बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम् ॥
अन्नं ब्रह्मेेति निर्वक्ति पुरेवान्यदुपासनम् ।।
उदारफलसिद्ध्यर्थं तस्य न्यायेन निर्णयः ।। १ ।।
अन्नमेव परं ब्रह्मेत्येक आहुर्विपश्चितः ।।
तत्तथा नावगन्तव्यं क्लिद्यत्यन्नमसुं विना ।। २ ।।
प्राणो ब्रह्मेति चाप्यन्ये तच्च ग्राह्यं पुरेव न ।।
अन्नादृते यतः प्राणः शोषमाशु निगच्छति ।। ३ ।।
ब्रह्मत्वं नानयोर्यस्मादेकैकस्य न युक्तिमत् ।।
संभूय देवते तस्माद्ब्रह्मत्वं संनिगच्छतः ।। ४ ।।
तदेतत्संप्रधार्याऽऽह प्रातृदः पितरं किल ।।
किंस्विदित्यादि संहृष्टस्तद्दोषस्यासमीक्षणात् ।। ५ ।।
किंस्विदेवंविदे साधु कृत्स्नसाध्वाप्तिहेतुतः ।।
कुर्यामसाधु वा तस्मै सर्वासाधुनिराकृतोः ।। ६ ।।
पाणिना मैवमित्युक्त्या तं पिता प्रत्यषेधयत् ।।
संभूय परमत्वं कः स्वतोशक्तिरवाप्नुयात् ।। ७ ।।
स्वतोऽशक्तिमतोर्लोके शक्तिर्योगेऽपि नेक्ष्यते ।।
जात्यन्धयोर्न योगेऽपि शक्ती रूपवदीक्षणे ।। ८ ।।
तस्माच्छक्तिमतोरेव ग्रासांशानां यथा तथा ।।
तृप्तिशक्तिरिहापि स्यात्प्राणान्नाद्यात्मनोर्युतौ ।। ९ ।।
न चेत्परमतां यातःकथं परमतोच्यताम् ।।
प्रत्येकं शक्तिमत्त्वोक्तिर्वीत्यादिवचसोच्यते ।। १० ।।
व्याख्यानाय तु वीत्यस्य त्वन्नं वै वीति भण्यते ।।
अन्ने विष्टानि सन्त्येव भूतत्वं यान्ति येन हि ।। ११ ।।
अन्नविष्टानि सर्वाणि भूतानीत्यन्नमुच्यते ।।
वीति तेन सदा प्राणो रमित्येवमिहोच्यते ।। १२ ।।
प्राणे सति रमन्ते हि लोके दृष्टानि सर्वदा ।
भूतानि रमिति प्रोक्तस्तस्मात्प्राणोऽपि सूरिभिः ।। १३ ।।
स्वतो गुणवतोरेवमन्नप्राणात्मनोर्भवेत् ।।
संभूय परमत्वं हि फलोक्तिः सैव योदिता ।। १४ ।।
विशन्ति सर्वभूतानि ह्यन्नभूते प्रजापतौ ।।
रमन्ते प्राणभूते च फलमेतदुपासितुः ।। १५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम्