बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥
उक्थादिगुणपूगेन विशिष्टस्यानरूपिणः ।।
उपासनमथेदानीं ब्रह्मणो भण्यते परम् ।। १ ।।
उक्थं प्राणः कुतो यस्मात्प्राणे सति चराचरम् ।।
उत्थापयति कर्मेदं कर्ता वा नान्यथा ततः ।। २ ।।
वीरश्चोक्थात्मवित्पुत्र उपासीनस्य जायते ।।
दृष्टं फलमदृष्टं तु ह्युक्थस्यैकात्म्यमश्नुते ।। ३ ।।
यजुश्च प्राण एवेति सदोपासीत यत्नतः ।।
कतो यजुष्ट्वं तस्येति युक्तिलेशोऽभिधीयते ।। ४ ।।
युज्यन्ते सर्वभूतानि संहन्यन्ते परस्परम् ।।
प्राणे सति यजुस्तस्मात्फलोक्तिः पूर्ववत्तथा ।। ५ ।।
सामापि प्राण एवेति कथं तदिति भण्यते ।।
सम्यञ्चि सर्वभूतानि प्राणे सति यतस्ततः ।। ६ ।।
क्षत्र्रं च प्राण एवेति चिन्तयेत्सततं हृदा ।।
त्रायते हेति युक्त्युक्तिः क्षत्र्रत्वस्य प्रसिद्धये ।। ७ ।।
क्षणितोर्हि क्षतात्प्राणस्रायते न तु तं विना ।।
क्षत्रं प्राणस्ततो ज्ञेयो यथोक्तन्यायगौरवात् ।। ८ ।।
प्राप्नोत्यत्रमसौ क्षत्र्रमत्रातृकमनीश्वरम् ।।
स एव त्राता सर्वस्य ह्यत्रं क्षत्र्रमतो भवेत् ।। ९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम्