अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥

उक्थादिगुणपूगेन विशि­ष्ट­स्या­न­रू­पिणः ।।
उपासनमथेदानीं ब्रह्मणो भण्यते परम् ।। १ ।।

उक्थं प्राणः कुतो यस्मात्प्राणे सति चराचरम् ।।
उत्थापयति कर्मेदं कर्ता वा नान्यथा ततः ।। २ ।।

वीर­श्चो­क्था­त्म­वि­त्पुत्र उपासीनस्य जायते ।।
दृष्टं फलमदृष्टं तु ह्युक्थ­स्यै­का­त्म्य­म­श्नुते ।। ३ ।।

यजुश्च प्राण एवेति सदोपासीत यत्नतः ।।
कतो यजुष्ट्वं तस्येति युक्ति­ले­शोऽ­भि­धी­यते ।। ४ ।।

युज्यन्ते सर्वभूतानि संहन्यन्ते परस्परम् ।।
प्राणे सति यजु­स्त­स्मा­त्फ­लोक्तिः पूर्ववत्तथा ।। ५ ।।

सामापि प्राण एवेति कथं तदिति भण्यते ।।
सम्यञ्चि सर्वभूतानि प्राणे सति यतस्ततः ।। ६ ।।

क्षत्र्रं च प्राण एवेति चिन्तयेत्सततं हृदा ।।
त्रायते हेति युक्त्युक्तिः क्षत्र्रत्वस्य प्रसिद्धये ।। ७ ।।

क्षणितोर्हि क्षता­त्प्रा­ण­स्रा­यते न तु तं विना ।।
क्षत्रं प्राणस्ततो ज्ञेयो यथो­क्त­न्या­य­गौ­र­वात् ।। ८ ।।

प्राप्नो­त्य­त्र­मसौ क्षत्र्र­म­त्रा­तृ­क­म­नी­श्व­रम् ।।
स एव त्राता सर्वस्य ह्यत्रं क्षत्र्रमतो भवेत् ।। ९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम्