बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥
वित्तं विना न सिद्धिः स्याद्दृष्टादृष्टार्थकर्मणः ।।
यतोऽतः कर्म सन्थाख्यं तादर्थ्येनाभीधीयते ।। १ ।।
पितुर्लोक्यो यथा पुत्रः कर्मणेहोपजायते ।।
तादृक्पुत्रार्थिनः कर्म त्वेषामित्यादिनोच्यते ।। २ ।।
यः स्यात्कामग्रहग्रस्तो वित्तापत्योद्भवं प्रति ।।
तं प्रत्येवेति विज्ञेयं कर्मेदं न त्वकामिनम् ।। ३ ।।
प्राप्नुयां समुहद्वित्तमिति यः कामयेत ह ।।
इत्युक्त्याऽवाप्तावित्तस्य नेदं कर्मेति गम्यते ।। ४ ।।
महत्त्वमात्मनोऽत्यर्थं यो वा कामयते गृही ।।
महत्ता न विना वित्तं कर्मातो वित्तसिद्धये ।। ५ ।।
कालो विधीयते चास्य मन्थाख्यस्येह कर्मणः ।।
श्रुत्योदगयनाद्युक्त्या कर्मसिद्ध्यै प्रयत्नतः ।। ६ ।।
प्रार्थनीयः पुरा कालो विशुद्धिश्चाऽऽत्मनस्ततः ।।
द्रव्याण्योषधयश्चैव देशश्च तदनन्तरम् ।। ७ ।।
कालादीनां गुणानां च कर्मण्यस्मिन्समुच्चयः ।।
न विक्ल्पः समृद्धिः स्यात्कर्मणोऽस्य समुच्चितौ ।। ८ ।।
कर्मणश्चास्य निष्पत्तौ विद्वत्ताऽपि समश्रिता ।।
यतोऽतः सूत्रितं नेदं सूत्रकृद्भिर्यथोदितम् ।। ९ ।।
यो ह वै ज्येष्ठमित्युक्त्या विद्वत्ता या पुरोदिता ।।
तस्यां सत्यामिदं कर्म ज्येष्ठायेत्यादिलिङ्गतः ।। १० ।।
भूमिशय्या पयःपानं ब्रह्मचर्यं च वाग्यमः ।।
उपसद्व्रतमेत्स्यादमावास्येति लिङ्गतः ।। ११ ।।
अग्निमित्येकवचनात्तथैवोल्लेखनादितः ।।
न मुख्योपसदामत्र संभवोऽस्तीति गम्यते ।। १२ ।।
ताम्रं नौदुम्बरं ग्राह्यमिध्मैस्तस्य विरोधतः ।।
वानस्पत्यमतो ग्राह्यं कर्मण्यौदुम्बरं श्रुतौ ।। १३ ।।
ग्राम्याणि दश धान्यानि फलपुष्पाणि सर्वतः ।।
अप्रमादकाणीह भक्ष्यमेध्यानि यानि च ।। १४ ।।
दशेति नियमार्थं स्यान्न ततोऽन्यनिषेधने ।।
भूरिदोषोपदुष्टत्वात्परिसंख्याविधेरिति ।। १५ ।।
कंसाद्याकारसिद्ध्यर्थं कंसाद्युक्तिरिहोच्यते ।।
तण्डुलान्फलपुष्पाणि पष्ट्वा पात्रे निधापयेत् ।। १६ ।।
दध्ना च मधुना पिष्टं सम्यगालोड्य पात्रगम् ।।
स्थापयेत्कृतरक्षं सच्छुचौ देशे प्रयत्नतः ।। १७ ।।
परीत्यादिगिरा चात्र देशसंस्कार उच्यते ।।
संस्कृते भूप्रदेशेऽथ ह्यग्निं संस्थापयेद्गृही ।। १८ ।।
लेपनादि च कर्तव्यं कृतपूर्वेऽपि तद्विधेः ।।
इति कातीयवचनमदृष्टार्थत्वकारणात् ।। १९ ।।
पाकयज्ञविधानेन संस्कृत्याऽऽज्यं यथाविधि ।।
पुंसा हस्तादिनर्क्षेण मन्थमानीय सिद्धये ।। २० ।।
खजकेनैकधीकृ्त्य मन्थद्रव्यमतः परम् ।।
आवापस्थान आज्यस्य हुत्वा नित्याहुतीस्ततः ।। २१ ।।
यावन्त इत्युपक्रम्य मन्त्रैराज्यं यथाक्रमम् ।।
हुत्वा हुत्वा च मन्थेऽथ संस्रवं प्रक्षिपेन्मुहुः ।। २२ ।।
स्वाहाकारावसानाः स्युर्मन्त्राः सर्वे यथोदिताः ।। २३ ।।
मन्त्रद्वयेन ज्येष्ठादौ होमः कार्यो विजानता ।।
अग्न्यादावेकशः कार्यो यावन्मन्थावमर्शनम् ।। २४ ।।
अथ स्विष्टकृदन्तेऽस्मिन्होमानन्तरमेव तत् ।।
द्वितीयेन मथाऽऽलोड्य ह्यथाभिमृशति पाणिना ।। २५ ।।
भ्रमसीत्यादिना मन्थं स्मरंस्तद्देवतां हृदा ।।
भ्रमसि प्राणभूतस्त्वं न ह्येकत्रावतिष्ठमे ।। २६ ।।
ज्वलज्जाज्वल्यमानस्त्वं जठरस्थान्नपाककृत् ।।
पूर्णं च सर्वतोव्यापि सर्वत्रानवखण्डितम् ।। २७ ।।
प्रस्तब्धोऽसि स्थिरत्वाच्च वियद्वन्न विकम्पसे ।। २८ ।।
सर्वतोऽपरिपन्थित्वात्सर्वैश्चाप्यनुकूलतः ।।
त्वमेकशफमित्युक्तं शफैका या त्वदात्मिका ।। २९ ।।
उद्गात्रा हिंकृतं पूर्वं स्तोत्रमूद्गायता स्फुटम् ।।
यज्ञारम्भे तदा मध्ये गीयमानेऽथ सामनि ।। ३० ।।
अपि हिंक्रियमाणोऽसि तथोद्गीथे विनिर्दिशेत् ।।
श्रावितोऽध्वर्युणा च त्वमग्नीधा च तथोत्तरम् ।। ३१ ।।
आर्द्रे मेधोदरे विद्युत्संदीप्तोऽसीति कथ्यते ।।
विविधं त्वमेव भवसि यतोऽतो विभुरुच्यते ।। ३२ ।।
सोमो वृष्ट्यादिभावेन प्रभुः प्रभवसीत्यतः ।।
आदित्यः प्राणभावेन ह्यन्नभावेन सोमता ।। ३३ ।।
अन्नान्नादद्वयं सर्वं त्वमेव तदपि प्रभो ।।
निधनं कारणत्वात्त्वं कारणे कार्यसंलयः ।। ३४ ।।
वागग्न्याद्यात्मसंपातात्संवर्गोऽसीति भण्यते ।।
इति मन्त्रः समाप्तोऽयमभिमर्शनकर्मणि ।। ३५ ।।
अथैनं मन्त्रपूतं सदुद्यच्छति यथोदितम् ।।
आमंसीत्यादिमन्त्रेण तदर्थाविष्कृतिस्त्वियम् ।। ३६ ।।
आमंसीति भवेद्रूपं ज्ञानार्थस्यैव मन्यतेः ।।
लेट्याङ्पूर्वस्य संसिद्धं शब्लुकीत्यवधारणात् ।। ३७ ।।
आसमन्ताद्विजानासि सूक्ष्मादि जगति स्थितम् ।।
ज्ञेयं यावज्जगत्किंचिदामंसीति ततः सदा ।। ३८ ।।
यथाऽस्मांस्त्वं विजानासि तथैव त्वां वयं सदा ।।
मन्यामहे वरीयांसं गुणवद्भ्यो गुणाधिकम् ।। ३९ ।।
महि महत्त्वं जानीम आमोऽसि त्वं तथा प्रभो ।।
न त्वं पाकसमायोगात्फलवन्नाशमृच्छसि ।। ४० ।।
आमोऽपकं त्वयि गतं महत्त्वमपि भण्यते ।।
यस्माद्राजाऽस्य सर्वस्य मां च देवः स सर्वदा ।। ४१ ।।
राजानं च तथेशानं करोत्वधिपतिं च माम् ।।
उद्यम्यानेन मन्त्रेण भक्षयत्यथ भागशः ।। ४२ ।।
गायत्र्या मधुमत्या च व्याहृत्या चेति पादशः ।।
ग्रासमश्नाति मन्थस्य ह्युत्तरेषु तथैव च ।। ४३ ।।
सवितुस्तद्वरेण्यं स्याद्भर्गमन्नं महात्मनः ।।
ऋतायन्ते तथा वाता मधुवत्सुखकारिणः ।। ४४ ।।
अनुद्वेगकरा हृद्या ऋतायन्ते वहन्ति च ।।
अमृतं मधु नद्योऽपि मदर्थं सर्वदा शुभम् ।। ४५ ।।
तृप्ता मोदामहे येन क्षरन्तीति क्रियापदम् ।।
अत्यर्थं मधुररसाः सन्तु ह्योषधयश्च नः ।। ४६ ।।
त्रिकमुच्चार्य भूः स्वाहेत्याहुतिं प्रक्षिपेन्मुखे ।।
त्रिकं त्रिकं तथोच्चार्य ह्युत्तर्ष्वपि योजयेत् ।। ४७ ।।
देवस्य द्योतनवतो हृद्यं यच्चिन्तयेमहि ।।
मधु नक्तमथो रात्रिर्मधुरा दुःखहानिकृत् ।। ४८ ।।
उषसो दिवसस्यापि माधुर्यं नोऽस्तु सर्वदा ।।
पार्थिवं च रजो लोको ह्लादकृन्मधुमांस्तथा ।। ४९ ।।
द्युलोकः पितृलोकोऽथ पिता हि द्यौर्यतो मतः ।।
भुवः स्वाहेति मन्थस्य द्वितीयामाहुतिं क्षिपेत् ।। ५० ।।
धियः प्रचोदयेद्यो न उद्यन्प्रज्ञेन्द्रियाणि च ।।
प्रचोदयतु नो देवः श्रेयसे सर्वदाऽऽत्मनः ।। ५१ ।।
वनस्पतिस्तथा चन्द्रः सूर्यस्तु मधुरोऽस्तु नः ।।
गावो दीधितयः सन्तु मधुमत्यो दिशोऽथवा ।। ५२ ।।
स्वः स्वाहेत्याहुतिक्षेपः समस्तां व्याहरेत्ततः ।।
सावित्रीं मधुमतीश्चैव तिस्रोऽपि व्याहृतीस्तथा ।। ५३ ।।
चतुर्थीं प्रक्षिपेदेवमाहुतिं पूर्ववन्मुखे ।।
अहमेव जगत्सर्वं भूयासमिति निर्ब्रुवन् ।। ५४ ।।
स्मार्तमाचमनं त्वन्ते प्रायत्यार्थमिहोच्यते ।।
अग्नेः पश्चिमतोऽथान्ते प्राक्शिराः संविशेत्ततः ।। ५५ ।।
प्रत्यूषसि ततो भक्त्या ह्यादित्यमुपतिष्ठते ।।
वक्ष्यमाणेन मन्त्रेण ह्युपासीत रविं सदा ।। ५६ ।।
एकपुण्डरीकमिति प्रधानत्वं विवक्षितम् ।।
एकशब्देन नो संख्या यथैकः श्वेतवाहनः ।। ५७ ।।
दिशां यद्व्प्रधानस्त्वं मनुष्याणां तथा ह्यहम् ।।
भवेयं त्वत्प्रसादाद्भोः स्फीतः पुंभोगसाधनैः ।। ५८ ।।
यथेतमेत्याथाऽऽसीनः पश्चादग्नेः समाहितः ।।
तं हैतमिति यत्नेन वंशं जपति भक्तितः ।। ५९ ।।
तं हैतं मन्थं यत्नोक्तमुद्दालतनयः सुधीः ।।
उक्त्वाऽथ याज्ञवल्क्याय तं प्रोवाचाय विस्मितः ।। ६० ।।
मन्थं शुष्केऽपि यः स्थाणौ निषिञ्चेदुक्तसंस्कृतम् ।।
जायेरन्नेव तच्छाखाः प्ररोहेयुर्दलानि च ।। ६१ ।।
यादृगर्थोऽस्य वचस उत्तरेष्वपि तादृशः ।।
चतुरौदुम्बरोक्त्यर्थो व्याख्यातः पूर्वमेव तु ।।
सुखावबोधतश्चैव स्वयमेव प्रतीयताम् ।। ६२ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य तृतीयं ब्राह्मणम्