बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ पञ्चमाध्यायस्य षोडशं ब्राह्मणम् ॥
हृदयं सत्यमित्यादिहूपाधिसमाश्रयम् ।।
उपासनमतिक्रान्तं ब्रह्मणः फलवद्बहु ।। १ ।।
सर्वोपाध्युपसंहारिगायत्र्युपाधिकं प्रभोः ।।
अधुनोपासनं वाच्यमित्यर्थः पर आगमः ।। २ ।।
उदारफलसंप्राप्तावैश्वर्यं तत्र तत्र हि ।।
श्रुतं श्रुतौ हि गायत्र्यास्तदुपास्तिर्वरा ततः ।। ३ ।।
उदारफलसंबन्धो ब्राह्मणस्यैव नान्यतः ।।
ब्राह्मणस्य च गायत्री कारणं तेन सा वरा ।। ४ ।।
भूमिरित्यादिवाक्येन त्रिलोक्यष्टाक्षरोच्यते ।।
अष्टाक्षरं पदं सिद्धं गायत्र्याः प्रथमं च यत् ।। ५ ।।
अष्टाक्षरत्वसामान्याद्गायत्र्याः प्रथमं पदम्।।
तच्चेदं चैकतामेति संख्यासामान्यहेतुतः ।। ६ ।।
त्रैलोक्याभिहितिरियमष्टाक्षरसमत्वतः ।।
गायत्र्याद्यपादसमतो विराजाऽऽत्मैक्यमश्नुते ।। ७ ।।
एवं पदं त्रयो लोका अभिधानाभिसंगतेः ।।
अत्यन्तमभिधेयस्य विराजैक्यं प्रपद्यते ।। ८ ।।
उक्ताभिधानद्वारेण संपन्नो यस्रिलोकताम् ।।
यथोक्तोपासनाभ्यासाद्विराडेव भवेदसौ ।। ९ ।।
त्रिषु लोकेषु यावत्स्यात्पुंभोगायेह साधनम् ।।
तावत्सर्वं जयत्याशु प्रथमोपास्तितः फलम् ।। १० ।।
रूपराशिरशेषेण भूम्याद्युक्त्योपसंहृतः ।।
ऋच इत्यादिना ज्ञेया नामराश्युपसंहृतिः ।। ११ ।।
अभिधेयाभिधानाख्यराशी नित्यौ व्यवस्थितौ ।।
परस्पराभिसंबन्धौ गायत्रीवर्त्मनोदितौ ।। १२ ।।
ऋगादेरभिधानस्य यावती व्याप्तिरिष्यते ।।
तावत्सर्वमवाप्नोति यथोक्तोपासनान्नरः ।। १३ ।।
व्याख्या तुल्यैव पूर्वेण वाक्येनोत्तरवाक्ययोः ।।
अक्षराणामिह ज्ञेया नातो व्याख्यायते पुनः ।। १४ ।।
कर्मराशिरथेदानीं प्राण इत्यादिनोच्यते ।।
विधृतिः पूर्वयोः प्राणो मधुकाण्डे यथोदितः ।। १५ ।।
प्राणात्मानं यथोक्तेन पादेनाऽऽपाद्य यत्नतः ।।
प्राणात्मैव भवत्याशु सदा तद्भावभावितः ।। १६ ।।
अभिधेयोपसंहारस्रिलोकीवचसोदितः ।।
ऋच इत्यादिना तद्वदभिधानोपसंहृतिः ।। १७ ।।
कर्मणोऽप्युपसंहारः प्राण इत्यादिना तथा ।।
एतावद्वस्तु जगति गायत्रीपादसंश्रयम् ।। १८ ।।
अभिधेयस्य गायत्री यस्येयं त्रिपदा मता ।।
तस्याभिधित्सयेदानीं प्रारब्धैषोत्तरा श्रुतिः ।। १९ ।।
व्याचष्टे स्वयमेवार्थं तुर्यादिपदसंहतेः ।।
यद्वै चतुर्थमित्यादिवचसा यत्नतः श्रुतिः ।। २० ।।
रागो रज इति ज्ञेयः प्रवृत्तेः कारणं तु यत् ।।
रञ्जनं काम आसङ्गः सर्वानर्थकृदात्मनः ।। २१ ।।
तं क्रिमित्वोपरि स्थित्वा तपतीति क्रियापदम् ।।
भूतानि वा रजोवाचा भण्यन्तेऽत्राखिलानि तु ।। २२ ।।
उपर्युपरि तान्येष तपत्युल्बणरश्मिवान् ।।
श्रीयशोभ्यां यथैवायं तपत्येवमुपासकः ।। २३ ।।
गुणैः सर्वानतिक्रम्य स्थित्वोपरि श्रिया ज्वलन् ।।
यशसा च सुदीप्तेन विद्वांस्तपति विद्विषः ।। २४ ।।
कामितार्थस्य लब्धत्वात्सर्वग्रहणमात्रतः ।।
उपर्युपरीति वीप्सा किमर्थमिति भण्यते ।। २५ ।।
नैव दोषो यतो येषां सूर्यः स्यादुपरि स्थितः ।।
लोकानां सर्वशब्देन तेषामेव ग्रहो भवेत् ।। २६ ।।
पराञ्चो ये रवेर्लोकास्तेषामपि परिग्रहः ।।
कथं नु नाम सिद्धः स्यादतो वीप्सा प्रयुज्यते ।। २७ ।।
व्याख्याता या पुरा यत्नाद्गायत्री जगदात्मिका ।।
मूर्तामूर्तरसे भानौ त्रिपादेषा प्रतिष्ठिता ।। २८ ।।
तदपीदं पदं तुर्यं सत्येऽध्यात्मे प्रतिष्ठितम् ।।
अक्ष्णि प्रकाशरूपे हि सर्वं रूपं प्रतिष्ठितम् ।। २९ ।।
किं पुनस्तत्सत्यमिति सत्यं चक्षुरितीर्यते ।।
चक्षुषः सत्यता कस्मादिति चेदुच्यते तथा ।। ३० ।।
तस्मादित्यादिवाक्येन सत्यताऽक्ष्णो विभाव्यते ।।
दृष्टं मृषाऽपि श्रवणं न तु दृष्टिर्मृषेक्ष्यते ।।
तस्या विशेषनिष्ठत्वान्मृषात्वं नोपपद्यते ।। ३१ ।।
एवं तुरीयमेतस्मिन्सत्ये चक्षुषि सर्वदा ।।
प्रकाशैकस्वभावे हि साक्षादेव प्रतिष्ठितम् ।। ३२ ।।
अक्ष्णि प्रकाशरूपेऽस्मिन्सर्वं रूपं प्रतिष्ठितम् ।।
बले प्राणे प्रतिष्ठा च चक्षुषोऽपि प्रदर्श्यते ।। ३३ ।।
इन्द्राग्नी ताविमौ सिद्धावग्निस्तत्र प्रकाशकः ।।
इन्द्रो विधरणः प्राणः पूर्वयोर्नामरूपयोः ।। ३४ ।।
यावान्प्रकाशो जगति स सर्वोऽग्निरिहोच्यते ।।
परिस्पन्दश्च सर्वत्र प्राण इन्द्रस्तथोच्यते ।। ३५ ।।
त्रिलोकी च त्रिवेदी च प्राणादित्रयमेव च ।।
प्रतिष्ठितमिहाध्यात्म एवमुक्तेन वर्त्मना ।। ३६ ।।
प्राणादित्यौ हि गायत्रीसक्तावुक्तेन वर्त्मना ।।
संजीवनं तदन्येषां प्राणानां भवतीश्वरात् ।। ३७ ।।
सा हैषेति श्रुतिरतो यथोक्तार्थवबुद्धये ।।
प्राणान्गयान्यतस्तत्रे गायत्रीयमतो मता ।। ३८ ।।
उपनीतौ स आचार्यः पच्छश्चार्धर्चशस्तथा ।।
सावित्रीं याममूं प्राह बटवे मन्त्रलक्षणाम् ।। ३९ ।।
साऽप्येषैव च विज्ञेया व्याख्याता या प्रयत्नतः ।।
यस्मै प्राह स आचार्यस्तस्य प्राणानवत्यसौ ।। ४० ।।
एवंवित्सन्स आचार्यो यस्मा अन्वाह सादरः ।।
त्रायते तस्य गायत्री वटोः प्राणान्न संशयः ।। ४१ ।।
माणवकस्योपनयनसमये वेदवादिनाम् ।।
छन्दः प्रति विवादोऽयं तन्निर्णीतौ परा श्रुतिः ।। ४२ ।।
तां हैतामिति वाक्येन सावित्रीं प्रतिदर्श्यताम् ।।
अनुष्टुप्छन्दसं ब्रूयात्पूर्वपक्षप्रसिद्धये ।। ४३ ।।
तामेतामेक आचार्या उपनीताय यत्नतः ।।
अनुष्टुप्छन्दसं प्राहुः सावित्रीं न्यायसंश्रयात् ।। ४४ ।।
वागनुष्टुब्यतः साक्षाद्वाक्च साक्षात्सरस्वती ।।
उपनीताय सैवातो वक्तव्या न ततोऽपरा ।। ४५ ।।
यथैतदुक्तमाचार्यैः कुर्याद्विद्वान्न तत्तथा ।।
गायत्रीमेव सावित्रीं ब्रूयात्सर्वफलाप्तितः ।। ४६ ।।
यथोक्तायां हि गायत्र्यां कृत्स्रं जगदुपाहितम् ।।
तदुक्तौ सर्वमुक्तं स्याद्यत्पुमर्थाय साधनम् ।। ४७ ।।
विज्ञानपुरुषस्येदं स्वभावादेव सर्वदा ।।
आत्मैव हि जगत्कृत्स्नं साधारणविशेषवत् ।। ४८ ।।
साधारणानि वस्तूनि तथाऽसाधारणान्यपि ।।
नानुपादाय कृस्नानि जन्तोः काचित्क्रियेष्यते ।। ४९ ।।
अभिव्यक्तेः पुराऽप्येतद्रूपमासीत्स्वभावतः ।।
अभिव्यक्तौ तु तत्साक्षात्समाष्टिव्यष्टिलक्षणम् ।। ५० ।।
एवं सिद्धे महिम्न्यस्मिन्यथोक्तेनैव वर्त्मना ।।
कनीयस्ता विवृद्धिर्वा नैव संभाव्यते मितेः ।। ५१ ।।
ऊरीकृत्येममेवार्थं स य इत्यादिनोच्यते ।।
महाप्रतिग्रहेणापि नैवंविद्दोषमृच्छति ।। ५२ ।।
दर्शनस्य स्तुतिरियं स य इत्यादिनोच्यते ।।
तादृक्प्रतिग्रहस्येह न क्वचित्संभवो यतः ।। ५३ ।।
प्रतिग्रहस्य निन्दा वा विद्वन्मानात्प्रसक्तितः ।।
निःशेषपुण्यमोषित्वान्निषेधार्थाय कुत्स्यते ।। ५४ ।।
उक्तपादेष्वपि ज्ञानं नैवालमपबाधितुम् ।।
गायत्रीवेदिनो जन्तोरपि भूयान्प्रतिग्रहः ।। ५५ ।।
नैवं दाता जगत्यस्मिन्न च तादृक्प्रतिग्रहः ।।
ग्रहीता वेह नैवेति कुत इत्यादिनोच्यते ।। ५६ ।।
अप्यभ्युपगमे चैषां नैव दोषस्य संभवः ।।
विदुषोऽसतीत्यतः प्राह स य इत्यादिना श्रुतिः ।। ५७ ।।
स यः कश्चिदिमाल्लोँकान्पूर्णान्पुंभोगसाधनैः ।।
विद्वान्संप्रतिगृह्णीयात्कथचित्कामंप्लुतेः ।। ५८ ।।
आद्यपादपरिज्ञानमात्रस्यैव प्रतिग्रहः ।।
क्षयायालं न शेषस्य गायत्रीदर्शनस्य सः ।। ५९ ।।
यावतीयं त्रयी विद्या तावन्तमपि गृह्णतः ।।
द्वितीयपदविज्ञानक्षतिरेव न सर्वतः ।। ६० ।।
असंभवेऽपि कल्प्येत यदि तादृक्प्रतिग्रहः ।।
त्रैविद्यलक्षणः सोऽपि तृतीयं नाऽऽप्नुयात्पदम् ।। ६१ ।।
अन्तरण्डविभक्तस्य यथोक्तैः स्यात्प्रतिग्रहैः ।।
क्षयो नानन्तरूपस्य स्यात्समष्टिवपुर्भृतः ।। ६२ ।।
परिच्छिन्नेन सर्वत्र प्रतिमानं जगत्यपि ।।
अन्तवद्विषयं दृष्टं न त्वनन्तस्य कुत्रचित् ।। ६३ ।।
अयं चानन्तमात्मानमक्षिसूर्यव्यवस्थितम् ।।
अगादुपासानात्प्राणमात्मत्वेन दिवानिशम् ।। ६४ ।।
संभाव्यते क्षयस्तस्य न कुतश्चिदनन्ततः ।।
अन्तवान्क्षीयते लोके न त्वनन्तः कुतश्चन ।। ६५ ।।
आवृत्तिः क्षयशब्देन दुःखप्रायासु भूमिषु ।।
कैवल्यावसितेर्नासौ स्यात्समष्टिवपुर्भृतः ।। ६६ ।।
उपस्थानं यथोक्ताया गायत्र्याः श्रद्धयाऽन्वितः ।।
गायत्र्यसीतिमन्त्रेण कुर्यादुक्तार्थवित्सदा ।। ६७ ।।
एकद्वित्रिपद्यसीति पूर्वान्पादान्विचिन्तयेत् ।।
चतुष्पात्त्वं च तुर्येण यथोक्तेन विचिन्तयेत् ।। ६८ ।।
अपदसीत्यपि गिरा तस्या आनन्त्यमुच्यते ।।
अव्यया चाक्षयाऽसीति न ह्यन्तस्तेऽधिगम्यते ।। ६९ ।।
नमस्तेऽस्तु तुरीयायेत्युक्त्या तुर्यप्रधानताम् ।।
गुणभावं यथोक्तस्य विद्यात्पादत्रयस्य तु ।। ७० ।।
शत्रुनामगृहीत्यर्थमसावितिपदं त्विह ।।
फलोक्तिरद इत्येतदुपासितुरहं तथा ।। ७१ ।।
शत्रुणा कामितो योऽर्थो मा प्रापत्तमसाविति ।।
मा समृद्ध्यथवा सोऽस्मै तं वाऽहं प्राप्नुयामिति ।। ७२ ।।
अभिचारार्थमेतस्मिन्नुपस्थाने यथोदिने ।।
अभिधानैकदेशोक्त्या विक्ल्पः फलगोचरः ।। ७३ ।।
स्वार्थे त्वहमद इति ह्युपस्थानै फलं भवेत् ।।
अदः प्रयोजनं देवि प्राप्नुयां त्वत्प्रसादतः ।। ७४ ।।
एतावदेव किं ज्ञेयं किंवाऽन्यदपि शिष्यते ।।
अस्त्यन्यदपि विज्ञेयं तद्विनाऽकृत्स्नता यतः ।। ७५ ।।
कार्त्स्न्येन विद्या स्वभ्यस्ता फलायालमुपासितुः ।।
विपर्ययेणानर्थाय तदेतत्प्रतिपाद्यते ।। ७६ ।।
सर्वात्मकत्वाद्गायत्र्या अग्नेरपि परिग्रहः ।।
तन्मुखत्वेनासंसिद्धेस्तादर्थ्येनोत्तरा श्रुतिः ।। ७७ ।।
मुखविज्ञानविरहादनर्थफलकीर्तनम् ।।
अग्निरेव मुखं तस्या इत्युक्त्या कृत्स्नतोच्यते ।। ७८ ।।
गायत्रीदर्शनस्येह फलकार्त्स्न्यं तथैव च ।।
यथोक्ताग्निमुखज्ञानाद्यदीत्यादिगिराऽधुना ।। ७९ ।।
यो वेदाग्निमुखामेतां गायत्रीमग्निरेव सः ।।
अग्निरिन्धनवत्सर्वं दहेद्विद्वान्प्रतिग्रहम् ।। ८० ।।
दाहकस्य न बह्वस्ति दाह्ययोगाभिवृद्धितः ।।
क्षयश्चाशेषदाह्यस्य यस्मात्तस्मादिवेतिगीः ।। ८१ ।।
एवंविदेवमेव स्यात्पापं वह्निवदिन्धनम् ।।
सर्वं संभक्ष्य तत्पापं शुद्धः पापवियोगतः ।। ८२ ।।
पूतोऽसंसर्गिधर्मत्वादजरोऽपरिणामवान् ।।
अमृतोऽस्थूलदेहत्वात्प्राणमात्रस्वभावतः ।। ८३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य षोडशं ब्राह्मणम्