अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य द्वादशं ब्राह्मणम् ॥

गतिः फलं च वक्तव्यं पूर्वत्र तदनुक्तितः ।।
उपासनानां सर्वे­षा­मि­त्यर्थः पर आगमः ।। १ ।।

उत्क्रामति यदा विद्वा­ञ्श­री­रा­दा­युषः क्षयात् ।।
आश्वेव वायु दुर्भेद्यं स आगच्छति वेगवान् ।। २ ।।

प्राप्ताय लोकभोगार्थं वायुस्तस्मै विगच्छति ।।
कियच्छिद्रं मरु­द्द­द्या­द्र­थ­च­क्र­ख­मा­निगीः ।। ३ ।।

द्विका­ष्ठ­सं­त­ता­घा­त­मा­ड­म्ब­र­मि­हो­च्यते ।।
भेरीं च दुन्दुभिं विद्या­त्ते­नोर्ध्वं यात्युपासकः ।। ४ ।।

लोकं प्रजापतिं ब्रह्म प्रैत्यसौ भावनाबलात् ।।
अशोकमहिमं चेति दुःख­त­द्धे­तु­व­र्जि­तम् ।। ५ ।।

शाश्वतीश्च समा नित्या अस्मिल्लोँके वसत्यसौ ।।
पूर्व­त्रा­नु­क्त­का­र्या­णा­मु­पा­स्ती­ना­मिदं फलम् ।। ६ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य द्वादशं ब्राह्मणम्