बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥ (२)
परिणामो हि मोहादेश्चिदाभासः सदेष्यते |
परिणामान्तरप्राप्तिस्तस्यापीति न युज्यते || ३९४ ||
सुखिदुःखित्वसाक्षित्वं दुःस्थितं स्यात्तथा सति |
सुखाद्यनुगमात्तस्य व्यतिरेकः सुदुर्लभः || ३९५ ||
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः |
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः || ३९६ ||
परिणाम्यात्मनोऽप्येवं कूटस्थावगतेरिव |
न युक्तः परिणामोऽयं लौकिकस्यापि नेष्यते || ३९७ ||
धीस्वान्तेन्द्रियसंघाते चिदाभासैकवर्त्मना |
सर्वात्मकत्वं संयात आत्माऽविद्यावशादतः || ३९८ ||
समानः कारणात्मा वा यत्र सर्वोपसंहृतिः |
कारणात्मा हि संवर्त्य कार्यात्मत्वं प्रपद्यते || ३९९ ||
अपेक्षाज्ञानमात्रैकहेतूत्थानत्वकारणात् |
न कार्ये कारणे वाऽतो वस्तुतत्त्वं समीक्ष्यते || ४०० ||
अन्वयव्यतिरेकाभ्यां नातो वाक्यार्थबोधनम् |
वस्तुतत्त्वावसायोऽतो वाक्यादेव प्रमाणतः || ४०१ ||
अतः सर्वविकल्पानामविद्यामात्रहेतुतः |
विषयत्वं समापेदेऽविकल्पोऽपि स्वतः परः || ४०२ ||
समान एव सल्लोकौ प्राप्तप्राप्तव्यलक्षणौ |
अनुक्रमेणाविद्यावान्सदा संचरतीश्वरः || ४०३ ||
देहेन्द्रियाद्युपादानत्यागसंतानलक्षणः |
प्रबन्धशतसंपातैः संचरत्येष न स्वतः || ४०४ ||
कार्यैकनीडमेवास्य चिदाभासैकहेतुतः |
संसारित्वं यतो नातः स्वतः संसारिताऽऽत्मनः || ४०५ ||
अकार्यकरणोऽप्यात्मा बुद्धिप्राणादिहेतुगः |
अविद्यया चिदाभासः संसारीवावभासते || ४०६ ||
असंभवः स्वतो यस्मात्तदबोधाच्च संभवः |
क्रियाकारकरूपस्य तस्माच्छ्रुत्याऽभिधीयते || ४०७ ||
क्रियाकारकरूपस्य मिथ्यात्वं प्रत्यगात्मनि |
ध्यायतीत्यादिवाक्येन प्रत्यक्कौटस्थ्यवित्तये || ४०८ ||
ध्यायतीव स कौटस्थ्यात्तथा लेलायतीव च |
ध्यानादिकारिसाक्षित्वान्नाऽऽत्मा ध्यानादिकार्यवान् || ४०९ ||
निःशेषबुद्धिवृत्तीनां ध्यानं स्यादुपलक्षणम् |
लेलायनं क्रियाणां च सर्वासामुपलक्षणम् || ४१० ||
ध्याता ध्यानं तथा ध्येयं त्रयं स्वात्मैकसाक्षिकम् |
करणं कर्म कर्ता च नातो ध्यात्रादिसाक्षिणि || ४११ ||
बोद्धुः कर्तुश्च संबन्धो ज्ञानेन क्रियया यथा |
कूटस्थसाक्षिसंबन्धो बोद्घृकर्त्रोस्तथैव च || ४१२ ||
सर्वस्य प्रत्यगात्मत्वात्कूटस्थैकचिदात्मनः |
अतोऽस्यानभिसंबन्धः सर्वप्रत्यक्त्वहेतुतः || ४१३ ||
एकनीडत्वहेतूत्था साक्षिणः साक्ष्यसंगतिः |
न तु मोहोन्थचिद्बिम्बहेतुवृत्तव्यपेक्षया || ४१४ ||
कूटस्थात्मैकहेतूत्थचिद्विम्बो मोहगस्तु यः |
स्वोपादानानुरोधित्वात्केनचिन्नास्य संगतिः || ४१५ ||
चिदाभासाश्रयाज्ञानात्कार्यसंगतिहेतुतः |
स्वाभासान्तः परोऽप्यात्मा ध्यायतीवेति वीक्ष्यते || ४१६ ||
प्रत्यङ्भोहैकमात्रोत्थं ध्यानलेलायनादिकम् |
तन्मिथ्याप्रतिपत्त्यर्थमिवोति व्यपदिश्यते || ४१७ ||
अभ्रयानं यथाऽज्ञानाच्छशभृत्यध्यवस्यति |
क्रियाकारकवद्बुद्धिं तथा तत्साक्षिणीक्षते || ४१८ ||
धर्मधर्म्यभिसंबन्धान्यथा मोहैकसंश्रयात् |
अस्पृशन्नपि नीलं खमिति संभावयेत्तथा || ४१९ ||
आत्मप्रत्ययगम्येऽर्थे निष्क्रियेऽकारकेऽफ़ले |
क्रियाकारकवद्वस्तु संभावयति तज्जडः || ४२० ||
तस्मात्संभावनामात्रः संसारः प्रत्यगात्मनि |
उक्तेऽर्थे संशयश्चेत्स्यात्प्रत्यग्दृष्ट्या समीक्ष्यताम् || ४२१ ||
आत्ममात्रावसायित्वान्नानात्मार्थस्पृगीक्ष्यते |
आत्मधीरात्मसंबन्धो नातोऽनात्मन ईक्ष्यते || ४२२ ||
ससमानोक्तिसंबन्धमन्यथाऽन्ये प्रकुर्वते |
धीमनश्चक्षुरादीनि भिन्नरूपाणि सर्वथा || ४२३ ||
नानाज्योतींषि सिद्धानि संहतानि मिथस्तथा |
विलक्षणानामपि सतां सामान्यं संहतात्मनाम् || ४२४ ||
सालक्ष्ण्येऽपि च सति बुद्धेरेव विलक्षणः |
भोक्तृत्वं नाम धर्मः स्याच्चक्षुषो दर्शनं यथा || ४२५ ||
बुद्ध्यादिव्यतिरेकोऽयं नैवं सत्युपपद्यते |
प्रतीच उपपन्नस्तु स समान इतीर्यते || ४२६ ||
समानः सन्नुभौ लोकौ स्वप्नबुद्धान्तसंज्ञितौ |
जन्मेदं च परं चैव संसरत्येष न स्वतः || ४२७ ||
बुद्ध्यादिव्यतिरिक्तोऽयं न चेदात्मा भवेत्तदा |
भूतमात्राविशेषत्वादुभयोरपि लोकयोः || ४२८ ||
उभयत्रापि युगपद्भोगः स्यान्न तु दृश्यते |
तद्भावभावतस्तस्मादन्यज्ज्योतिरितीक्ष्यताम् || ४२९ ||
पर्यायेण समानः सल्लोकौ यस्माद्व्रजत्ययम् |
आत्मा बुद्ध्यादितस्तस्माद्व्यतिरिक्तोऽवसीयताम् || ४३० ||
देवताभोगशङ्का च विद्यते नेह काचन |
उत्क्रान्तिस्वप्नकालेषु ताः प्रयान्ति यथागतम् || ४३१ ||
ईश्वराणां न च न्याव्यो भोगः प्रत्यवरस्तथा |
देवताभ्योऽन्यदेवातो ज्योतिरात्मेति गम्यताम् || ४३२ ||
विभुत्वाद्देवतानां च भोगः स्यादैककालिकः |
न चासावस्ति तेनान्यदात्मज्योतिः प्रतीयताम् || ४३३ ||
स्वार्थचिन्मात्रभोक्तुश्च प्रात्यक्ष्यात्तद्विरोधिनः |
न भोक्तृत्वं विना मानादाशङ्का निष्प्रमाणिका || ४३४ ||
अभिव्यञ्जकधर्मा वा परिस्पन्दात्मकास्तथा |
नाऽऽत्मनोऽस्य स्वतः सन्ति तत्साक्षित्वात्तु ते मृषा || ४३५ ||
बुद्धिस्थश्चलतीवाऽऽत्मा ध्यायतीव च कल्प्यते |
नौगतस्य यथा वृक्षास्तद्वत्संसारविभ्रमः || ४३६ ||
तटस्थनरवन्नावो नौस्थो नैवेक्षते गतिम् |
नौगत्येकप्रयुक्तत्वान्नाव्येकाग्रेक्षणोऽपि सन् || ४३७ ||
यथैवं धिषणैकत्व ध्यानलेलायने धियः |
साक्षी स्वात्मातिरेकेण न पश्येन्नौस्थवत्पृथक् || ४३८ ||
तटस्थनरवद्यस्माद्ध्यानकम्पादिधर्मिकाम् |
धियं साक्षीक्षते तस्मात्प्रत्यग्ध्यानादिवर्जितः || ४३९ ||
नौप्रयुक्तातिरेकेण न नौस्थस्य गतिस्थिती |
यतोऽस्तो न जानाति नावो नौस्थस्तटस्थवत् || ४४० ||
नौसतत्त्वापरिज्ञानाद्विपरीतप्रकल्पना |
नौः स्थिता, तीरजा वृक्षा द्रुतं यान्तीति निश्चितिः || ४४१ ||
चैतन्याभासपर्यन्तं साक्षिणः परमात्मनः |
बुद्ध्याद्यव्यतिरेके हि न स्याद्धीवृत्तिसाक्षिता || ४४२ ||
निःशेषधीविकाराणां यस्मात्साक्षित्वमात्मनः |
वैलक्षण्यमतः सिद्धं विकारिभ्योऽस्य साक्षिणः || ४४३ ||
साक्षितत्त्वापरिज्ञानात्तद्विरुद्धार्थकल्पनम् |
साक्षिसाक्ष्यादिमिथ्याधीस्तत्त्वज्ञानान्निवर्तते || ४४४ ||
कुतः पुनरिदं ज्ञानं धीसमानाश्रयत्वतः |
लोकसंचरणाद्यस्य तत्साक्षित्वान्न तु स्वतः || ४४५ ||
स हीतिहेतुनिर्देश उक्तसिद्ध्यर्थमिष्यते |
स आत्मा यः स्वयंज्योतिरनुमानेन दर्शितः || ४४६ ||
प्रत्यङ्ङविद्यया यां यामवस्थामभिमन्यते |
तत्तन्नामाप्युपादत्ते स्वप्नो भूत्वेत्यतो वचः || ४४७ ||
बुद्धिजागरणे यद्वज्जागर्मीत्यभिमन्यते |
बुद्धिस्वापेऽपि तत्साक्ष्यात्स्वप्नो भूत्वेति मोहधीः || ४४८ ||
इमं लोकमिदं जन्म स्वप्नो भूत्वाऽतिवर्तते |
स्वाप्नान्भोगांस्ततो भुङ्के जाग्रद्भावनयाऽञ्जितः || ४४९ ||
धर्मादिकारणोद्भूतवासनाराशिसाक्षिता |
आत्मनोऽकारकस्यैव भोग इत्यभिधीयते || ४५० ||
जाग्रल्लोकं यतो हित्वा स्वप्नलोकं प्रपद्यते |
तस्मादसङ्गोऽकर्ता च स्वयंज्योतिरितीक्ष्यताम् || ४५१ ||
आत्माविद्यैव मृत्युः स्यान्नित्यस्यापि मृतेस्ततः |
मृत्युर्वै तम इत्याह श्रुतिरप्यात्मनिह्नवात् || ४५२ ||
स्वतोमृतस्य मरणं नाविद्यातो यतोऽन्यतः |
अविद्यामात्मनो मृत्युं तस्मादाहुर्विपश्चितः || ४५३ ||
प्राणोत्क्रान्तिनिषेधोक्तिर्यत आत्मावबोधतः |
सम्यग्ज्ञानस्य बाध्योऽर्थस्तस्मान्मृत्युरितीर्यते || ४५४ ||
रूप्यते यैरसौ मृत्युः कार्याणि करणानि च |
तानि रूपाणि भण्यन्ते मृत्योस्तस्य परात्मनः || ४५५ ||
विषमस्थं यतः सर्वं प्राणव्यापत्तिकारणम् |
तुषाग्रामात्रमपि हि मृत्युः सर्वमिदं ततः || ४५६ ||
मौढ्यं जाड्यमविद्या स्यान्नित्यबुद्धात्मवस्तुनः |
अनात्मनि च तदृष्टं तेन मृत्युरिदं जगत् || ४५७ ||
न हि प्रमाणतो मृत्युः शक्यो दर्शयितुं ततः |
रूपाणि मृत्योस्तेन स्युः कार्याणि करणानि च || ४५८ ||
अतिक्रामति तान्यात्मा जाग्रत्स्थानाश्रयाण्यतः |
क्रियाफ़लाश्रयाण्येष तस्माच्छुद्धो ध्रुवश्च सः || ४५९ ||
अस्ति शुद्धो ध्रुवश्चाऽऽत्मा स चैक इति यत्स्थितम् |
अस्यैवार्थस्य दार्ढ्यार्थं पूर्वपक्ष उदीर्यते || ४६० ||
ननु धीव्यतिरेकेण धीसाक्षी नाधिगम्यते |
धिया समान इत्येवं यः प्रागात्मोपपादितः || ४६१ ||
तत्सद्भावे न नो मानं प्रत्यक्षानुमयोर्यतः |
किंचिदप्यस्ति तत्सिद्धिरतः स्यान्निष्प्रमाणिका || ४६२ ||
पूर्वधीव्यतिरेकेण तत्कालीना परा यथा |
न धीः प्रत्यक्षगम्यैवं नाऽऽत्मा प्रत्याक्षगोचरः || ४६३ ||
न चानुमानतस्तस्य सद्भावोऽप्यवधार्यते |
सति धर्मिणि धर्माणां चिन्तेयमुपपद्यते || ४६४ ||
व्यङ्ग्यव्यञ्जकयोर्यत्तु सादृश्यभ्रमकारणात् |
तद्विवेकापरिज्ञानाद्युक्तं तच्चाभ्युपेयते || ४६५ ||
व्यङ्ग्यव्यञ्जकयोर्भेदस्तत्संबन्धात्पुरा यतः |
प्रमान्तरोपलब्धोऽतः काममस्तु तयोर्भिदा || ४६६ ||
सादृश्यतस्त्वभिन्नोऽयमिति भ्रान्तिरियं मता |
तद्भेदस्योपलब्धत्वात्तद्योगात्प्रक्प्रमाणतः || ४६७ ||
धीरेव चित्स्वरूपेयं प्रथते ग्राहकात्मना |
तथा विषयरूपेण सैवैका प्रथते द्विधा || ४६८ ||
नातो धीव्यतिरेकेण प्रत्यगात्मोपलभ्यते |
प्रत्यक्षतोऽनुमानाद्वा यो धीसक्षीति भण्यते || ४६९ ||
यश्च पूर्वमुपन्यस्तो दृष्टान्तो भेदसिद्धये |
व्यङ्ग्यव्यञ्जकवद्भेदः साक्षिसाक्ष्यार्थयोरिति || ४७० ||
त्वदभ्युपगमादेव तदभ्युपगतं मया |
परमार्थेन तत्रापि नैव भेदोऽस्ति कश्चन || ४७१ ||
अवभासात्मकः कुम्भः क्षणमात्रस्थितिर्यतः |
अन्योऽन्यश्च प्रबन्धेन यतस्तवापि जायते || ४७२ ||
विज्ञानमात्रमथवा वस्तु स्यात्पारमार्थिकम् |
क्षणभङ्गि घटाभासं क्लृप्तानेकविशेषणम् || ४७३ ||
एवं च सति दृष्टान्तो भवतो नोपपद्यते |
सर्वस्य ज्ञानमात्रत्वात्तदन्यासंभवत्वतः || ४७४ ||
तस्यैव ज्ञानमात्रस्य ग्राहग्राहकलक्षणम् |
मलं प्रकल्प्य तत्स्वास्थ्यं शुद्धि व्याचक्षतेऽपरे || ४७५ ||
अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितबुद्धिभिः |
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते || ४७६ ||
तस्यापि शुद्धरूपस्य शान्तिमन्ये प्रचक्षते |
मलवत्संवृतं रूपं यस्मात्तस्यापि कल्पितम् || ४७७ ||
आत्माद्यर्थे च संवादाभावाद्वाक्यस्य नेष्यते |
प्रत्यक्षवत्प्रमाणत्वं नापि प्रत्यक्षतो गतिः || ४७८ ||
अनुमानविरोधाच्च न नित्यात्मादिसंभवः |
प्रमान्तरविरोधेन न प्रमेहास्ति काचन || ४७९ ||
प्रत्यक्षस्यार्थसंवादादनुमित्यविरोधतः |
सौगतं दर्शनं पथ्यं दोषवत्त्वन्यदर्शनम् || ४८० ||
कल्पनेतरतः सर्वं सम्यङ्भिथ्येति मानतः |
सर्वशून्यस्य मोक्षत्वादनावृत्तिश्च सेत्स्यति || ४८१ ||
ग्राह्यग्राहकयोर्भेदो ननु भेदानुभूतितः |
भेदस्यैवं च मिथ्यात्वं प्रत्यक्षेणं विरुध्यते || ४८२ ||
ग्राह्यादिभेदवद्रूपं प्रत्यक्षं लिङ्गसंमतम् |
एकस्योभयरूपत्वं पण्डितैः सुनिराकृतम् || ४८३ ||
ज्ञानाभेदात्तु तत्सिद्धिस्तदध्यासात्तथा परम् |
प्रथते भेदवज्ज्ञानं न क्वचिद्वस्तुसंश्रयात् || ४८४ ||
ग्राह्यग्राहकमित्येवं नैव तत्प्रथते यतः |
नीलपीतादिविज्ञानं नीलमित्येव तद्यतः || ४८५ ||
अतस्मिंस्तद्ग्रहात्सर्वं मिथ्या स्यात्सविकल्पकम् |
असंपृक्तस्य सम्यक्त्वं स्वरूपेणावभासते || ४८६ ||
ननु निज्ञानमात्रेऽस्मिन्सम्यङ्भिथ्यात्वधीगतिः |
निर्विकल्पे कथं ते स्याद्वद भेदोऽत्र किंकृतः || ४८७ ||
ज्ञानरूपं यथा शुद्धं क्षणं चैवावभासते |
विकल्पकं तथैव स्याद्विभागस्तेन दुष्करः || ४८८ ||
इदं मिथ्येति चैतस्मान्मिथ्यात्वस्य कथं ग्रहः |
विकल्पश्चेन्न मिथ्यात्वान्न चान्या गतिरस्ति वः || ४८९ ||
मिथ्यामिथ्याविकल्पो हि स्थायित्वे वस्तुनो भवेत् |
क्षणवादे विनष्टानां कस्य किं केन गृह्यते || ४९० ||
मैवं बाधात्तु मिथ्यात्वसिद्धिः स्यान्मृगतोयवत् |
बाह्यस्याप्यग्रहो बाधान्न तु स्थिरतया मतः || ४९१ ||
ननु ध्वस्तस्य मिथ्यात्वसिद्धिः कथमिहेष्यते |
नैवं दृष्टत्वतः सिद्धेर्दृष्टे नानुपपन्नता || ४९२ ||
बाह्यवादेऽपि मिथ्यात्वं ज्ञानबाधेन जायते |
स्थिरस्यैव हि मिथ्यात्वं न चेदं राजशासनम् || ४९३ ||
इत्यादिकल्पनाः प्रत्यगैकात्म्याज्ञानहेतुजाः |
विभीषिका इमाः सर्वा वेदवर्त्मानुगामिनाम् || ४९४ ||
विभीषिकानिषेधार्थमत्र प्रतिविधीयते |
बाह्यार्थवादिदोषोक्तिस्तत्र तावदिहोच्यते || ४९५ ||
स्वात्मावभास्यः कुम्भादिर्दीपादिश्चापि नान्यतः |
इत्यादेर्न्यायबाह्यत्वं यथा तदभिधीयते || ४९६ ||
स्वात्मावभास्यो बाह्योऽर्थ इत्येतदसमञ्जसम् |
नानन्यव्यञ्जकत्वं स्याद्यस्मात्कुम्भादिवस्तुनः || ४९७ ||
तमस्यवस्थितः कुम्भः स्वात्मना नावभासते |
तदन्यदीपयोगे तु नियमेनावभासते || ४९८ ||
संश्लिष्टयोरपि तयोरन्यत्वमिति निश्चयः |
संयोगे च वियोगे च विशेषस्य समीक्षणात् || ४९९ ||
अन्यत्वमेव विज्ञेयमालोकघटयोस्ततः |
रज्जुकुम्भादिवन्नैक्यं विशेषस्य समीक्षणात् || ५०० ||
ननु दीपः स्वमात्मानं स्वात्मनैवावभासयन् |
दृष्टो दीपप्रकाशार्थं न हि दीपान्तराहृतिः || ५०१ ||
नावभास्यत्वतुल्यत्वाद्दीपस्यापि घटादिभिः |
घटवन्नाऽऽत्मनाऽऽत्मानं प्रकाशयति दीपकः || ५०२ ||
घटप्रदीपयोस्तावद्व्यङ्ग्यव्यञ्जकसंगतिः |
तदन्यात्मैकनिर्ग्राह्या प्रत्यक्षेणानुभूयते || ५०३ ||
व्यतिरिक्तात्मविज्ञानव्यङ्ग्यत्वं घटवन्न सः |
दीपो व्यभिचरत्यत्र तच्चाप्यनुभवाश्रयात् || ५०४ ||
एवं च सति दीपादेर्भिन्नजातीयचेतन -
व्यङ्ग्यत्वं घटवत्तावदवश्यंभावि गम्यताम् || ५०५ ||
ननु कुम्भादिवैधर्म्यं प्रदीपस्य समीक्ष्यते |
नाऽऽत्माभिव्यक्तये दीपो ह्यन्यमापेक्षते स्वतः || ५०६ ||
व्यनक्ति नाऽऽत्मनाऽऽत्मानं प्रदीपो घटवत्सदा |
स्वतो वा परतो वाऽस्य विशेषाभावहेतुतः |
विशेषेऽसत्यसाध्वेतद्भवतोदाहृतं वचः || ५०७ ||
दीपस्य घटवद्यस्माद्भिन्नविज्ञानगम्यता |
घटाद्यर्थाविशिष्टैव यत्त्वेतदभिधीयते || ५०८ ||
दीपोऽयमात्मनाऽऽत्मानं व्यनक्तीति न तच्छुभम् |
प्रागूर्ध्वं तदभिव्यक्तेर्विशेषस्यासमीक्षणात् || ५०९ ||
प्रदीपासंनिधौ यद्वत्कुम्भस्य प्रसमीक्ष्यते |
संनिधौ च विशेषो न प्रदीपे तद्वदीक्ष्यते || ५१० ||
आत्मत्वान्न हि दीपस्य कुम्भदेरिव संनिधिः |
असंनिधिर्वा न्याय्योऽयं भेदेऽसौ द्रव्ययोर्यतः || ५११ ||
एकाग्निव्यक्तेर्न यथा दाह्यदग्धृत्वसंगतिः |
द्वयोरपि समानत्वाद्व्याङ्ग्यव्यञ्जकता तथा || ५१२ ||
यत एवमतोऽसाधु भवतैतदुदाहृतम् |
अभिव्यनक्ति दीपोऽयमात्मनाऽऽत्मानमस्ववत् || ५१३ ||
विज्ञानमपि तद्भिन्नजातिचिद्ग्राह्यमिष्यताम् |
व्यञ्जकत्वाविशेषत्वाद्रविचन्द्रप्रदीपवत् || ५१४ ||
सचेत्यते यथा दीपो विज्ञानमपि तत्तथा |
संशयो निश्चयश्चायमित्येतच्चानुभूतितः || ५१५ ||
चिद्व्यङ्ग्यत्वे च बोधस्य साक्षादवधृते सति |
किं ग्राह्यज्ञानगम्यत्वं किंवा ग्राहकगम्यता || ५१६ ||
तत्र संदिह्यमानेऽर्थे यथालोकं विनिश्चितिः |
लोके सिद्धा च दीपादेर्भिन्नग्राहकगम्यता || ५१७ ||
ग्राहकग्रहणग्राह्यभावाभावविभागवित् |
ग्रहणादेश्च यो भिन्नः स आत्मेत्यवगम्यताम् || ५१८ ||
ननु ज्ञानादिगम्यत्वे ज्ञानाद्यन्तरसंश्रयात् |
अनवस्थेति दुर्वारा नैष दोषः कुतो यतः || ५१९ ||
स्वतो हि ग्राहकादीनां ग्राहकत्वादिसिद्धितः ||
ग्राहकाद्यन्तरापेक्षा नैव स्यादविशेषतः || ५२० ||
स्वमहिम्नैव चेन्न स्याह्राहकादि ततोऽन्यतः |
न स्यादतिशयाभावाद्ग्राहकाद्यन्तरादपि || ५२१ ||
ननु ज्ञानस्य तद्भिन्नग्राहकग्रहणे सति |
करणान्तरव्यपेक्षायामनवस्था प्रसज्यते || ५२२ ||
नियमाभावतो नासावनवस्था प्रसज्यते |
ग्राह्यग्राहकसंबन्धे नियमो न हि वीक्ष्यते || ५२३ ||
ग्राह्यग्राहकसंभिन्नं दीपवत्करणान्तरम् |
यथा सर्वत्र नैवं स्याद्ग्राह्यग्राहकसंगतौ || ५२४ ||
घटस्य दर्शनं तावत्प्रदीपादिपुरःसरम् ||
प्रदीपवीक्षणे नैव प्रदीपान्तरमार्गणम् || ५२५ ||
तस्मान्नैवानवस्थेह कथंचिदपि शङ्क्यते |
करणद्वारिका नापि ग्राहकद्वारिका तथा || ५२६ ||
ग्राहकाद्यतिरेकेण तद्विरुद्धात्मवस्तुनः ||
सद्भावं प्रागवोचाम प्रत्यक्षैकप्रमाणतः || ५२७ ||
प्रत्यक्षादनुमानाच्च तथा चैवाऽऽगमादपि |
ग्राहकाद्यतिरिक्तश्चित्सिद्धस्तत्साक्ष्यतः परः || ५२८ ||
लोकायतविचारेऽपि प्रत्यक्षैकप्रमाणतः |
स्वतोऽलुप्तदृशोऽस्तित्वं प्राक्साक्षात्प्रतिपादितम् || ५२९ ||
अन्तरेणापि मानानि प्रमातृत्वादिसाक्षितः |
कूटस्थदृष्टेरस्तित्वं प्रागपि प्रतिपादितम् || ५३० ||
बाह्यार्थवादिनि ध्वस्ते तद्वद्विज्ञानवाद्यथ |
ननु नास्त्येव बाह्योऽर्थ इति प्रत्यवतिष्ठते || ५३१ ||
ननु नास्त्येव बाह्योऽर्थो घटदीपादिलक्षणः |
विज्ञानव्यतिरेकेण तस्या मानासमीक्षणात् || ५३२ ||
यद्धि यद्व्यतिरेकेण वस्तु नेहोपलभ्यते |
तावदेवास्तु तद्वस्तु स्वप्नभूमिगवस्तुवत् || ५३३ ||
स्वप्नविज्ञाननिर्ग्राह्यं स्वप्नज्ञानातिरेकतः |
नास्ति वस्तु यथा तद्बज्जाग्रद्बाह्यार्थवस्त्वपि || ५३४ ||
जाग्रत्कुम्भादिकं वस्तु जाग्रज्ज्ञानातिरेकतः |
न सत्यं ग्राह्यतः स्वप्नज्ञानग्राह्यघटादिवत् || ५३५ ||
एवं च सति विज्ञानव्यतिरेकेण कुम्भवत् |
अपि प्रतीचोऽसत्त्वं स्याज्ज्योतिषः स्थास्रुरूपिणः || ५३६ ||
बाह्यार्थेऽपहृते चैवं प्रदीपादेरसंभवात् ||
दृष्टान्तो भवतः कः स्यात् कामितार्थप्रसिद्धये || ५३७ ||
वस्त्वन्तराभ्युपगमाज्ज्ञानतो ज्ञानवत्त्वया |
दृष्टान्तोऽस्त्येव नो भूयान्न चेन्न भवतोऽप्यसौ || ५३८ ||
धीमानाज्ज्ञानमेवेदमभ्युपेत्य ततोऽपरम् |
जाग्रत्स्वप्नादिकं वस्तु तन्मिथ्येति निषिध्यते || ५३९ ||
भावो वा यदि वाऽभावो ज्ञानवन्माननिश्चितः |
नास्तीति ब्रुवतो लज्जा धार्ष्ट्यादेव न जायते || ५४० ||
अपि ज्ञानातिरेकेण बाह्योऽर्थोऽभ्युपगम्यते |
दीपकुम्भादिको बुद्धैर्ब्यवहारप्रसिद्धये || ५४१ ||
सर्वस्य ज्ञानमात्रत्वान्ननु नाभ्युपगम्यते |
मया ज्ञानातिरेकेण तन्मानासंभवादिह || ५४२ ||
ज्ञानं घटो दीप इति शब्दार्थज्ञानभित्तये |
अवश्यमभ्युपेयोऽत्र भेदो मानप्रमेययोः || ५४३ ||
प्रमाणं भवता वाच्यं भेदाभेदत्वसिद्धये |
नाऽऽवयोर्निष्प्रमाणोक्तं यतः संगच्छते सुधीः || ५४४ ||
मामेयसंगतिफ़लभित्त्यभ्युपगमस्त्वया |
कार्य ऐक्ये यतोऽमीषां व्यवहारो न सिध्यति || ५४५ ||
उपादित्सन्ति मानानि ह्यज्ञातार्थोपलब्धये |
अतोऽभ्युपेयोऽज्ञातोऽर्थः प्रमाणत्वप्रसिद्धये || ५४६ ||
न च प्रमाणतः सिद्धिरज्ञातत्वस्य शक्यते |
अन्योन्याश्रयतादोषः सत्येवं प्रसजेद्यतः || ५४७ ||
प्रमाणाच्च न तत्सिद्धिस्तस्य मानविरोधतः |
मानैश्चेदविरोधः स्यात्कुतोऽज्ञातत्वनिह्नुतिः || ५४८ ||
न स्वरूपेऽथवा स्वांशे मानमेयत्वसंभवः |
सर्वदाऽतिशयाभावाद्बोधाच्चाव्यतिरेकतः || ५४९ ||
प्रमाणं यदि विज्ञानं मेया नीलादिरूपता |
मिथस्तयोरपेक्षा का यत उक्तं प्रसिध्यति || ५५० ||
आकारतद्वतोर्भेदो यदि नामाभ्युपेयते ||
अस्तु कामं प्रमामेयसंगतिर्गम्यते कुतः || ५५१ ||
कार्यांशाद्यभिसंबन्धान्मानमेयत्वसंगतिः |
अन्यैव तु विभिन्नात्मा वस्तुनोर्मानमेययोः || ५५२ ||
मानांशो यस्य मेयः स्यान्मेयांशो वा भवेत्प्रमा |
संबन्धाभावतस्तस्य मानमेयौ न सिध्यतः || ५५३ ||
मानमेयत्वयो रूपं यस्मान्नैवेह गम्यते |
मानमेयत्वसंसिद्धिर्नातस्तत्रोपपद्यते || ५५४ ||
एकस्मिन्नपि चेन्मानमेयत्वादिप्रकल्पना |
साध्यानां साधनैकत्वादसाध्यासाधनात्मना || ५५५ ||
फ़लाना साधनानांं चं भेदाभावे प्रसज्यते |
शास्रोपदेशानर्थक्यं तत्कर्तुश्चापि मूढता || ५५६ ||
विज्ञानव्यतिरेकेण प्रतिवाद्यादिवस्तुनः |
त्वदभ्युपगतेर्भदः स्यात्प्रमाणप्रमेययोः || ५५७ ||
न ज्ञानमात्रमेवेदं भवताऽप्यभ्युपेयते |
प्रतिवाद्यादिकं वस्तु तस्य दूष्यत्वकारणात् || ५५८ ||
प्रतिवाद्यादिदूष्यस्य न स्वांशांशित्वसंगतौ |
निराकर्तुमभिप्रायः सुमूढस्यापि जायते || ५५९ ||
भिन्नग्राहकसंवेद्यं घटदीपादि सद्ध्रुवम् |
जाग्रद्भूमिष्वतस्तस्य जाग्रत्स्थप्रतिवादिवत् || ५६० ||
संतत्यन्तरवद्यद्वा विज्ञानान्तरवत्तथा |
इत्येवमादि सौलभ्यं दृष्टान्तानामिहेष्यते || ५६१ ||
विज्ञानव्यतिरेकेण नातो विज्ञानवादिना |
कूटस्थदृष्टिरात्मैको निषेद्धुं शक्यते परः || ५६२ ||
ननु स्वप्ने न वस्त्वस्ति विज्ञानव्यतिरेकतः |
न जाग्रद्वस्तुवत्तत्स्याज्ज्ञानमात्रस्वरूपतः || ५६३ ||
विभागं लभते ज्ञानाज्ज्ञानवत्स्वप्नवस्तु चेत् |
स्वमहिम्नैव तत्सिद्धेः कथं नास्तीति भण्यते || ५६४ ||
ज्ञानस्यैवार्थरूपं तद्बोधवच्चेत्प्रकल्प्यते |
परमार्थसतोऽसत्त्वं किंमानमिति भण्यताम् || ५६५ ||
विज्ञानव्यतिरेकेण नीलादिविषयो यदि |
भावो वा स्यादभावो वा सोऽस्त्येवेति विनिश्चितिः || ५६६ ||
स्वप्नादौ भवतैवायं जाग्रद्वदनुभूयते |
घटादिज्ञानविषयः स कथं नेष्यते त्वया || ५६७ ||
यद्वस्त्वनुभवप्राप्तं तच्चेन्नास्तीति भण्यते |
ज्ञानेऽपि स्यादनाश्वासस्तस्यानुभवसिद्धितः || ५६८ ||
ज्ञानादतिशयो यद्वन्नास्तीतीह तथैव सन् |
घटोऽन्यो ह्यनुभूतेः सन्नास्तीति कथमुच्यते || ५६९ ||
तदन्यकालासंदृष्टेरिति चेदसदुच्यते |
क्षणान्तरे क्षणादृष्टेरसत्त्वं वः प्रसज्यते || ५७० ||
हेमन्तेऽनुपलब्धत्वाद्गीष्मधर्मापनिहनुतिः |
प्रतिज्ञातुमशक्या स्यात्तथा शून्यत्वमापतेत् || ५७१ ||
देशकालादिगावस्थाभेदेनैवाखिलं यतः |
वस्तु सिद्धं जगत्यस्मिंस्तदपहनूयते कथम् || ५७२ ||
विज्ञानव्यतिरेकेण घटो नास्तीति जल्पतः |
नास्त्यर्थोऽपि कथं जीवेदस्त्यर्थविरहादिह || ५७३ ||
अस्त्यर्थवत्स्वमात्रेण नाभावोऽस्ति विना सता |
यथाऽस्ति तव विज्ञानमेवं कुम्भाद्यपीष्यताम् || ५७४ ||
अस्त्यर्थव्यतिरेके हि न किंचिदपि सिध्यति || ५७५ ||
अस्त्यर्थव्यतिरेकेण विज्ञानादि यदीष्यते |
अब्राह्मणादिवत्तत्स्यादसदेवेति निश्चितिः || ५७६ ||
प्रतिक्षणविनाशीनि द्रव्याणीत्यवगम्यताम् |
तेषामन्ते विनाशित्वात्प्रदीपादिविनाशिवत् || ५७७ ||
वैधर्म्येण च दृष्टान्तः प्रतिज्ञातार्थसिद्धये |
प्रतिसंख्यानिरोधोऽत्र सर्वं सुस्थं भवेत्ततः || ५७८ ||
अनुमानप्रयोगेऽस्मिन्प्रतिज्ञार्थः सुदुर्लभः |
आवृत्तिवीप्सासद्भावात्क्षणिकोक्तेः प्रमाणतः || ५७९ ||
अनेकव्यापृतिमती ह्यावृत्तिर्जगतीक्ष्यते |
एकस्मिन्देवदत्तादौ सा च बौद्धस्य नेष्यते || ५८० ||
निर्व्यापाराः सर्वभावाः क्षणिकाश्चेति निश्चितेः |
गतः प्रत्यागतश्चेति साऽऽवृत्तिः स्यात्सुदुर्लभा || ५८१ ||
नानार्थवाचिनां लोक आश्रयाश्रयिणामिह |
व्याप्तिः क्रियागुणाभ्यां या सा वीप्सेत्यभिधीयते || ५८२ ||
युगपत्साऽपि बौद्धस्य न कथंचन युज्यते ||
कर्तृक्रियादिसादृश्यात्साऽन्यत्वेऽपीति चेन्मतम् || ५८३ ||
भूयोऽपि भुञ्जते गेहे ब्राह्मणा इति दर्शनात् |
एतच्चानुपपन्नं स्यादुपचारपरिग्रहात् || ५८४ ||
मुख्यस्यासंभवे यस्मादुपचारो न युज्यते |
अभ्युपेतार्थहानं च तदभ्युपगमे सति || ५८५ ||
क्षणिकाः सर्वसंस्कारा इत्याद्यभ्युपगम्यते |
क्षणिकाः सर्वसंस्कारा इत्यादिवचनैरियम् |
वीप्सा व्याहन्यतेऽतश्च क्षणिकोक्तिर्न युज्यते || ५८६ ||
अथापि क्षणिकानीति मत्वर्थोऽत्र विवक्ष्यते |
सिद्धसाध्यत्वमेवं स्यादिष्टैव क्षणसंगतिः || ५८७ ||
स्थिरस्य वस्तुनोऽवश्यं निमेषक्षणलक्षणैः |
कालभागैर्भवेद्योग इति नः सिद्धसाध्यता || ५८८ ||
क्षणिकार्थस्तिरोभाव इति चेदभिधीयते |
अभ्युपेतार्थहानिः स्यात्तथाऽपीष्टं न सिध्यति || ५८९ ||
व्यक्तधर्मनिवृत्तिर्या कारणात्मतयेष्यते |
स्थिरस्य धर्मिणः सेह तिरोभावगिरोच्यते || ५९० ||
यद्युत्पन्नानि नश्यन्ति स्यात्तदा सिद्धसाध्यता |
