बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ षष्ठाध्यायस्य द्वितीयं ब्रह्माणम्॥
यन्न संभावितं पूर्वं वस्तुप्राधान्यहेतुतः ।।
वक्तुं तदत्र वक्तव्यं खिलकाण्डाधिकारतः ।। १ ।।
सप्तमावसितावुक्तं मार्गप्रार्थनमग्नितः ।।
सुपथेति श्रुतं तत्र श्रुत्या मार्गविशेषणम् ।। २ ।।
संभवे व्यभिचारे च विशेषणविशेष्ययोः ।।
दृष्टं विशेषणं लोके यथेहापि तथेक्ष्यताम् ।। ३ ।।
मुपथेति ततो युक्तं संभवे भूयसां पथाम् ।।
विशेषणमतो वाच्याः पन्थानः कर्महेतवः ।। ४ ।।
दक्षिणोदगधोमार्गा विहितप्रतिषिद्धयोः ।।
विपाकाः कर्मणोर्वाच्यास्तद्वैराग्यप्रसिद्धये ।। ५ ।।
नाविरक्तस्य निःशेषसांसारिकपुमर्थतः ।।
प्रवृत्तिर्मुक्तये तस्माच्छ्रुत्या यत्नात्तदुच्यते ।। ६ ।।
शक्नुवन्ति न कर्मणि सर्वकामसमापनम् ।।
निषेद्धुं वाऽखिलानर्थांस्तत्फलस्यातिफल्गुतः ।। ७ ।।
न कर्म कारणं मुक्तेर्नाग्निर्गहज्वरापनुत् ।।
कर्मभ्यु जन्म नियतं जन्म चेन्निर्वृत्तिः कुतः ।। ८ ।।
न कर्मणा कनीयस्ता महत्त्वं चान्तरात्मनः ।।
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता ।। ९ ।।
न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
इति श्रीयाज्ञवल्क्येन मुक्तकण्ठमुदाहृतम् ।। १० ।।
अतो मुक्तिं परीच्छद्भिरुत्पत्त्यादिविरोधिनीम् ।।
त्यकत्वा कर्माण्यथैकात्म्यज्ञानं सर्वात्मनाऽऽश्रयेत् ।। ११ ।।
तमोन्तरायतो मुक्तेर्नान्तरायोऽपरोऽस्ति हि ।।
तमोहतिर्न कर्मभ्यो ज्ञानात्सा व्यञ्जकत्वतः ।। १२ ।।
न तु त्वमेतयोर्वेत्थेत्युत्क्रान्त्यादिस्वलक्षणम् ।।
षड्वधं परिणामार्थमग्निहोत्राहुतीहयोः ।। १३ ।।
इतिप्रश्नप्रतिवचस्ते वा इत्यादिकं जगौ ।।
लोकं प्रत्युत्थितं यावदग्निहोत्राद्दुतीहयोः ।। १४ ।।
अपूर्वपरिणामोऽयमग्निहोत्राख्यकर्मणः ।।
उत्क्रान्त्यादिगिरेहोक्त आलोकोत्थानवाक्यतः ।। १५ ।।
आहुत्योरग्निहोत्रस्य ह्यन्तरिक्षादिभेदतः ।।
आ लोकोत्थानतः श्रुत्या उक्ताऽपूर्वस्य विक्रिया ।। १६ ।।
तदेवोक्तमिहाऽऽलम्व्य तदग्नीक्षणसिद्धये ।।
श्वेतकेतुरिति ग्रन्थः पर आरभ्यतेऽधुना ।। १७ ।।
पञ्चाग्निविद्या यत्नेन वृद्धेनाब्राह्मणादपि ।।
हित्वा धनं च मानं च लब्धेत्युक्तिः स्तुतिर्धियः ।। १८ ।।
परिणामो हि पाकेन पाकश्च न विनाऽग्निना ।।
दर्शनात्परिणामस्य पक्तासर्वत्र पावकः ।। १९ ।।
समाप्ताशेषविद्यं हि समावर्त्य पिता सुतम् ।।
समाप्ताशेषविद्योऽसीत्येवमाहोत्ससर्ज च ।। २० ।।
निकषोपलसंस्थेषु वेदवित्सु परीक्ष्यताम् ।।
विद्येयं यत्न्तो वत्स द्रढिम्ने मच्छ्रुतस्य च ।। २१ ।।
प्रसिद्धाऽतीव विद्वत्ता पञ्चालब्राह्मणेषु हि ।।
तामेव परिषदं तस्मादाजगाम त्वरान्वितः ।। २२ ।।
पञ्चालब्राह्मणाञ्जित्वा विद्योत्कर्षैकहेतुतः ।।
राजानमपि जेष्यामीत्याजगाम नृपं ततः ।। २३ ।।
तं जिगीषुं समायान्तमुन्मार्गे संस्थितं द्विजम् ।।
सन्मार्गप्रतिपत्त्यर्थं राजोवाच स्वशास्रतः ।। २४ ।।
आमन्त्रयामास च तं कुमारा इति बालवत् ।।
प्रतिशुश्राव सोऽप्युक्तो भो इत्युक्त्या गुरुं यथा ।। २५ ।।
दर्पोत्सेकसमावेशान्नानुशिष्टोऽयमादरात् ।।
पित्रेतिजातसंदेहः पर्यपृच्छदतो नृपः ।। २६।।
अनुशिष्टोऽसि किं पित्रा उताहो नेति भण्यताम् ।।
नानुशिष्टस्य जगति वृत्तमीदृक्समीक्ष्यते ।। २७ ।।
बाढं पित्राऽनुशिष्टोऽस्मि किं न पश्यसि मज्जयम् ।।
त्वत्पण्डितेषु सर्वेषु पृच्छ मां यदि शङ्कसे ।। २८ ।।
एवं राज्ञो यथोक्तोक्त्या ह्यभ्युपेतेऽनुशासने ।।
श्वेतकेतुमथाप्राक्षीप्रञ्च प्रश्नान्क्रमान्नृपः ।। २९ ।।
अनुशिष्टोऽसि चेद्ब्रूहि तुल्येऽपि मरणे प्रजाः ।।
यथा विप्रतिपद्यन्त भिन्नवर्त्मप्रभेदतः ।। ३० ।।
येन कर्मविशेषेण समानायां मृतौ प्रजाः ।।
अन्या अन्येन संयान्ति यथाऽन्येनापरास्तथा ।। ३१ ।।
त्वयोक्तं न विवेदाहं नानुशिष्टिरिहास्ति मे ।।
वेत्थेह ता यथा भूय ावर्तन्ते प्रजा इति ।। ३२ ।।
यथा येन मृताः सत्यो हेतुनाऽनेन च प्रजाः ।।
तं वेत्थ स्विन्न वेत्युक्तो नेति होवाच तं पुनः ।। ३३ ।।
प्रयद्भिरसकृद्भूतैर्महद्भिर्बहुभिः सदा ।।
नैवासौ पूर्यते लोको यथा वेत्थ तथाऽत्र किम् ।। ३४ ।।
नेति होवाच पृष्टः सन्राजा पप्रच्छ तं पुनः ।।
हुतायामाहुतौ वेत्थ यतिथ्यां पुरुषाभिधाः ।। ३५ ।।
आप एव समुत्थाय पुरुषाकृतयो हुताः ।।
प्रवदन्ति यथा वेत्थ तथाऽऽशु प्रतिपद्यताम् ।। ३६ ।।
राजानं नेति होवाच नाहं वेद्मि त्वयोदितम् ।।
पर्यपृच्छदतो राजा शान्तदर्पं द्विजं पुनः ।। ३७ ।।
पथस्त्वं देवयानस्य पितृयाणस्य वाऽञ्जसा ।।
वेत्थ प्रतिपदं किंवा न वेत्सीत्यभिधीयताम् ।। ३८ ।।
प्रतिपद्वचनस्यार्थं यत्कृत्वेत्यादराच्छ्रुतिः ।।
व्याचष्टे देवयानादिप्रतिपत्तौ क्रियैव सा ।। ३९ ।।
स्वाभ्यूह इति मा शङ्कीर्यतो मार्गद्वयेऽपि नः ।।
ऋषेर्मन्त्रस्य श्रवणमस्ति तच्च विभाव्यते ।। ४० ।।
द्वे सृती अशृणवं साक्षात्संबन्धिन्यौ दिवौकसाम् ।।
पितृणां चापि मर्त्यानां मार्गौ तावधिकारतः ।। ४१ ।।
ताभ्यां सर्वमिदं गच्छद्यथाकर्म यथाश्रुतम् ।।
समेति मध्ये भोगाय रोदस्योः कर्मणो जगत् ।। ४२ ।।
त्वदुक्तात्प्रश्नगणतो न वेद्म्येकमपीरितम् ।।
प्रश्नं मा मामतः प्राक्षीरित्युक्त्वाऽवाक्शिरा ह्यभूत् ।। ४३ ।।
निर्धूताशेषकलुषं शान्तदर्पं समीक्ष्य तत् ।।
वसत्याऽऽमन्त्रयांचक्र उष्यतामिति पार्थिवः ।। ४४ ।।
ह्रीतो रोषाच्च तद्वाक्यं वसत्यर्थमुदीरितम् ।।
अनादृत्य प्रदुद्राव यत्राऽऽस्ते गौतमः पिता ।। ४५ ।।
प्राप्याथ पितरं रोषात्साभ्यसूयं निराह सः ।।
इति वावेति वचनं पूर्वोत्तरविरोधतः ।। ४६ ।।
इतीत्युक्तपरामर्शो वाकोवाक्यं नृपेरितम् ।।
अप्रात्यक्ष्यात्किलेत्युक्तिरनुमानाद्धि तद्गतिः ।। ४७ ।।
नृपोक्त्यभिभवाल्लिङ्गाद्वञ्चितोऽस्मीति लिङ्ग्यते ।।
यथावदनुशिष्टस्य नाभिभूतिर्यतोऽन्यतः ।। ४८ ।।
तं मामननुशिष्यैव किमित्युक्तं त्वया पुरा ।।
अनुशिष्टोऽसि पुत्रेति वञ्चितोऽस्मीत्यतो मतिः ।। ४९ ।।
कथं त्वं नानुशिष्टोऽसि ब्रूहि तत्कारणं मम ।।
पञ्च मामित्यतोऽवोचद्यथा ह्यननुशासनम् ।। ५० ।।
प्रश्नास्ते कतमे वत्स यांस्त्वं न ज्ञातवानसि ।।
प्रश्नप्रतीकानवदत्पृष्टः पित्रा समासतः ।। ५१ ।।
व्राह्मणज्ञानतोऽन्यत्र विद्यां पप्रच्छ भूमिपः ।।
न हि व्राह्मणविज्ञाने किंचिदस्ति त्वयाऽगतम् ।। ५२ ।।
इत्येतद्धृदये कृत्वा तथा न इति सोऽवदत् ।।
मा शङ्किष्ठास्ततो मां त्वं नोक्तं सर्वं ममेति हि ।। ५३ ।।
प्रेहि तत्र गमिष्यावस्ताद्विद्यालब्धिसिद्ध
ब्रह्मचर्यं च वत्स्याव आवां तत्र नृपे गतौ ।। ५४ ।।
यातु तत्र भवानेव नाहं तं गन्तुमुत्सहे ।।
इत्युक्तः सूनुना ह्रीतः स्वयमेव जगाम तम् ।। ५५ ।।
ससंभ्रमः स चोत्थाय तस्मा आसनमाहरत् ।।
अप आहारयांचक्र अर्घ्यपाद्यार्थसिद्धये ।। ५६ ।।
सत्कृत्य च यथाशास्रं राजाऽथ तमुवाच ह ।।
वरं कामं प्रयच्छामो यः कामो वाञ्छितस्त्वया ।। ५७ ।।
ऋषिराहाथ राजानं कामितार्थस्य सिद्धये ।।
प्रतिज्ञातो वरस्तावद्भवताऽप्रार्थितोऽपि सन् ।। ५८ ।।
अस्तु सत्यप्रतिज्ञोऽत्र प्रतिज्ञातं त्वयेह यत् ।।
देहि प्रश्नात्मिकां वाचं यां मत्सूनोरभाषथाः ।। ५९ ।।
राजाऽपि तमुवाचाथ दैवेष्विति परं वचः ।।
दैवेप्वयं वरः सिद्धो मानुपाणां वरं वृणु ।। ६० ।।
न हि मानुषतो दैवः प्रार्थनीयो विजानता ।।
मानुषस्तूचितो दातुमादातुं मानुषाद्वरः ।। ६१ ।।
ममाप्यस्त्येव तत्सर्वं यद्यद्दित्ससि मानुषम् ।।
विज्ञायते मयैवाऽऽदौ भवताऽपि प्रमान्तरात् ।। ६२ ।।
न च तत्प्रार्यनीयं मे भूरि यद्विद्यते मम ।।
तस्माद्दैवो वरो मह्यं दीयतां नास्त्यसौ मम ।। ६३ ।।
बहोरनन्तापर्यन्तदैववित्तस्य लोभतः ।।
मा भूरभ्यवदान्यस्त्वं दाता भूत्वेह नः प्रति ।। ६४ ।।
दैवं वरं न संदातुं प्रत्याख्यातुं च तं द्विजम् ।।
इति दुःखित्वमापन्नस्तीर्थेनेच्छेत्युवाच तम् ।। ६५ ।।
तीर्थेन विद्या देयेति नातीर्थेनेति चाऽऽगमः ।।
यतोऽतस्तीर्थसृत्यैव मत्तो विद्यां त्वमाप्नुहि ।। ६६ ।।
शास्रार्थं स्मारितः सोऽथ राज्ञोपैमीत्यथोचिवान् ।।
वाचैव ह्यवरान्पूर्व उपयन्ति यतस्ततः ।। ६७ ।।
स होपायनकीर्त्यैव ब्रह्मचर्यमुवास ह ।।
उपैमीति हि संकीर्तेर्नान्यात्किंचिच्चकार सः ।। ६८ ।।
सापराधं स्वमात्मानं राजा परिहरन्नथ ।।
क्षमयामास तमृषिं तथा न इतिवाक्यतः ।। ६९ ।।
मानोऽपराधिनो मंस्थास्तव पूर्वे पितामहाः ।।
नामन्यन्त यथा तद्वद्भवानप्यपराधिनः ।। ७० ।।
त्वत्संप्रदानतः पूर्वं विद्येयं हि कदाचन ।।
नोवास ब्राह्मणे साध्वी साक्षादपि बृहस्पतौ ।। ७१ ।।
एवं गुप्तामपि तु तां वक्ष्याम्येवाहमञ्जसा ।।
प्रत्याख्यातुं समर्थः को ब्रुवन्तं ब्राह्मणं नृपः ।। ७२ ।।
असाविति क्रमोऽभेदि कस्माद्धेतोरितीर्यताम् ।।
प्रश्नस्येह चतुर्थस्य प्राधान्याद्भिद्यते क्रमः ।। ७३ ।।
उत्पत्तेस्तदधीनत्वाज्जन्मायत्ता स्थितिस्तथा ।।
स्थित्यपाये प्रयाणं च श्रुत्याऽभेदि क्रमस्ततः ।। ७४ ।।
दूरतोऽमुष्य लोकस्य स्यादसाविति गीरियम् ।।
समिद्धूमादिभी रूपैर्लोक्यते लोकगीरपि ।। ७५ ।।
वैशब्दः स्मरणाय स्यादग्निस्तत्परिणामतः ।।
यत आहवनीयोऽग्निर्द्युलोकात्मतया स्थितः ।। ७६ ।।
अपूर्वपरिणामोऽयमग्निहोत्राख्यकर्मणः ।।
द्युलोकोपक्रमो ज्ञेयो यावत्पुरुषसंभवः ।। ७७ ।।
आहुत्योरग्निहोत्रस्य या विभूतिः पुरोदिता ।।
सैवेह दृष्टिविध्यर्थं श्रुत्या व्याख्यायतेऽञ्जसा ।। ७८ ।।
अध्यात्मे चाधियज्ञे च ह्यधिलोकाधिदैवयोः ।।
श्रुतिराहवनीयादेर्व्याचष्टे विस्तृतिं स्फुटाम् ।। ७९ ।।
लोक आहवनीयोऽग्निरसाविति विचिन्तयेत् ।।
आदित्यादिष्वपि तथा समिदादिसमीक्षणम् ।। ८० ।।
समिन्धनात्समिद्भानू रश्मयो धूम इत्यपि ।।
समिन्निर्गमसामान्यादर्चिरहस्तथैव च ।। ८१ ।।
शान्तत्वाच्च दिशोऽङ्गाराः समिद्धि परिणामतः ।।
अर्चिरङ्गारभावस्य यथैवं भानुहेतुकाः ।।
रश्मयश्च दिशश्चैता आदित्यसमिदाश्रयाः ।। ८२ ।।
अवान्तरदिशस्तद्वद्विक्षिप्तत्वैकहेतुतः ।।
विस्फुलिङ्गा इति ज्ञेयास्तस्मिन्नग्नौ यथोदिते ।। ८३ ।।
त्रयस्त्रिंसच्च ये देवाः स्युस्तेऽध्यात्मादिभूमिगाः ।।
होतारस्तत्र तत्र स्युः कर्मज्ञानानुरोधतः ।। ८४ ।।
ऋत्विग्रूपेण ते ह्यासन्यथा प्राकृतकर्मणि ।।
होतारः परिणामेषु तथैवोत्तरभूमिषु ।। ८५ ।।
आहुत्योः परिणामोऽयमूर्ग्रसोऽपूर्वमित्यपि ।।
तस्य श्रद्धैकहेतुत्वाच्छ्रद्धा नामेति कीर्त्यते ।। ८६ ।।
तस्याश्चाप्याहुतेः सोमो राजा संभवतीति च ।।
तस्याभिवृद्धिः संभूतिर्न त्वभूतजनिर्यतः ।। ८७ ।।
द्यौरग्निः समिदादित्यः श्रद्धा तस्मिन्हि हूयते ।।
सूर्ये समिधि दीप्तायां श्रद्धां जुह्वति देवताः ।। ८८ ।।
श्रयतेः श्रद्दधातेर्वा श्रद्धेत्याहुर्विपाश्चितः ।। ८९ ।।
श्चयणाद्धारणाच्चाऽऽपः श्रद्धाह्वाः कारणात्मिकाः ।।
भूत्वाऽऽप इति लिङ्गाच्च आपः श्रद्धाभिधास्ततः ।। ९० ।।
आकृष्टं रश्मिभिस्तोयमादित्ये प्रतितिष्ठति ।।
तस्मादादित्यगः सोमः क्षीण आप्यायते पुनः ।। ९१ ।।
परिणामो ह्यपां सोमः शीतांशुस्तेन सोऽम्मयः ।।
श्रद्धाहुतेर्हि सोमस्य संभवः शास्र उच्यते ।। ९२ ।।
अङ्गाराश्चन्द्रमास्तस्मिन्हुतेऽग्नौ सोमसंभवः ।।
सोमचन्द्रमसोरेवं भेदः शास्त्रेण दर्शितः ।। ९३ ।।
चन्द्रमा मण्डलं स्वच्छं चन्द्रकेण मितो हि सः ।।
सोमस्तु मण्डले श्वेतो वर्धते ह्रसते च यः ।। ९४ ।।
चन्द्रमाः पर आदित्यादर्वाक्सोमः श्रुतेर्मतः ।।
आदित्याच्चन्द्रमित्याह नैते संवत्सरं तथा ।। ९५ ।।
सोमचन्दमसोस्तस्माद्भेदः समवगम्यते ।।
देशाभेदादभिन्नौ तावेष सोम इति श्रुतेः ।। ९६ ।।
भिन्नौ च धर्मभेदेन तस्मादुभयथा श्रुतिः ।।
पर्जन्योऽग्निरिति ज्ञेयः समित्संवत्सरः स्मृतः ।। ९७ ।।
संवत्सरे समिद्धे हि पर्जन्यस्य समेधनात् ।।
धूमोऽभ्राणीति सादृश्याद्विद्युदर्चिस्तथैव च ।। ९८ ।।
शान्तिवर्तुलतोऽङ्गाराः पर्जन्यशिखिनोऽशनिः ।।
विक्षिप्तत्वैकसामान्यात्स्फुलिङ्गाः स्तनयित्नवः ।। ९९ ।।
सोमं जुह्वति तत्राग्नौ देवाश्चात्रोदिताः पुरा ।।
वृष्टेश्च संभवस्तस्माल्लोकेऽस्मिन्साऽपि द्दूयते ।। १०० ।।
लोकोऽयमग्निर्विज्ञेयः पृथिवी समिदुच्यते ।।
पृथिव्या हि समिद्धोऽयं समित्तेन क्षितिर्मता ।। १०१ ।।
अग्निर्धूमस्तदुत्थानाद्रात्रिरर्चिस्तथैव च ।।
रात्रिमाहुः क्षितिच्छायामङ्गाराश्चन्द्रमास्तथा ।। १०२ ।।
शान्तत्ववर्तुलत्वाभ्यां विस्फुलिङ्गसमत्वतः ।।
नक्षत्राणि स्फुलिङ्गाः स्युस्तस्मिन्नित्यादि पूर्ववत् ।। १०३ ।।
अन्नस्य संभवस्तस्मात्पुमग्नौ तच्च हूयते ।।
पुरुषोऽग्निरिति ध्येयो व्यात्तं तस्य समित्स्मृता ।। १०४ ।।
व्यात्ते मुखे हि तद्दीप्तिर्धूमः प्राणो मुखोत्थितेः ।।
पुंदीप्तेर्वाङ्निमित्तत्वादर्चिर्वाक्तेन भण्यते ।। १०५ ।।
स्थितेरङ्गारवच्चक्षुरङ्गाराः श्रोत्रमेव च ।।
विस्फुलिङ्गा इति ज्ञेयं तस्य विक्षेपसंस्थितेः ।। १०६ ।।
अन्नं जुहति तत्राग्नौ संभवो रेतसस्ततः ।।
योषिदग्निरिति ज्ञेया उपस्थश्च समित्तथा ।। १०७ ।।
तदुपस्थेन संदीप्तेर्धूमो लोमानि साम्यतः ।।
अर्चिर्वर्णसमानत्वाद्योनिरर्चिर्भवेत्ततः ।। १०८ ।।
अन्तः करोति यत्कामी तेऽङ्गारास्तत्समानतः ।।
विस्फुलिङ्गः सुखलवाः क्षणिकत्वैकहेतुतः ।। १०९ ।।
रेतो जुह्वति तत्राग्नौ देवाश्चेन्द्रियरूपिणः ।।
पञ्चम्या आहुतेस्तस्याः पुरुषः संभवत्ययम् ।। ११० ।।
यथोक्तवर्त्मना ह्यापः प्राप्तः पुंस्परिणामताम् ।।
पाकजः परिणामोऽयमेवं पञ्चभिरग्निभिः ।। १११ ।।
तस्मादापः सूक्ष्मभावाः स्थूलतां यान्ति पाकतः ।।
अग्निभिः पञ्चभिः पक्वाः पुरुषाख्या भवन्ति हि ।। ११२ ।।
तस्मान्मृतं प्रियं बन्धुं हरन्त्यग्नय ऋत्विजः ।। ११३ ।।
यथैवाऽऽहवनीयाग्नेः प्रसिद्धं समिदादिकम् ।।
श्यशानाग्नेस्तथैवैतत्सर्वं ज्ञेयं न कल्प्यते ।। ११४ ।।
अन्त्यसंस्कारसिद्ध्यर्थं तस्मिन्नग्नौ यथोदिते ।।
ऋत्विजो जुह्वति नरमन्त्याहुत्यै विधानतः ।।
आहुतेर्जायते तस्याः पुमान्भास्वररूपभृत् ।। ११५ ।।
राजसं तामसं रूपमितो ह्यन्यत्र वक्ष्यते ।। ११६ ।।
इतोऽग्निभ्योऽग्निमेवायं स्वां योनिं प्रतिपत्स्यते ।।
इति लोके समाचारादग्निभ्यः संभवस्ततः ।। ११७ ।।
पञ्चम्यामाहुतावेवं पुनांम्नो जन्म कीर्तितम् ।।
गतिस्तस्याथ वक्तव्या उदग्दक्षिणभेदतः ।। ११८ ।।
ते य एतद्यथाजातं ज्ञानं पञ्चाग्निसंश्रयम् ।।
विदुरर्चिः समायान्ति बहूक्तेश्च द्विजातयः ।। ११९ ।।
उत्पत्तिसंस्थितिलया यथोक्ताग्न्येकहेतवः ।।
इत्थं ये विदुरर्चिस्ते संभवन्त्यात्मभाविताः ।। १२० ।।
इष्टापूर्तकृतो ये वै ग्रामस्थेभ्यश्च ये परे ।।
अरण्य इति गृह्यन्त इतरेषां पृथग्ग्रहात् ।। १२१ ।।
यज्ञदानतपांसीह गृहस्थ इव तापसे ।।
गृहस्थाचार्यवासाच्च न ग्रहो ब्रह्मचारिणाम् ।। १२२ ।।
नारण्यस्था न च ग्राम्या अपेक्षन्तेऽत्र विद्यया ।।
सामान्यवचसोपात्तेर्न विशेषपरिग्रहः ।। १२३ ।।
सश्रद्धस्यापि सत्यस्य यद्यप्यन्यत्र संभवः ।।
तथाऽपि यतयो ग्राह्य अरण्येन विशेषणात् ।। १२४ ।।
ते य एवं विदुरिति यदि वा गृहिणां ग्रहः ।।
अग्निसंबन्धतो न्याय्यो वनस्थस्यापि संभवात् ।। १२५ ।।
न चाग्निहोत्रशेषत्वमुक्तदृष्टेरिहेष्यते ।।
सामान्येन ग्रहात्तस्याः पञ्चाग्निरितिलिङ्गतः ।। १२६ ।।
त्रिलोकीसाधनत्यागान्नापि संन्यासिनो ग्रहः ।।
दैवी विद्या हि वित्तं स्याद्वित्ताच्च व्युत्थितिर्यतः ।। १२७ ।।
प्रजया किं करिष्याम आक्षेपो ब्रह्मवेदनात् ।। १२८ ।।
पञ्चाग्निज्ञानवद्भाव्या गतिरपत्र सर्वदा ।।
यतोऽतो गतिरप्युक्ता नान्यथा तदुदीरणम् ।। १२९ ।।
देवतोपासनस्येह प्रकृतत्वात्तथा गतेः ।।
अर्चिःशब्देन तेनेह देवतैवात्र गृह्यते ।। १३० ।।
अर्चिर्देवतयैकत्वं प्राप्याहर्देतैकताम् ।।
संभवन्तीति सर्वत्र संबन्धोऽत्रानुषज्यते ।। १३१ ।।
गृह्यते देवता नो चेदर्चिरादिगिरा तदा ।।
असंभवोऽन्यत्र मृतेरित्यपार्था गतिश्रुतिः ।। १३२ ।।
यत्तूदगयनापेक्षा भीष्मस्य श्रूयते स्मृतौ ।।
सत्यवादित्वसिद्ध्यर्थं शंतनोस्तदपीक्ष्यताम् ।। १३३ ।।
अन्यथा कृतनाशः स्यादकृताभ्यागमस्तथा ।।
देवताग्रहणात्तस्माद्देवतैवार्चिरुचते ।। १३४ ।।
तस्मादेवंविदो धीरा अर्चिराद्यभिमानिनीम् ।।
क्रमेण देवतां यात्वा वैरिञ्चं यान्ति तत्पदम् ।। १३५ ।।
श्रद्दधानास्तपस्यन्तः सत्यं ब्रह्म समाहिताः ।।
उपासते बहिर्ग्रामादर्चिस्ते संभवन्त्यतः ।। १३६ ।।
ब्रह्मणः स्थानमायान्ति यद्वा स्वाश्रमकर्मभिः ।।
संन्यासाद्ब्रह्मणः स्थानं तथाच स्मृतिशासनम् ।। १३७ ।।
ततोऽहर्देवतां यान्ति शुक्लपक्षं ततः क्रमात् ।।
षण्मासांश्च ततो यान्ति ह्युत्तरायणलक्षणान् ।। १३८ ।।
देवतां च ततो यान्ति देवलोकाभिमानिनीम् ।।
तत आदित्यमायान्ति वैद्युतं चापि भास्करात् ।। १३९ ।।
ब्रह्मणा मनसा सृष्टो मानसः पुरुषस्ततः ।।
ब्रह्मलोकान्स नयति सोऽप्यभ्येत्याथ वैद्युतान् ।। १४० ।।
ते तेषु ब्रह्मलोकेषु दीप्यमानाः पराः समाः ।।
ब्राह्ममानाः समा ग्राह्या ब्रह्मलोकेषु तच्छ्रुतेः ।। १४१ ।।
सार्ष्टिसालोक्यसायुज्यव्यपेक्षा बहुगीरियम् ।।
समष्टिव्यष्टिभेदं वा व्यपेक्ष्य बहुवागियम् ।। १४२ ।।
आवृत्तिर्न पुनस्तेषां यावदाभूतसंप्लवम् ।।
