अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य षोडशं ब्राह्मणम् ॥

हृदयं सत्य­मि­त्या­दि­हू­पा­धि­स­मा­श्र­यम् ।।
उपा­स­न­म­ति­क्रान्तं ब्रह्मणः फलवद्बहु ।। १ ।।

सर्वो­पा­ध्यु­प­सं­हा­रि­गा­य­त्र्यु­पा­धिकं प्रभोः ।।
अधुनोपासनं वाच्यमित्यर्थः पर आगमः ।। २ ।।

उदा­र­फ­ल­सं­प्रा­प्ता­वै­श्वर्यं तत्र तत्र हि ।।
श्रुतं श्रुतौ हि गाय­त्र्या­स्त­दु­पा­स्ति­र्वरा ततः ।। ३ ।।

उदारफलसंबन्धो ब्राह्मणस्यैव नान्यतः ।।
ब्राह्मणस्य च गायत्री कारणं तेन सा वरा ।। ४ ।।

भूमि­रि­त्या­दि­वा­क्येन त्रिलो­क्य­ष्टा­क्ष­रो­च्यते ।।
अष्टाक्षरं पदं सिद्धं गायत्र्याः प्रथमं च यत् ।। ५ ।।

अष्टा­क्ष­र­त्व­सा­मा­न्या­द्गा­यत्र्याः प्रथमं पदम्।।
तच्चेदं चैकतामेति संख्या­सा­मा­न्य­हे­तुतः ।। ६ ।।

त्रैलो­क्या­भि­हि­ति­रि­य­म­ष्टा­क्ष­र­स­म­त्वतः ।।
गाय­त्र्या­द्य­पा­द­स­मतो विरा­जाऽऽ­त्मै­क्य­म­श्नुते ।। ७ ।।

एवं पदं त्रयो लोका अभिधानाभिसंगतेः ।।
अत्य­न्त­म­भि­धे­यस्य विराजैक्यं प्रपद्यते ।। ८ ।।

उक्ता­भि­धा­न­द्वा­रेण संपन्नो यस्रिलोकताम् ।।
यथो­क्तो­पा­स­ना­भ्या­सा­द्वि­रा­डेव भवेदसौ ।। ९ ।।

त्रिषु लोकेषु याव­त्स्या­त्पुं­भो­गा­येह साधनम् ।।
तावत्सर्वं जयत्याशु प्रथमोपास्तितः फलम् ।। १० ।।

रूपराशिरशेषेण भूम्या­द्यु­क्त्यो­प­सं­हृतः ।।
ऋच इत्यादिना ज्ञेया नाम­रा­श्यु­प­सं­हृतिः ।। ११ ।।

अभि­धे­या­भि­धा­ना­ख्य­राशी नित्यौ व्यवस्थितौ ।।
पर­स्प­रा­भि­सं­बन्धौ गाय­त्री­व­र्त्म­नो­दितौ ।। १२ ।।

ऋगादेरभिधानस्य यावती व्याप्तिरिष्यते ।।
ताव­त्स­र्व­म­वा­प्नोति यथो­क्तो­पा­स­ना­न्नरः ।। १३ ।।

व्याख्या तुल्यैव पूर्वेण वाक्ये­नो­त्त­र­वा­क्ययोः ।।
अक्षराणामिह ज्ञेया नातो व्याख्यायते पुनः ।। १४ ।।

कर्म­रा­शि­र­थे­दानीं प्राण इत्यादिनोच्यते ।।
विधृतिः पूर्वयोः प्राणो मधुकाण्डे यथोदितः ।। १५ ।।

प्राणात्मानं यथोक्तेन पादेनाऽऽपाद्य यत्नतः ।।
प्राणात्मैव भवत्याशु सदा तद्भावभावितः ।। १६ ।।

अभि­धे­यो­प­सं­हा­र­स्रि­लो­की­व­च­सो­दितः ।।
ऋच इत्यादिना तद्व­द­भि­धा­नो­प­सं­हृतिः ।। १७ ।।

कर्म­णोऽ­प्यु­प­सं­हारः प्राण इत्यादिना तथा ।।
एतावद्वस्तु जगति गाय­त्री­पा­द­सं­श्र­यम् ।। १८ ।।

अभिधेयस्य गायत्री यस्येयं त्रिपदा मता ।।
तस्या­भि­धि­त्स­ये­दानीं प्रार­ब्धै­षो­त्तरा श्रुतिः ।। १९ ।।

व्याचष्टे स्वयमेवार्थं तुर्या­दि­प­द­सं­हतेः ।।
यद्वै चतु­र्थ­मि­त्या­दि­व­चसा यत्नतः श्रुतिः ।। २० ।।

रागो रज इति ज्ञेयः प्रवृत्तेः कारणं तु यत् ।।
रञ्जनं काम आसङ्गः सर्वा­न­र्थ­कृ­दा­त्मनः ।। २१ ।।

तं क्रिमित्वोपरि स्थित्वा तपतीति क्रियापदम् ।।
भूतानि वा रजोवाचा भण्य­न्तेऽ­त्रा­खि­लानि तु ।। २२ ।।

उपर्युपरि तान्येष तप­त्यु­ल्ब­ण­र­श्मि­वान् ।।
श्रीयशोभ्यां यथैवायं तपत्येवमुपासकः ।। २३ ।।

गुणैः सर्वानतिक्रम्य स्थित्वोपरि श्रिया ज्वलन् ।।
यशसा च सुदीप्तेन विद्वांस्तपति विद्विषः ।। २४ ।।

कामितार्थस्य लब्ध­त्वा­त्स­र्व­ग्र­ह­ण­मा­त्रतः ।।
उपर्युपरीति वीप्सा किमर्थमिति भण्यते ।। २५ ।।

नैव दोषो यतो येषां सूर्यः स्यादुपरि स्थितः ।।
लोकानां सर्वशब्देन तेषामेव ग्रहो भवेत् ।। २६ ।।

पराञ्चो ये रवे­र्लो­का­स्ते­षा­मपि परिग्रहः ।।
कथं नु नाम सिद्धः स्यादतो वीप्सा प्रयुज्यते ।। २७ ।।

व्याख्याता या पुरा यत्नाद्गायत्री जगदात्मिका ।।
मूर्तामूर्तरसे भानौ त्रिपादेषा प्रतिष्ठिता ।। २८ ।।

तदपीदं पदं तुर्यं सत्येऽध्यात्मे प्रतिष्ठितम् ।।
अक्ष्णि प्रकाशरूपे हि सर्वं रूपं प्रतिष्ठितम् ।। २९ ।।

किं पुन­स्त­त्स­त्य­मिति सत्यं चक्षुरितीर्यते ।।
चक्षुषः सत्यता कस्मादिति चेदुच्यते तथा ।। ३० ।।

तस्मा­दि­त्या­दि­वा­क्येन सत्यताऽक्ष्णो विभाव्यते ।।
दृष्टं मृषाऽपि श्रवणं न तु दृष्टि­र्मृ­षे­क्ष्यते ।।
तस्या विशे­ष­नि­ष्ठ­त्वा­न्मृ­षात्वं नोपपद्यते ।। ३१ ।।

एवं तुरी­य­मे­त­स्मि­न्सत्ये चक्षुषि सर्वदा ।।
प्रकाशैकस्वभावे हि साक्षादेव प्रतिष्ठितम् ।। ३२ ।।

अक्ष्णि प्रका­श­रू­पेऽ­स्मि­न्सर्वं रूपं प्रतिष्ठितम् ।।
बले प्राणे प्रतिष्ठा च चक्षुषोऽपि प्रदर्श्यते ।। ३३ ।।

इन्द्राग्नी ताविमौ सिद्धा­व­ग्नि­स्तत्र प्रकाशकः ।।
इन्द्रो विधरणः प्राणः पूर्व­यो­र्ना­म­रू­पयोः ।। ३४ ।।