यस्मादादिमतां नाशः सर्वैरेवाभ्युपेयते || ५९१ ||
यतो जनिमताऽवश्यं विनंष्टव्यं तदन्ततः |
तथाऽभ्युपगतार्थस्य हानिः स्याद्वो न संशयः || ५९२ ||
अथोत्पत्तिक्षणे नाशो भवताऽभ्युपगम्यते |
सर्गनाशौ तदैकस्मिन्काले प्रसजतो ध्रुवम् || ५९३ ||
ततश्च कार्यानुत्पत्तिर्यदि वा सर्वदाऽस्तिता |
तद्विरोधाविरोधाभ्यां ध्रुवं प्राप्नोत्यनीप्सिकतम् || ५९४ ||
विरुद्धयोश्च क्रिययोरिष्टत्वादेककर्तरि |
एककाले विरुद्धत्वात्सर्वलोको विरुध्यते || ५९५ ||
अथाज्ञातानि नश्यन्ति जायमानानि वेति चेत् |
तथाऽप्यसन्प्रतिज्ञार्थो न ह्यभावस्य नाशिता || ५९६ ||
काऽतिशीतिरजातस्य विनाशागमने सति ||
प्रतिज्ञापदयोश्चात्र विरोधः स्यात्परस्परम् || ५९७ ||
नश्यत्युत्पद्यमानोऽर्थ इत्येतन्मुग्धभाषितम् |
सर्वलोकविरुद्धत्वात् मानैश्चापि विरुध्यते || ५९८ ||
अथोत्पन्नस्य नाशोऽयं द्वितीये स्यात्क्षणे यदि |
प्रत्यभिज्ञामृते नायं प्रतिज्ञार्थः प्रसिध्यति || ५९९ ||
य एव जायते कर्ता स एवायं विनश्यति |
क्षणद्वये यथा स्थायी तद्वदस्तु क्षणान्तरे || ६०० ||
मतमुत्पद्यते नासौ नापि साक्षाद्विनश्यति ||
आदिमध्यान्तहेतूत्थविकल्परहितोऽपि वा || ६०१ ||
हेतुप्रतिज्ञयोः स्पष्टो विरोधः स्यात्तथा सति || ६०२ ||
मतमन्ते विनाशश्चेत्कोऽयमन्तस्त्वयोच्यते |
क्षणस्यान्तर्बहिर्वेति न तथाऽप्युपपद्यते || ६०३ ||
क्षणान्तश्चेद्भवेन्नाशः क्षणिकत्वं बिहन्यते |
क्षणान्तरेऽपि नाशोऽयं पूर्वाभावान्न युज्यते || ६०४ ||
उत्तरक्षण्मबिध्बस्तौ न हि पूर्वो नियुज्यते |
तस्मोत्तरत्रासद्भाबाद्भौव्यं च स्यात्तथा सति || ६०५ ||
आदिमध्यान्तभागत्वे निरंशत्वं च दुर्घटम् |
क्षणस्य संततौ चापि सिद्धसाध्यत्वमुच्यते || ६०६ ||
असतश्च समुत्पत्तावन्ते च क्षयसंगतेः |
द्विर्विनाशप्रसक्तिः स्यात्क्षणिकत्वं च हीयते || ६०७ ||
न चेदुत्पत्तिरसतो न विनाशः सतस्तथा |
कूटस्थवादसक्तिः स्यात् मिथ्यासंगतितस्तयोः || ६०८ ||
अन्त्यो नाशो महांश्चेत्स्यान्नाशः सातिशयो यतः |
विशेपाभावतो नैवं तस्यानतिशयत्वतः || ६०९ ||
मत्वर्थानुपपत्तेश्च क्षणिकत्वाद्यसंभवः |
द्रव्यतन्नाशयोर्यस्मान्नैवेहास्त्येककालता || ६१० ||
न च नाशस्य कालोऽस्ति क्षणमध्ये तथा बहिः |
क्षणान्तरं बहिर्यस्मात्क्षणमध्ये ध्रुवत्वतः || ६११ ||
धन्यासीदिति दृष्टश्चेन्न लक्षणविरोधतः |
लक्षणे वर्तमानस्य कालस्य श्रवणं यतः || ६१२ ||
त्रिकाललक्षणार्थं चेदस्तीति यदि भण्यते |
तादर्थ्ये कारणाभावान्नैतदप्युपपद्यते || ६१३ ||
प्रत्यक्षेण विरोधाच्च न क्षणस्य विनाशिता |
प्रत्यक्षानुमयोर्नापि विरुद्धाव्यभिचारिता || ६१४ ||
सिद्धसाध्यत्वमथवा नङ्क्ष्यतीति मतं यदि |
क्षणिकत्वस्य हानिः स्यात् किं नश्छिन्नं तथा सति || ६१५ ||
अर्थक्रियादिलिङ्गेन विरोधित्वाच्च नेष्यते |
क्षणिकाः सर्वभावाः स्युरिति यत्प्राक्समीरितम् || ६१६ ||
शाल्याद्युदूहनादि स्यादुत्पित्सोर्वा जनिस्तथा |
अर्थक्रिया न मानं वस्तेन चैव विरोधतः || ६१७ ||
क्षणिकत्वं न भावानां कथंचिदपि युज्यते |
नष्टेन नश्यता वाऽपि न शाल्याद्याहृतिक्रिया || ६१८ ||
संत्योत्पद्यमानैश्चेत्फ़लहेकत्वात्मभिर्भवेत् |
भावैरर्थक्रिया सर्वा यथा दीपादिभिस्तथा || ६१९ ||
उत्पित्स्वजातं सज्जातमनष्टं वाऽभ्युपेयते |
निनङ्क्षु नश्यन्नष्टं च प्रत्यभिज्ञामृते कथम् || ६२० ||
प्रबन्धेनार्चिषो धर्मा धर्मिण्यग्नौ व्यवस्थिते |
अर्थक्रियां वर्तमानाः कुर्युर्ग्रामाद्यवाप्तिवत् || ६२१ ||
दीपादिवदसंभाव्या भवतोऽर्थक्रिया यतः |
क्षणिकत्वे न सा युक्ता तद्धेतुविरहात्सदा || ६२२ ||
नानुत्पन्नस्य हेतुत्वमुदकाद्याहृतौ भवेत् |
उत्पित्सूत्पद्यमानाभ्यामसत्त्वात्तद्वदेव न || ६२३ ||
कूर्मलोमादिवत्तद्वन्नापि तत्स्याद्विनश्यता |
म्रियमाणो न शक्नोति पुत्रं जनयितुं क्वचित् || ६२४ ||
हेतुत्वं लभते नापि तथैवावस्थितः कचित् |
आ कार्यावसितेः स्थाने सिद्धान्तस्ते विनश्यति || ६२५ ||
विनाशक्रियया व्याप्तमुत्पन्नं चेद्विनश्यति |
फ़लहेतुप्रबन्धेनेत्येवं सुस्थमिदं भवेत् || ६२६ ||
संतानानुपपत्तेश्च नैवमप्युपपद्यते |
संतनोतीति संतानः कर्ता चेदभिधीयते || ६२७ ||
तस्य चैकत्वनाशित्वात्संतानो नोपपद्यते |
नाप्यपादानतः मध्येन्न वाऽधिकरणाश्रयत् || ६२८ ||
न चान्यस्मिन् विभक्त्यर्थे यथोक्तेनैव हेतुना ||
संतानो यदि धात्वर्थो भावश्चेदभिधीयते || ६२९ ||
भवितारमपेक्ष्यैव भावः सिध्येन्न सोऽन्यथा |
न चासौ लभ्यते तादृग्भविता हि विनश्वरः || ६३० ||
नित्यं भवितृतन्त्रत्वात्संतानस्याप्यनित्यता |
धातूपसर्गयोरर्थस्त्वत्पक्षे न च लभ्यते || ६३१ ||
नैकीभावो न विस्तारः क्षणिकत्वेऽस्ति युक्तिमान् |
अतीतानागतानां च मिथः कालासमागमात् || ६३२ ||
वर्तमानस्य चैकत्वात्संतानो नोपपद्यते |
संतानिभ्यश्च संतानोऽभिन्नो भिन्नोऽथवा द्विधा || ६३३ ||
अभेदेऽनित्यतासक्तिः स्थास्नुर्भेदे प्रसज्यते ||
कार्यकारणभावश्च न च वः स्यादभीप्सितः || ६३४ ||
भिन्नाभिन्नत्वपक्षोऽपि विरोधान्न च युज्यते |
स्वसिद्धान्तस्य च ध्वस्तिर्न च संगच्छते जनः || ६३५ ||
संतानिनां स्वसंतानाद्भिन्नाभिन्नत्वकल्पने |
वाच्या दोषा यथायोगं संतानार्थानुरोधतः || ६३६ ||
अवाच्यमिति पक्षश्चेन्मैवं तस्याप्यसंभवात् |
अन्यानन्योभयात्मत्वकल्पने ह्यसदेव तत् || ६३७ ||
अवाच्यं यद्यनन्यत्वे ह्यन्यत्वे वाच्यमेव तत् |
अथावाच्यं तदन्यत्व इतरत्रास्तु वाच्यता || ६३८ ||
अन्यानन्यत्वयोश्चात्र वाच्यावाच्यत्वयोस्तथा |
परस्परविरोधित्वान्न स्यादेकत्र संगतिः || ६३९ ||
वाच्यं वा यदि वाऽवाच्यं कस्मादित्यभिधीयताम् |
परबुद्धौ समारोप्यमवश्यं वस्तु चेद्भवेत् || ६४० ||
न चावाच्यं भवत्पक्षे किंचिद्वस्त्वभ्युपेयते |
वक्त्यभावं भवान्यत्र तत्र वस्तुनि का कथा || ६४१ ||
तद्रूपं चेदवाच्यत्वं भवताऽभ्युपगम्यते |
नैवं साधारणत्वात् स्यत् पुद्गलादेरपीष्यते || ६४२ ||
अतोऽसाधारणं वाच्यं रूपं संतानवस्तुनः |
अथावाच्यत्वमेवास्य रूपमित्यभिधीयते || ६४३ ||
उक्तं तर्हि त्वया रूपं संततेर्घटरूपवत् |
यदसाधारणं यस्य रूपं तत्तस्य भण्यते || ६४४ ||
ततश्चावाच्यमिति ते प्राप्ता स्वोक्तिविरुद्धता |
तथा संतानविच्छिन्नकल्पनाऽपि न युज्यते || ६४५ ||
संतानस्याव्यवच्चित्तौ सर्वदैव प्रसज्यते |
सभागसंततिः सा हि नाविच्छेदमृते यतः || ६४६ ||
अनित्यत्वप्रसङ्गाच्च न सती संततिर्भवेत् |
इत्युक्तेन प्रकारेण संतानासंभवो ध्रुवः || ६४७ ||
फ़लहेतुनिषेधाच्चन युक्तं सर्वथा वचः |
संतत्या जायमानैस्तैरिति यदव्यहृतं पुरा || ६४८ ||
यच्च दीपप्रकाशादिक्रियावदिति चोदितम् |
साध्यार्थेन समानत्वात्तदप्युक्तमशोभनम् || ६४९ ||
अर्थक्रिया यथा नास्ति रथादेरुक्तहेतुतः |
दीपादेरपि नैवासावस्ति तेनैव हेतुना || ६५० ||
क्षणिकत्वां यथा नास्ति रथादेर्येन हेतुना |
दीपादेरपि तेनैव क्षणिकत्वाद्यसंभवः स || ६५१ ||
एककालौ मतौ यच्च नाशोत्पादौ तुलान्तवत् |
अहेतुफ़लतासक्तेर्न चैतदुपपद्यते || ६५२ ||
जनकव्यापृतेः पश्चाज्जान्यो निष्पद्यतेऽङ्कुरः |
कार्यकारणताभेदस्तयोः स्याद्भिन्नकालतः || ६५३ ||
न चेत्कारकभेदोऽत्र कालभेदोऽथवेक्ष्यते |
कुतो हेतुफ़लत्वं स्यात्सव्येतरविषाणवत् || ६५४ ||
न च हेतुफ़लत्वं स्यादेककालीनयोस्तयोः |
वैनाशिकेन सत्त्वेन त्वयाऽभ्युपगमात्तयोः || ६५५ ||
न विकारो न चाऽऽरभ्यं बौद्ध कार्यमसंभवात् |
विकारे सांख्यसिद्धान्त आरम्भेऽत्यन्तभिन्नता || ६५६ ||
सत्त्वाद्विनिष्ठितार्थश्च सत्स्रोतोन्तरनिष्ठितः |
घटस्तम्भादिवन्नापि मृद्वत्परिणमेत्स्वयम् || ६५७ ||
नापि चाऽऽरभते कार्यं पुरतः कुम्भकारवत् |
असत्त्वान्न द्वयं तेऽस्ति साख्यकारणादपक्षवत् || ६५८ ||
इत्यादिदूषणान्यत्र वक्तव्यानि सहस्रशः |
न च प्रमाणसद्भावः सर्वस्य ज्ञानमात्रतः || ६५९ ||
शून्यत्वमपि नैव स्यादेतस्मादेव कारणात् |
अहंप्रत्ययगम्यत्वमेकत्वादात्मनो न च || ६६० ||
अंशाशित्वेऽपि नैव स्यात्पूर्वोक्तादेव कारणात् |
क्षणभङ्गे च भावानां प्रत्यभिज्ञाद्यसंभवः || ६६१ ||
पूर्वदृष्टे पुनः सोऽयमिति बुद्धिर्न युज्यते || ६६२ |
भेदः स एवायमिति कालरूपादिभेदतः |
यदि नाम तथाऽप्यैक्यं तयोरनुभवाश्रयात् || ६६३ ||
सादृश्यात्प्रत्यभिज्ञानं कृत्तकेशनखादिवत् |
इति चेन्नैतदेवं स्यात्सादृश्यासंभवात्तव || ६६४ ||
सादृश्यासंभवश्चापि सर्वस्य क्षणिकत्वतः |
नाप्यनेकार्थदर्श्यस्ति सादृश्यं स्याद्यतस्तव || ६६५ ||
सादृश्यान्न च केशादौ स एवायमितीक्षणम् |
केशादिजातेरेकत्वाद्धीरियं तन्निबन्धना || ६६६ ||
न हि लूनोत्थितेष्वेषु विना जातिसमाश्रयम् |
त एवामी इति मतिः कस्याचिद्व्यक्तिहेतुजा || ६६७ ||
अभ्रान्तस्य हि केशादौ यदा सदृशधीस्तदा |
पूर्ववालैरिमे वालाः सदृशा इति जायते || ६६८ ||
त एवामी इति मतिर्जायते न तु कस्यचित् |
एकजातिनिमित्ताऽतः प्रत्यभिज्ञेयमिष्यते || ६६९ ||
प्रत्यक्षं च तदेवेदमित्येतद्वस्तुकर्मकम् |
उल्लिखज्जायते साक्षादतीतेऽहन्यधर्मकम् || ६७० ||
इदमेव तदेवेदमित्येषोऽनुभवो दृढः |
प्रत्यक्षो बाध्यते नायमनुमानेन केनचित् || ६७१ ||
प्रत्यक्षेण विरोधे हि लिङ्गमाभासतां व्रजेत् |
यतोऽतो नानुमानेन प्रत्यक्षस्यास्ति बाधनम् || ६७२ ||
विज्ञातपूर्वकुम्भस्य पुनः कुम्भान्तरेक्षणे |
सादृश्यप्रत्ययो युक्तो न त्वसौ क्षणिकात्मसु || ६७३ ||
पूर्वं दृष्ट्वाऽपि चेत्तिष्ठेद्यावदागामिदर्शनम् |
सादृश्यधीप्रसिद्ध्यर्थमित्यभ्युपगमेऽपि च || ६७४ ||
सिद्धा सादृश्यधीरेवं क्षणिकत्वं तु नस्यति |
स्वरूपमात्रसंबोधि नाऽऽत्मनोऽपि क्षयोदयौ || ६७५ ||
ज्ञानं प्रत्यभिजानाति ध्वंसित्वान्नापि तापरम् |
सादृश्यक्षणिकत्वे द्वे त्वदिष्टे न प्रसिध्यतः || ६७६ ||
न च स्मृतिस्तदेवेदमित्येवमनुभूतितः |
वस्तूल्लेखी ह्यनुभवो नीलरक्तोत्पलादिवत् || ६७७ ||
नीलोत्पलानुभववत्तदेवेदमितीक्षणम् |
अपूर्वार्थपरिच्छेदात्स्मृतिर्नातो भवेदियम् || ६७८ ||
मिथोविभिन्नरूपत्वात्सादृश्यं चेह दुर्घटम् |
तदेवेदमिति मतौ वियन्नकुलयोरिव || ६७९ ||
असाधारणरूपेण विभिन्नानां परस्परम् |
क्षणानां क्षणिकानां वः सादृश्यं केन हेतुना || ६८० ||
तेनेदं सदृशं वस्तु त्विति चापि न युक्तिमान् |
व्यपदेशः पदार्थानां क्षणिकत्वात्स्वभावतः || ६८१ ||
इदं दृष्टमदोऽद्राक्षणिति दैवोपपद्यते |
व्यपदेशः स्वभावेन व्यपदेष्टुर्विनष्टतः || ६८२ ||
व्यपदेशक्षणाभावात्पूर्वदृष्टैव संक्षयात् |
उत्तरानभिसंबन्धाद्व्यपदेष्टुः कुतो भवेत् || ६८३ ||
व्यपदेशो विना योगमतीतानागतार्थयोः |
तत्स्थास्नुत्वाभ्युपगतौ क्षणिकत्वं विनश्यति || ६८४ ||
जात्यन्धवन्न चादृष्ट्वा कश्चिद्व्यपदिशेदिह |
सादृश्यधिषणां चेह न कश्चित्कर्तुमर्हति || ६८५ ||
प्रमाणविरहात्सिद्धा सेयमन्धपरंपरा |
रक्ताम्वराणां सिद्धान्तस्तथाऽभ्युपगमात्स्वयम् || ६८६ ||
निरोधकाले चित्तस्य वासकत्वं न युज्यते |
क्षणिकत्वादसंबन्धात्संतानान्तरबुद्धिवत् || ६८७ ||
अकृताभ्यागमो दोषः कृतनाशश्च ते भवेत् |
तस्माद्यः कर्मणां कर्ता स भुङ्के कर्मणः फ़लम् || ६८८ ||
यस्मिन्नेव तु विज्ञान आहिता कर्मवासना |
फ़लं तत्रैव संताने कार्पासे रक्तता यथा || ६८९ ||
इत्यस्मिन्नपि सिद्धान्ते प्रसङ्गो न निवर्तते |
संतानिव्यतिरेकेण यस्मान्नैव स विद्यते || ६९० ||
संतानिनस्तु संस्कारा विद्यन्ते परमार्थतः |
मिथश्चासंगतेस्तेषामतो दोषान्न मुच्यते || ६९१ ||
मानाभावान्न चेदिष्टा संततिर्येह कल्पिता |
दोषोक्तिमात्रतस्तर्हि न पक्षः सिद्धिमश्नुते || ६९२ ||
कार्पासबीजसंस्थैव योक्ता रक्तादिवासना |
स्वाकारकार्यकृत्सैव न कार्यं कार्यकृन्मतम् || ६९३ ||
मिथः क्षणानां संबन्धः शृङ्गलाकटकादिवत् |
सादृश्यव्यपदेशादि सर्वं सुस्थं भवेत्ततः || ६९४ ||
इत्येवं चेन्न तद्युक्तं क्षणिकत्वस्य हानितः |
क्षणत्रयस्य संव्याप्तेः शृङ्गलाकटकादिवत् || ६९५ ||
मम तवेत्यवच्छेदव्यवहारश्च त्रुट्याति |
संबन्धाभावतस्तेषां क्षणानामपरस्परम् || ६९६ ||
ज्ञानस्य च विशुद्धस्य स्वसंविन्मात्ररूपिणः |
अन्यस्य तादृशोऽभावात्कुतो दुःखादिसप्लुतिः || ६९७ ||
न चानेकस्वभावांशवत्त्वं ज्ञानस्य संमतम् |
स्वच्छैकरूपतस्तस्य दाडिमादिफ़लं यथा || ६९८ ||
प्रमेयत्वानुभूतेश्च न विज्ञानांशता तथा |
अनित्यदुःखशून्यादेः पृथुबुध्नादिरूपवत् || ६९९ ||
ज्ञानमात्रमिदं सर्वं न ज्ञेयं विद्यते पृथक् |
स्वप्नादिज्ञानदृष्टान्तात्प्रत्ययत्वादिहेतुतः || ७०० ||
प्रतिज्ञाहेतुदृष्टान्तभेदस्तावत्परस्परम् |
ज्ञानमात्रस्वभावत्वाद्भवता नाभ्युपेयते || ७०१ ||
पक्षश्चायं प्रमाणेन प्रत्यक्षेण विरुध्यते |
शरीराद्देशभेदेन भासन्तेऽर्था घटादयः || ७०२ ||
अभ्रान्तं चेन्द्रियज्ञानं तेषु चैवोपजायते |
भिन्नाभिन्नविकल्पार्हं त्वत्प्रत्यक्षं च नेष्यते || ७०३ ||
दूरे स्थितं प्रपश्यामि यन्न दृष्टमिदं तथा |
एवंप्रकारं प्रत्यक्षं स्वसंवेद्यं न बाध्यते || ७०४ ||
दुःखाद्यात्मकमेवेदं विज्ञानं चेत्त्वयोच्यते |
तद्वियोगाद्विशुद्धं तदिति वः कल्पना कथम् || ७०५ ||
यतः संयोनिनिर्मुक्तौ वस्तु शुद्धमिहेष्यते |
स्वरूपस्य तु निर्मुक्तौ किमन्यदवशिष्यते || ७०६ ||
स्वाभाविकगुणध्वस्तौ रागाद्यागन्तुकात्मता |
दृष्टा पुष्पेष्विति वचो यच्चापि समुदाहृतम् || ७०७ ||
सम्यङ्निरस्तं तत्पूर्वं वियोगाच्चापि लिङ्गतः |
संयोगपूर्वता तस्य लिङ्गयते मेषयोरिव || ७०८ ||
द्रव्यान्तराच्छादनाद्वा सहजस्याप्यनीक्षणम् |
तद्द्रव्यसंक्षये यस्मात्पूर्ववत्सहजेक्षणम् || ७०९ ||
ग्राह्यग्राहकरूपेण यच्चापि मलकल्पनम् |
अन्यसंसर्ग्यभावात्तत्तुषकण्डनवद्वृथा || ७१० ||
फ़लाश्रयस्व चाभावान्निर्वाणादि स्वलक्षणम् |
फ़लं च घटते नेह युक्तिभिः शाक्यपुङ्गवे || ७११ ||
शल्यविद्धस्य तच्छल्यनिष्कर्षोत्थं सुखं फ़लम् |
शल्यविद्धमृतौ कस्य फ़लं स्यादिति कथ्यताम् || ७१२ ||
न संयोगो वियोगो वा यस्य केनचिदिष्यते |
विनाशतः स्वतस्तस्य कीदृशी फ़लसंगतिः || ७१३ ||
भवत्पक्षेऽपि तुल्यं चेन्नाविद्यामात्रहेतुतः |
कारकादिविभागस्य वस्तु पूर्णं स्वतो यतः || ७१४ ||
पुरुषार्थात्मकं वस्तु कूटस्थं तत्स्वतो यतः |
अविद्यया तथाभूतं तद्ध्वस्तौ किमपेक्षते || ७१५ ||
अनुमानेन तादृक्षं वस्तु प्राकप्रतिपादितम् |
न चानुमाने दोषोऽपि तत्र कश्चिद्विभाव्यते || ७१६ ||
सहोपलम्भसंस्कारात्पुनर्धीर्यैकदर्शनात् |
साऽनुमा संभवस्तत्र व्यभिचारस्य चेन्न हि || ७१७ ||
ननु चाव्यभिचार्येव संबन्धो गमको भवेत् |
सहोपलम्भमात्रेण न यतः पितृसूनुवत् || ७१८ ||
अस्त्वेवं शङ्क्यते नो चेद्व्यभिचारः स्वगोचरे |
प्रार्थ्यते व्यभिचारो हि जाताशङ्के न गोचरे || ७१९ ||
सहोपलम्भमात्रेण सा तु सर्वत्र जायते |
धियो नो विषये शङ्का व्यभिचारानुसारिणी || ७२० ||
तदाशङ्कानिवृत्त्यर्थमतः कार्यं प्रयत्नतः |
साध्याभावेन तद्धेतोरभावपरिमार्गणम् || ७२१ ||
साध्याभावे कथं हेतोरभाव इति कथ्यताम् |
ज्ञानलक्षणसंप्राप्तावथवाऽप्यविशेषतः || ७२२ ||
यदि मालक्षणाप्तस्य साध्याभावादि भण्यते |
तदा भ्राष्ट्राद्यदूरस्थे साध्याभावादि सज्जते || ७२३ ||
प्रत्यक्षगोचरे साध्यभावश्चेत्प्रतिपाद्यते |
प्रत्यक्षेणैव सिद्धत्वादनुमैवं वृथा भवेत् || ७२४ ||
अधित्यकादौ देशे तु ह्युपलब्धेरसंभवात् |
मा भूदग्न्याद्यभावेऽपि कदाचिद्धूमसंभवः || ७२५ ||
यद्येवमन्वयोऽप्यत्र नैव प्राप्नोति तत्कथम् |
अन्यत्र यदि नाम स्याद्धूमभावेऽग्निभावता || ७२६ ||
दर्शनादस्तु सा कामं दर्शनाधीनसिद्धितः |
अधित्यकादौ देशे तु यावत्साक्षान्न दर्शनाम् || ७२७ ||
तावन्नावसितुं शक्यं भवितव्यमिहाग्निना |
इति धूमोपलम्भत्वाद्धाष्ट्रधूमोपलम्भवत् || ७२८ ||
इदं तावद्वदत्वत्र लिङ्गलक्षणतत्त्ववित् |
धूमादिलिङ्गेनेहार्थो भवता कोऽनुमीयते || ७२९ ||
नाग्निस्तस्य प्रसिद्धत्वान्नापि देशः प्रसिद्धितः |
न च संबन्धमात्रं स्याद्यथोक्तादेव कारणात् || ७३० ||
तस्मान्नैवानुमा नाम मानं युक्तिमदिष्यते |
मेयाभावादिति प्राप्तावत्र प्रतिविधीयते || ७३१ ||
सहोपलब्धिसंस्कारवशाद्धूमादिदर्शनात् |
अग्न्यादौ विप्रकृष्टेऽर्थे निश्तिता जायते मतिः || ७३२ ||
लिङ्गात्तावदिदं ज्ञानं जातं बाधकवर्जितम् |
उत्पन्नत्वात्तदुत्पन्नं नानुत्पन्नं कथंचन || ७३३ ||
जातं किमविनाभावसंबन्धेनेदमीदृशम् |
किंवा नेति परीक्षेयं जातत्वात्स्यादपार्थिका || ७३४ ||
सर्वथा फ़लवज्ज्ञानं जातत्वान्न तदन्यथा |
तस्मात्प्रत्यक्षवत्किंचिद्व्यभिचारकृदञ्जसा || ७३५ ||
यावन्नेक्षामहे तावन्नाप्रमाणमितीर्यते |
तदपह्नवमानस्य तवात्यन्तमसंभवात् || ७३६ ||
अत्राऽऽह यदि विज्ञानजन्ममात्रात्प्रसिध्यति |
प्रतिज्ञामात्रतः सिद्धेर्वृथा स्याद्धेतुकीर्तनम् || ७३७ ||
बाढमेवं भवेदेतदाशङ्काकारणं न चेत् |
किंचित्तत्रोपलभ्येत ह्यनवद्यं भवेद्वचः || ७३८ ||
पुरुषादिनिमित्तस्तु जायते यत्र संशयः |
अन्वयव्यतिरेकाभ्यां हेतोः स्यात्तत्र निश्चयः || ७३९ ||
उत्पन्न एव ज्ञानेऽतस्तत्संदेहनिवृत्तये |
अन्वयव्यतिरेकौ स्तो न ताभ्यामनुमेयधीः || ७४० ||
संदेहनिर्णयादन्यत्स्वभावादि यदुच्यते |
तस्यानुमित्यनङ्गत्वात्प्राप्तं तत्तुषकण्डनम् || ७४१ ||
अविनाभावसिद्ध्यर्थं नन्विदं वर्ण्यते त्रयम् |
त्रिष्वेव त्वविनाभावाद्भद्रं तैरपि कीर्तितम् || ७४२ ||
स्वभावादविनाभावे स्यादौष्ण्यस्याग्निलिङ्गता |
स्वभावोऽथाविनाभावात्कार्ये प्राप्ता स्वभावता || ७४३ ||
औष्ण्यस्वभावो दृष्टोऽग्निस्तस्यान्यत्राऽपि दर्शनात् |
क्षितितोयाग्निमरुतां दृष्टा स्पर्शस्वभावता || ७४४ ||
मतं चेदस्वभावोऽसौ यो नैकार्थप्रवृत्तिमान् |
धवादावपि तद्वृत्तेर्वृक्षात्मा शिंशपा न हि || ७४५ ||
शिंशपा वृक्ष एवेति ह्यविनाभावकारणात् |
क्षणिकत्वं न भावानां स्वभावः स्यात्तथा सति || ७४६ ||
तस्यानेकार्थशायित्वादहेतुत्वं प्रसज्यते || ७४७ |
क्षणिकत्वं यदैकस्य तदाऽसाधारणात्मता |
हेतोः साधारणात्मत्वं यदाऽनेकस्य तन्मतम् || ७४८ ||
अग्नेर्धूमाच्च धूमस्य कार्यत्वस्य समीक्षणात् |
अनैकान्तिकता हेतोः कार्यत्वस्येह सज्जते || ७४९ ||
यदि नाम सदा स्पर्शो वाय्वादावपि वर्तते || ७५० ||
नैतावता भवेल्लोके गौरस्पर्शस्वभाविका |
भुवो हि स्पर्शवत्त्वस्य लोकेऽस्मिन्सुप्रसिद्धितः || ७५१ ||
किंचाप्यव्यभिचारेण स्वभावत्वं विवक्षतः |
स्वभावान्नैव संसिध्येद्वस्तुनोऽव्यभिचारिता || ७५२ ||
त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना |
प्रत्यज्ञायि प्रतिज्ञेयं हीयेतासौ न संशयः || ७५३ ||
तथैवाव्यभिचारेण स्वभावत्वं विवक्षतः |
पुरैवाव्यभिचारस्य संसिद्धेः किं ततोऽपरम् |
स्वभावहेतुना साध्यं वदं यत्ते विवक्षितम् || ७५४ ||
अग्नेश्चाव्यभिचारित्वात्कार्यस्यापि स्वभावता |
धूमस्याऽऽप्नोति भेदो वा द्वयोर्हेत्वोर्निवर्तते || ७५५ ||
कार्यत्वेऽपि च धूमादेर्न सोंऽशोऽनुमितौ मतः |
व्यभिचाराच्छराच्छृङ्गाच्छरस्योत्पत्तिरीक्ष्यते || ७५६ ||
कार्यत्वान्नैव धूमादिरेति निश्चयहेतुताम् |
व्यभिचारहेत्वसद्भावादग्नेर्हेतुत्वमेत्यसौ || ७५७ ||
अनेककारणं कार्यं यस्माद्दृष्टं शरादिकम् |
तस्मादव्यभिचारेण कार्यमप्येति हेतुताम् || ७५८ ||
अपेक्षाऽप्यत्र लिङ्गोक्तेः कार्यादौ नैव जायते |
अकार्यश्चास्वभावश्च नालिङ्गं कृत्तिकोदयः || ७५९ ||
कृत्तिकात्वादिति ह्युक्तेर्नैव कार्यस्वभावयोः |
अपेक्षा जायते किंतु ह्यन्वयेतरमात्रतः || ७६० ||
अकार्यत्वास्वभावत्वादविनाभावमात्रतः |
उदयः कार्तिको लिङ्गं प्रत्यासत्तेर्भवेद्ध्रुवम् || ७६१ ||
रौहिणस्योदयस्यातो न स्वभावाद्यपेक्षते |
यतोऽतो न स्वभावादेर्हेतुत्वमुपपद्यते || ७६२ ||
नाऽऽत्मनि स्यात्स्वशब्दोऽत्र विरुद्धा स्वात्मनि क्रिया |
कार्यस्यापि स्वभावत्वं भवेदात्मीयवाचके || ७६३ ||
किमात्मैव स्वशब्देन किं वेहाऽऽत्मीय उच्यते |
स्वभाव आत्मनो भाव इति चेद्भवतो मतम् || ७६४ ||
स्व एवाऽऽत्मा स्वभावश्चेत्तदाऽन्यस्य ह्यसंभवात् |
व्यतिरिक्तस्य मेयस्य स्यादात्मैवाऽऽत्मनोऽनुमा |
तथाच पक्षहेत्वादेरनन्यत्वं प्रसज्यते || ७६५ ||
अथ स्वस्य स्वभावश्चेदात्मीयोऽर्थो विवक्षितः |
आत्मीयः शिखिनो धूमस्तस्यापि स्यात्स्वभावता || ७६६ ||
संवित्तिभावयोर्भेदो यथैवं तदभावयोः |
न भेदोऽनुपलब्धिर्वो नातो लिङ्गं कथंचन || ७६७ ||
एवं लौकिकतादात्म्यतदुत्पत्ती प्रतीरितम् |
अथ स्वप्रक्रियाक्लृप्तं स्वभावादि परीक्ष्यते || ७६८ ||
अन्यापोहनपक्षेऽपि शब्दव्यावृत्तिभेदतः |
न हेतोः स्यात्स्वभावत्वं क्रियात्वं च न विद्यते || ७६९ ||
वृक्षोऽयं शिंशपेत्यत्र त्वतृक्षार्थविविक्तकम् |
वृक्षव्यक्तिषु सर्वत्र रूपमस्ति किलेदृशम् |
अशिंशपाविविक्तं च तद्वदेवाभिधीयते || ७७० ||
तत्रावृक्षविविक्तेऽर्थे संकेतो वृक्षसंज्ञया |
अशिंशपाविविक्ते च संकेतः शिंशपेति च || ७७१ ||
वृक्षोऽयं शिंशपेयं च भवेद्व्यवहृतिस्ततः ||
शब्दार्थारोपणेनैव सविकल्पधियो जनिः || ७७२ ||
शब्दार्थापोहयोर्लिङ्गे ज्ञेया गमकगम्यता |
स्वभावकार्ये लिङ्गे स्तः स्वाभाव्यादि च लिङ्ग्यते || ७७३ ||
न तत्र तावद्विज्ञानं तद्ग्राह्येऽस्तीह वस्तुनि ||
स्वभावो वाऽथवा कार्यं विकल्पोऽयं मतो यतः || ७७४ ||
न वस्तुस्पृग्विकल्पत्वाच्छब्दालम्बनमात्रतः |
शब्दाः सन्तः कथं तेऽर्था ह्यर्हन्ति भवितुं क्वचित् || ७७५ ||
स्वभावकार्यतासिद्धिरनुमानसमाश्रयात् |
ताभ्यां चाप्यनुमासिद्धिरेवमन्योन्यसंश्रयः || ७७६ ||
अशिंशपानिवृत्तिर्हि न स्वभावो भवेद्यतः |
अवृक्षापोहरूपस्य तयोरत्यन्तभेदतः || ७७७ ||
अप्यधूमनिवृत्तिश्चानग्निव्यावृत्तिरूपिणः |
न कार्यं स्यात्स्वभावो वा तयोरत्यन्तभेदतः |
तद्व्यक्तेरग्निकार्यत्वान्न सा कार्यं भवेदतः || ७७८ ||
अथान्यापोहवद्वस्तु गम्यं गमकमेव च |
वक्तव्यं तत्र किं मानमदृष्टौ न त्रिरूपता || ७७९ ||
अशिंशपानिवृत्त्यात्मरूपं वस्त्वे चेन्मतम् |
अवृक्षापोहरूपं च तयोर्गमकगम्यता || ७८० ||
अशिंशपानिवृत्यात्म स्वभावाद्गमकं भवेत् |
अवृक्षात्मनिवृत्त्यात्म गम्यं च स्यात्तदेव तु || ७८१ ||
स्वपक्षसिद्धयेऽप्येवं क्लिश्यतोऽपि न सिध्यति ||
पक्षोऽयं बुद्धभक्तस्य यथा तदभिधीयते || ७८२ ||
अशिंशपानिवृत्तिर्वः कुतोऽज्ञायि प्रमाणतः || ७८३ |
प्रत्यक्षेण न तावत्सा तस्य सद्वस्तुमानतः |
लिङ्गान्तरस्य चाभावान्नापि लिङ्गात्प्रसिध्यति || ७८४ ||
उपलप्स्यामहे शब्दादेवैनामिति चेन्मतम् |
अनादिमद्व्यवहृतेः संबन्धस्य च सिद्धितःस || ७८५ ||
किंमानपूर्वकोऽस्यार्थसंबन्ध इति नोच्यते |
सिध्यत्येवं भवत्पक्षो दोषोऽपि स्यादनीप्सितः || ७८६ ||
एवं यतोऽभ्युपगतौ लिङ्गं स्याच्छब्द एव तु |
न स्वभावोऽथवा कार्यं प्रतिज्ञा च मृषा भवेत् || ७८७ ||
त्रिष्वेव त्वविनाभावादिति योक्ता प्रयत्नतः |
प्रतिज्ञार्थस्य संत्यागो न युक्तः शाक्यभिक्षुभिः || ७८८ ||
ननु चाशिंशपाद्यर्थविविक्तोऽर्थः प्रतीयते |
शब्दादेव तु तज्ज्ञानादवृक्षार्थमतिर्भवेत् || ७८९ ||
अशिंशपानिवृत्तिर्या काऽसाविह भवन्मता |
नाभावोऽसौ यतोऽभावो मतो वोऽनुपलब्धितः || ७९० ||
शिंशपानुपलब्धिश्चेदन्यव्यावृत्तिरूपतः |
ततोऽभावात्तथा सिद्धोऽवृक्षाभावोऽपि सर्वदा || ७९१ ||
उपलब्ध्यभावतो नैवं यथा तदभिधीयते |
कोऽभावानुपलब्ध्योर्वो भेदः स्यादिति कथ्यताम् || ७९२ ||