अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य सप्तदशं ब्राह्मणम् ॥

यथो­क्तो­पा­स­ना­भ्या­स­भा­वि­तस्य क्रियाकृतः ।।
उपस्थानं प्रव­क्त­व्य­मि­त्यर्थः पर आगमः ।। १ ।।

तुरीयं पदमादित्यो लोकद्वारं च येन सः ।।
संभाव्यते प्रसङ्गोऽत आदि­त्यो­प­स्थि­ते­रिह ।। २ ।।

हिरण्यं ज्योतिरमृतं मण्डलेन तदात्मना ।।
सत्यस्य परमार्थस्य द्वारमाच्छादितं रवेः ।। ३ ।।

त्वद्द­र्श­ना­र्थिने मह्यं पूष­न्द्वा­र­म­पा­वृणु ।।
जगत्पुष्णाति वृष्ट्याद्यैः पूषाऽऽ­दि­त्य­स्ततः स्मृतः ।। ४ ।।

सत्या अवितथा धर्मा यस्य मानव्यपाश्रयात् ।।
तस्मै मे सत्यधर्माय दृष्ट्यै द्वारमपावृणु ।। ५ ।।

हिम­घ­र्मा­म्बु­दा­नेन पुष्णातीदं यतो जगत् ।।
तस्मात्पूषा यतश्चैको गच्छत्येकर्षिता ततः ।। ६ ।।

संय­मा­त्स­र्व­या­म्यानां यमोऽसि परमेश्वरः ।।
स्वीर­णा­च्छी­त­तो­यादेः सूर्यस्तेनासि घर्मदः ।। ७ ।।

प्रजापतिः परं ब्रह्म कारणं तदपत्यतः ।।
प्राजापत्योऽसि तेन त्वं गीयसे विपुलश्रुतैः ।। ८ ।।

रश्मी­न­प­नु­दा­शे­षां­स्तेजः संयच्छं संहर ।।
कल्याणं ते यदत्यर्थं रूपं यच्च तवैव तत् ।। ९ ।।

योऽसावादित्यगो देवः सोऽह­म­स्मी­ति­बु­द्धिगः ।।
स्थानमात्राच्चा तौ भिन्नौ वस्तुतो नाऽऽवयोर्भिदा ।। ११ ।।

देवतामनिलं यातु वायुर्योऽयं शरीरगः ।।
शरीरं भस्मसाद्यातु मर्त्युत्वं ह्येतदाश्रितम् ।। १२ ।।

भस्मान्तमिति लिङ्गाच्च कर्मिणः स्यादुपस्थितिः ।।
न तु संन्यासिनो न्याय्या दाहासंभवहेतुतः ।। १३ ।।

वायुरित्यादिकं ग्राह्य­मु­प­ल­क्ष­ण­मेव तु ।।
शिष्टानां देवतांशानां यथास्वं प्रतिपत्तये ।। १४ ।।

अग्निं स्वात्म­म­नः­सं­स्था­म­धुना देवतां गृही ।।
प्रार्थ­य­त्यो­मिति गिरा मुमू­र्षु­स्त­त्प­री­प्सया ।। १५ ।।

सर्व­स्या­प्य­व­नादों स्यादवतेरों यतस्ततः ।।
ऋतु­र्म­नो­म­य­त्वाच्च सा हि संकल्परूपिणी ।। १६ ।।

ओं क्रतो इति संबोध्य स्मरेत्यत्र नियुज्यते ।।
प्रकृ­ष्ट­फ­ल­सं­प्राप्तेः स्मृति­मा­त्रै­क­हे­तुतः ।। १७ ।।

स्मर्तव्यं स्मर तेनाद्य मरणे प्रत्युपस्थिते ।।
आदरार्थं स्मरेत्यस्य पुनः पुनरुदीरणम् ।। १८ ।।

मुपथा नय नो वह्ने सुपथेति विशेषणात् ।।
उदङ्भार्गग्रहो न्याय्यः शिष्टानां पुनरागतेः ।। १९ ।।

राये कर्मफलायेति रयिः कर्मफलं यतः ।।
प्रज्ञानानि च सर्वाणि देव विद्वा­न्क्रि­या­स्तथा ।। २० ।।

कुटिलं च तथा पाप­म­स्म­त्तस्त्वं वियोजय ।।
वयं तु कृत­कृ­त्य­त्वा­द­स­क्ताश्च मुमूर्षवः ।। २१ ।।

नमउक्तिमतो भक्त्या तुभ्यं बहुतमां धिया ।।
अयुषोऽन्ते विधेमाद्य क्षम देव प्रसीद मे ।। २२ ।।

मस्क­री­न्द्र­प्र­णी­तस्य भवनामभृतो यतेः ।।
भाष्यस्य वार्ति­को­क्त्यै­व­म­ध्यायः सप्तमो गतः ।। २३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य सप्तदशं ब्राह्मणम्
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­भ­ग­व­त्पू­ज्य­पा­द­शिष्य श्रीसु­रे­श्व­रा­चा­र्य­वि­र­चिते बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमोऽध्यायः