अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य तृतीयं ब्राह्मणम् ॥

ब्रह्मानुपाधि पूर्वत्र व्याख्यातं यत्नतोऽधुना ।।
सोपाधिकस्य तस्यैव ह्युपा­स्ति­र्व­क्ष्यते स्फुटा ।। १ ।।

श्रुतः प्रजापतिः पूर्वं कोऽसाविति न गम्यते ।।
सामा­न्यो­क्ते­र्वि­शे­षा­र्थ­मेप इत्यादि भण्यते ।। २ ।।

हृद्निरा मांसपेश्युक्ता तात्स्थ्याद् बुद्धिस्तु लक्ष्यते ।।
हृदि नामादिसंहारं यत्र शाकल्य ऊचिवान् ।। ३ ।।

सर्व­भू­त­स­मु­त्प­त्ते­स्तथा सर्वेश्वरत्वतः ।।
प्रजापतिरिति ज्ञेयं हृदयं तेन हेतुना ।। ४ ।।

सर्वज्ञेयस्य तद्ब्या­प्ते­र्ब्र­ह्मापि हृदयं भवेत् ।।
यत एवमतो यत्नादुपास्यं हृदयं सदा ।।
हृद­या­ख्या­क्ष­राणां च श्रुत्यो­पा­स­न­मु­च्यते ।। ५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य तृतीयं ब्राह्मणम्