बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ पञ्चमाध्यायस्य दशमं ब्रह्मणम् ॥
तस्यैव ब्रह्मणोऽथान्यदुपासनमिहोच्यते ।।
वाग्धेनूपाधियोगेन फलाय महतेऽधुना ।। १ ।।
वागित्यत्र त्रयी ग्राह्या न स्थानकरणादयः ।।
स्वाहाकारादि नान्यत्र त्रय्याः संभाव्यते क्चचित् ।। २ ।।
त्रयीयं धयते सर्वं स्वाहाकारादिभिः स्तनैः ।।
धेनुमित्येव तां तेन सदोपासीत भारतीम् ।। ३ ।।
केभ्यः क्षरति सा धेनुरित्येतदधुनोच्यते ।।
तस्यै द्वौ स्तनावित्युक्त्या कथ्यन्ते च स्तनास्तथा ।। ४ ।।
ऋषभोऽस्यास्तथा ज्ञेयः प्राणस्तस्मात्प्रसूयते ।।
अप्राणस्य न वागस्ति वागप्युच्चार्यते बलात् ।। ५ ।।
वाक्प्रस्रवणहेतुत्वाद्धेन्वा वत्सो मनो भवेत् ।।
यद्यद्ध्यायति मनसा तत्तद्वाचा प्रभाषते ।। ६ ।।
यथोक्तोपासनफमुक्तब्रह्मात्मरूपता ।।
तं यथा यथा इत्युक्तेरनिर्देशेऽपि गम्यते ।। ७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य दशमं ब्राह्मणम्