि संबन्धः प्रत्यक्षप्रमुखैः कचित् || ६६४ ||
अभावमात्रबोधित्वान्नाभावादपि भेदधीः ||
भावाभावावभावेन प्रत्यक्षेणेव नेक्षते || ६६५ ||
योऽपि प्रत्यक्षतोऽभावं वादी कश्चित्समीक्षते ||
तावन्मात्रावसायित्वाद्द्वैतं नासावपीक्षते || ६६६ ||
प्रत्यक्षस्यानुवृत्तिं च व्यावृत्तिं तद्भिदां च सः ||
प्रत्यक्षेणैव सं पश्येत्कथमित्यभिधीयताम् || ६६७ ||
यतो मानं न हीहास्ति नानात्वप्रतिपत्तये ||
खकार्ष्ण्यवदतस्तत्स्यादविचारितसिद्धिकम् || ६६८ ||
अज्ञातवस्तुहेत्वेव यस्मान्नाना ततोऽवदत् ||
मृत्योः स मृत्युमाप्नोति योऽत्र नानेव पश्यति || ६६९ ||
मृत्युर्हिरण्यगर्भः स्यात्स्वकार्यप्रलयत्वतः ||
तस्यापि मृत्युर्विज्ञेयो यत आविरभूदसौ || ६७० ||
मिथ्यादर्शनदोषित्वान्मिथ्यादर्शनकारणम् ||
मृत्योर्मृत्युमसावेति यो नानेवेह वीक्षते || ६७१ ||
पूर्वं ज्ञानसमुत्पत्तेर्नानैवेति ह्यभून्मतिः ||
ज्ञानोत्पत्तौ तु तद्ब्राधान्नानेवेति प्रयुज्यते || ६७२ ||
वस्तुवृत्तं यतोऽद्वैतं नानात्वं मोहहेतुजम् ||
एकधैवात आत्माऽयं द्रष्टव्यः श्रुतिवर्त्मगैः || ६७३ ||
एकेनैव प्रकारेण भास्वच्चिन्मात्ररूपिणा ||
शास्रैकमानतो ब्रह्म द्रष्टव्यं प्रत्यगात्मना || ६७४ ||
समस्तव्यस्ततादृष्टिरेकधैवेतिवाक्यतः ||
मिथ्येति गम्यते श्रौतान्मृत्योरिति च निन्दनात् || ६७५ ||
एतदप्रमयं ब्रह्म मृत्युहेतोर्निषेधनात् ||
मृत्युर्वै तम इत्युक्तं तच्च बोधान्निराकृतम् || ६७६ ||
एकधैव यतस्तत्त्वं सर्वस्य जगतस्ततः ||
क्रियाकारकसंभेदधीर्मृषेत्यवधार्यताम् || ६७७ ||
यत्र हि द्वैतमित्येवं यत्र त्वस्येति च श्रुतिः ||
नानात्वदृष्टेर्मिथ्यात्वं स्वयमेवावदत्पुरा || ६७८ ||
एकधा चेत्परं ब्रह्म द्रष्टव्यं कथमुच्यते ||
द्रष्ट्रादिभेदसद्भावे द्रष्टव्यत्वप्रसिद्धितः || ६७९ ||
अप्रमेयं कथं वस्तु प्रमान प्रमीयते ||
मीयते चेत्प्रमाणेन नाप्रमेयं तदिष्यते || ६८० ||
नैष दोषः पुरोक्तत्वात्परिहारस्य चाञ्जसा ||
भूयोऽपि परिहारोक्तौ भवेत्पिष्टस्य पेषणम् || ६८१ ||
प्रमात्रादेरुपादानमैकात्म्यप्रतिबन्धकम् ||
यतोऽतस्तत्प्रबोधेऽस्मिन्न प्रमात्राद्यपेक्षते || ६८२ ||
मेयस्य मानसंबन्धे प्रमेय इति गीरियम् ||
प्रमाफ़लं त्वप्रमेयं यतो नातो विरुद्धता || ६८३ ||
अज्ञातवस्तुना योगो मानस्येह यतस्ततः ||
ज्ञातस्य चाप्रमेयत्वान्नापेक्षा मानसंगतौ || ६८४ ||
फ़लात्मनैव तन्मानं न तु मात्रादिरुपतः ||
अभिव्यनक्ति नो ज्ञातं नातोऽस्य स्यात्प्रमेयता || ६८५ ||
तरावेव च्छिदा यद्वद्द्वैधीभावे तु नेष्यते ||
प्रमेयत्वं तथाऽज्ञाते न तु ज्ञाते फ़लात्मता || ६८६ ||
आमगोऽपीममात्मानं तत्तमोध्वस्तिवर्त्मना ||
अवबोधयतीत्येवं भण्यते दृष्टितत्त्वतः || ६८७ ||
स्वतःसिद्धाद्यतः सिद्धिरज्ञातादपि चाऽऽत्मनः || ||
सिद्ध्यसिद्ध्योः प्रमात्रादेस्तत्सिद्धौ किमपेक्षते || ६८८ ||
ज्ञानव्याप्तिर्हि शब्दादौ स्यादेकप्रकृतित्वतः ||
अकार्यकारणे व्याप्तिः कथं स्यात्प्रत्यगात्मनि || ६८९ ||
शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसंभवात् ||
नाभिधानाभिधेयत्वसंगत्याऽतः प्रबोध्यते || ६९० ||
प्रत्यगज्ञानहेतूत्थो यत्रानात्मा प्रसिध्यति ||
ज्ञातृज्ञेयप्रभेदः स्यात्तत्र प्रत्यगनात्मनोः || ६९१ ||
यत्र त्वात्मैव मेयः स्यात्तत्र मेयातिरेकतः ||
कः प्रमाता प्रमाणं वा यमेवेति तथा श्रुतिः || ६९२ ||
मानापेक्ष्येव यो भावः स एवामानतो न सन् ||
मानानपेक्षसिद्धिस्तु कस्मान्मानमपेक्षते || ६९३ ||