आभूतसंप्लवस्थानममृतत्वं हि भाष्यते ।। १४३ ।।
ऐकात्म्यधीसमुत्पत्तेर्थदि वा ब्रह्मलोकतः ।।
मुच्यन्ते न निवर्तन्ते यथा धूमादिमार्गगाः ।। १४४ ।।
इमं मानवमावर्तमित्याद्यस्य विशेषणात् ।।
अत्रैव कल्पेऽनावृत्तिर्न त्वन्येष्वनिवारणात् ।। १४५ ।।
देवयानः समासेन पन्था यत्नात्प्रपञ्चितः ।।
व्याख्याऽथ पितृयाणस्य सम्यगारभ्यतेऽधुना ।। १४६ ।।
देवादिज्ञानहीनेन येऽथ यज्ञेन सद्द्विजाः ।।
लोकाञ्जयन्ति दानेन सद्देशादिमता तथा ।। १४७ ।।
निःशेषकल्मषध्वंसितपसा वाऽविपश्चितः ।।
मृतास्ते धूममायान्ति धूमाद्रात्रिं तमस्विनः ।। १४८ ।।
रात्रेरपरपक्षं चदक्षिणायनदेवताम् ।।
मासेभ्यः पितृलोकं हि पितरो यत्र शेरते ।।
पितृलोकाच्च ते चन्द्रं यान्त्यन्नं तद्दिवौकसाम् ।। १४९ ।।
चन्द्रं प्राप्यान्नभावं च ते यतस्तत्र संस्थिताः ।।
असकृद्भक्षयन्त्येतानाप्याय्याऽऽप्याय्य सोमवत् ।। १५० ।।
पक्षे शुक्ले तमाप्याय्य कृष्णे तं भक्षन्त्यथ ।। १५१ ।।
भोगसाधनभावाश्च भक्षयन्तीति भण्यते ।।
न त्वभ्यवहृतिर्न्याय्या वेदवर्त्मनि तिष्ठिताम् ।। १५२ ।।
यदा तूपचितं कर्म पर्यवस्यति भोगतः ।।
तेषामथैतमध्वानमावर्तन्ते यथागतम् ।। १५३ ।।
आकाशमनुनिष्पद्य वायुमायान्त्यभोगिनः ।।
वायोर्वृष्टिमवाप्याथ वृष्टेश्च पृथिवीं ततः ।।
अन्नभावं पृथिव्याऽतस्ते समायान्ति भूमिगाः ।। १५४ ।।
घटीयन्त्रवदश्रान्ता एवमेव पुनः पुनः ।।
परिवर्तन्ति संसारे कर्मवायुसमीरिताः ।। १५५ ।।
दक्षिणस्य पथो व्याख्या यथावदनुवर्णिता ।। १५६ ।।
यथोक्तलक्षणौ ये तु पन्थानावुत्तरेतारौ ।।
न विदुस्ते भवन्तीह कीटाद्या दुःखभोगिनः ।। १५७ ।।
नाऽऽद्रियन्त इदं ज्ञानमुदङ्भार्गाप्तिसाधनम् ।।
कर्म वा पितृयाणाप्तौ ते कीटाद्यामियुर्गतिम् ।। १५८ ।।
गोमयाद्युद्भवाः कीटाः पतङ्गाः शलभास्त्था ।।
दंशाश्च मशकाश्चैव दन्दशूकाः सपन्नगाः ।। १५९ ।।
यतिथ्यामिति यः प्रश्नः स पुंजन्मोक्तितो गतः ।।
तदनन्तरमेवोक्ता व्यावृत्तिश्च पथोर्द्वयोः ।। १६० ।।
आकाशाद्यभिसंभूत्या पुनरावर्तनं गतम् ।।
देवयानं च यत्कृत्वा पितृयाणं च लभ्यते ।। १६१ ।।
साधनं तदपीहोक्तं ज्ञानकर्मस्वलक्षणम् ।।
लोकस्यापूरणे हेतुः समाप्तावुदितः स्फुटः ।। १६२ ।।
कीटादीनामगमनाद्गतानां चाऽऽगतेस्तथा ।।
एवं पञ्चापि निर्णीताः प्रश्ना ये प्राक्प्रचोदिताः ।। १६३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्