अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (३)

न्यायः पुरोदितो योऽत्र वासनासंश्रयं प्रति ।।
स सर्वोऽ­त्रा­नु­सं­धेयः पूर्व­प­क्षा­प­नु­त्तये ।। १२९ ।।

उत्थानं चाप्यविद्यायाः परस्मादात्मनः स्वतः ।।
ऊष­रा­दि­व­दि­त्या­दि­क­ल्पना नोपपद्यते ।। १३० ।।

अनि­र्मो­क्ष­प्र­सक्तिः स्याद्यविद्या परात्मनः ।।
निरा­त्म­वा­द­स­क्तिश्च मोहोच्छेदे भवेदिह ।। १३१ ।।

वास्य­दे­शा­ति­रे­केण वासनाया न चेष्यते ।।
देशान्तरोपगमनं गुण­व­द्द्र­व्य­व­र्ज­नात् ।। १३२ ।।

सामञ्जस्येन गच्छन्ति न च श्रुत्य­क्ष­रा­ण्यपि ।।
यथोक्तकल्पनायां हि न युक्ता तेन कल्पना ।। १३३ ।।

कामः संकल्प इत्याद्या मनसो धर्मिणः श्रुताः ।।
धर्मा न त्वात्मनः शास्त्रे ह्यसङ्गो हीतिवारणात् ।। १३४ ।।

हृदये ह्येव रूपाणि ध्यायतीवेति चापरम् ।।
कामा येऽस्य हृदीत्यादि तीर्णो हीति तथा वचः ।। १३५ ।।

श्रुतादर्थान्न चान्योऽर्थो यथोक्तवचसां यतः ।।
सम्यक्कल्पयितुं शक्यः कल्पनाऽतो न युज्यते ।। १३६ ।।

प्रत्य­ग्ब्र­ह्म­त्व­सि­द्ध्यर्था सर्वै­वो­प­नि­ष­त्त्वि­यम् ।।
ताव­न्मा­त्र­प­र­त्वेन वेदा­न्ता­ना­मु­प­क्ष­यात् ।। १३७ ।।

राशित्रितयपक्षे च नाप्यर्थोऽत्र समञ्जसः ।।
क्रियते कल्पना येन सर्व­न्या­य­वि­रो­धिनी ।। १३८ ।।

द्वे एव तु यदा रूपे मूर्तामूर्ते सवासने ।।
ब्रह्म रूपि तृतीयं च तदा वावेति युज्यते ।। १३९ ।।

ब्रह्मै­क­दे­श­भू­तस्य विज्ञानात्मन एव ते ।।
रूपे इति तदा युक्तं कल्पनानुगुणं वचः ।। १४० ।।

विज्ञा­ना­त्म­मु­खे­नाथ यदि वा परमात्मनः ।।
रूपे इति तदाऽ­व­क्ष्य­च्छ्रौती चेत्कल्पना भवेत् ।। १४१ ।।

द्विवचश्च तथाऽयुक्तं त्रैरूप्यस्येह संभवात् ।।
मूर्तामूर्ते च द्वे रूपे तृतीयं वासना यतः ।। १४२ ।।

मतं मूर्तेतरे रूपे ब्रह्मणोऽभिमते सदा ।।
क्षेत्रज्ञस्य तु नैवैते वास­ना­मा­त्र­रू­पितः ।। १४३ ।।

तदाऽपि जीवद्वारेण विक्रियां व्रजतो विभोः ।।
वास­ना­द्य­भि­सं­बन्ध इतीयं गीरनर्थिका ।। १४४ ।।

वासनानामपि यतो न विशेषो मनागपि ।।
क्षेत्र­ज्ञ­द्वा­र­तायाः स्याद­स­त्त­स्मा­द्वि­क­ल्पि­तम् ।। १४५ ।।

वस्तु वस्त्वन्तरत्वेन न च विक्रियतेऽञ्जसा ।।
वृत्त्येह मुख्ययेत्येवं शक्यो वक्तुं जगत्यपि ।। १४६ ।।

वस्त्वन्तरं न च मतः क्षेत्रज्ञः परमात्मनः ।।
सिद्धा­न्त­हा­नि­रेवं च कल्पनायां ध्रुवं भवेत् ।। १४७ ।।

आवि­श्चि­की­र्षु­भि­स्त­स्मा­द्वे­दा­न्तार्थं महात्मभिः ।।
ईदृशी कल्पनाऽयुक्ता कर्तुं परहितार्थिभिः ।। १४८ ।।

दक्षि­णेऽ­क्ष­न्पु­मा­निति लिङ्गात्मा परिगृह्यते ।।
अध्या­त्मेऽ­था­धि­दैवे च तस्यैव प्रकृतत्वतः ।। १४९ ।।

जीवग्रहोऽत्र नन्वस्तु प्रकृ­त­त्वा­वि­शे­षतः ।।
तस्यैवैतानि रूपाणि कस्मा­न्ने­त्य­भि­धी­य­ताम् ।। १५० ।।

नैवंरूपितया यस्मादिह श्रुत्या विवक्षितः ।।
क्षेत्रज्ञः करणात्मैव तस्मादिह विवक्षितः ।। १५१ ।।

वासनानुगतं लिङ्गं मृद्व­न्मृ­द्वि­क्रि­या­त्मसु ।।
चेत्यते साक्षिणा यस्मान्नातः क्षेत्र­ज्ञ­रू­पिता ।। १५२ ।।

माहारजनमित्यादि रूपं चेत्साक्षिणो भवेत् ।।
नेति नेतीत्यथाऽऽदेशं नाक­रि­ष्य­त्त­दाऽऽ­त्मनः ।। १५३ ।।

अन्यस्यासौ न चाऽऽदेशः शक्यो वक्तुं प्रमाणतः ।।
नेति नेतीति तस्यैव षष्ठान्त उपसंहृतेः ।। १५४ ।।

व्येव त्वेति प्रतिज्ञाया अर्थवत्त्वं तथा भवेत् ।।
पाणि­पे­षो­त्थि­त­स्यैव यद्यादेशो भवेदयम् ।। १५५ ।।

पाणि­पे­षो­त्थि­तोऽ­न्य­श्चे­न्ने­तीति च ततोऽपरः ।।
अन्योऽसाविति मिथ्या धीस्तदा स्यान्मो­ह­का­र­णात् ।। १५६ ।।

न स्यादा­त्मा­न­मे­वा­वे­दहं ब्रह्मेतिमानजा ।।
सम्य­ग्धी­र्नि­खि­ल­ध्वा­न्त­घा­तिनी मुक्तिदायिनी ।। १५७ ।।

करणात्मन एवातस्तस्य हेतिग्रहो भवेत् ।।
न तु तत्साक्षिणो युक्तस्तस्य रूपनिषेधतः ।। १५८ ।।

वासना भूरिरूपास्ता लिङ्गस्था लिङ्गसाक्षिणः ।।
कुर्वन्ति बहुरूपत्वं मणेरास्तरणं यथा ।। १५९ ।।

माहारजनमित्यत्र हारिद्रं रूपमुच्यते ।।
इन्द्र­गो­पो­प­मा­नेन कौसुम्भस्य गतत्वतः ।। १६० ।।

पीतं वस्त्रं यथा तद्व­ल्लि­ङ्ग­मा­भाति साक्षिणः ।।
आरु­या­दि­वि­ष­यो­द्भू­त­वा­स­ना­वा­सितं दृशेः ।। १६१ ।।

ईषत्पाण्दु यथोर्णादि तद्वल्लिङ्गं प्रकाशते ।।
इन्द्र­गो­पोऽ­ति­र­क्तश्च भृशं रक्तं मनस्तथा ।। १६२ ।।

रजसः कचि­दु­द्रे­क­स्त­मसः क्वचिदिष्यते ।।
सत्त्वस्यापि तथोत्कर्षः कुतश्चिदुपजायते ।। १६३ ।।

क्वचि­दे­क­प्र­धा­नत्वं कस्मिं­श्चि­द्वि­षये द्वयोः ।।
त्रयाणामपि चान्यत्र ज्ञान­क­र्मा­दि­चि­त्रतः ।। १६४ ।।

अग्नेरर्चिर्यथा भास्व­त्स­त्त्वो­त्क­र्षा­त्तथा मनः ।।
पुण्डरीकं यथा शुक्लं सौम्य­मा­ह्ला­द­कृ­त्तथा ।। १६५ ।।

सकृ­द्वि­द्यु­द्य­थाऽ­त्यन्तं घन­ध्वा­न्ता­प­नो­द­कृत् ।।
अतीव भास्वराऽस्माकं चक्षु­र्मु­ट्स­कृ­दु­द्गता ।। १६६ ।।

हिर­ण्य­ग­र्भ­त­त्त्वस्य जायमानस्य केशवात् ।।
विद्यु­द्व­त्प्र­थते रूपं किल तस्य महात्मनः ।। १६७ ।।

अतोऽनेनैव रूपेण य उपास्ते दिवानिशम् ।।
सर्वा­न्ध­का­र­ह­न्त्रीव विद्युत्तं श्रीः सदाऽऽश्रयेत् ।। १६८ ।।

नाऽऽदिर्न मध्यं नैवान्तो नेयत्ता विद्यते यतः ।।
अन­न्त­क­ल्पो­प­च­या­द्वा­स­ना­ना­मु­दा­हृतिः ।। १६९ ।।

माहा­र­ज­न­मि­त्या­दिर्न त्वियत्ता विवक्षिता ।।
प्रकारदर्शनायैव तेनो­दा­हृ­ति­रि­ष्यते ।। १७० ।।

निःशेषमेवं सत्यस्य रूपं व्याख्याय सांप्रतम् ।।
पर­मा­र्थ­स­त्य­या­था­त्म्य­नि­र्दे­शाय प्रयत्यते ।। १७१ ।।

यतो व्याख्यातमखिलं मूर्तामूर्तादि वस्त्वतः ।।
आदेशोऽनन्तरं तस्य क्रिय­तेऽ­न­न्य­मा­निनः ।। १७२ ।।

मूर्ता­मू­र्ता­स्व­भा­वस्य सत्य­स्याऽऽ­वि­ष्कृ­ते­रथ ।।
ब्रह्मातिरेकतो नान्यद्यतो वस्त्ववशिष्यते ।। १७३ ।।

आदेशो ब्रह्मणोऽतोऽयं निरादेशस्य भण्यते ।।
अतिमानाभिधानस्य प्रत्य­ङ्भा­त्रा­द्व­या­त्मनः ।। १७४ ।।

कर्म­ण्या­दे­श­श­ब्दोऽयं यदि वा करणे भवेत् ।।
आदि­ष्टि­र­थ­वाऽऽ­देशो नेति नेत्यद्वयात्मनः ।। १७५ ।।

नेति नेती­ति­श­ब्दाभ्यां सत्यस्य ब्रह्मणः कथम् ।।
प्रमाणगोचरातीतं तत्त्वं स्यान्नि­र्दि­दि­क्षि­तम् ।। १७६ ।।

शुणु सर्वं तद­ज्ञा­न­स­मु­त्थस्य निषेधतः ।।
प्रत्य­ङ्भा­त्रै­क­रू­पेण तदबोधनिराकृतेः ।। १७७ ।।

अमूर्तस्य परा निष्ठा कारणात्मा पुरोदितः ।।
मूर्तस्य च तथा पृथ्वी मध्ये संकीर्णता तयोः ।। १७८ ।।

माना­भि­धा­न­यो­र्या­वा­न्क­श्चि­द्वि­षय इष्यते ।।
उक्त­यो­र्म­ध्य­व­र्त्येव कार्यकारणयोरसौ ।। १७९ ।।

नामरूपे तथा कर्म प्राणा लोकादयस्तथा ।।
कारकं वा क्रियाऽन्यद्वा कारणं कार्यमेव च ।। १८० ।।

जातिर्गुणः क्रिया द्रव्यं संबन्धो भाव एव च ।।
सदसत्सदसच्चेति समस्तव्यस्तमेव च ।। १८१ ।।

प्रमाता च प्रमाणं च प्रमेयोऽथ क्रियाफले ।।
इत्यादेः प्रतिषेधेन प्रत्य­ङ्ङा­त्मा­व­ल­म्बिना ।। १८२ ।।

उप­प्र­द­र्श­कोऽ­शे­ष­ना­मा­दे­रि­ति­रि­ष्यते ।।
तस्यो­प­द­र्शि­त­स्याथ निषेधः क्रियते नञा ।। १८३ ।।

आकृष्टं रूपिणो रूपं न पृथ­ग्व्य­व­ति­ष्ठते ।।
जगत्यकल्पितमपि किमु मोहादिकल्पितम् ।। १८४ ।।

घटे पटो निषिद्धोऽपि घटादन्यत्र तिष्ठति ।।
तदन्यत्रापि सद्भा­वा­द­नि­षि­द्धस्य धर्मिणः ।। १८५ ।।

पर­मा­र्था­न्नि­षि­द्धस्य तन्मोहोत्थस्य वस्तुनः ।।
हिरुक्स्थितिः कथं तस्य पर­मा­र्था­त्म­नाऽ­थवा ।। १८६ ।।

निषे­ध्या­ना­म­शे­षा­णा­म­न्यो­न्य­व्य­भि­चा­रतः ।।
प्रती­चोऽ­व्य­भि­चा­रोऽ­त­स्त­त्रा­ध्यस्तं निषिध्यते ।। १८७ ।।

इति­श­ब्दो­प­दि­ष्टानां निषे­धोऽ­नु­भ­वा­त्मनि ।।
अनन्तेऽन्तवतां यत्र तद्ब्र­ह्मे­त्य­व­सी­य­ताम् ।। १८८ ।।

सद्भा­व­श्चो­प­ल­ब्धिश्च स्वार्थ­प्र­त्य­क्चि­दा­श्र­यात् ।।
मूर्ता­दी­ना­म­नि­र्दे­श्या­दि­ति­र्मत्तो निवर्तते ।। १८९ ।।

निषेधति निषेध्यार्थं यद्व­ला­न्न­ञ्चि­दा­त्मनः ।।
विज्ञानेनैव हत्वाऽ­न्य­त्पू­र्ण­त्वे­नैति चित्स्वतः ।। १९० ।।

प्रत्य­ङ्मा­त्र­दृशि ह्यस्मि­ञ्जा­ग्र­त्स्व­प्न­सु­षु­प्तिषु ।।
तद­न्य­द्य­त्त­दा­भासं तन्नञा प्रतिषिध्यते ।। १९१ ।।

अवि­चा­रि­त­सं­सि­द्धि­प्र­त्य­ङ्मो­ह­हतौ सदा ।।
विस्फारिताक्षः प्रत्य­ग्धी­र्मा­ना­न्नि­र्वा­त्य­थाऽऽ­त्मनि ।। १९२ ।।

अपे­क्षा­ज्ञा­न­हे­तूत्थं कार्य­का­र­ण­व­स्त्वतः ।।
विचार्यमाणं तन्नास्ति व्योम्नि कार्प्ण्य­मि­वाऽऽ­त्मनि ।। १९३ ।।

शब्द­प्र­वृ­त्ति­हे­तूनां प्रत्य­गा­त्म­न्य­सं­भ­वात् ।।
प्रमाणगोचराणां च स्वतः सिद्धेर्न निहृतिः ।। १९४ ।।

मानाभिधानविषयो याव­न्नाऽऽ­त्मा­न­मा­त्मनि ।।
लभते प्रत्यगात्मानं न नञ्ता­व­न्नि­व­र्तते ।। १९५ ।।

निर­स्ता­ज्ञा­न­त­त्कार्ये लब्ध आत्म­न्य­थाऽऽ­त्मना ।।
निषेध्यहेतौ प्रध्वस्ते निषेधोऽपि निवर्तते ।। १९६ ।।

प्रमातृत्वादिना यावत्किंचिदत्र विवक्षितम् ।।
तदभावश्च तत्सर्वं नेतीति प्रतिषिध्यते ।। १९७ ।।

निषेध्यं सर्व­मे­वै­त­द­नि­षे­ध्या­त्म­व­स्तु­गम् ।।
अतो नाभावनिष्ठः स्यादभावस्यापि निह्नवात् ।। १९८ ।।

नेति नेतीत्यतो वीप्सा जिघृ­क्षि­त­नि­षे­धतः ।।
बुभुत्सितस्य कृत्स्नस्य वीप्सैवातो निषेधनी ।। १९९ ।।

ज्ञान­क्रि­याभ्यां व्याप्योऽ­य­मि­त्या­काङ्क्षा निवर्तते ।।
अप्रमित्सित एकस्मिन्निष्ठां यात्यचिकीर्षिते ।। २०० ।।

रज्जु­या­था­त्म्य­वि­ज्ञा­ना­त्स­र्प­व­त्क­र­णा­त्मनः ।।
निषेधो नान्यतः शक्यः कर्तुं वर्षशतैरपि ।। २०१ ।।

यद्यत्प्राप्तं जग­त्य­स्मिं­स्त­त्त­त्सर्वं निषिध्यते ।।
एवं च सत्य­नि­र्दि­ष्टा­श­ङ्काऽपि विनिवर्तते ।। २०२ ।।

न चेद्वीप्सा तदा वाक्य­द्व­य­मे­त­द्वि­व­क्षि­तम् ।।
उक्तद्वयनिषेधेन तस्य चोपक्षयाद्भवेत् ।। २०३ ।।

अनु­क्त­वि­ष­या­शङ्का सर्व­स्या­प्र­ति­षे­धतः ।।
यदि वाऽभावविषया न ह्यभावो निषिध्यते ।। २०४ ।।

साक्षा­न्मा­न­प्र­सि­द्धेषु प्रति­षि­द्धे­त­र­ग्रहः ।।
अप्रसिद्धे प्रसिद्धानां निषे­धा­च्छू­न्य­ता­ग्रहः ।। २०५ ।।

आदेश इत्युपक्रम्य प्रति­षे­धोऽ­य­मु­च्यते ।।
साक्षादादिश्यते येन तादृगादेश उच्यते ।। २०६ ।।

निषेधवर्त्मना तस्मा­द­नि­षे­ध्या­त्म­सा­क्षिणा ।।
ज्ञाताज्ञातं निषिध्याथ सदा दृष्टौ प्रतिष्ठति ।। २०७ ।।

यथा श्रोत्रधिया रूपं रूप­हे­त्व­स­म­न्व­यात् ।।
नाग्रहीन्न च गृह्णाति न ग्रहीष्यति शब्दवत् ।। २०८ ।।

प्रत्यक्तत्त्वे विनिर्ज्ञाते नेति नेतीतिवाक्यतः ।।
तद्व­त्स­का­र­णोऽ­नात्मा नाभूदस्ति भविष्यति ।। २०९ ।।

नान्य­द­ज्ञा­न­तोऽ­स्तित्वं द्विती­य­स्याऽऽ­त्मनो यथा ।।
निवृ­त्ति­स्त­द्व­दे­वास्य नाव­ग­त्या­त्म­नोऽ­परा ।। २१० ।।

अन­न्या­य­त्त­मै­कात्म्यं यदा साक्षा­द्व्य­व­स्थि­तम् ।।
व्येव त्वेति प्रतिज्ञेयं तदा स्यात्सफलोदिता ।। २११ ।।

नेति नेतीत्यतो वीप्सा­सं­भ­वा­दु­क्त­व­स्तुनः ।।
कृतार्थता तथाच स्यादन्यथा नोपपद्यते ।। २१२ ।।

परागर्थेषु सक्ता धीः प्रत्य­ग­र्था­नु­र­ञ्ज­नात् ।।
निषिद्धाऽतः परा­ग­र्था­त्प्र­तीचि लभते स्थितिम् ।। २१३ ।।

व्यतिरेकस्य सिद्ध­त्वा­दा­दे­शोक्तेः पुरैव हि ।।
साक्षा­द्ब्र­ह्म­त्व­सि­द्ध्या­र्थ­मा­दे­शोऽ­य­म­थो­च्यते ।। २१४ ।।

न निषेधो निषेध्यार्थो लक्ष­णा­र्थ­प­र­त्वतः ।।
ब्रह्मणो मान्तरासिद्धेः शून्यतैव प्रसज्यते ।। २१५ ।।

षष्ठ्युक्तेरेव संसिद्धा मूर्ता­दे­र्ब्र­ह्म­णोऽ­न्यता ।।
ततश्च जामि­ता­स­क्ति­र्नातः स्यात्पा­रि­शे­ष्यगीः ।। २१६ ।।

शक्यते न निषेद्धुं च प्रत्य­क्षा­द्या­श्रि­त­त्वतः ।।
निषेधान्न पुमर्थोऽपि कश्चि­त्सि­ध्ये­त्स­मी­हितः ।। २१७ ।।

निषे­ध­मा­त्र­नि­ष्ठत्वे न चाऽऽदेशो भवेत्प्रभोः ।।
ब्रह्म मूर्तादि नेत्युक्तौ मूर्तादेर्न निषेधगीः ।। २१८ ।।

ततश्च ब्रह्म­ता­सि­द्धि­र्द्वि­तीये सति वस्तुनि ।।
व्येव त्वेति प्रतिज्ञार्थो नापि चाऽऽविष्कृतो भवेत् ।। २१९ ।।

पारि­शे­ष्या­द­तोऽ­सिद्धिः स्याद्वि­व­क्षि­त­व­स्तुनः ।।
यथा सिद्धिस्तथा व्याख्या कार्ये­हो­क्ते­र­तोऽ­ञ्जसा ।। २२० ।।

सिद्धो निषेधः प्रागेव सर्व­स्या­ना­त्म­व­स्तुनः ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­ना­द­न्यो­न्य­व्य­भि­चा­रतः ।। २२१ ।।

अन्यो­न्य­व्य­भि­चा­रोऽस्य वीक्ष्य­तेऽ­ना­त्म­व­स्तुनः ।।
स्वरू­प­व्य­भि­चा­रोऽपि सुषुप्तादौ स्वसाक्षिगः ।। २२२ ।।

यथा मात्रादिसचेयं प्रत्य­क्सं­वि­त्ति­सि­द्धिका ।।
प्रमा­त्रा­दे­र­भा­वोऽपि प्रत्य­ग्बो­धा­श्र­या­त्तथा ।। २२३ ।।

अवि­चा­रि­त­सं­सि­द्धि­रा­त्मा­वि­द्यै­क­रू­पतः ।।
सिद्धा­य­तेऽ­खि­लोऽ­नात्मा स्वतः­सि­द्धा­त्म­सं­श्र­यात् ।। २२४ ।।

अति­रो­हि­त­सं­वित्को व्यपा­स्ता­शे­ष­वि­क्रियः ।।
अन­न्य­मा­तृ­मा­ना­दि­र्दृ­ष्टि­मा­त्रा­त्म­क­त्वतः ।। २२५ ।।

भावाभावात्मिका सिद्धिर्येयं सर्वाऽ­प्य­ना­त्मनः ।।
तद्वि­रु­द्धा­त्म­का­न्मत्तो मय्येवासौ प्रसिध्यति ।। २२६ ।।

अनन्यानुभवेनैव भावा­भा­वा­त्म­भू­मिषु ।।
प्रत्यक्कूटस्थ आत्मानं पश्यन्नास्ते फलात्मना ।। २२७ ।।

अतो मात्रादिसंभेदो यत्र यत्र निवर्तते ।।
तत्र तत्रैकलः प्रत्य­क्स्व­म­हि­म्नैव सिध्यति ।। २२८ ।।

प्रमा­त्रा­दे­र­भा­वोऽतो यः सिद्धः स्वात्मबोधतः ।।
नञ्वृत्तिस्तं सदाबुद्धं लक्ष­य­त्य­पृ­थ­क्प्र­मम् ।। २२९ ।।

वैविक्त्यान्न च माना­दे­र­न­न्या­नु­भ­वा­त्मनि ।।
सहेतुकस्य वृत्तिः स्यान्नि­त्य­बो­धा­व­बॊ­धिनि ।। २३० ।।

अवि­द्या­द्य­ति­रे­केण कार­णा­दि­वि­ध­र्म­कम् ।।
लब्धमात्मात्मकं वस्तु प्रती­चोऽ­न­न्य­मा­नतः ।। २३१ ।।

एतद्वस्तु स्वतःसिद्धं प्रमा­त्रा­द्य­न­पे­क्षतः ।।
सर्वस्यैव ततः सिद्धेः कथं सिध्येत्तदन्यतः ।। २३२ ।।

उक्ता प्रमेयसंसिद्धिः स्वमहिम्नैव नञ्श्रुतेः ।।
तस्य ब्रह्मत्वबोधाय नेति ब्रह्मे­ति­नो­च्यते ।। २३३ ।।

आत्म­प्र­त्य­य­मा­मेयो लक्षितो यो नञाऽञ्जसा ।।
अवि­द्या­दे­स्त­दा­त्म­त्वा­दिति ब्रह्मेति बोध्यते ।। २३४ ।।

प्रत्य­ङ्मो­ह­त­दु­त्थस्य प्रत्य­ग्या­था­त्म्य­बो­धतः ।।
बाधि­त­त्वा­द­तोऽ­वो­च­दिति ब्रह्मेति मोहनुत् ।। २३५ ।।

आदेशं प्रत्यतिमहानथात इति संभ्रमः ।।
तेनासदृश आदेशो नन्व­यु­क्तोऽ­य­मी­र्यते ।। २३६ ।।

युक्त एवायमादेशो न यतो विद्यते परः ।।
आदे­शोऽ­तोऽ­य­मे­वात्र ब्रह्मण्यादेश इष्यते ।। २३७ ।।

आदि­दि­क्षि­त­मे­तस्य तत्त्वं यद्ब्रह्मणः परम् ।।
यावन्तस्तत्र निर्दे­श्या­स्तेऽर्थाः सर्वे निवर्तिताः ।। २३८ ।।

निवृत्तिश्च यथोक्तैव तेषा­मै­का­त्म्य­ल­क्षणा ।।
भिन्न­दे­श­स्थि­ति­स्त्वत्र वास्तवी नोपपद्यते ।। २३९ ।।

अव्या­वृ­त्ता­न­नु­गतो ब्रह्मशब्दार्थ इष्यते ।।
मुख्योऽ­न्य­स्मि­न्सति यतो ब्रह्मार्थो नावसीयते ।। २४० ।।

शब्द­प्र­वृ­त्ति­हे­तू­ना­मै­का­त्म्येन समाप्तितः ।।
तथा तद­भि­धे­या­ना­मा­दे­शोऽयं मतः परः ।। २४१ ।।

अभि­धा­भि­धे­य­सं­ब­न्ध­म­ङ्गी­कृत्य यतोऽक्षरे ।।
न कश्चिदपि शब्दोऽत्र साक्षा­द्ब्र­ह्मणि वर्तते ।। २४२ ।।

आदेशो नेति नेत्येव तेनेह घटतेऽञ्जसा ।।
तद­बॊ­ध­प्र­सू­ता­ना­मा­का­ङ्क्षाणां निषेधतः ।। २४३ ।।

मूर्तामूर्तं हि सत्याह्वं प्राणाः सत्यास्तदात्मतः ।।
क्षेत्र­ज्ञ­स्त­दु­पा­धि­त्वा­त्सत्य इत्यभिधीयते ।। २४४ ।।

अनिर्देश्यस्य निर्देश्या ये भेदाः कार्यलक्षणाः ।।
तेषु लब्धास्पदं नाम पर­स्मि­न्नु­प­च­र्यते ।। २४५ ।।

मूर्ता­मू­र्ता­त्मकं सत्यं प्राणादेः कार्यरूपिणः ।।
तस्याप्येतत्परं सत्यं यन्ने­ती­त्य­व­धा­रि­तम् ।। २४६ ।।

उक्त­व­स्त्व­ति­रे­केण नामीषां सत्यता यतः ।।
न चाप्यसत्यता तस्मात्तेषां सत्यं परं पदम् ।। २४७ ।।

आत्मवन्तो यथा रज्ज्वा रज्जु­स­र्पा­द­य­स्तथा ।।
आत्मवन्तो निरात्मानः प्राणाद्याः प्रत्यगात्मना ।। २४८ ।।

यत एव मतोऽन्वीक्ष्य मूर्ता­मू­र्ता­दि­व­र्त्मना ।।
सत्य­श­ब्दा­भि­धे­यार्थं तया द्वारा परं पदम् ।। २४९ ।।

व्यप­दि­श्य­मा­न­मै­कात्म्यं सत्य­स्याऽऽ­त्मा­न­म­द्व­यम् ।।
द्रष्ट­व्य­मा­त्म­नै­वैनं सत्यं पश्येद्यथोदितम् ।। २५० ।।

अतोऽ­व्या­कृ­त­या­थात्म्यं व्याकृ­ते­नो­प­दि­श्यते ।।
सत्यस्य सत्यमिति तन्नान्यथा व्यपदेशभाक् ।। २५१ ।।

व्यपदेशाय नामैतन्न स्वं नामास्य विद्यते ।।
ननु ब्रह्माक्षरमिति व्यपदेशोऽत्र नामभिः ।। २५२ ।।

कार्यकारणगे तत्त्वे नाम लब्धास्पदं यतः ।।
रूपा­भि­धे­य­सं­ब­न्ध­म­रू­पा­श­ब्द­म­क्ष­रम् ।। २५३ ।।

लक्षयेन्नाञ्जसा वक्ति परं ब्रह्म कथंचन ।।
शब्द­प्र­वृ­त्ति­हे­तूनां साक्षा­द्ब्र­ह्म­ण्य­सं­भ­वात् ।। २५४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­या­ध्या­यस्य तृतीयं ब्राह्मणम्

आत्मेत्येवेति सूत्रस्य व्याख्येयं प्रस्तुता स्फुटा ।।
ब्रह्म तेऽहं ब्रवाणीति प्रार­भ्याऽऽ­पू­र्ण­वा­क्यतः ।। १ ।।

नित्य­क­र्मा­द्य­नु­ष्ठा­न­सं­शु­द्ध­धि­षणः पुमान् ।।
निःशे­ष­क­र्म­हे­तू­त्थ­फ­ल­सा­व­द्य­धी­स्ततः ।। २ ।।

विरक्त आग्रजात्सोऽयं तत्सा­व­द्य­स­मी­क्ष­णात् ।।
संसा­र­दुः­ख­सं­स्का­र­स्मृ­तिभिः प्रेर्यमाणधीः ।। ३ ।।

उद्भूततज्जिहासः संस्तद्धाने साधनस्पृहः ।।
त्यक्ताशेषैषणः सोऽथ प्रत्य­ग्या­था­त्म्य­नि­श्चयः ।। ४ ।।

वस्तु­वृ­त्ता­त्म­सं­बो­ध­ध्व­स्त­सं­सा­र­का­रणः ।।
व्यावि­द्धा­शे­ष­सं­सारो विमुक्तो ना विमुच्यते ।। ५ ।।

याव­त्किं­चि­द­वि­द्यायाः कार्यं वैराग्यकारणम् ।।
तत्संन्यासो विर­क्त­त्वा­त्स्वत एव न शास्त्रतः ।। ६ ।।

ब्रह्म­या­था­त्म्य­वि­ज्ञा­न­सा­ध­नत्वं विनाऽऽगमात् ।।
संन्यासस्य न विज्ञातं तच्छास्त्रेणेह बोध्यते ।। ७ ।।

ब्रह्मा­वि­द्य­स­मु­त्था­ना­त्का­र्य­का­र­ण­ल­क्ष­णात् ।।
व्युत्थाप्य नेति नेतीति परं ब्रह्म प्रदर्शितम् ।। ८ ।।

तत्रै­त­च्छ­ङ्क्यते चोद्यं ब्रह्म­त्व­सि­द्धि­दो­ष­कृत् ।।
निषिद्धं नेति नेतीति मूर्तामूर्तादि वस्तु यत् ।। ९ ।।

किं तद्ब्रह्मानुगं सर्वं किं वा तस्मा­द्वि­वि­च्यते ।।
यदि ब्रह्मानुगं ब्रह्म स्यादनर्थात्मकं तदा ।। १० ।।

अभावनिष्टं तच्चे­त्स्या­न्मुख्यं ब्रह्म न सिध्यति ।।
अभावस्य ततोऽ­न्य­त्वा­द­न्व­य­व्य­ति­रे­कतः ।। ११ ।।

नेतीत्यपि निषेधोक्तिस्तथा सति विरुध्यते ।।
वैदिकश्च प्रयासोऽयं सर्वः स्यात्तु­ष­क­ण्ड­नम् ।। १२ ।।

विविच्यते ब्रह्म­ण­श्चे­न्मैवं दोषस्तथाऽपि हि ।।
ब्रह्मत्वं ब्रह्मणो न स्याद्वितीये सति वस्तुनि ।। १३ ।।

अव्या­वृ­त्ता­न­नु­गतं वस्तु ब्रह्म­त्व­म­श्नुते ।।
एतच्च दुर्लभं तस्य द्वितीये सति लक्षणम् ।। १४ ।।

अथाब्रह्मात्मकं वस्तु जग्ध्वा चेद्ब्रह्म तद्भवेत् ।।
प्रतीचो ब्रह्म­णाऽ­त्त­त्वान्न मोक्षो नापि संसृतिः ।। १५ ।।

संसारिणो न चेदत्ति संसार्येव प्रसज्यते ।।
नाऽऽप्नोति ब्रह्मतां साक्षात्सत्सु संसारिवस्तुषु ।। १६ ।।

संसारे चापि जग्धेऽ­स्मि­न्ब्र­ह्मणा निखिले सति ।।
ऋतेऽपि ब्रह्म­वि­ज्ञा­ना­त्सर्वे स्युर्मु­क्त­ब­न्धनाः ।। १७ ।।

अन्वयादिनिषेधाय सर्वमात्मेति वाक्यतः ।।
मैत्रे­याी­त्या­दिको ग्रन्थ­स्त­स्मा­दा­र­भ्यते परः ।। १८ ।।

सर्वा­ब्र­ह्म­नि­षे­धेन तदर्थो वेह निश्चितः ।।
तस्य संसि­द्धि­वि­ष­य­मै­का­त्म्य­म­धु­नो­त्यते ।। १९ ।।

नेतीति ब्रह्मणोऽन्यत्र मूर्ता­मू­र्त­व्य­व­स्थितौ ।।
प्रसक्ते सांख्य­सि­द्धान्ते सर्वमात्मेति वोच्यते ।। २० ।।

सत्यपि ब्रह्मवेदित्वे नासंत्यक्तैषणो यतिः ।।
मुक्तिभागिति चेहोक्तः संन्यासेन समुच्चयः ।। २१ ।।

निर­स्ता­ति­श­य­ज्ञानो याज्ञवल्क्यॊ यतो गृही ।।
कैव­ल्या­श्र­म­मा­स्थाय प्राप तद्वैष्णवं पदम् ।। २२ ।।

त्याग एव हि सर्वेषां मोक्ष­सा­ध­न­मु­त्त­मम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। २३ ।।

मुक्तेश्च बिभ्यतो देवा मोहे­ना­पि­द­धु­र्न­रान् ।।
ततस्ते कर्मसूद्युक्ताः प्राव­र्त­न्ता­वि­प­श्चितः ।। २४ ।।

मोह­मा­त्रै­क­हे­तूनि तस्मा­त्क­र्मा­ण्य­शे­षतः ।।
संन्य­स्यै­का­त्म्य­सं­बो­धा­द्भित्त्वा मोहं विशुद्धधीः ।।
ज्ञान­मे­वाऽऽ­त्म­नाऽऽ­त्मा­न­मु­पा­सी­नोऽ­मृतो भवेत् ।। २५ ।।

इति प्रमाणमत्रार्थे वचनं भाल्लविश्रुतौ ।।
सर्वः संन्यस्तकर्मैव ज्ञाना­त्कै­व­ल्य­म­श्नुते ।। २६ ।।

ब्रह्म­च­र्या­द्गृ­हा­च्चैव वनाच्चापि बिधीयते ।।
निःशे­ष­क­र्म­सं­न्यासो यतोऽतो नर्णबद्धता ।। २७ ।।

श्रुत्या जावालशाखायां तथा­चा­न­धि­का­रि­णाम् ।।
संन्यासस्य विधानाच्च कार्योऽतोऽसौ मुमुक्षुभिः ।। २८ ।।

नरलोकादिकामानां सुतोत्पत्त्यादि साधनम् ।।
तेभ्यो व्युत्थि­त­चि­त्तानां संन्या­स­स्त्वा­त्म­का­मि­नाम् ।। २९ ।।

इममर्थं श्रुतिर्वक्ति सर्व­क­र्मा­न­पे­क्षिणी।।।।
प्रजादिना करिष्यामः किं तत्फलवितृष्णतः ।। ३० ।।

उत्प­त्त्या­दि­वि­रु­द्धोऽयं लोको येषामकर्मजः ।।
मोह­मा­त्रा­न्त­रा­या­त्वा­ज्ज्ञा­न­मा­त्र­म­पे­क्षते ।। ३१ ।।

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। ३२ ।।

भावितैः करणैश्चायं बहुसंसारयोनिषु ।।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ।। ३३ ।।

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।।
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ।। ३४ ।।

श्रुतयः स्मृत­य­श्चै­व­म­स्मि­न्नर्थे सहस्रशः ।।
प्रत्यक्षा एव विद्यन्ते संन्या­स­प्र­ति­पा­दिकाः ।। ३५ ।।

मुख्यार्थता वा प्रागुक्ता ब्रह्मेत्यस्य सदादृशि ।।
प्रती­च्य­थाऽऽ­त्म­श­ब्दस्य मुख्यार्थो ब्रह्मणीर्यते ।। ३६ ।।

ततस्तदेतदिति च ब्रह्मा­त्म­प­द­वा­च्ययोः ।।
मधु­का­ण्डा­र्थ­स­र्वस्वं वाक्येन प्रतिपाद्यते ।। ३७ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­ज­न्म­नेऽतः श्रुतिः स्वयम् ।।
विधित्सन्तीह संन्यासं मैत्रेयीति प्रवर्तते ।। ३८ ।।

भार्या­द्य­नु­ज्ञा­पूर्वो हि संन्यासो विहितः श्रुतौ ।।
अतोऽ­नु­ज्ञा­र्थ­मे­वाऽऽह मैत्रे­यी­मृ­षि­रा­त्मनः ।। ३९ ।।

उद्यास्यन्वा अरे स्थाना­द­स्मा­द्गा­र्ह­स्थ्य­ल­क्ष­णात् ।।
चिकीर्षवे मे संन्यासमनुज्ञां दातुमर्हसि ।। ४० ।।

युक्तमाह भवानस्माननुरूपं चिकीर्षति ।।
यदेवं सति कर्तव्यं तत्क्षि­प्र­म­नु­शाधि माम् ।। ४१ ।।

अनुज्ञातोऽथ तामाह हन्तेत्यादि परं वचः ।।
कात्यायन्या सपत्न्या ते विभागं करवाण्यहम् ।। ४२ ।।

निःस्वा स्त्री स्ववता पुंसा नियुक्ता कर्मसंपदि ।।
मयि प्रव्रजिते तस्मा­द्यु­व­यो­र्ना­र्थ­सं­गतिः ।। ४३ ।।

स्ववानेव पुरा न्यासाद्युवयोः स्वेन सांप्रतम् ।।
विभागं करवाणीति भार्या तेनाभ्यचोदयत् ।। ४४ ।।

वृत्तिभिः संविभज्य स्वान्सं­न्य­से­दिति चोद्यते ।।
यतः शास्त्रेण तेनायं विभागः क्रियते मया ।। ४५ ।।

युक्त­मे­त­द्व्य­व­सितं यद्वित्तं न प्रदित्सति ।।
भव­त्सं­न्या­स­व­न्नू­न­म­स्म­द्धि­त­करं धनम् ।। ४६ ।।

महानुभावसंपर्कः कस्य नोन्नतिकारणम् ।।
अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम् ।। ४७ ।।

भग­व­त्सं­ग­ते­र्नान्यः पुरु­षा­र्थोऽ­मृ­त­त्वतः ।।
पृच्छा­म्य­तोऽ­मृ­त­त्वस्य साधनं स्यात्कथं धनम् ।। ४८ ।।

सारेण यदि नामेयं पूर्णा स्याद्वसुना मही ।।
ताव­ताऽ­प्य­मृ­ताऽहं स्यां किंवा नेत्युच्यतां यथा ।। ४९ ।।

सत्ता­मा­त्रो­प­का­रिणि धनानि धनिनां न हि ।।
क्रिया­द्वा­रो­प­का­रीणि यतोऽतः पृच्छ्यते क्रिया ।। ५० ।।

प्रत्याह पृष्टः स्वां जायां नामृतत्वं धनादिति ।। ५१ ।।
वित्तं चेन्नामृतत्वाय कस्माद्दित्सति तद्भवान् ।।
इति पृष्टोऽ­ब्र­वी­द्वि­त्त­सा­ध­नस्य प्रयोजनम् ।। ५२ ।।

क्षयि­ष्णु­सा­ध­ना­धीनं जीवितं स्याद्यथा नृणाम् ।।
तथैव तव वित्तेन जीवितं नामृतात्मता ।। ५३ ।।

अवि­द्या­मा­त्र­वि­ध्वं­सा­ज्ज्ञा­ना­दे­वा­मृतं यतः ।।
अमृतत्वस्य नाऽऽशाऽपि वित्तसाध्येन कर्मणा ।। ५४ ।।

कुतोऽ­मृ­त­त्व­सं­प्रा­प्ति­र्ज्ञा­न­मा­त्रै­क­हे­तुना ।।
न कर्म कारणं मुक्ते­र्ना­ग्नि­स्ता­पस्य भेषजम् ।।
कर्मभ्यो जन्म नियतं जन्म चेन्निर्वृतिः कुतः ।। ५५ ।।

स्वभावादेव साधूनां प्रवृ­त्ति­रु­प­का­रिणी ।।
अपकारिण्यपि जने किमु भक्तजनं प्रति ।। ५६ ।।

नूनं ममापराधोऽयं यद्भवन्तोऽपि मां प्रति ।।
प्रतिलोमं चिकीर्षन्ति कोऽन्यः स्याद्धितकृन्मम ।। ५७ ।।

अनुरक्तां प्रियां साध्वीं बद्ध्वा वित्तेन मां कथम् ।।
कामो­च्छि­त्ति­म­कृत्वा च संन्यसन्ति भवद्विधाः ।। ५८ ।।

वित्ता­च्चे­द­मृ­तत्वं स्यात्त­त्ति­त्यक्षा न युज्यते ।।
वित्ता­च्चे­न्ना­मृ­तत्वं स्याद्वद तेन ममापि किम् ।। ५९ ।।

यद्य­स्त्य­नु­जि­घृ­क्षैवं करुणा वा मयीष्यते ।।
यदेव भगवान्वेद तेन संविभजस्व माम् ।। ६० ।।

यद्वि­ज्ञा­ना­त्प­रि­त्यज्य निःशेषं वित्तसाधनम् ।।
स्वारा­ज्य­मी­प्सति भवांस्तदेव वसु देहि मे ।। ६१ ।।

नाऽऽदिर्नान्तो न मध्यं वा यस्य वित्तस्य विद्यते ।।
भोगे न च क्षयं याति तदेव वसु दीयताम् ।। ६२ ।।

अनन्तवित्तो हि भवानन्तवद्दीयते कुतः ।।
असतः कीदृशं दानं सदेवातः प्रदीयताम् ।। ६३ ।।

संसा­र­पु­रु­षा­र्थेभ्यो यतो नाव्यु­त्थि­ता­त्मने ।।
मुक्त्येकसाधनं ज्ञानं दातुं शक्यमिदं मया ।। ६४ ।।

अमु­मु­क्षु­त्व­मा­शङ्क्य भवत्यै तत्प्रदित्सितम् ।।
संसा­रा­च्चे­द्वि­र­क्ताऽसि गृहा­णा­नु­त्त­मा­मृ­तम् ।। ६५ ।।

स्त्रीणां यदुचितं वाक्यं प्रतिलोमं न भाषसे ।।
पूर्व­व­त्त्व­नु­कूलं त्वमिदानीमपि भाषसे ।। ६६ ।।

मोक्षं यान्तं नरं सर्वे मुञ्चन्ति सहजा अपि ।।
अतिभक्तितया मां त्वं मोक्षेऽपि न जिहाससि ।। ६७ ।।

विभागमसहन्तीव मद­ति­स्ने­ह­का­र­णात् ।।
मुक्तावनुयियासि त्वं मदै­का­त्म्य­प­री­प्सया ।। ६८ ।।

अति­स्ने­हाऽ­प­कृ­ष्टोमा देहार्धं शूलिनः श्रिता ।।
त्वं तु सर्वा­त्म­नाऽऽ­त्मानं कृत्स्नं मामाप्तुमिच्छसि ।। ६९ ।।

यत एवमतस्तुभ्यं वक्ष्या­म्य­मृ­त­सा­ध­नम् ।।
निदिध्यासस्व चेतोऽतो व्याचक्षाणस्य तन्मम ।। ७० ।।

आ ब्रह्म­णोऽ­स्मा­त्सं­सा­रा­च्छु­द्ध­धीर्न विरज्यते ।।
यावत्तावन्न विद्याया अधिकारी भवेन्नरः ।। ७१ ।।

वैरा­ग्य­हे­ता­व­प्य­स्मि­न्रक्तो धर्मादिहेतुतः ।।
यतोऽतः कर्मशुद्धात्मा भवा­द­स्मा­द्वि­र­ज्यते ।। ७२ ।।

वैरा­ग्य­हे­तू­न्सं­सारे तस्मा­द्य­त्ना­दियं श्रुतिः ।।
न वा अर इति ह्युक्त्या वक्तुं समुपचक्रमे ।। ७३ ।।

यस्मिन्नेव परा सक्ति­स्त­स्मि­न्नेव निरादरम् ।।
कर्म कृत्वा परं यत्ना­द­न्य­स्या­र्थ­यते फलम् ।। ७४ ।।

किमिक्षो रसमाप्नोति यत्ना­न्नि­ष्पी­ड­यन्न ना ।। ७५ ।।
तीव्रदुःखोद्भवो बुद्धौ संस्कारो यावदेव तु ।।
तद्विपक्षः सुखं तावदल्पं तत्संक्षये क्षयः ।। ७६ ।।

शीतमल्पं सुखं ग्रीष्मे तापोऽल्पः शिशिरे सुखम् ।।
तदेव दुःखकृद्भूरि तद्धे­त्वो­र­न­व­स्थितेः ।। ७७ ।।

शब्दोऽस्ति न प्रियः कश्चिदप्रियो वा स्वतस्तथा ।।
रक्तद्विष्टमनो हेतुः शब्दाद्यर्थे प्रियाप्रिये ।। ७८ ।।

स्वतोऽ­खि­लोऽ­प्रि­योऽ­नात्मा प्रत्य­ङ्मो­है­क­हे­तुतः ।।
प्रत्य­गा­ह्ला­द­का­रि­त्वा­द­प्रि­योऽपि प्रियो मतः ।। ७९ ।।

जायादिरप्रियः सर्वः स्वत आद्यन्तदुःखकृत् ।।
तद्धेतोरात्मनः प्रीतेर्जायादिः प्रिय उच्यते ।। ८० ।।

न कस्यां­चि­द­व­स्था­या­मात्मा लोकेऽप्रियो मतः ।।
प्रियोऽप्रियश्च जाया­दि­र्य­थाऽ­नात्मा मुहुर्मुहुः ।। ८१ ।।

स्वत एवा­प्रि­योऽ­नात्मा ह्यात्म­प्री­त्य­र्थ­सा­ध­नात् ।।
जायादिः स्यात्प्रियो भक्त्या बन्धक्याः कामुको यथा ।। ८२ ।।

निर्हैतुकी स्वतः प्रीति­रा­त्म­न्येव यतस्ततः ।।
भाक्तं प्रियं परित्यज्य मुख्यं प्रिय­मु­पा­श्र­येत् ।। ८३ ।।

क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः ।।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ८४ ।।

न तदस्ति सुखं लोके यन्न दुःखकरं भवेत् ।।
तद­सं­प्रा­प्ति­वि­च्छे­द­क्ष­ये­ष्व­सु­ख­कृ­द्यतः ।। ८५ ।।

एवं चेत्साधनोद्भूतं याव­त्किं­चि­त्सुखं मतम् ।।
तन्निःशेषं परित्यज्य सुखमात्यन्तिकं श्रयेत् ।। ८६ ।।

सांसा­रि­क­सु­ख­स्यास्य दुःख­त्वा­दु­क्त­हे­तुतः ।।
निष्कृ­ष्या­त­स्ततः प्रीतिं प्रतीच्येव निवेशयेत् ।। ८७ ।।

स्रजि दण्डादयो यद्व­त्स्र­ग­ज्ञा­नै­क­हे­तुकाः ।।
पति­जा­या­सु­ता­द्येवं प्रत्य­ग­ज्ञा­न­हे­तु­जम् ।। ८८ ।।

सर्वा­न­र्थ­नि­वृ­त्तिश्च सर्वा­ह्ला­दा­प्ति­रेव च ।।
प्रतीचि ज्ञान­मा­त्रा­च्चे­त्त­द­न्य­त्प्रा­र्थ्यते कथम् ।। ८९ ।।

यस्य संबन्धमाश्रित्य ह्यप्रियोऽपि प्रियायते ।।
प्रियोऽ­प्य­प्रि­यतां याति यस्य संगतिकारणात् ।। ९० ।।

दृष्ट्वाऽ­नु­भ­व­त­स्त­त्त्व­मा­त्मा­ना­त्म­प­दा­र्थयोः ।।
उपादित्सा जिहासा च तत्कृ­तै­वा­नु­पा­ल्य­ताम् ।। ९१ ।।

नानाप्राकार आसङ्गो विषक्तो योऽस्य बाह्यतः ।।
यथो­क्त­का­र­णा­त्सर्वं प्रतीच्येव निवेशयेत् ।। ९२ ।।

नरकादिव निर्विण्णो यावन्नाऽऽ ब्रह्मणो नरः ।।
न तावदधिकारोऽस्ति कैव­ल्य­ज्ञा­न­व­र्त्मनि ।। ९३ ।।

सर्वा­स­ङ्ग­वि­नि­र्मुक्तो मोक्ष­मा­त्र­प्र­यो­जनः ।।
अतोऽधिक्रियते प्रत्य­ग्ज्ञा­नो­त्पत्तौ न रागवान् ।। ९४ ।।

आत्मा प्रत्य­क्प्र­सिद्धेः स्यात्त­त्रै­वाऽऽ­त्मा­नु­भू­तितः ।।
इति प्रमेयनिर्देशो द्रष्टव्य इति तत्प्रमा ।। ९५ ।।

आत्मबुद्धिरियं तावत्सर्वेषां जायते स्वतः ।।
अप्राप्ता सर्वमात्मेति सैवातो धीर्विधीयते ।। ९६ ।।

द्रष्टृ­द्र­ष्ट­व्य­यो­र्भेदे सत्येवं धीर्विधीयते ।।
नियो­ज्य­वि­ष­या­भेदे घटते न विधिर्यतः ।। ९७ ।।

उत्त­रो­त्त­र­भू­यांसि नामादीनि यथाक्रमम् ।।
उप­न्य­स्याऽऽ­त्म­या­थात्म्यं तत्तत्वं प्राब्र­वी­च्छ्रुतिः ।। ९८ ।।

भूम्नश्च लक्षणं चक्रे यत्र नान्यदिति स्वयम् ।।
अथ यत्रेति चाल्पस्य प्राणान्तस्य च लक्षणम् ।। ९९ ।।

अथात इति वाक्येन ह्यहमेवेति निश्चितेः ।।
निषि­ध्या­ना­त्म­रूपं यत्त­तोऽ­हं­का­र­नि­ह्नुतिः ।। १०० ।।

आत्मै­वे­त्या­दि­वा­क्येन पूर्ण­ब्र­ह्मा­व­बो­धिना ।।
नाविध्वस्तं तमोऽतोऽस्ति न च ज्ञानमनुत्थितम् ।। १०१ ।।

नानि­वृ­त्त­स्त­थाऽ­नर्थो नानवाप्तं सुखं तथा ।।
कार्य­ज्ञे­य­स­माप्तिः स्यात्प्र­त्य­ग्या­था­त्म्य­बो­धतः ।। १०२ ।।

सर्वा­सू­प­नि­ष­त्स्वेवं प्रमा­त्रा­दे­र­ना­त्मनः ।।
प्रत्य­ङ्भा­त्रै­क­या­थात्म्यं श्रूयते सोपपत्तिकम् ।। १०३ ।।

इहापि नेति वाक्येन प्रती­चोऽ­त­त्स्व­भा­व­कम् ।।
व्युत्था­पि­त­म­नू­द्याऽऽह सर्वमात्मेति नः श्रुतिः ।। १०४ ।।

भावाभावात्मना स्थानं न निषेध्यस्य वस्तुनः ।।
यतोऽतः सर्वमात्मैव प्राब्र­वी­च्छ्रु­ति­र­ञ्जसा ।। १०५ ।।

नाव्युत्थितमनाः कश्चि­त्प्र­ती­चोऽ­न्य­त्प्र­प­श्यति ।।
व्युत्थि­ता­त्माऽपि चाऽऽत्मानं पश्य­न्ने­वा­न्य­दी­क्षते ।। १०६ ।।

स्वातन्र्यं यत्र कर्तुः स्यात्तत्र कर्ता नियुज्यते ।।
अन्व­य­व्य­ति­रे­का­भ्या­मा­त्मा­ना­त्म­वि­वे­चने ।। १०७ ।।

वचो­र्थ­प्र­ति­बो­धस्य पदार्थाज्ञानमेव तु ।।
यतोऽ­न्त­रा­य­स्त­द्धानौ तेन तत्र नियुज्यते ।। १०८ ।।

एवं ज्ञातपदार्थः सन्यथा पूर्वमवादिषम् ।।
ब्रह्म वा इदमित्यत्र न्याये­नै­का­त्म्य­या­यिना ।। १०९ ।।

निरन्तरायो वाक्यार्थं वाक्या­दे­वा­व­ग­च्छति ।।
अव्या­वृ­त्ता­न­नु­ग­त­प्र­त्य­क्त­त्त्व­स­मी­क्ष­णात् ।। ११० ।।

नित्य­मु­क्त­त्व­वि­ज्ञानं वाक्यादेवाञ्जसा भवेत् ।।
वाक्यार्थस्य च विज्ञानं पदा­र्थ­स्मृ­ति­पू­र्व­कम् ।। १११ ।।

अन्व­य­व्य­ति­रे­काभ्यां पदार्थः स्मर्यते ध्रुवम् ।।
एवं निर्दुः­ख­मा­त्मा­न­म­क्रियं प्रतिपद्यते ।। ११२ ।।

प्रत्य­ङ्मो­हो­द्भ­वा­ना­त्म­प्रा­धा­न्येन तमोन्वयात् ।।
आत्माऽऽत्मानं पुराऽ­ज्ञा­सी­द्वा­क्या­र्थ­ज्ञा­न­ज­न्मतः ।। ११३ ।।

अनात्मनोऽत आत्मा­न­म­न्व­य­व्य­ति­रे­कतः ।।
निष्कृ­ष्याऽऽ­त्म­न्य­थाऽऽ­त्मानं सर्वमात्मेति पश्यति ।। ११४ ।।

अज्ञातज्ञापनं चातो विधि­र­त्रा­भि­धी­यते ।।
अप्र­वृ­त्त­प्र­वृ­त्तिश्च न्यायाभावान्न युज्यते ।। ११५ ।।

नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।।
न तस्य क्रियमाणत्वं खपुप्पाकाशयोरिव ।। ११६ ।।

उत्पत्त्यादि स्वतो यस्य यस्य चात्यन्तमेव न ।।
क्रिया­न­पे­क्ष­सि­द्ध­त्वा­त्स्व­तः­सिद्धं तदुच्यते ।। ११७ ।।

उत्पत्त्यादौ तु यच्छक्तं हेतु­मा­त्र­म­पे­क्षते ।।
साफल्यं कर्मणस्तत्र तद­भि­व्य­क्ति­कृद्धि तत् ।। ११८ ।।

कार्यं कारणतन्त्रं स्यात्ता­त­स्त­स्याऽऽ­त्म­ला­भतः ।।
अन्य­का­र्य­म­कार्यं च नान्य­त्का­र­ण­मी­क्ष्यते ।। ११९ ।।

सर्वमात्मेति या बुद्धिः सा प्रमे­य­ब­ला­द्भ­वेत् ।।
प्रमातृतन्त्रा सा चेत्स्या­त्प्राप्ता लोका­ग्नि­बु­द्धि­वत् ।। १२० ।।

अतोऽ­पु­रु­ष­त­न्त्र­त्वा­न्नाऽऽ­त्म­ज्ञाने विधिर्भवेत् ।।
अन्वयादिक्रिया त्वस्य तत्त­न्त्र­त्वा­द्वि­धी­यते ।। १२१ ।।

श्रवणं मननं तद्वत्तथा शमदमादि यत् ।।
पुमाञ्शक्नोति तत्कर्तुं तस्मा­दे­त­द्वि­धी­यते ।। १२२ ।।

विशि­ष्टे­हा­नु­भू­तिश्च सर्वमानफलं यतः ।।
फलं च न विधेयं स्यादतो नेदं विधीयते ।। १२३ ।।

प्रमाणमप्रमाणं च प्रमाभासं च यद्भवेत् ।।
चैत­न्या­का­र­मे­वै­त­त्प्र­थते सर्वमेव तत् ।। १२४ ।।

नाना­का­रा­नु­पा­दत्ते चैतन्याकारमेव सत् ।।
प्रती­च्य­व्य­भि­चा­र्येकं तदन्ये व्यभिचारिणः ।। १२५ ।।

मात्रा­दि­व्य­भि­चा­रेऽपि संवि­द­व्य­भि­चा­रिणी ।।
मिथः कृत्स्नेऽपि जगति तद­न्य­द्व्य­भि­चारि तु ।। १२६ ।।

उत्पन्नमपि सज्ज्ञानं प्रमा­तृ­त्वा­द्यु­प­ग्र­हात् ।।
तद­नु­त्प­न्न­व­द्भाति तद्व्युत्पत्तेः पुरा नृणाम् ।। १२७ ।।

व्युत्पाद्यते यदा साक्षा­द्य­थो­क्त­न्या­य­व­र्त्मना ।।
उत्पन्नमेव विज्ञानं तदा प्रागपि मन्यते ।। १२८ ।।

स्वसाक्षिकैव सर्वस्य न वेद्मीत्यपि या मतिः ।।
किमु वद्मीति बुद्धिः स्याच्चि­द­तोऽ­व्य­भि­चा­रिणी ।। १२९ ।।

आत्मेति मेयनिर्देशो वैश­ब्द­स्त­त्स्मृ­ता­विह ।।
प्रमातृक्रियया व्याप्ति­र्द्र­ष्टव्य इति भण्यते ।। १३० ।।

शब्दा­नु­रो­ध­त­स्ता­व­दी­दृ­ग­त्रो­प­जा­यते ।।
श्रुतेरनुभवः साक्षा­द्य­था­वस्तु न वेति वा ।। १३१ ।।

विचा­र्य­मा­णोऽ­नु­भवो रूप्य­शु­क्त्य­नु­भू­ति­वत् ।।
प्रमाणमप्रमाणं वा मेयसंगत्यसंगतेः ।। १३२ ।।

प्रमा­तृ­मे­य­भे­दोऽत्र न तावद्गम्यते मितेः ।।
प्रत्य­ग्धी­मा­त्र­ग­म्योऽर्थो यस्मादात्मेति निश्चितः ।। १३३ ।।

प्रत्यग्धीगोचरो नो चेदनात्माऽसौ घटादिवत् ।।
ब्रह्मा­दि­म­ध्य­पा­तित्वं ततश्चास्य प्रसज्यते ।। १३४ ।।

विभि­न्न­द्र­ष्टृ­दृ­ष्ट्या­प्ति­र्घ­टा­दे­रिव नाऽऽत्मनः ।।
न चाभेदेऽस्ति संव्या­प्ति­रै­का­त्म्या­देव कारणात् ।। १३५ ।।

न च द्रष्टाऽऽ­त्म­नोऽ­न्योऽस्ति द्रष्ट्र­न्त­र­नि­षे­ध­नात् ।।
न च द्रष्ट्रो­र्द्व­यो­र्लोके द्रष्टृ­दृ­श्य­त्व­सं­गतिः ।। १३६ ।।

क्रियाविरोधः प्राप्नोति द्रष्टुः स्वात्मसमीक्षणे ।।
तद्दृ­ष्टे­र्नि­त्य­सं­प्रा­प्ते­र्वि­ध्या­न­र्थ­क्य­सं­गतिः ।। १३७ ।।

संसार्यान्मनि दृष्टेऽपि न च किंचि­त्प्र­यो­ज­नम् ।।
अयमेव च नोऽनर्थो यत्सं­सा­र्या­त्म­द­र्श­नम् ।। १३८ ।।

तद­न्य­स्या­प्र­सि­द्धेश्च कथं स्यात्त­त्स­मी­क्ष­णम् ।।
अथ प्रसि­द्धोऽ­सा­वात्मा तद्दृष्टिः किं विधीयते ।। १३९ ।।

द्रष्टृ­द­र्श­न­दृ­श्यानां प्रात्य­क्ष्या­न्नाऽऽ­ग­मे­क्ष­णम् ।।
द्रष्टुरात्मा पृथ­क्चे­त्स्या­न्पृ­थ­गा­त्मेति दुर्वचः ।। १४० ।।

न चाऽऽत्म­न्य­प्र­सिद्धे स्यात्संसारस्य प्रसिद्धता ।।
न ह्यप्र­सि­द्ध­सं­बन्धी संबन्धः कचिदिष्यते ।। १४१ ।।

न चेदा­त्मा­भि­सं­बन्धः संसारोऽयं समीक्ष्यते ।।
तन्मु­मु­क्षु­त्व­मा­यातं कुतो हेतोरितीर्यताम् ।। १४२ ।।

अनृतन्त्रे विधिर्नेष्टो वन्ध्या­पु­त्रो­द्भवे यथा ।।
मातृतन्त्रे तथैवायं न विधिः प्रत्यगीक्षणे ।। १४३ ।।

नाना­द्र­व्य­स­मा­योगे वियोगे च घटात्मनः ।।
वियत्संपूर्णता नित्या विय­त्स­क्ते­र­व­र्ज­नात् ।। १४४ ।।

शब्दा­दि­बा­ह्य­सं­बन्धे विभागे च तथा धियः ।।
प्रत्य­क्चै­त­न्य­सं­बन्धो नित्यो नित्या­त्म­सा­क्षिकः ।। १४५ ।।

यतोऽतः पाक्षिकी प्राप्ति­र्ने­हा­स्त्यै­का­त्म्य­द­र्शने ।।
नियमः परिसंख्या वा न तेनेहोपपद्यते ।। १४६ ।।

कर्मकाण्डे यथा मानं तथै­वो­प­नि­ष­त्स्वपि ।।
विधि­रे­वा­न­पे­क्ष­त्वा­त्सा­पे­क्ष्या­न्ना­भि­धा­श्रुतिः ।। १४७ ।।

मैवं माना­न्ता­प्रा­प्त­स­म्य­गै­का­त्म्य­बो­धतः ।।
अभिधाश्रुतेः प्रमाणत्वं सुप्तो­त्था­प­क­वा­क्य­वत् ।। १४८ ।।

अका­र­कै­का­त्म्य­मात्रं मेयं वस्त्विष्यते यतः ।।
तदन्यस्य यतो मानाद्व्यतिरेको न लभ्यते ।। १४९ ।।

मुक्त्वै­का­त्म्यस्य चाज्ञानं नान्तरायान्तरं यतः ।।
विधितन्त्रस्य कार्य­त्वा­न्ना­ज्ञाने प्रभविष्णुता ।। १५० ।।

यथा­स्थि­ता­त्म­व­स्तू­त्थ­ज्ञानं मुक्त्वा तमोह्नुतौ ।।
नान्यो हेतु­र्य­त­स्त­स्मान्न त्रय्यन्ते विधिः प्रमाः ।। १५१ ।।

नियोज्यस्य च नैश्वर्यं धीसम्यक्त्वं प्रतीप्यते ।।
तस्य मेयै­क­हे­तु­त्वा­न्नैव स्यान्मा­तृ­त­न्त्रता ।। १५२ ।।

विधे­रि­वा­न­पे­क्षत्वं वेदा­न्ते­ष्व­भि­धा­श्रुतेः ।।
अनृ­त­न्त्र­त्व­सा­मा­न्या­त्त­थाऽ­ती­न्द्रि­य­बो­धतः ।। १५३ ।।

अक्षाद्यविषयं प्रत्यक्स्वतः सिद्धेरसाधनम् ।।
अभिधा बोधयन्तीयं नान्य­त्किं­चि­द­पे­क्षते ।। १५४ ।।

तस्माद्विधेः प्रमाणत्वं साध्यसाधनबोधने ।।
अतीन्द्रिये तदन्येन ज्ञातुं शक्यं न तद्यतः ।। १५५ ।।

साध्य­सा­ध­न­सं­बन्धो न शक्योऽभिधया यथा ।।
प्रतिपत्तुं स्वतः सिद्धोऽशक्यो विधिगिरा तथा ।। १५६ ।।

ऐकात्म्यस्य स्वतः सिद्धेर्न क्रियाऽ­पे­क्ष्यते यतः ।।
ततश्च भावनाभावो भावनायाः क्रियाश्रयात् ।। १५७ ।।

विरहे भावनायाश्च न विधेस्तत्र मानता ।।
स्वतः­सि­द्धा­र्थ­बो­धि­त्वा­द­भि­धा­यास्तु मानता ।। १५८ ।।

सापे­क्ष­त्वा­द­मानं चेदभिधा लोकवर्त्मना ।।
अभिधा तत्त्वमस्यादि सरि­त्ती­र­फ­लो­क्ति­वत् ।। १५९ ।।

संह­त्य­नु­प­प­त्तिश्च पदा­ना­म­भि­धा­श्रुतौ ।।
आख्या­त­प­द­हे­तु­त्वा­त्स­र्वत्र पदसंहतेः ।। १६० ।।

नाऽऽख्या­त­प­द­स­द्भा­वा­त्स्या­देव पदसंहतिः ।।
अस्य­स्म्या­द्या­ख्या­त­प­द­म­स्त्ये­वे­हा­भि­धा­श्रुतौ ।। १६१ ।।

सरित्तीरे फलानीति युक्ताऽ­पे­क्षाऽ­भि­धा­श्रुतेः ।।
प्रत्य­क्ष­मा­प्न­ग्रा­ह्य­त्वा­त्फ­ल­ती­रा­र्थ­सं­गतेः ।। १६२ ।।

प्रत्य­क्ष­ग्राह्य एषोऽर्थो न तदन्यप्रमाणकः ।।
यतोऽतो नाऽऽगमादेव तादृशेऽर्थे विनिश्चितिः ।। १६३ ।।

