अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (१)

प्तमाप्तो मधुकाण्डार्थो याज्ञ­व­ल्की­य­का­ण्डगः ।।
अतः परं प्रयत्नेन श्रुत्या व्याख्यायते स्फुटम् ।। १ ।।

याज्ञ­व­ल्की­य­मे­त­स्मा­न्म­धु­का­ण्डा­द­न­न्त­रम् ।।
काण्डं विचा­र­भू­यि­ष्ठ­म­धु­नाऽऽ­र­भ्यते परम् ।। २ ।।

ननु पूर्वं य उक्तोऽर्थः स एवेहापि भण्यते ।।
अनुरुक्तं न च न्याय्य­मे­क­प्र­व­च­न­स्थयोः ।। ३ ।।

एकार्थत्वेऽपि च सति नैवास्य पुनरुक्तता ।।
याज्ञ­व­ल्की­य­का­ण्डस्य ह्युप­प­त्ति­प्र­धा­नतः ।। ४ ।।

आगमोक्तिप्र नित्वं मधुकाण्डस्य वर्णितम् ।।
आग­मा­र्थ­वि­शु­द्ध्यर्थं युक्तीरत्र प्रवक्ष्यति ।। ५ ।।

न चाऽऽगमस्य स्वातन्त्रयं युक्त्यु­क्ते­र­प­नु­द्यते ।।
अर्था­न्त­र­त्वा­द्यु­क्तीनां प्रमाणेभ्यो यतस्ततः ।। ६ ।।

सर्व­प्र­मा­ण­शे­षत्वं युक्ती­ना­मु­प­व­र्णि­तम् ।।
शास्रा­न्त­रे­ष्वपि तथा नातः स्वात­न्त्र्य­ख­ण्ड­नम् ।। ७ ।।

पदार्थविपया चेयं युक्ति­स्त­र्कोऽ­भि­धी­यते ।।
वाक्या­र्थ­स्त्वा­ग­मा­देव निरपेक्षमतो वचः ।। ८ ।।

पौरुषेयवचःस्वेव युक्तेः प्राधा­न्य­मि­ष्यते ।।
अनरोक्तौ तु तात्पर्यं युक्तेरर्थो न युक्तितः ।। ९ ।।

प्रत्य­क्षा­द्य­ति­व­र्ति­त्वा­द्यु­क्त्य­पेक्षा न विद्यते ।।
आगमार्थे, यथैवं स्याद्यु­क्त्यर्थे नाऽऽगमेक्षणम् ।। १० ।।

पुंस्व­भा­वा­नु­रो­धेन युक्ति­र्वे­देऽ­भि­धी­यते ।।
आगमस्य प्रवृत्तिस्तु मेय­वृ­त्त­व्य­पे­क्षया ।। ११ ।।

ननूक्ता मधुकाण्डेऽपि दुन्दु­भ्या­द्यु­प­प­त्तयः ।।
आगमैकप्रधानत्वं कथं तस्येति भण्यते ।। १२ ।।

नैष दोषो यतस्तत्र युक्ती­ना­म­प्र­धा­नता ।।
प्राधान्यं याज्ञवल्कीये युक्ती­ना­म­भि­धी­यते ।। १३ ।।

युक्त्यागमौ हि संभूय करस्थामलकादिवत् ।।
सुसूक्ष्ममपि सद्वस्तु शक्तौ ज्ञापयितुं यतः ।। १४ ।।

युक्त­योऽ­तोऽ­भि­धी­यन्ते पूर्व­प­क्षा­दि­सं­श्रयाः ।।
याज्ञवल्कीय एतस्मिन्काण्डे जल्पो­क्ति­व­र्त्मना ।। १५ ।।

उद्गीथप्रमुखा येऽर्था मधुकाण्डे पुरोदिताः ।।
तेषामेव विशुद्ध्यर्थं विचारः क्रियतेऽधुना ।। १६ ।।

दर्शनस्यास्य तेनात एका­वा­क्य­त्व­मि­ष्यते ।।
तथै­वा­न्य­प­दा­र्थेषु तद्द्वयोरपि काण्डयोः ।। १७ ।।

यदिदं कर्मणोऽशेपसाधनं मृत्यु­नाऽऽ­प्लु­तम् ।।
स्वामि­म­न्र­र्त्वि­ग­ग्न्यादि त्वभिपन्नं वशीकृतम् ।। १८ ।।

परि­च्छे­द­कृ­द­ज्ञानं सासङ्गं मृत्युसंज्ञितम् ।।
केनायं यजमानोऽतो मृत्यो­रा­प्ते­र्वि­मु­च्यते ।। १९ ।।

यन्मर्त्यसाधनं साध्यं मर्त्यं तदपि जायते ।।
साधनानुमितं साध्यं मुक्तिः केनात उच्यते ।। २० ।।

होत्र­र्त्वि­जाऽ­ग्निना वाचा मृत्यो­रा­प्ते­र्वि­मु­च्यते ।।
इति प्रश्नप्रतिवचो याज्ञ­व­ल्क्योऽ­प्यु­वाच तम् ।। २१ ।।

प्रवक्त याज्ञ­व­ल्क्योऽत्र तं पृच्छ­न्त्य­श्व­ला­दयः ।।
सराजके समाजेऽयं विचारः क्रियते महान् ।। २२ ।।

यजमानस्य येयं वाग्घोता चैतद्दूयं यदा ।।
अधिदैवात्मना वेत्ति स होतैवंविधो भवेत् ।। ३३ ।।

अनन्तविग्रहः सोऽग्निर्होता मृत्यो­र्य­थो­दि­तात् ।।
यजमानस्य मुक्तिः स्याद­ति­मु­क्ति­स्त­थैव च ।। २४ ।।

आसु­रा­त्सा­ध­ना­द्दै­व­प्रा­प्ति­र्मु­क्ति­रि­हो­च्यते ।।
साध्या­द­प्या­सु­रा­द्दै­व­सा­ध्या­प्ति­र­ति­मु­क्तिता ।। २५ ।।

यथोक्तोपासनादेव कैवल्यं चेद्विवक्ष्यते ।।
ब्रह्मविद्या किमर्थेयं नान्यन्मुक्तेः फलं ततः ।। २६ ।।

आसुरात्कर्मणो मृत्यो­र­ति­मु­क्ति­रि­हो­दिता ।।
काला­त्क­र्मा­ति­रे­केण मृत्यो­मु­क्ति­रि­हो­च्यते ।। २७ ।।

प्रयोगसमवाय्येव द्रव्य­क­र्त्रा­दि­सा­ध­नम् ।।
तत्प्रयोगावसाने च सर्वं तदपवृज्यते ।। २८ ।।

प्रयो­गा­व­सि­ते­स्तूर्ध्वं कालः प्राक्च प्रयोगतः ।।
क्षप­य­न्व­र्त­ते­जस्रं सर्वं तत्कर्मसाधनम् ।। २९ ।।

तस्मा­त्क­र्मा­ति­रे­केण कालो मृत्युः प्रतीयताम् ।।
ततोऽपि मुक्ति­र्व­क्त­व्ये­त्यत आरभ्यते परः ।। ३० ।।

कालश्च द्विविधः प्रोक्त एकोऽ­हो­रा­त्र­ल­क्षणः ।।
तिथ्या­दि­ल­क्ष­ण­श्चा­न्य­स्ताभ्यां मुक्तिरिहोच्यते ।। ३१ ।।

उपस्थापयतः कर्म तथा क्षपयतो यतः ।।
अहोरात्रे ततो मृत्युस्ताभ्यां मुक्तिः कुतो भवेत् ।। ३२ ।।

अव्यात्मं चक्षु­र­ध्व­र्यु­र­धि­यज्ञं द्वयं रविः ।।
साक्षा­द­न­न्त­दे­होऽ­य­मिति ध्याय­न्वि­मु­च्यते ।। ३३ ।।

आत्मावयव एवायं सूर्य­श्च­क्षु­र्म­मां­शु­मान् ।।
अध्व­र्यु­र­ह­मे­वेति साक्षात्कृत्वा विमुच्यते ।। ३४ ।।

कला­वृ­द्धि­क्ष­याभ्यां तु पक्ष­यो­रु­भ­यो­स्तथा ।।
चन्द्रः कर्तेह तत्प्राप्त्या पक्षाभ्यां विप्रमुच्यते ।। ३५ ।।

ह्रास­वृ­द्ध्यो­र्यतः कर्ता वायु­श्च­न्द्र­म­स­स्ततः ।।
वायुनैवोपसंहारः प्राणो­द्गा­त्रो­रयं कृतः ।। ३६ ।।

मनोऽध्यात्मं यद­स्या­भू­द्ब्रह्मा चैवाधियज्ञगः ।।
तस्याधिदेवता चन्द्र इति माध्यं­दि­न­श्रुतिः ।। ३७ ।।

कर्मतः कालतो मृत्यो­र्मु­क्तोऽयं स्वर्गमेष्यति ।।
तं प्रयास्यति केना­य­मा­क्र­मे­णेति पृच्छ्यते ।। ३८ ।।

स्वर्ग­लो­क­ग­ता­वत्र साधनं पृच्छ्यते यतः ।।
अन्त­रि­क्ष­म­ना­धारं गतौ हेतुनिषेधनम् ।। ३९ ।।

न तु देहग्रहे प्रश्नः सति गन्तरि पृच्छ्यते ।।
अग्न्या­दि­दृ­ष्टि­भि­श्चास्य देहः प्राक्प्र­ति­पा­दितः ।। ४०।।

मनोऽधियज्ञं ब्रह्मैव ब्रह्मा चन्द्रोऽ­धि­दै­व­तम् ।।
चन्द्रेण मनसा लोकमवष्टम्भेन यास्यति ।। ४१ ।।

अध्यात्मं प्राण एव स्यादुद्गाता योऽधियज्ञगः ।।
स वायुरिति पाठे स्याद्व्याख्या माध्यंदिने त्वियम् ।। ४२ ।।

यजमानश्रुतेरत्र पूर्वो­द्गी­थै­क­वा­क्यतः ।।
यजमानो जपस्तत्र ज्ञानं नेत्यवसीयताम् ।। ४३ ।।

संभाव्यते न यत्तत्र यजमानस्य मानतः ।।
अस्तु कामं तदुद्गातुर्नतु तद्यजमानगम् ।। ४४ ।।

इती­त्यु­क्त­प­रा­मर्शो ह्यतिदेशार्थ उच्यते ।।
इतोऽ­न्य­त्रा­ति­मोक्षा ये तेऽप्येवमिति वीक्ष्यताम् ।। ४५ ।।

अधिदैवात्मना तेषां दृष्टयः साधनात्मनाम् ।।
अतिमोक्षाः स्युः सर्वत्र यथोक्तादेव लक्षणात् ।। ४६ ।।

फलवत्कर्मणां क्वापि किंचि­त्सा­मा­न्य­सं­श्र­यात् ।।
संपत्तिमर्हतां संप­द­ल्पी­यः­क­र्म­सू­च्यते ।। ४७ ।।

यदि वा तत्फलस्यैव किंचि­त्सा­मा­न्य­व­र्त्मना ।।
संपादनं भवे­त्सं­प­द­ग्नि­हो­त्रा­दि­क­र्मणि ।। ४८ ।।

संपदा चेत्फ­ल­प्रा­प्ति­र­श्व­मे­धा­दि­क­र्म­णाम् ।।
त्रयाणामपि वर्णानां तत्पाठः फलवान्भवेत् ।। ४९ ।।

नातिभारोऽस्ति नो बुद्धेः शास्रं चेत्तत्परं भवेत् ।।
विदुषां श्रेयसेऽतोऽध्वा न क्वचि­त्प्र­ति­ह­न्यते ।। ५० ।।

तिसृभिरिति संख्या­र्थ­प्र­श्न­नि­र्ण­य­म­ब्र­वीत् ।।
पुरो­नु­वा­क्या­द्युक्त्या तु संख्ये­या­र्थ­वि­नि­र्ण­यम् ।। ५१ ।।

त्रैलो­क्य­सं­ख्या­सा­मा­न्या­त्स्या­त्स­र्व­प्रा­ण­भृ­ज्जभः ।।
सर्वप्राणभृतां यस्मा­त्र्रि­ष्वे­वै­तेषु संभवः ।। ५२ ।।

उज्ज्व­ल­त्वा­दि­सा­मा­न्या­द्दे­व­लो­का­दि­सं­पदः ।।
फलसंपद एवैता नात्र कर्म विवक्ष्यते ।। ५३ ।।