मातृमानप्रमेयाणां प्रत्यक्त्वादात्मवस्तुनः ||
नातः प्रमेयता तस्य स्वतश्चावगमात्मनः || ६९४ ||
प्रमातत्फ़लयोर्भित्तेर्नेह चोद्यस्य संभवः ||
क्रिययोर्हि प्रभेदे तत्किं पूर्वमिति चोद्यते || ६९५ ||
अपीतकरणग्रामः पुमान्यद्वत्सुषुप्तगः ||
शब्दान्निद्रामपास्याथ यथावस्त्ववबोध्यते || ६९६ ||
अगृहीत्वैव संबन्धमभिधानाभिधेययोः ||
हित्वा निद्रां प्रबुध्यन्ते यथेहपि तथाऽऽत्मनि || ६९७ ||
शब्दशक्तेरचिन्त्यत्वादात्मत्वाद्बोधरूपिणः ||
तत्साक्ष्यत्वाच्च निदाया विद्मस्तं मोहहानतः || ६९८ ||
धर्माधर्मौ रजो ज्ञेयं रजोवत्तन्मलत्वतः ||
तदकर्तृत्वतो ब्रह्म विरजोऽकारणत्वतः || ६९९ ||
असम्यग्ज्ञानयाथात्म्यो जनिमत्प्रकृतित्वतः ||
आत्मैवाऽऽकाशशब्देन श्रुत्येह प्रतिपाद्यते || ७०० ||
जनिमत्कारणादात्मा योऽस्थूलादिविशेषणः ||
आकाशात्स परो ज्ञेयः तस्यापूर्वादिरूपतः || ७०१ ||
यस्मादेवमतोऽजोऽसावकार्याकारणत्वतः ||
अजत्वादेव निःशेषविकाराणामपाक्रिया || ७०२ ||
अव्यावृत्ताननुगतेर्महानात्मेति भण्यते ||
कौटस्थ्याच्च ध्रुवो ज्ञेयो विकारोच्छित्त्यसंभवात् || ७०३ ||
प्रत्यक्तया श्रुतेर्वाक्यात्तमेवोक्तविशेषणम् ||
अन्वयव्यतिरेकाभ्यां विज्ञायाऽऽत्मानमादितः || ७०४ ||
बुभुत्सोच्छेदिनीं प्रज्ञां सर्वाज्ञाननिरासतः ||
सर्वज्ञेयसमाप्तेश्च कुर्याद्वाक्यार्थबोधतः || ७०५ ||
इह व्याचक्षते केचिदुक्ताद्व्याख्यानतोऽन्यथआ ||
कृतायाः करणं कीदृक्प्रज्ञाया इति चोदिते || ७०६ ||
उच्यते वचसा बुद्धौ वस्तुमात्रं समर्प्यते ||
विज्ञातस्य सतत्त्वस्य तादात्म्यप्रतिपादनम् || ७०७ ||
भावनाज्ञानसंतानैः प्रज्ञाकरणमुच्यते ||
अस्मिन्काले तु सा प्रज्ञा निष्ठां नीता कृता भवेत् || ७०८ ||
इत्येतदुररीकृत्य विज्ञायेत्युक्तमादरात् ||
प्रमाणवृत्तमुक्त्वैतन्मनसैवेतिवाक्यतः || ७०९ ||
मात्राद्यप्रविभक्तं सदद्वैतं ब्रह्म शाश्वतम् ||
द्रष्टव्यं तत्कथं साक्षान्मातृमानाद्यसंभवात् || ७१० ||
द्रष्टव्यं मनसैवैतन्नान्या गतिरिहेष्यते ||
कथं तदिति चेदत्र मानव्यापार उच्यते || ७११ ||
तत्त्वमस्यादिवाक्योक्तौ शब्दमात्रावलोकनम् ||
श्रोत्रेण क्रियते तस्य शब्दस्याऽऽलोचितस्य तु || ७१२ ||
स्वरवर्णपदोकत्याऽऽनुपूर्वी या प्रविभागभाक् ||
प्रविभक्तक्रमवती मनसा तस्य कल्प्यते || ७१३ ||
स्वेनार्थेनाभिसंबन्धः सिद्धशब्दस्य यः सदा ||
दृश्यते मनसैवासौ नातोऽन्येनेह केनचित् || ७१४ ||
तत्रार्थप्रत्ययो योऽसौ प्रमातुर्मानसो भवेत् ||
अविशिष्टः स बाह्येन मेयेनार्थेन संगतेः || ७१५ ||
प्रत्ययश्च यथारूपो मानसोऽस्योपजायते ||
प्राज्ञ आत्माऽपि तादात्म्यात्तन्मयत्वं निगच्छति || ७१६ ||
मनोबुद्ध्योरभेदेन व्यवहारश्रुताविह ||
तत्रैवं सति योप्यस्य देवताविषयो भवेत् || ७१७ ||
यथा श्रुतौ मनस्येव प्रत्ययः सोऽवतिष्ठते ||
तन्मयत्वं तथैवैतिक्रमेणैव स मानवः || ७१८ ||
द्वैतैकत्वं श्रुताच्छब्दात्पश्यतीह यदा ह्यसौ ||
हैरण्यगर्भमात्मेति बौद्धं ज्ञानं तदा भवेत् || ७१९ ||
स खलूत्पन्नविज्ञानस्तन्मयः संस्तथा व्रजेत् ||
तस्मिन्नेव स विज्ञान आत्मरूपे स्थितो भवेत् || ७२० ||
बौद्धेऽथ स यदा तत्त्वं परं समनुपश्यति ||
तदा विविच्य रूपाणि क्रमशो यो धियः शुभम् ||
वीक्षते केवलं शुद्धं तत्त्वं ब्रह्म सनातनम् || ७२१ ||
तन्मनोऽथ परे तत्त्वे लब्धलक्ष्यं स्व आत्मनि ||
रूपाणि विलिखत्साक्षान्निर्वाणं संप्रलीयते || ७२२ ||
परं तत्त्वं प्रदृश्यैवं मनस्यद्वैततां गतेः ||