अपू­र्वा­दि­व­चोऽर्थे तु न प्रत्य­क्षा­द्य­पे­क्षते ।।
प्रत्य­क्षा­द्य­प्र­मे­य­त्वा­दै­का­त्म्या­ख्यस्य वस्तुनः ।। १६४ ।।

अपौ­रु­षे­य­वा­क्यत्वं समा­न­म­भि­धा­श्रुतेः ।।
अती­न्द्रि­या­र्थ­बो­धित्वं समानं चोदनोक्तिभिः ।। १६५ ।।

सिद्ध­सा­ध्य­प्र­मे­य­त्व­भेदो यदि परं तयोः ।।
प्रामाण्ये त्वतिशीतिस्तु न काचिदपि दृश्यते ।। १६६ ।।

प्रमोपजायते तावदहं ब्रह्मे­त्य­लौ­किकी ।।
तत्त्व­म­स्या­दि­वा­क्येभ्यः श्रव­णा­त्स­म­न­न्त­रम् ।। १६७ ।।

एवं चेदप्रमाणत्वं किमि­वे­हा­भि­धा­श्रुतेः ।।
विधेरपीह मानत्वं नोक्त­न्या­या­ति­रे­कतः ।। १६८ ।।

स्वशक्तिः सर्वमानानां यथा वस्त्ववबोधने ।।
अभिधायाश्च साऽस्त्येव किमिति स्यादमानता ।। १६९ ।।

नाप्य­र्थेऽ­ती­न्द्रिये सिद्धे मानं लिङ्गा­द्य­पे­क्षते ।।
योगि­प्र­त्य­क्ष­मानं वा तयोरविषयत्वतः ।। १७० ।।

नेती­त्य­स्थू­ल­मि­त्या­दि­वा­क्या­द्योऽ­र्थोऽ­व­ग­म्यते ।।
योगि­प्र­त्य­क्ष­ग­म्योऽयं न तत्प्र­त्य­क्त्व­हे­तुतः ।। १७१ ।।

प्रत्य­क्षा­न­व­ता­राच्च नानुमानेन मीयते ।।
धर्म­ध­र्म्य­भि­सं­बन्धे नागृहीतेऽनुमा यतः ।। १७२ ।।

यज्जातीयैः प्रमाणैस्तु यज्जा­ती­या­र्थ­द­र्श­नम् ।।
भवेदिदानीं लोकस्य तथा काला­न्त­रेऽ­प्य­भूत् ।। १७३ ।।

यत्राप्यतिशयो दृष्टः स स्वार्था­न­ति­ल­ङ्घ­नात् ।।
दूर­सू­क्ष्मा­दि­दृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ।। १७४ ।।

योगि­प्र­त्य­क्ष­मा­ना­देर्न चेदै­का­त्म्य­मे­यता ।।
तत्प्राप्तमपि किं कुर्या­त्स्वा­त्माऽ­यो­ग्यासु भूमिषु ।। १७५ ।।

अक्षा­दि­मे­या­सा­रू­प्या­दै­कात्म्यं स्यान्न तत्प्रमम् ।।
यथा विधे­या­सा­रू­प्या­न्नै­कात्म्यं स्याद्विधेस्तथा ।। १७६ ।।

संभाव्यते चेदक्षादि ह्यैका­त्म्यार्थे फलादिवत् ।।
न तद्वारयितुं शक्यं लोके विधिशतैरपि ।। १७७ ।।

नासमीक्ष्य स्वसामर्थ्यं पुमा­न्वि­धि­श­तै­रपि ।।
प्रव­र्त­तेऽ­न­पे­क्षत्वं कुतो विधिवचःस्वतः ।। १७८ ।।

अपाक्येषु नियुक्तोऽपि कृष्ण­ला­ञ्श्र­प­ये­दिति ।।
न तच्छक्तिं विना कश्चि­त्पु­मां­स्तत्र चिकीर्षति ।। १७९ ।।

एवं चेदनपेक्षत्वं विधेः किमिति भण्यते ।।
न भावनानपेक्षोऽसौ विधि­र्य­स्मा­त्प्र­व­र्तते ।। १८० ।।

न भावनान्तरमियं न च मानान्तरं तथा ।।
अपे­क्ष्या­भि­ध­यै­का­त्म्य­म­व­बो­ध­यति श्रुतिः ।। १८१ ।।

अतोऽनपेक्षता युक्ता सर्व­दै­वा­भि­धा­श्रुतेः ।।
अभि­धा­ना­भि­धे­या­र्थ­ज्ञा­न­मेव व्यपेक्षते ।। १८२ ।।

ज्ञानक्रिया प्रमातृस्था न यथावस्तुबोधकृत् ।।
प्रमे­य­क­र्तृ­कै­वासौ यथा­व­स्त्व­व­बो­धिनी ।। १८३ ।।

न चान्य­दी­य­व्या­पारे ह्यन्योऽ­श­क्ते­र्नि­यु­ज्यते ।।
न ह्यग्निसाध्ये शोषादौ नियोगो घटतेऽम्भसः ।। १८४ ।।

ब्रह्म­णोऽ­वि­द्यया योऽपि स्यादच्छेद आत्मनः ।।
तद­व­च्छे­द­वि­ध्वस्तौ न साधनमपेक्षते ।। १८५ ।।

अन­व­च्छि­न्न­या­था­त्म्या­द­वि­द्यया ।।
अव­च्छि­न्न­व­दा­भाति क्षेत्रज्ञो रज्जुसर्पवत् ।। १८६ ।।

न चावि­द्या­नि­रा­स्यत्र प्रत्य­ग्या­था­त्म्य­बो­धतः ।।
साधनं किंचिदापेक्ष्यं स्वर्गे यागा­दि­व­त्क्व­चित् ।। १८७ ।।

न चापि मुख्यया वृत्त्या साध्येऽसति जगत्यपि ।।
किंचि­त्सा­ध­न­मि­त्येवं भण्यते लोकवेदयोः ।। १८८ ।।

साध्यं च लोकतः सिद्ध­मु­त्प­त्त्या­दि­च­तु­ष्ट­यम् ।।
प्रमाणस्य न तन्न्याय्यं सिद्धा­र्थ­व्य­ञ्ज­क­त्वतः ।। १८९ ।।

नाऽऽत्म­ला­भा­ति­रे­केण व्यञ्जकस्य मनागपि ।।
संभाव्यतेऽपरं रूप­म­ज्ञा­त­त्वा­प­नो­द­कृत् ।। १९० ।।

आत्मा­सा­मा­न्य­रू­पोत्थं न चाभूत्वोपजायते ।।
घटा­दि­ज्ञा­न­व­ज्ज्ञानं भिन्न­हे­त्व­न­पे­क्षतः ।। १९१ ।।

स्थास्न्व­नु­भ­व­मा­त्र­त्वा­त्का­र्य­का­र­ण­व­स्तुनः ।।
अभू­त­भू­ति­र्नै­वातो युज्य­तेऽ­नु­भ­वा­त्मनि ।। १९२ ।।

प्रत्य­ग­ज्ञा­न­हे­तूत्था भावनेयं न तु स्वतः ।।
प्रत्य­ग्या­था­त्म्य­जि­ज्ञासोः कथं सा विषयो भवेत् ।। १९३ ।।

क्रिया­का­र­भे­दोऽ­य­म­ज्ञा­तै­का­त्म्य­व­स्तुनः ।।
तज्ज्ञा­नेऽ­सा­व­सं­भा­व्य­स्त­द्धे­तू­च्छि­त्ति­का­र­णात् ।। १९४ ।।

न चावि­द्या­स­मु­च्छि­त्ति­र्ज्ञा­नो­त्प­त्त्य­ति­रे­कतः ।।
संसा­र­ना­शोऽ­वि­द्याया नाशान्न व्यतिरिच्यते ।। १९५ ।।

न चाप्य­वि­द्या­ना­शोऽत्र संसर्गः कारणात्मनि ।।
तद्ध्वा­स्ते­र्व­स्तु­वृ­त्त­त्वा­न्मृदि लोष्टादिनाशवत् ।। १९६ ।।

आदाय वास्तवं वृत्तं ज्ञान­म­ज्ञा­न­ना­श­कृत् ।।
वस्तु­या­था­त्म्य­वृ­त्तेन तमोऽपह्नूयते सदा ।। १९७ ।।

अज्ञातज्ञापनं तस्मा­द्वि­धि­र­त्रो­प­प­द्यते ।।
अकृतस्य क्रिया त्वत्र विधि­र्नै­वो­प­प­द्यते ।। १९८ ।।

द्वैविध्यं चाप्यविद्याया न च युक्त्याऽवसीयते ।।
ऐका­त्म्य­मा­त्र­व­स्तु­त्वा­द­वि­द्यै­कैव युज्यते ।। १९९ ।।

प्रमे­य­भे­द­भि­न्नत्वं ज्ञानानामिव भेदकम् ।।
नाविद्याया यतोऽस्तीह द्वैविध्यं तेन दुर्घटम् ।। २०० ।।

प्रत्य­ग­ज्ञा­न­मे­वेह तद­न्य­द्व­स्तु­का­र­णम् ।।
तद­न्य­का­र­णा­स­त्त्वा­द्दैू­विध्यं तमसः कुतः ।। २०१ ।।

न चाभ्या­सा­द्य­पे­क्षाऽपि स्वतो­मु­क्त­त्व­का­र­णात् ।।
न घटादेर्घटत्वादि घटा­द्य­भ्या­स­सं­श्र­यम् ।। २०२ ।।

न चावि­ष­य­वि­ज्ञा­न­म­ना­कारं च भाव्यते ।।
भाव­क­प्र­त्य­गा­त्म­त्वा­दा­कृ­तेश्च निषेधतः ।। २०३ ।।

नेन्द्रियेण ग्रहोऽस्यास्ति शब्दा­द्य­र्था­नु­पा­तिना ।।
दुःखादिवच्च नैवाऽऽत्मा चितेः स्वार्थैकरूपतः ।। २०४ ।।

भावनोपचितं चेतो न च कैवल्यकारणम् ।।
तस्येहैव समु­च्छे­दा­त्त­द्धे­त्व­ज्ञा­न­हा­नतः ।। २०५ ।।

स्वका­र्य­र्था­नु­गा­मित्वं भाव­ना­ज्ञा­न­क­र्म­णाम् ।।
अका­र्य­का­र­णा­त्म­त्वा­त्कै­व­ल्येऽ­नु­गतिः कुतः ।। २०६ ।।

साक्षा­दा­त्म­प्र­सिद्धौ च नाभ्या­स­स्त­त्फ­ल­स्थितेः ।।
ज्ञाना­भा­वा­द­सिद्धौ च क्व न्वभ्या­स­व्य­पे­क्ष­णम् ।। २०७ ।।

आत्मा­सा­मा­न्य­रू­पोत्थं ज्ञान­म­ज्ञा­न­मा­त्मनि ।।
सकृज्जातं न चेद्धन्ति ज्ञानमेव न तद्भवेत् ।। २०८ ।।

सम्यग्ज्ञानं यदाश्रित्य तन्मोहोऽपि तदाश्रयः ।।
अबाधितं तमोऽत्राऽऽस्त इत्यु­क्ति­र्ज­ड­व­क्तृका ।। २०९ ।।

इत्येवमादि यच्चोक्तं पूर्व­मे­वा­ति­वि­स्त­रात् ।।
तत्कृ­त्स्न­म­नु­सं­धेयं सर्वावकरहनिकृत् ।। २१० ।।