यावान्प्रकाशो जगति स सर्वोऽ­ग्नि­रि­हो­च्यते ।।
परिस्पन्दश्च सर्वत्र प्राण इन्द्र­स्त­थो­च्यते ।। ३५ ।।

त्रिलोकी च त्रिवेदी च प्राणादित्रयमेव च ।।
प्रति­ष्ठि­त­मि­हा­ध्यात्म एवमुक्तेन वर्त्मना ।। ३६ ।।

प्राणादित्यौ हि गाय­त्री­स­क्ता­वु­क्तेन वर्त्मना ।।
संजीवनं तदन्येषां प्राणानां भवतीश्वरात् ।। ३७ ।।

सा हैषेति श्रुतिरतो यथो­क्ता­र्थ­व­बु­द्धये ।।
प्राणा­न्ग­या­न्य­त­स्तत्रे गायत्रीयमतो मता ।। ३८ ।।

उपनीतौ स आचार्यः पच्छ­श्चा­र्ध­र्च­श­स्तथा ।।
सावित्रीं याममूं प्राह बटवे मन्त्रलक्षणाम् ।। ३९ ।।

साऽप्येषैव च विज्ञेया व्याख्याता या प्रयत्नतः ।।
यस्मै प्राह स आचार्यस्तस्य प्राणानवत्यसौ ।। ४० ।।

एवंवित्सन्स आचार्यो यस्मा अन्वाह सादरः ।।
त्रायते तस्य गायत्री वटोः प्राणान्न संशयः ।। ४१ ।।

माण­व­क­स्यो­प­न­य­न­स­मये वेदवादिनाम् ।।
छन्दः प्रति विवादोऽयं तन्निर्णीतौ परा श्रुतिः ।। ४२ ।।

तां हैतामिति वाक्येन सावित्रीं प्रतिदर्श्यताम् ।।
अनुष्टुप्छन्दसं ब्रूया­त्पू­र्व­प­क्ष­प्र­सि­द्धये ।। ४३ ।।

तामेतामेक आचार्या उपनीताय यत्नतः ।।
अनुष्टुप्छन्दसं प्राहुः सावित्रीं न्यायसंश्रयात् ।। ४४ ।।

वागनुष्टुब्यतः साक्षाद्वाक्च साक्षात्सरस्वती ।।
उपनीताय सैवातो वक्तव्या न ततोऽपरा ।। ४५ ।।

यथै­त­दु­क्त­मा­चार्यैः कुर्या­द्वि­द्वान्न तत्तथा ।।
गायत्रीमेव सावित्रीं ब्रूया­त्स­र्व­फ­ला­प्तितः ।। ४६ ।।

यथोक्तायां हि गायत्र्यां कृत्स्रं जगदुपाहितम् ।।
तदुक्तौ सर्वमुक्तं स्याद्य­त्पु­म­र्थाय साधनम् ।। ४७ ।।

विज्ञा­न­पु­रु­ष­स्येदं स्वभावादेव सर्वदा ।।
आत्मैव हि जगत्कृत्स्नं साधारणविशेषवत् ।। ४८ ।।

साधारणानि वस्तूनि तथाऽ­सा­धा­र­णा­न्यपि ।।
नानुपादाय कृस्नानि जन्तोः काचि­त्क्रि­ये­ष्यते ।। ४९ ।।

अभिव्यक्तेः पुराऽ­प्ये­त­द्रू­प­मा­सी­त्स्व­भा­वतः ।।
अभिव्यक्तौ तु तत्सा­क्षा­त्स­मा­ष्टि­व्य­ष्टि­ल­क्ष­णम् ।। ५० ।।

एवं सिद्धे महि­म्न्य­स्मि­न्य­थो­क्ते­नैव वर्त्मना ।।
कनीयस्ता विवृद्धिर्वा नैव संभाव्यते मितेः ।। ५१ ।।