विज्ञानं केवलं शुद्धं स्वात्मन्येवावतिष्ठते || ७२३ ||
दाह्यं दग्ध्वा यथा वह्निर्दाह्यनाशमनु स्वयम् ||
नश्यतीदं मनस्तद्वद्दूतमद्वैतरूपताम् ||
आपाद्य विषयं सम्यकस्वयमेव प्रलीयते || ७२४ ||
मनस्यस्मिन्निलीने तु यत्सुखं स्वात्मसाक्षिकम् ||
योगावस्थां परामेतामाहुर्योगाविदो जनाः || ७२५ ||
भूमौ यथाऽऽहितं लोहं भूमित्वमुपगच्छति ||
मनोऽक्षरे धृतं तद्वदभरत्वं निगच्छति || ७२६ ||
एतच्च दृष्टं लोकेऽपि यैर्भावैः संप्रयुज्यते ||
मनस्तन्मयतामेति तद्भावेनानुरञ्जितम् || ७२७ ||
एवमस्मिन्परे तत्त्वे भाव्यमाने मुमुक्षुणा ||
तद्भावमचिरेणैति स्थैर्यं चात्रैव गच्छति || ७२८ ||
मनोविनाशमन्वेष विज्ञानात्मा विलीयते ||
यथा संकल्पितश्चार्थ उभयोर्ज्ञानयोगयोः || ७२९ ||
एतदेवमभिप्रेत्य तदुक्तं नेह किंचन ||
नानाऽस्तीत्येवमेकत्वमस्मिञ्शास्रेऽभिधीयते || ७३० ||
मुक्तिप्रवेशोपायोऽयं यथोक्तेनेह वर्त्मना ||
उक्तो मनस एकस्मिन्प्रत्ययो मानसो यतः || ७३१ ||
एकत्वधीव्यवस्थाऽपि मानस्येवेति गम्यताम् ||
वृत्तिः सा त्वपरिक्षीणा मनोवृत्तिरियं भवेत् ||
तावद्यावदमी सर्वे विशेषाः स्युः क्षयं गताः || ७३२ ||
स्वात्मन्येवाथ संशुद्धं ज्ञानमद्वैतरूपकम् ||
अवस्थितं भवेत्साक्षादेवं कृत्वेदमुच्यते || ७३३ ||
मनसाऽनुप्रविश्येदं क्रमेणैकात्म्यमुत्तमम् ||
यत्नादप्रमयं तत्त्वं द्रष्टव्यं तद्विपश्चिता || ७३४ ||
कौटस्थ्याद् ध्रुवमक्षय्यं प्रत्यगात्मन्यवस्थितम् || ७३५ ||
विरजः शुद्ध इत्यर्थ आकाशात्परतः स्थितः ||
अजो न जायते यस्मान्महान्सर्वमहत्तरः || ७३६ ||
कमेवंविधमात्मानं ज्ञात्वा कुर्यान्मतिं दृढाम् ||
भावनाज्ञानसंतानसंरूढामविचालिनीम् || ७३७ ||
द्वैताभिधायकाञ्शब्दान्ध्यानकाले न चिन्तयेत् ||
वाचं ते ग्लापयन्त्येतां येयमेकत्ववाचिनी || ७३८ ||
ग्लानौ तस्यास्तदर्थेऽस्य मनोऽस्मिन्नाधिवर्तते || ७३९ ||
तस्मान्न चिन्तयेदेतान्किंतु यैकत्ववाचिनी ||
वाक्पूर्वं चिन्तयित्वा तां तदर्थे धारयेन्मनः || ७४० ||
श्रीमद्भर्तृप्रपञ्चस्य श्लोकव्याख्येयमीरिता || ७४१ ||
मनसैवेत्युपक्रम्य सा त्विदानीं विचार्यते ||
न्याय्याऽन्याय्येति वा यत्नाद्युक्तिभिः प्रविभागशः || ७४२ ||
मनसैवैनुद्रष्टव्यमिति यद्भवतेरितम् ||
सत्यमेतन्मनो मुक्त्वा न तस्यास्त्यन्यतो गतिः || ७४३ ||
तत्त्वस्माभिर्यथाऽभाणि मनसैवेति दर्शनम् ||
मनसा शक्यते द्रष्टुं तत्तथैव प्रमान्वयात् || ७४४ ||
प्रमाणव्यापृतिर्याऽपि भवतेहोपवर्णिता ||
साऽपि कामं भवत्वेव न दोषस्तत्र भण्यते || ७४५ ||
शब्दप्रधानं विज्ञानं प्रमातृव्यापृतौ पुरा ||
जायतेऽनन्तरं शब्दः स्वव्यापारक्रमादथ ||
ज्ञानप्रधानतामेति स्वार्थसंकेतवर्त्मना || ७४६ ||
वर्णस्वरादिक्रमवद्वाक्यरूपानुरञ्जितम् ||
अज्ञानतार्थाधिगतौ तु ज्ञानं मानमितीर्यते || ७४७ ||
शब्दाभिन्नं पुरा ज्ञानं शब्दरूपानुरञ्जितम् || ७४८ ||
स्वप्रमेये प्रमाणं तदिति यद्वदिहोदितम् ||
प्रमेयेऽपि तथैवैतत्पूर्वं मेयप्रधानकम् || ७४९ ||
मेयव्यापारतः पश्चात्प्राप्तज्ञानानुरञ्चनात् ||
गुणत्वं व्रजति ज्ञामे प्रमेयोऽर्थः प्रमातरि || ७५० ||
अमितार्थानुगं ज्ञानं प्रमेयार्थानुरञ्जितम् ||
पूर्वोक्तेन प्रमाणेन संगतेर्मेय उच्यते || ७५१ ||
मेयमानाभिसंबन्धो यथेह प्रतिपादितः ||
एवमेवैष विज्ञेयो मेयमानान्तरेष्वपि || ७५२ ||
मेयमानाभिसंबन्धान्मानमेयार्थसंकरात् ||
नश्यद्विशेषणत्वं तन्मानं याति फ़लात्मनि || ७५३ ||
तावन्मात्रप्रधानत्वात्प्रमाणफ़लमुच्यते ||
इत्येष मानव्यापारो यथावदनुवर्णितः || ७५४ ||
व्यापारः कर्तृतन्त्रः स्यात्तनुवाग्बुद्धिसाधनः ||
पुंसस्तत्र स्वतन्त्रत्वाद्विद्याच्छास्रं प्रवर्तकम् || ७५५ ||
वस्तुतन्त्रं तु सद्यत्र विज्ञानं जायते बलात् ||
तत्रापुरुषतन्त्रत्वान्न कश्चिद्विधिरिष्यते || ७५६ ||
व्यापारः कर्तृतन्त्रो हि तमेतमितिशास्रतः ||
नित्यो ध्यानादिरूपो वा स स्याद् बुद्धिविशुद्धये || ७५७ ||
तमोरजोभ्यां मुक्ता धीर्यदा स्यादुक्तसाधनात् ||
शमादिमान्यथातत्त्वमथाऽऽत्मानं समीक्षते || ७५८ ||
तस्मिन्दृष्टेऽथ सर्वस्य तावन्मात्रैकतत्त्वतः ||
सर्वाज्ञानसमुच्छित्तेः सर्वज्ञानोदयस्तथा || ७५९ ||
निःशेषपुरुषार्थाप्तिः सर्वदःखौघनिह्नुतिः ||
यतोऽत आत्मनि ज्ञाते कृतकृत्यत्वहेतुतः || ७६० ||
वाङ्भनःकायसाध्याया व्यापृतेः स्यादसंभवः ||
फ़लावधित्वात्सर्वेषामुपायानां जगत्यपि || ७६१ ||
प्रमेयमयतां कामं प्रमातैव व्रजत्वयम् ||
तस्यैव परिणामित्वात्प्रमेयेन च संगतेः || ७६२ ||
षड्भावविक्रियाभावादसङ्गाच्चाप्यनात्मना ||
विज्ञानादिमयत्वं स्यान्न स्वतः प्रत्यगात्मनः || ७६३ ||
एवंभूतोऽपि चाज्ञातः कार्यकारणरूपताम् ||
व्रजत्येष यथा रज्जुरज्ञाता सर्परूपताम् || ७६४ ||
मनआदेरशेषस्य प्रत्यगज्ञानहेतुतः ||
हेतुध्वस्तौ भवेद्ध्वस्तिरकार्याकारणेऽक्षरे || ७६५ ||
तत्त्वबोधान्न नाशः स्याद्वतिरेकान्वयौ न च ||
प्रत्यङ्भात्रैकयाथात्म्यादविद्यादेरिहाऽऽत्मनि || ७६६ ||
विनाशः क्रियते यत्र व्यतिरेकोऽथवाऽन्वयः ||
कार्यकारणसंबन्धान्मुक्तिस्तत्र सुदुर्लभा || ७६७ ||
ध्यानादिसंस्कृतं चेतो यदि मुक्तौ प्रणश्यति ||
सभावनं सहेत्वेवं ध्यानं सर्वमपार्थकम् || ७६८ ||
अथ मुक्तौ तदन्वेति कारणेन सहान्वियात् ||
अज्ञाने सति संसारो वद केन निवार्यते || ७६९ ||
लोहादेः कारणं भूमिर्भूमिष्ठं भूमितामितम् ||
विरोधिहेतुसंपर्काल्लोहाद्येति न वायुताम् || ७७० ||
स्वकारणस्थं नित्यं च कार्यं सर्वमिदं मतम् ||
न चैति कारणत्वं तत्तस्मादुक्तमपेशलम् || ७७१ ||
कुलालाद्युत्थ संस्कारविनाशादेव तत्स्वयम् ||
कार्यं कारणतामेति न तु तत्कारणास्थितेः || ७७२ ||
आरभ्यं यत्र कार्यं स्यात्तत्रैव व्यापृतिर्ध्रुवम् ||
तमित्यस्याः श्रुतेर्ज्ञेया भावनाज्ञानकर्मणाम् || ७७३ ||
ब्रह्मैव सन्स्वतो यत्र ब्रह्माप्येति तमोहनुतेः ||
नामीषां व्यापृतिस्तत्र ह्युत्पत्त्यादिविरोधतः || ७७४ ||
प्रत्यगज्ञानविध्वंसिज्ञानाभ्यासोऽपि नेष्यते ||
सकृदात्मप्रसूत्यैव बोधस्याज्ञानहानतः || ७७५ ||
न ह्यावृत्तिव्यपेक्षं सन्मानं जगति किंचन ||
स्वप्रमेये तमो हन्ति स्वसाध्ये साधनं यथा || ७७६ ||
भावनाजं फ़लं यत्स्याद्यच्च स्यात्कर्मणः फ़लम् ||
न तत्स्थास्न्विति मन्तव्यं पण्यस्त्रीगमनं यथा || ७७७ ||
संसार्यस्मीति चेद्ध्वस्ता कोटिकल्पोपबृंहिता ||
स्वल्पीयोभ्यासजा स्थास्न्वी भावनेत्यत्र का प्रमा || ७७८ ||
तस्मान्न साध्विदं सर्वं भावनासंचयार्थिभिः ||
ध्यानादि यदुपन्यस्तं निःशेषानर्थमुक्तये || ७७९ ||
वाक्येनावेदितं कृत्स्नं यदि साक्षात्प्रबोध्यतॆ || वस्तु बुद्धौ वद ध्यायन्व्यापारात्किमपेक्षते || ७८० ||
निःशेषानर्थसंप्राप्तिकैवल्यानाप्तिकृत्तमः ||
तत्तेज्ज्ञानादपध्वस्तं समाप्तं यच्चिकीर्षितम् || ७८१ ||
कृतं चिकीर्षितं सर्वं बुद्धं यच्च बुभुत्सितम् ||
सम्यग्ज्ञानोदयात्सर्वं वर्जितं यज्जिहासितम् || ७८२ ||
तथेप्सितं च संप्राप्तमित्येवं कृतकृत्यता ||
प्रत्यग्याथात्म्यसंमोहध्वंसमात्रात्प्रबोधतः || ७८३ ||
सपर्पितं चेच्छब्देन बुद्धौ वस्तु यथोदितम् ||
प्रज्ञां कुर्वीतेति विधिः किमर्थ इति भण्यताम् || ७८४ ||
न चेत्समर्पितं साक्षाद्वस्तु श्रुत्या यथोदितम् ||
अप्रामाण्यं श्रुतेः प्रापत्स्वार्थस्याप्रतिपादनात् || ७८५ ||
स्वप्रमेये प्रमाणं सत्प्रवृत्तं स्वात्मलाभतः ||
अज्ञानाद्यनिरासेन नास्ति लोके प्रबोधकम् || ७८६ ||
अज्ञानमिथ्यासंशीतिव्यतिरेकेण नापरम् ||
प्रत्यर्थि मेयविषये मानस्येहास्ति किंचन || ७८७ ||
अज्ञानादित्रयं बाध्यं मेययाथात्म्यसंश्रयात् ||
मानं बाधकमेवात्र बाध्येन न हि हन्यते || ७८८ ||
बाध्यस्य बाधनादेव प्रमाणस्य प्रमाणता ||
स्वमेयतत्त्वसंबन्धलब्धरूपस्य सर्वदा || ७८९ ||
नादग्ध्वाऽभ्याहितं दाह्यमग्रेरग्नित्वमिष्यते ||
यथा बाध्यमबाधित्वा नैवं बाधकता मितेः || ७९० ||
न च प्रामाणिकं ज्ञानमुत्पत्त्यादौ नियुज्यते ||
स्वमेयव्यक्तितस्तस्य न कार्यान्तरमिष्यते || ७९१ ||
न च मानान्तरैर्मेये मानस्येष्टा विरोधिता ||
असाधारणमेयत्वान्मानानां चक्षुरादिवत् || ७९२ ||
मानान्तरैर्विरोधश्चेन्मानस्याभ्युपगम्यते ||
तदुच्छित्तौ न हेतुः स्याद्विरोधस्य प्रमाश्रयात् || ७९३ ||
न च सामान्यतो ज्ञानं ल्यबन्तेनाभिधीयते ||
प्रत्यग्वस्तु यतः सिद्धमसामान्यविशेषवत् || ७९४ ||
सामान्येनेक्षमाणस्य विशेषेण च वस्त्विदम् ||
अपवादः पुरा तस्य न पश्यन्तीति वर्णितः || ७९५ ||
अन्ये तु पण्डितंमन्याः संप्रदायानुसारतः ||
विज्ञायेति वचः श्रौतमिदं व्याचक्षतेऽन्यथा || ७९६ ||
तत्त्वमस्यादिवाक्योत्थविज्ञानेन यथोदितम् ||
विज्ञाय वस्त्वसंसर्गि प्रज्ञां कुर्वीत यत्नतः || ७९७ ||
नन्वत्रापि कृतैवासौ ल्यबन्तेनाभिधीयते ||
प्रज्ञाऽतः करणं तस्या भूयः कस्माद्विधीयते || ७९८ ||
मैवं पदार्थसंसर्गरूपस्यैवातथात्मके ||
ऐकात्म्ये वाक्यहेतूत्थबोधस्योद्भूतिकारणात् || ७९९ ||
ब्रह्मासंसर्गि तद्यस्मादसामान्यविशेषवत् ||
संसर्गरूपं वाक्योत्थं ज्ञानं नीलोत्पलादिवत् || ८०० ||
स्वभावतोऽखिलं वाक्यं संसर्गात्मकमेव हि ||
परोक्षवृत्त्या च तथा वस्तु बोधयति स्वतः || ८०१ ||
स्वस्वभावं न चोल्लङ्घ्य स्वभावान्तरसंश्रयात् ||
ब्रह्मासंसर्गि साक्षाच्च शब्दः शक्रोति बोधितुम् || ८०२ ||
अलब्धब्रह्मयाथात्म्यं ज्ञानं वाक्योद्भवं यतः ||
तस्मात्प्रज्ञां प्रकुर्वीत साक्षाद्ब्रह्मैकगोचराम् || ८०३ ||
अपास्ताशेषसंसर्गं यया ब्रह्माधिगम्यते || ८०४ ||
केनेति च व्यपेक्षायां विज्ञानेनेति गम्यते ||
ल्यबन्तोक्तेन सांनिध्यान्न ततोऽन्यदपेक्ष्यते || ८०५ ||
योग्यं संनिहितं चेदं साकाङ्क्षं च समीक्ष्यते ||
विज्ञानं यल्ल्यबन्तोक्तं तदेवात्र तु साधनम् || ८०६ ||
तस्माद्वाक्योत्थविज्ञानसाधनाभ्यासतोऽनिशम् ||
प्रज्ञां कुर्यादसंसर्गिब्रह्मयाथात्म्यबोधिनीम् || ८०७ ||
अपेताशेषसंसर्गं तयैव ब्रह्म गम्यते ||
यतोऽशेषतमोहन्त्री प्रज्ञा सैवात इष्यते || ८०८ ||
साक्षाद्दर्शनसिद्ध्यर्थमन्यत्रापि बिधीयते ||
निदिध्यासनवाक्येन साधनं ध्यानलक्षणम् || ८०९ ||
इत्येवमादिवाक्यानि गम्भीरन्यायवेदिनः ||
केचिद्व्याचक्षते यत्नादत्र प्रतिविधीयते || ८१० ||
मानान्तरापरिज्ञाते प्रमेयार्थे प्रमां स्फ़ुटाम् ||
मेयाज्ञातत्वबाधेन कुर्वन्मानमितीर्यते || ८११ ||
ब्रह्मानधिगतं चेदं वाक्यादन्यैः प्रमान्तरैः ||
तद्यथा बोधयेद्वाक्यं तत्तथैवेति गृह्यताम् || ८१२ ||
प्रमाणादेव यत्प्राप्तं कथं तदतिशङ्क्यते ||
ब्रह्म संसर्गरूपं वा यदि वाऽतोऽन्यथा श्रुतेः || ८१३ ||
प्रमाणतोऽपि संप्राप्तं यदि वस्त्वतिशङ्क्यते ||
तदा शङ्कानिवृत्त्यर्थं मानादन्यत्किमिष्यताम् || ८१४ ||
न चापि स्वप्रमेयेऽस्ति मानानां बोधहेतुतः ||
तारतम्यं यथा कार्ये कारकाणामसंभवात् || ८१५ ||
न च प्रमान्तरैः साक्षादज्ञाते ब्रह्मवस्तुनि ||
अयथावस्त्विति ज्ञानं वक्तुं शक्यं विपश्चिता || ८१६ ||
अपि मानान्तराज्ज्ञाते तद्विरुद्धस्वभावके ||
न चैवं युज्यते वक्तुं द्वयोरपि मितित्वतः || ८१७ ||
प्रमान्तरेण चेज्ज्ञातं ब्रह्मासंसर्गरूपकम् ||
कृतत्वात्तर्हि प्रज्ञाया निष्फ़लोऽयं पुनर्विधिः || ८१८ ||
प्रज्ञायाश्च समाप्तत्वादविद्याया निराकृतेः ||
पुरुषार्थस्य चाऽऽप्तत्वात्किमर्थं विधिशासनम् || ८१९ ||
वाक्यमानोद्भवं ज्ञानमयथावस्त्वितीर्यते ||
यथावस्त्वप्रमोत्थं च चित्रं सर्वज्ञचेष्टित्नम् || ८२० ||
न च मिथ्याधियोऽभ्यासात्सम्यग्ज्ञानसमुद्भवः ||
तथा सत्यप्रयत्नेन मुक्तिः स्यात्सर्वदेहिनाम् || ८२१ ||
संसारमिथ्याविज्ञानमभ्यस्यन्त्येव सर्वदा ||
प्राणिनो न च सम्यग्धीस्तेषां ब्रह्मण्मि जायते || ८२२ ||
सम्यग्ज्ञानप्रसूतेश्च विघातायैव जायते ||
मिथ्याज्ञानाभ्यासहेतुः संस्कारो न तु जन्मने || ८२३ ||
तथाच प्राह भगवान्व्यासः सत्यवतीसुतः ||
पूर्वमर्थान्तरे न्यस्ता कालान्तरगता मतिः || ८२४ ||
तेनान्यं सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते ||
परीक्ष्य यो न गृह्णाति गृह्णाति च विपर्ययात् || ८२५ ||
दृढपूर्वश्रुतत्वाच्च प्रमादाच्चापि लौकिकात् ||
चतुर्भिः कारणैरेतैर्याथातथ्यं न विन्दति || ८२६ ||
नातो मिथ्याधियोऽभ्यासः सम्यग्ज्ञानस्य जन्मने || ८२७ ||
अपि मिथ्याधियोऽभ्यासः सम्यग्ज्ञानस्य जन्मने ||
स्यादेव चेच्छ्रुतेर्मात्वान्न मितेर्व्यञ्जकत्वतः || ८२८ ||
कार्योत्पत्तौ स्वतन्त्रत्वं कारणस्यैव निश्चितम् ||
मानस्य व्यञ्जकत्वात्तु मेयतत्त्वानुरोधिता || ८२९ ||
अपि चाभ्यस्यमानस्य दार्ढ्यं दृष्टं जगत्यपि ||
तदभ्यासवशादेवमत्राप्यध्यवसीयताम् || ८३० ||
भवद्व्याख्यात एवार्थो न चास्य वचसो ध्रुवम् ||
व्याख्येयः सोऽपरेणापि राज्ञामाज्ञां विना क्वचित् || ८३१ ||
भवद्व्याख्यानतोऽस्माभिरुक्ता दोषपरंपरा ||
सा यथा प्रसजेन्नेह व्याख्येयं तत्तथा वचः || ८३२ ||
सर्वमानाविरोधेन वाक्यार्थो गम्यते यथा ||
गुणवृत्त्याऽन्यथा वा तद्व्याख्येयं सुविपश्चिता || ८३३ ||
वाक्यमाहात्म्यसंभूतं शाब्दं विज्ञानमुच्यते ||
मेययाथात्म्यतो जाता प्रज्ञेतीहाभिधीयते || ८३४ ||
शाब्दविज्ञानमानेन प्रज्ञामैकात्म्यलक्षणाम् ||
ब्रह्मास्मीति प्रकुर्वीत बुभुत्सोच्छेदिनीं दृढाम् || ८३५ ||
विज्ञायेति ल्यबन्तेन प्रमाणव्याप्तिरुच्यते ||
मेयस्य तेन माव्याप्तिः प्रज्ञामित्यभिधीयते || ८३६ ||
प्रमाणव्यापृतेर्यस्मान्मेयस्य व्यापृतेस्तथा ||
प्रज्ञाफ़लं जायतेऽथ यदपूर्वादिलक्षणम् || ८३७ ||
प्रमात्रादिविभागेन मानं मेयं समश्नुते ||
मेयेनाऽऽप्तौ तु तद्ध्वास्तिर्मेययाथात्म्यमात्रतः || ८३८ ||
सकारणस्य मात्रादेः प्रत्यग्दृष्ट्यतिरेकतः ||
तत्त्वं नान्यद्यतस्तस्मात्तन्मात्रेणैब तद्धतिः || ८३९ ||
निद्रान्धः सन्यथा स्वप्ने ह्यग्निव्याघ्रादिसंगतेः ||
निद्रास्वप्नप्रहाणेन बोधमात्रार्थभाग्भवेत् || ८४० ||
प्रत्यगज्ञानसंभूतनानात्वोत्थप्रबोधतः ||
प्रध्वंसादात्ममोहस्य तथैकात्म्यं समश्नुते || ८४१ ||
शास्राचार्यमतिर्वाऽत्र विज्ञायेत्यभिधीयते ||
प्रज्ञेत्यादिकया वाचा ह्यात्मप्रत्यय उच्यते || ८४२ ||
शास्राचार्यव्यपेक्षत्बात्परतन्त्रैव तन्मतिः ||
अनन्यापेक्षतो ज्ञेया प्रत्यग्बुद्धेः स्वतन्त्रता || ८४३ ||
आत्मप्रत्यय आत्मैको द्वितीयः पुनरात्मनः ||
अनात्मप्रत्ययः सोऽहमुत्पत्त्यैवास्मि केवलः || ८४४ ||
यदि वोक्तात्मयाथात्म्यबोधेनैवाद्वयात्मिकाम् ||
ब्रह्मप्रज्ञां प्रकुर्वीत विशेषणसमाश्रयात् || ८४५ ||
अव्यावृत्ताननुगतब्रह्मार्थोऽनात्मनोऽन्यतः ||
लभ्यतेऽत्र यतस्तस्मात्तमेवेत्यभिधीयते || ८४६ ||
अव्यावृत्ताननुगतब्रह्मार्थान्नापि चान्यतः ||
प्रत्यक्ता लभ्यते साक्षान्महानात्मेत्यतोऽत्र गीः || ८४७ ||
व्यावर्त्यार्थातिरेकेण नाऽऽत्मब्रह्मपदार्थयोः ||
स्वरूपेऽस्ति भिदा काचिदमानित्वादिवस्तुवत् || ८४८ ||
विरुध्यतेऽक्रियारूपं मानित्वादिक्रियात्मकैः ||
अमानित्वादिकं वस्तु यथेहापि तथेष्यताम् || ८४९ ||
प्रत्यग्वस्त्वद्वयमपि तदबोधोपघाततः ||
स्रगिवाह्यादिरूपेण प्रथते भेदवन्मृषा || ८५० ||
तथैवाऽऽत्माऽपि तद्ब्रह्म तदविद्यैकहेतुतः ||
परोक्षमिव तद्भाति तिमिरोद्भूतचन्द्रवत् || ८५१ ||
सद्वितीयपरोक्षत्वे यतोऽज्ञानैकहेतुके ||
न वस्तु स्पृशतस्तस्मात्प्रमाणोत्थप्रबोधतः || ८५२ ||
यथावस्त्वभिसंबन्धान्निवर्तेते सहेतुके ||
अकारकात्मबोधस्य जन्मनैव तमोह्नुतिः || ८५३ ||
नान्वयव्यतिरेकाभ्यां नाप्यभावेन तद्धतिः ||
आत्मब्रह्मपदार्थैकरूपेणैव हनुतिर्यतः || ८५४ ||
नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ||
निवृत्तिरप्यविद्याया नावगत्यात्मनोऽपरा || ८५५ ||
पदार्थप्रतिबोधो वा वाक्यार्थज्ञानजन्मने ||
विज्ञायेत्युच्यते श्रुत्या पुंसस्तत्र स्वतन्त्रतः || ८५६ ||
अन्वयव्यतिरेकाभ्यां वाक्यनीडपदार्थयोः ||
पुमानलं विवेकाय न तु वाक्यार्थवित्तये || ८५७ ||
नानुत्पन्ने विधिः पुंसोऽशक्यात्वाद्वस्तुतन्त्रतः ||
उत्पन्नेऽपि कृतार्थत्वान्न स्याद्वाक्यार्थबोधने || ८५८ ||
अन्वयव्यतिरेकाभ्यां लौकिकत्वात्पदार्थयोः ||
शक्तस्तद्विषयं ज्ञानं कर्तुं वाक्यार्थवित्तये || ८५९ ||
आत्मा द्रष्टव्य इत्यादावयमेव विधीयते ||
पदार्थविषयः पुंसो व्यापारो योऽनुमात्मकः || ८६० ||
वाक्यार्थप्रतिबोधस्य पदार्थाज्ञानमेव तु ||
अन्तरायो यतस्तस्मात्पदार्थज्ञानचोदना || ८६१ ||
ज्ञात्वाऽऽत्मानं तमेवेति तन्मोहोत्थादनात्मनः || ८६२ ||
अनात्मार्थप्रधानोऽयं यावदात्मा समीक्ष्यते ||
ब्रह्मास्मीति न तावद्धीर्जायते सान्तरायतः || ८६३ ||
अनात्मनो यदाऽऽत्मानं प्रत्यगज्ञानकल्पितात् ||
विविनक्त्यनुमानेन तदा वाक्यार्थधीर्भवेत् || ८६४ ||
आत्मन्येव यदाऽऽत्मानं व्युत्थाप्यानात्मनो नरः ||
विजानाति तदा सर्वमात्मैवेति प्रपश्यति || ८६५ ||
अथवा पुरुषार्थत्वात्प्रज्ञायाः करणं नृणाम् ||
स्वतः प्राप्तमनूद्येह तमेवेति नियम्यते || ८६६ ||
प्रज्ञां कुर्वीत यदिह तत्तमेव यथोदितम् ||
तां प्रकुर्वीत विज्ञाय स्वात्मानं न त्वनात्मनः || ८६७ ||
तत्त्वमात्मैव सर्वस्य कार्यकारणवस्तुनः ||
यस्मादात्मनमेवातः प्रज्ञां विज्ञाय कुर्विति || ८६८ ||
तदन्यविषयज्ञाने न किंचिद्वेत्ति तत्त्वतः ||
न च कृत्स्नतमोहानिः सर्वज्ञानोदयो न च || ८६९ ||
प्रत्यगात्मनि तु ज्ञाते श्रुत्युक्तेनैव वर्त्मना ||
नानुत्पन्नं क्वचिज्ज्ञानं नेहाध्वस्तं तमोऽप्यतः || ८७० ||
विज्ञायेह तमेवातः प्रज्ञा कुर्वीत सद्द्वीजः ||
अज्ञानादि तथा कृत्स्नमात्मनोऽन्यत्र वेदने ||
सर्वमात्मानमेवेति श्रुतेरपि वचस्तथा || ८७१ ||
