बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥
समाप्तः सप्तमोऽध्यायः प्राप्तावसर उच्यते ।।
अष्टमः खिलकाण्डेऽस्मिन्पूर्वकाण्डेष्वनुक्तितः ।। १ ।।
गायत्र्याः प्राणभावोक्तिः कस्माद्धेतोः पुरोदिता ।।
न तु वागादिभावोऽस्यास्तत्र हेतुरिहोच्यते ।। २ ।।
ज्येष्ठः श्रेष्ठो यतः प्राणो न तु वागादयस्ततः ।।
प्राणात्मभाव एवोक्त आनन्तर्यार्थमेव तु ।। ३ ।।
उपास्त्यन्तरमेवैतत्फलवत्तु विवक्षितम् ।।
न तूक्तशेषतैतस्या भिन्नोपास्तित्वकारणात् ।। ४ ।।
मन्थकर्मणि ये मन्त्राः पञ्च ज्येष्ठादयः श्रुताः ।।
प्राणात्मवेदिनस्तेषां प्रयोगोऽत्रोपवर्ण्यते ।। ५ ।।
पृथग्वा फलनिर्देशाद्यो ह वा इति पञ्चधा ।।
प्राणविद्या पृथङ्मन्थान्मन्थस्तु महिमार्थिनः ।। ६ ।।
फलेऽन्यस्मिन्ननिर्दिष्टे वाक्यशेषगतं फलम् ।।
तस्मिन्सति हि सद्भावाद्वागादीनां न तं विना ।। ७ ।।
शास्रेणोक्ता शरीरेऽस्मिन्वृत्तिः प्राणस्य जीवनम् ।।
पूर्वमाविशति प्राणो देहं पश्चाच्च मुञ्चति ।। ८ ।।
ज्येष्ठः श्रेष्ठश्च सर्वेषां प्राणानामाश्रयो हि सः ।।
श्रेष्ठता वक्ष्यमाणेन ग्रन्थेनास्य विभाव्यते ।। ९ ।।
अस्मिल्लोँके परस्मिंश्च वागेव न विहन्यते ।।
देहान्तरस्थान्प्राणांश्च नियुङ्के सा ततोऽधिका ।। १० ।।
श्रुतान्मतात्तथोक्ताद्वा प्रमाणं दृष्टिरात्मनः ।।
चक्षुः प्रतिष्ठा ज्ञानानामात्मा तत्र प्रतिष्ठितः ।। ११ ।।
वाग्घि संपद्यते श्रोत्रादश्रुतं न हि भाषते ।।
स्ववृत्तेः परवृत्तेश्च संपच्छ्रोत्रे प्रतिष्ठिता ।। १२ ।।
मन आयतनं तत्र वागादीनां हि वृत्तयः ।।
स्थितास्तत्पूर्विकाश्चैव ध्यायतः साधनंं हि तत् ।। १३ ।।
उपस्थेन्द्रियं प्रजातिः स्यात्तस्य जन्मैकहेतुतः ।।
न हि रेतो विना जन्म प्राणिनोऽत्र समीक्ष्यते ।। १४ ।।
वृत्तीनां प्राणपूर्वत्वाद्व्यपदेशाच्च तत्कृतात् ।।
प्राणानां प्रथमः प्राणः स ह्यत्ताऽन्नं हि तस्य तत् ।। १५ ।।
ते प्राणाः स्वगुणेरुक्तैर्वसिष्ठत्वादिलक्षणैः ।।
श्रेयानस्म्यहमेवेति विवदन्तः परस्परम् ।। १६ ।।
निर्णयार्थाय ते ब्रह्म जग्मुरिन्द्रं प्रजापतिम् ।।
को नो वसिष्ठ इति तं पप्रच्छुर्निर्णयार्थिनः ।। १७ ।।
यस्मिन्व इति वाक्येन वसिष्ठत्वस्य लक्षणम् ।।
प्राणेभ्यः प्राब्रवीद्ब्रह्म पक्षपातभयात्किल ।। १८ ।।
जानन्नपि वसिष्ठादिगुणवत्त्वं यथार्थतः ।।
तथाऽपि नावदद्ब्रह्म स्वानुभूत्यवबुद्धये ।। १९ ।।
उत्क्रान्तेऽन्यतमे यस्मिन्प्रत्येकमपसर्पणे ।।
पापीयो मन्यते लोको वसिष्ठो वः समीक्ष्यताम् ।। २० ।।
अन्वयव्यतिरेकाभ्यां वसिष्ठत्वावबुद्धये ।।
उपास्यार्थपरीक्षायै प्रवृत्तैषा परा श्रुतिः ।। २१ ।।
संहतानां क्रियासिद्धेः करणानां पृथक्पृथक् ।।
नैकैकस्य क्रियासिद्धिः शिबिकोद्वाहवत्ततः ।। २२ ।।
प्राणप्राधान्यसिद्ध्यार्थं श्रुत्याऽऽख्यायिकच्छद्मना ।।
अन्वयव्यतिरेकाभ्यां न्यायो लौकिक उच्यते ।। २३ ।।
यथा मूका विना वाचा यथाऽन्धाश्चक्षुषा विना ।।
इत्यादिवचसा प्राणे सति जीवनमुच्यते ।। २४ ।।
उत्क्रान्तौ च प्रवेशे च ह्यलं दहः स्वकर्मणे ।।
वागादीनां न पातोऽस्य नापि चोत्थानमीक्ष्यते ।। २५ ।।
उत्क्रान्ते प्राण एवास्माच्छरीरं पतति ध्रुवम् ।।
उत्तिष्ठति प्रविष्टे च प्राणः श्रेयांस्ततोऽन्यतः ।। २६ ।।
मामृते जीवितुं यूयं यद्यशक्ताः स्थ सर्वदा ।।
प्रधानं तर्हि मां वित्त भवन्तश्चापराधिनः ।। २७ ।।
करं बलिं प्रधानाय दत्त वागादयोऽचिरात् ।।
इत्युक्तास्ते तथेत्यूचुः सर्वस्वं ददते प्रभोः ।। २८ ।।
त्वद्वसिष्ठतयैवाहं वाग्वसिष्ठेत्युदाहरत् ।।
इत्युक्त्वाऽन्येऽपि सर्वस्वं ददुर्वागादयः सुराः ।। २९ ।।
किमन्नं मे बुभुक्षोः स्याद्वासो वा मे किमीर्यताम् ।।
इति प्राणवचः श्रुत्वा प्रत्यूचुः करणानि तम् ।। ३० ।।
आ श्वभ्यो यदिदं किंचिदा कृमिभ्यश्च लक्ष्यते ।।
अन्नं तद्भवतः सर्वं वयं त्वच्छेषभोगिनः ।। ३१ ।।
जीवः प्राणोऽत्र संसारी भोक्तेन्द्रियमनःपरः ।।
प्राणो ह्येतानि सर्वाणि भवतीति च लिङ्गतः ।। ३२ ।।
तन्मया हीतरे प्राणास्तन्मूलास्तन्निबन्धनाः ।। ३३ ।।
एवंंविदे हि नानन्नं किंचिदस्तीति दर्शनात् ।।
फलं स्यात्प्राणसायुज्यं सर्वं तस्य हि भोजनम् ।। ३४ ।।
भवत्यत्ता स सर्वस्य नान्नं भवति कस्यचित् ।।
केवलेऽवस्थितेऽत्तृत्वे मृत्युनाऽपि न गीर्यते ।। ३५ ।।
अद्भिः परिदधत्येनमशिष्यन्त इति श्रुतेः ।।
विदधाति ह्यपां पानमपूर्वं शास्रलक्षणम् ।। ३६ ।।
शास्रं मुख्यार्थमेव स्याद्विध्यर्थं यदि कल्प्यते ।।
युक्तः फलानुषङ्गोऽस्य वासोलाभो विधिर्यदि ।। ३७ ।।
एके च शाखिनो व्यक्तं विधिरूपमधीयते ।।
मन्त्रेण प्राशनं चापामेकेषां शाखिनां मतम् ।। ३८ ।।
अन्नदर्शनवच्चैके वासोदृष्टिं प्रचक्षते ।।
प्रायत्यार्थमपां पाने दृष्टेः प्रकरणादिह ।।
सर्वाभक्ष्यप्रसक्तिः स्याद्यदि कर्म विधित्स्यते ।। ३९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य प्रथमं ब्राह्मणम्