ऊरी­कृ­त्ये­म­मे­वार्थं स य इत्यादिनोच्यते ।।
महा­प्र­ति­ग्र­हे­णापि नैवं­वि­द्दो­ष­मृ­च्छति ।। ५२ ।।

दर्शनस्य स्तुतिरियं स य इत्यादिनोच्यते ।।
तादृ­क्प्र­ति­ग्र­ह­स्येह न क्वचित्संभवो यतः ।। ५३ ।।

प्रतिग्रहस्य निन्दा वा विद्व­न्मा­ना­त्प्र­स­क्तितः ।।
निःशे­ष­पु­ण्य­मो­षि­त्वा­न्नि­षे­धा­र्थाय कुत्स्यते ।। ५४ ।।

उक्तपादेष्वपि ज्ञानं नैवालमपबाधितुम् ।।
गायत्रीवेदिनो जन्तोरपि भूया­न्प्र­ति­ग्रहः ।। ५५ ।।

नैवं दाता जगत्यस्मिन्न च तादृ­क्प्र­ति­ग्रहः ।।
ग्रहीता वेह नैवेति कुत इत्यादिनोच्यते ।। ५६ ।।

अप्यभ्युपगमे चैषां नैव दोषस्य संभवः ।।
विदुषोऽसतीत्यतः प्राह स य इत्यादिना श्रुतिः ।। ५७ ।।

स यः कश्चि­दि­मा­ल्लोँ­का­न्पू­र्णा­न्पुं­भो­ग­सा­धनैः ।।
विद्वा­न्सं­प्र­ति­गृ­ह्णी­या­त्क­थ­चि­त्का­मं­प्लुतेः ।। ५८ ।।

आद्य­पा­द­प­रि­ज्ञा­न­मा­त्र­स्यैव प्रतिग्रहः ।।
क्षयायालं न शेषस्य गायत्रीदर्शनस्य सः ।। ५९ ।।

यावतीयं त्रयी विद्या तावन्तमपि गृह्णतः ।।
द्विती­य­प­द­वि­ज्ञा­न­क्ष­ति­रेव न सर्वतः ।। ६० ।।

असंभवेऽपि कल्प्येत यदि तादृ­क्प्र­ति­ग्रहः ।।
त्रैविद्यलक्षणः सोऽपि तृतीयं नाऽऽप्नु­या­त्प­दम् ।। ६१ ।।

अन्त­र­ण्ड­वि­भ­क्तस्य यथोक्तैः स्यात्प्र­ति­ग्रहैः ।।
क्षयो नानन्तरूपस्य स्यात्स­म­ष्टि­व­पु­र्भृतः ।। ६२ ।।

परिच्छिन्नेन सर्वत्र प्रतिमानं जगत्यपि ।।
अन्तवद्विषयं दृष्टं न त्वनन्तस्य कुत्रचित् ।। ६३ ।।

अयं चान­न्त­मा­त्मा­न­म­क्षि­सू­र्य­व्य­व­स्थि­तम् ।।
अगा­दु­पा­सा­ना­त्प्रा­ण­मा­त्म­त्वेन दिवानिशम् ।। ६४ ।।

संभाव्यते क्षयस्तस्य न कुतश्चिदनन्ततः ।।
अन्तवान्क्षीयते लोके न त्वनन्तः कुतश्चन ।। ६५ ।।

आवृत्तिः क्षयशब्देन दुःखप्रायासु भूमिषु ।।
कैव­ल्या­व­सि­ते­र्नासौ स्यात्स­म­ष्टि­व­पु­र्भृतः ।। ६६ ।।

उपस्थानं यथोक्ताया गायत्र्याः श्रद्धयाऽन्वितः ।।
गाय­त्र्य­सी­ति­म­न्त्रेण कुर्या­दु­क्ता­र्थ­वि­त्सदा ।। ६७ ।।

