अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य अष्टमं ब्राह्मणम् ॥

मनोमयोऽयमिति च तस्यैव ब्रह्मणोऽपरम् ।।
स्वान्तो­पा­धि­वि­शि­ष्टस्य ह्युपा­स­न­म­थो­च्यते ।। १ ।।

मनो­भि­मा­न­तोऽ­ज्ञा­ना­त्पु­रु­षोऽयं मनोमयः ।।
यदि वा मनसि व्यक्तेर्मनसा वोपलभ्यते ।। २ ।।

भाः प्रकाशोऽमलं ज्योतिः सा सत्थमविनाशतः ।।
तस्मि­न्नि­त्या­दि­व­चनं पूर्वो­क्त­स्था­न­सि­द्धये ।। ३ ।।

बुद्ध्यु­पा­धि­व्य­व­च्छे­दा­द्व्री­ह्या­दि­प­रि­मा­णता ।।
स्वतोऽनन्तत्वतो माना­त्स­र्वे­शा­ना­दि­रू­पता ।। ४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्च­मा­ध्या­य­स्य­स्या­ष्टमं ब्राह्मणम्