निष्कर्मिका वा प्रज्ञेह विहितेत्यथ भण्यते ||
कर्म तस्यास्तमेवेति विज्ञायेत्यनुवादतः || ८७२ ||
प्रज्ञा वा परमात्मेह प्रज्ञानमितिवाक्यतः ||
विज्ञायेह तमात्मानं प्रज्ञां कुर्वीत सद्द्विजः || ८७३ ||
इमं देहस्थमात्मानं विज्ञायोक्तेन वर्त्मना ||
परां प्रज्ञां प्रकुर्वीतेत्येष शास्रस्य संग्रहः || ८७४ ||
तत्रैवं संभवत्यर्थे सर्वमानाविरोधिनि ||
वाक्यार्थः कल्प्यते कस्माद्विरुद्धो यः प्रमान्तरैः || ८७५ ||
असंतोषादतोऽन्येऽत्र भूरिदोषप्रदर्शिनः ||
व्याख्यानादन्यथा चक्रुर्व्याख्यां वेदार्थनिश्चिताः || ८७६ ||
विदान्तवाक्यजं ज्ञानं यथावस्त्वेव मोहनुत् ||
प्रामाण्याद्वेदवचसस्तज्जं मिथ्या भवेत्कथम् || ८७७ ||
वाक्यश्रवणकाले तत्सर्वाज्ञानतमोपनुत् ||
जायते यद्यपि ज्ञानं कृत्स्नैकात्म्यसमाश्रयम् || ८७८ ||
जन्मानन्तरमेवैतदनादितमसाऽखिलम् ||
तथाऽपि बाध्यते ज्ञानमविद्याकार्यदर्शनात् || ८७९ ||
अविद्याहेतुरागादीन्सम्यग्ज्ञानादनन्तरम् ||
यतो वीक्षामहे तस्माज्ज्ञानस्याज्ञानबाधनम् || ८८० ||
नैसर्ग्यागन्तुकी चेति ह्यविद्या द्विविधा स्मृता ||
आगन्तुकी स्याद्विषये नैसर्गिक्यात्मनीष्यते || ८८१ ||
तत्राऽऽगन्तु यदज्ञानं तत्सकृज्ज्ञानजन्मना ||
अपैति नासि शबरो राजाऽसीत्युक्तितो यथा || ८८२ ||
नैसर्गिकी तु याऽविद्या सा सकृज्ज्ञानजन्मना ||
ध्वस्ताऽपि पुनरेवैति तज्जरागादिदर्शनात् || ८८३ ||
यस्मादेवंस्वभावैषाऽविद्या नैसर्गिकी ततः ||
विज्ञायापि परं तत्त्वं कुर्यात्प्रज्ञं पुनः पुनः || ८८४ ||
तावत्प्रज्ञां प्रकुर्वीत यावद्ध्वस्ता निरन्वया ||
आत्माविद्या यथोक्तात्मविद्याभ्यासेन यत्नतः || || ८८५ ||
श्लोकांश्च गौडपादादेर्यथोक्तार्थस्य साक्षिणः ||
अधीयतेऽत्र यत्नेन संप्रदायविदः स्वयम् || ८८६ ||
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ||
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् || ८८७ ||
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ||
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा || ८८८ ||
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ||
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं यदा || ८८९ ||
तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम् ||
इदं ज्ञानं च ध्यानं च शेषोन्यो ग्रन्थविस्तरः || ८९० ||
इति व्याचक्षते केचिद्विज्ञायेति वचः स्फ़ुटम् ||
महामीमांसका धीरा अत्र प्रतिविधीयते || ८९१ ||
यदाऽसाधारणाऽविद्या प्रत्यगात्मैकगोचरा ||
अज्ञानाद्यात्मिका सिद्धा द्वैविध्यं स्यात्तदा कुतः || ८९२ ||
अज्ञात एव सर्वत्र मानानां मेय उच्यते ||
आत्मैव ज्ञेय एष्टव्यो ध्रुवमैकात्म्यवादिना || ८९३ ||
अज्ञातोऽर्थोऽन्यतो यस्मान्नैवैकात्म्यात्प्रसिध्यति || ८९४ ||
न चानधिगतत्वस्य प्रसिद्धिः स्यात्प्रमाणतः ||
अतिशीतेरसद्भावान्न च बाधोऽस्य माश्रयात् || ८९५ ||
न चाप्यनात्मना सिद्धिरज्ञातस्येह वस्तुनः ||
तस्याप्यविद्यारूपत्वाज्जडोऽनात्मेति हीष्यते || ८९६ ||
अतो मात्राद्यभावेऽपि योऽज्ञातत्वस्य सिद्धये ||
अलमर्थः स एवात्र मेयोऽज्ञात इहेष्यते || ८९७ ||
बोधमात्रातिरेकेण नान्योऽर्थोऽज्ञानसिद्धिकृत् ||
अज्ञानादित्रयं तस्मात्स्वतोबोधैकसंश्रयम् || ८९८ ||
संभाव्यते जगत्यस्मिन्बोधमात्रपुरःसरम् || ८९९ ||
अज्ञायमानो मात्रादिर्न यस्मादनुभूयते ||
अज्ञातचितिवत्तस्मादज्ञातोऽनुभवः स्मृतः || ९०० ||