एक­द्वि­त्रि­प­द्य­सीति पूर्वा­न्पा­दा­न्वि­चि­न्त­येत् ।।
चतुष्पात्त्वं च तुर्येण यथोक्तेन विचिन्तयेत् ।। ६८ ।।

अपदसीत्यपि गिरा तस्या आनन्त्यमुच्यते ।।
अव्यया चाक्षयाऽसीति न ह्यन्त­स्तेऽ­धि­ग­म्यते ।। ६९ ।।

नमस्तेऽस्तु तुरी­या­ये­त्युक्त्या तुर्यप्रधानताम् ।।
गुणभावं यथोक्तस्य विद्या­त्पा­द­त्र­यस्य तु ।। ७० ।।

शत्रु­ना­म­गृ­ही­त्य­र्थ­म­सा­वि­ति­पदं त्विह ।।
फलोक्तिरद इत्ये­त­दु­पा­सि­तु­रहं तथा ।। ७१ ।।

शत्रुणा कामितो योऽर्थो मा प्रापत्तमसाविति ।।
मा समृद्ध्यथवा सोऽस्मै तं वाऽहं प्राप्नुयामिति ।। ७२ ।।

अभि­चा­रा­र्थ­मे­त­स्मि­न्नु­प­स्थाने यथोदिने ।।
अभि­धा­नै­क­दे­शोक्त्या विक्ल्पः फलगोचरः ।। ७३ ।।

स्वार्थे त्वहमद इति ह्युपस्थानै फलं भवेत् ।।
अदः प्रयोजनं देवि प्राप्नुयां त्वत्प्रसादतः ।। ७४ ।।

एतावदेव किं ज्ञेयं किंवाऽन्यदपि शिष्यते ।।
अस्त्यन्यदपि विज्ञेयं तद्वि­नाऽ­कृ­त्स्नता यतः ।। ७५ ।।

कार्त्स्न्येन विद्या स्वभ्यस्ता फलायालमुपासितुः ।।
विप­र्य­ये­णा­न­र्थाय तदे­त­त्प्र­ति­पा­द्यते ।। ७६ ।।

सर्वा­त्म­क­त्वा­द्गा­यत्र्या अग्नेरपि परिग्रहः ।।
तन्मु­ख­त्वे­ना­सं­सि­द्धे­स्ता­द­र्थ्ये­नो­त्तरा श्रुतिः ।। ७७ ।।

मुख­वि­ज्ञा­न­वि­र­हा­द­न­र्थ­फ­ल­की­र्त­नम् ।।
अग्निरेव मुखं तस्या इत्युक्त्या कृत्स्नतोच्यते ।। ७८ ।।

गाय­त्री­द­र्श­न­स्येह फलकार्त्स्न्यं तथैव च ।।
यथो­क्ता­ग्नि­मु­ख­ज्ञा­ना­द्य­दी­त्या­दि­गि­राऽ­धुना ।। ७९ ।।

यो वेदा­ग्नि­मु­खा­मेतां गायत्रीमग्निरेव सः ।।
अग्नि­रि­न्ध­न­व­त्सर्वं दहे­द्वि­द्वा­न्प्र­ति­ग्र­हम् ।। ८० ।।

दाहकस्य न बह्वस्ति दाह्य­यो­गा­भि­वृ­द्धितः ।।
क्षय­श्चा­शे­ष­दा­ह्यस्य यस्मा­त्त­स्मा­दि­वे­तिगीः ।। ८१ ।।

एवंविदेवमेव स्यात्पापं वह्निवदिन्धनम् ।।
सर्वं संभक्ष्य तत्पापं शुद्धः पापवियोगतः ।। ८२ ।।

पूतोऽ­सं­स­र्गि­ध­र्म­त्वा­द­ज­रोऽ­प­रि­णा­म­वान् ।।
अमृ­तोऽ­स्थू­ल­दे­ह­त्वा­त्प्रा­ण­मा­त्र­स्व­भा­वतः ।। ८३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य षोडशं ब्राह्मणम्