सर्वमात्मेत्यतः पश्ये­दा­त्मा­ना­त्म­वि­भा­ग­वित् ।।
आत्मा द्रष्टव्य इत्युक्त्या ह्येषोऽ­र्थोऽ­त्रा­भि­धी­यते ।। २११ ।।

सर्वमानप्रसक्तौ च सर्व­मा­न­फ­ला­श्र­यात् ।।
श्रोतव्य इत्यतः प्राह वेदा­न्ता­व­रु­रु­त्सया ।। २१२ ।।

दर्श­न­स्या­वि­धे­य­त्वा­त्त­दु­पायो विधीयते ।।
वेदान्तश्रवणं यत्ना­दु­पा­य­स्तर्क एव च ।। २१३ ।।

श्रुति­लि­ङ्गा­दिको न्यायः शब्द­श­क्ति­वि­वे­क­कृत् ।।
आग­मा­र्थ­वि­नि­श्चित्यै मन्तव्य इति भण्यते ।। २१४ ।।

वस्तु­त­त्त्व­वि­व­क्षेह मन्तव्य इतिशासनात् ।।
योषि­द­ग्न्या­दि­दृष्टौ हि नैव मन्तव्यताविधिः ।। २१५ ।।

वेद­श­ब्दा­नु­रो­ध्यत्र तर्कोऽपि विनियुज्यते ।।
वाच्य­वा­च­क­सं­ब­न्ध­नि­यमे तस्य हेतुता ।। २१६ ।।

अप­रा­य­त्त­बो­धोऽत्र निदि­ध्या­स­न­मु­च्यते ।।
पूर्व­यो­र­व­धि­त्वेन तदुपन्यास इष्यते ।। २१७ ।।

श्रवणादिक्रिया तावत्कर्तव्येह प्रयत्नतः ।।
यावद्यथोक्तं विज्ञा­न­मा­वि­र्भ­वति भास्वरम् ।। २१८ ।।

आगमाद्दर्शनं पूर्व­मा­ग­मा­चा­र्यतो मतिः ।।
त्रयाणामपि संगा­ना­च्छा­स्त्रा­चा­र्या­त्मनां स्थिरम् ।। २१९ ।।

प्रतिपत्तिः पुरा शाब्दी यावन्न मनुते श्रुतम् ।।
श्रुत्वा मत्वाऽथ तं साक्षादात्मानं प्रतिपद्यते ।। २२० ।।

अन­न्या­य­त्त­वि­ज्ञाने श्रवणादेरुपायतः ।।
जाते नापेक्षते किंचि­त्प्र­ती­चोऽ­नु­भ­वा­त्प­रम् ।। २२१ ।।

साध्य­सा­ध­न­सं­बन्धे शास्त्रापेक्षैव नापरा ।।
लिङ्गा­पे­क्षाऽ­नु­मे­येऽर्थे नरापेक्षा नरोचिते ।। २२२ ।।

भिन्न­मा­त्रा­दि­वि­ज्ञाने सापेक्षैव विनिश्चितिः ।।
एकमात्रादिके त्वस्मिन्कः किं कस्मादपेक्षते ।। २२३ ।।

प्रमा­ण­रू­पा­व­ष्ट­म्भा­त्प्रमा पूर्वं प्रजायते ।।
पश्चा­त्प्र­मे­य­नि­ष्ठैव प्रमे­या­र्था­नु­रो­धिनी ।। २२४ ।।

आत्माऽऽत्मानं विजानाति यत्र वाक्यादिमानतः ।।
तत्र मात्रादिसंभेदो न मनागपि लभ्यते ।। २२५ ।।

पदा­र्थ­वि­ष­य­स्त­र्क­स्त­थै­वा­नु­मि­ति­र्भ­वेत् ।।
वाक्या­र्थ­प्र­ति­प­त्तिस्तु वाक्या­दे­वा­भि­जा­यते ।। २२६ ।।

आत्मा­ना­त्म­त्व­मात्रं हि लिङ्गाद्वस्तुषु गम्यते ।।
सर्व­मा­ना­ति­व­र्त्यात्मा वाक्या­दे­वा­व­ग­म्यते ।। २२७ ।।

नन्वकृत्स्नं भवेज्ज्ञानं यद्यात्मैव समीक्ष्यते ।।
केव­लोऽ­ना­त्म­नोऽ­दृष्टेः प्रतीचोऽन्यस्य वस्तुनः ।। २२८ ।।

नाय­म­न्योऽ­थ­वाऽ­नन्यः प्रत्य­ग­ज्ञा­न­ज­त्वतः ।।
दण्ड­स­र्पा­दि­व­द्रज्ज्वां स्वतोऽ­पू­र्वा­दि­मा­न्यतः ।। २२९ ।।

यतोऽतो दृष्ट एत­स्मि­न्प्र­त्य­गा­त्मनि केवले ।।
नास्ति ज्ञानमनुत्पन्नं नाप्यध्वस्तं तथा तमः ।। २३० ।।

प्रत्य­ङ्भा­त्रै­क­या­था­त्म्या­त्का­र्य­का­र­ण­व­स्तुनः ।।
तजज्ञानात्किं तमोऽध्वस्तं किंवाऽज्ञानं वदाऽऽत्मनः ।। २३१ ।।

अनुवादे यथोक्तानां प्रक्रान्ते दर्शनादिषु ।।
विज्ञानेनेत्यथ कथं निदि­ध्या­स­न­मु­च्यते ।। २३२ ।।

ध्याना­श­ङ्का­नि­वृ­त्त्यर्थं विज्ञानेनेति भण्यते ।।
निदि­ध्या­स­न­श­ब्देन ध्यानमाशङ्क्यते यतः ।। २३३ ।।

विज्ञा­नो­त्प­त्ति­हे­तुत्वं ध्यानादेः प्रागवादिषम् ।।
स्वार्थमेव तु विज्ञानं मुक्तिमात्रफलं स्मृतम् ।। २३४ ।।

ऐका­त्म्या­ज्ञा­न­वि­ध्वं­स­व्य­ति­रे­केण नेष्यते ।।
ऐका­त्म्य­वि­ज्ञा­न­फलं प्राप्तमेव हि तत्स्वतः ।। २३५ ।।

यतोऽनवयवेनैव रज्जु­स­र्पा­दि­व­त्तथा ।।
आत्माऽयं संगतिं याति तन्मो­हा­ध्य­स्त­रू­पिणा ।। २३६ ।।

आत्मा तत्त्वं विभक्तस्य प्रमा­त्रा­दे­र­ना­त्मनः ।।
स्वतः सिद्ध­स्त­द­ज्ञा­न­स­मु­त्थस्य मृषात्मनः ।। २३७ ।।

आत्म­ज्ञा­न­प्र­मे­याच्च नान्य­स्त­ज्ज्ञा­न­कृ­द्यतः ।।
अन­न्य­मा­तृ­मा­नोऽतः प्रत्यगात्मा तमोपनुत् ।। २३८ ।।

अज्ञा­नो­त्थ­म­नू­द्यातो मिथ्या­क्लृ­प्त­म­शे­षतः ।।
इदं ब्रह्मेति वचसा सर्वमात्मेति नोऽवदत् ।। २३९ ।।

आत्म­धी­मा­त्र­ग­म्या­र्था­द्य­स्त­द­न्योऽ­व­भा­सते ।।
तद्द­र्श­न­नि­षे­धार्थं ब्रह्मेत्याह परा श्रुतिः ।। २४० ।।

समस्तव्यस्तता तस्मान्नैवेह श्रुतिमानतः ।।
अना­त्म­बु­द्धि­वि­षयं यतो यत्नान्निषेधति ।। २४१ ।।

कार्यात्मा कारणात्मा च द्वावात्मानौ परात्मनः ।।
प्रत्य­ग्या­था­त्म्य­मो­होत्थौ तन्नाशे नश्यतस्ततः ।। २४२ ।।

अपू­र्वा­न­प­रो­क्तेर्हि कार्य­का­र­ण­ताऽऽ­त्मनः ।।
कुतः प्रमा­णा­त्सं­भाव्या कार्यकारणघस्मरे ।। २४३ ।।

नैतस्माज्जायते किंचिन्नायं जातः कुतश्चन ।।
आत्मेत्येवं श्रुतिर्वक्ति कार­णा­दि­नि­षे­ध­कृत् ।। २४४ ।।

ज्ञेयं यत्त­त्प्र­व­क्ष्यामिं यज्ज्ञा­त्वाऽ­मृ­त­म­श्नुते ।।
अनादिमत्परं ब्रह्म न सत्त­न्ना­स­दु­च्यते ।। २४५ ।।

यस्मा­त्क्ष­र­म­ती­तोऽ­ह­म­क्ष­रा­दपि चोत्तमः ।।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। २४६ ।।

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।।
स सर्वविद्भजति मां सर्वभावेन भारत ।। २४७ ।।

इति वेदात्मनः साक्षाद्वचनं श्रुतिसंमतम् ।।
सर्वा­न्त­र्या­मिणः शौरे­र्नो­पेक्ष्यं तद्भवादृशैः ।। २४८ ।।

तत्रैवं सति यो मूढः कार्यकारणदर्शनः ।।
पराङ्मुखं निद­ध्या­त्त­मा­त्मा­कृ­त्स्न­त्व­द­र्शि­नम् ।। २४९ ।।

ब्रह्मेति जातिनिर्देशः क्षत्र्र­सं­नि­धि­का­र­णात् ।।
ब्रह्मजातिः परा­द­ध्या­द­स­म्य­ग्द­र्शिनं नरम् ।। २५० ।।

यदस्ति तन्न जानाति यन्नेहास्ति तदीक्षते ।।
इत्ये­व­म­प­रा­धो­त्थ­को­पा­वि­ष्टेव बालिशम् ।। २५१ ।।

कैवल्यात्तं परा­कु­र्या­द्वि­प्र­जातिः पराङ्मुखम् ।।
अजा­ति­ब्र­ह्म­तत्त्वं मां योऽयं जात्या­त्म­ने­क्षते ।। २५२ ।।

किं तेन न कृतं पापं चोरे­णाऽऽ­त्मा­प­हा­रिणा ।।
योऽन्यथा सन्त­मा­त्मा­न­म­न्यथा प्रतिपद्यते ।। २५३ ।।

यो न वेदाऽऽ­त्म­या­थात्म्यं वेद जात्यादिमत्तया ।।
स यद्यतोऽतो जातिस्तं परादध्याज्जडं नरम् ।। २५४ ।।

सर्व­दाऽ­व्य­भि­चा­र्येकं व्यभि­चा­र्य­र्थ­बु­द्धिषु ।।
यत्तत्त्वं गम्यते प्रत्य­क्त­दे­वा­ना­त्म­व­स्तुनः ।। २५५ ।।

अन्त­र्मे­य­ब­ला­ज्ज्ञानं प्रत्य­ङ्मो­ह­ज­सं­श्र­यम् ।।
बाध­तेऽ­व्य­भि­चा­रि­त्वा­द्व्य­भि­चारि तमोन्वयम् ।। २५६ ।।

प्रत्य­क्त­मो­ज­या­था­त्म्य­मा­त्रा­भि­ज­न­हे­तुतः ।।
कालादौ तदभावोऽतो न ज्ञान­स्या­प­वा­द­कृत् ।। २५७ ।।