दीप्ति­र्ना­दोऽ­धः­श­य­न­मा­ज्य­मां­स­प­यो­म्भ­साम् ।।
देव­लो­का­दि­सं­प­त्स्या­द्दी­प्ति­म­त्त्वा­दि­सं­भ­वात् ।। ५४ ।।

वृत्त्या­न­न्त्या­न्म­नोऽ­नन्तं शब्दा­दी­ना­म­न­न्ततः ।।
विश्वे­दे­वा­न्म­नो­वृत्तीः संपा­द्याऽऽ­न­न्त्य­सा­म्यतः ।। ५५ ।।

अनन्तमेव तेनासौ सम्यग्ज्ञानेन विन्दति ।।
लोकं यथोक्तदृष्टिः सन्यजमानः फलं स्वयम् ।। ५३ ।।

तिस्रः पुरो­नु­वा­क्याद्या ऋचः पूर्वमुदीरिताः ।।
यास्ता एवात्र विज्ञेयाः स्तोत्रिया अपि नापराः ।। ५७ ।।

गीत­य­स्त्व­धि­यज्ञं ता अध्यात्मं कास्तु ता इति ।।
प्राणा­पा­न­व्या­न­रूपा अध्यात्मं ताः प्रचक्षते ।। ५८ ।।

जयो भूरादिलोकानां संख्या­दि­त्वा­दि­सा­म्यतः ।।
अश्व­लोऽ­प्यु­प­रे­मेऽथ स्वोक्त­प्र­श्न­वि­नि­र्ण­यात् ।। ५९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य प्रथ­म­म­श्व­ल­ब्रा­ह्म­णम्

मृत्यो­र्मु­क्त्य­ति­मुक्ती द्वे पूर्व­स्मि­न्ब्रा­ह्मणे गते ।।
मृत्यु­रू­पा­व­धृ­तये परं ब्राह्मणमुच्यते ।। १ ।।

किंलक्षणेन ग्रस्तोऽयं मृत्युनेति प्रचोदिते ।।
ग्रहा­ति­ग्र­ह­रू­पेण ग्रस्तोऽयमिति कथ्यते ।। २ ।।

अधि­भू­ता­धि­य­ज्ञा­दि­प­रि­च्छे­द­फ­ला­त्मकः ।।
मोहासङ्गास्पदो मृत्यु­र्ग्र­हा­ति­ग्र­ह­ल­क्षणः ।। ३ ।।

इतो मुक्तस्य रूपाणि त्वग्न्यादीनि पुराऽब्रवम् ।।
उद्गीथब्राह्मणे पूर्व­म­श्व­ल­ब्रा­ह्मणे तथा ।। ४ ।।

फलं च ज्ञानयुक्तानां कर्म­णा­मे­त­दि­ष्यते ।।
उत्प­त्त्या­द्य­न्व­या­त्त­स्मा­द­नित्यं स्याद्घटादिवत् ।। ५ ।।

अतो यथो­क्ता­दे­त­स्मा­त्सा­ध्य­सा­ध­न­ल­क्ष­णात् ।।
संसा­र­द्ब­न्ध­ना­न्मोक्षः कर्तव्यो ज्ञानहेतुतः ।। ६ ।।

ज्ञानकर्मफलं दिव्यं यदि नाम पुरोदितम् ।।
ग्रहा­ति­ग्र­ह­ब­न्धेन तथाऽपि सितमेव तत् ।। ७ ।।

वाङ्भ­नः­प्रा­ण­रू­पाणां त्र्यन्ना­त्म­न्यपि संभवात् ।।
ग्रहा­ति­ग्र­ह­रू­पाणां नातो मुक्तः प्रजापतिः ।। ८ ।।

वागादयो ग्रहा ज्ञाता­श्च­तुष्ट्वं चाविवक्षितम् ।।
अति­मो­क्षा­ति­दे­शो­क्ते­स्त­द्वि­शे­षोऽथ भण्यते ।। ९ ।।

ग्रहा घ्राणादयो ज्ञेया गन्धा­द्या­स्त­द­ति­ग्रहाः ।।
ग्रहैर्गन्धादयो ग्रस्ता ग्रहाश्चाऽऽत्मा च गोचरैः ।। १० ।।

अपानेनाऽऽहृतो गन्धो घ्राणस्यैति वशं यथा ।।
चक्षु­रा­दि­ग्र­हा­स्त­द्व­त्प्रा­णा­दि­स­चि­वै­रिह ।। ११ ।।

गन्धादिविषया धीस्थाः कर्मसंबोधिता यतः ।।
प्रयुञ्जते हि घ्राणा­दीं­स्त­तस्ते स्युरतिग्रहाः ।। १२ ।।

योऽयं मृत्युरिह प्रोक्तो मृत्युस्तस्यापि चापरः ।।
अस्ति नास्तीति वा ब्रूहि याज्ञवल्क्य यथातथम् ।। १३ ।।

अस्ति चेदनवस्था स्यादनिर्मोक्षो न चेद्भवेत् ।।
इति प्रतिवचः कष्टं मत्वैनं पर्यपृच्छत ।। १४ ।।

न कश्चिन्नियतो भावो मृत्यु­रि­त्यु­प­दि­श्यते ।।
विनाशको यतो मृत्यु­र्वि­ना­श्या­न्प्रति भण्यते ।। १५ ।।

मृत्योरपि सतो मृत्यु­र­स्त्ये­वेति मयोच्यते ।।
न चान­व­स्थे­हाऽऽ­प्नोति सर्व­मृ­त्यु­त्व­का­र­णात् ।। १६ ।।

सर्वा­न्न­भ­क्ष­णा­द­ग्नि­र्मृ­त्यु­स्ता­व­द­सा­वपि ।।
अपामन्नं भवन्दृष्टो बह्वीनां तनुविग्रहः ।। १७ ।।

अग्नि­र्हि­र­ण्य­गर्भो वा ह्यापस्तत्कारणं मताः ।।
कार्याणां मारणान्मृत्युः कारणं प्रथितं भुवि ।। १८ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञानं मृत्यु­र­ज्ञा­न­रू­पिणः ।।
संसा­र­हे­तो­र्मृत्योः स्यान्ना­पी­हा­स्त्य­न­व­स्थितिः ।। १९ ।।

निरुणद्धि यथा जन्म तन्नाशमपि तत्तथा ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञानं नानवस्थाऽप्यतो भवेत् ।। २० ।।

अन्येऽतो मृत्यवो गौणास्तैर्मृतौ स्यात्पुनर्जनिः ।।
प्राक्तनान्यपि जन्मानि सम्यग्ज्ञानं तु हन्ति नः ।। २१ ।।

यथोक्त एव व्याख्याने युक्तेयं स्यात्फलश्रुतिः ।।
न तु निःशे­ष­सं­सा­र­वि­ध्वं­सि­न्या­त्म­बो­धने ।। २२ ।।

सम­स्त­मृ­त्यो­स्त­मसः सम्य­गा­त्मा­व­बो­ध­नम् ।।
मृत्यु­स्त­त्फ­ल­वि­ज्ञप्त्यै परो ग्रन्थोऽ­व­ता­र्यते ।। २३ ।।

सम्य­ग्ज्ञा­ता­त्म­या­थात्म्यो यदाऽयं म्रियते पुमान् ।।
किमु­त्क्रा­म­न्त्यतः प्राणा उताहो नेति भण्यताम् ।। २४ ।।

उत्क्रान्तौ स्यादनिर्मोक्षो जन्मार्थं मरणं यतः ।।
अमृ­ति­श्चा­प्य­नु­त्क्रान्तौ सत्सु प्राणेषु का मृतिः ।। २५ ।।

दुःश­को­त्त­र­मि­त्येवं प्रश्नं मत्वाऽन्वपृच्छत ।।
आर्तभागो मुनिर्विद्वान्स च नेति तमब्रवीत् ।। २६ ।।

अक­र्त्रा­त्म­प­रि­ज्ञा­ना­द्ध्व­स्ता­वि­द्यस्य सर्वतः ।।
देहा­न्त­र­ग्र­हा­भा­वा­त्प्रा­णो­त्क्रा­न्ते­र­सं­भवः ।। २७ ।।

यदैव सम्यग्विज्ञानं जात­म­स्याऽऽ­ग­मो­क्तितः ।।
प्राणाः सहेतवः सर्वे तदैवास्ता निरन्वयाः ।। २८ ।।

नान्वयं सहते प्रत्यङ्न चापि व्यतिरेकताम् ।।
कौट­स्थ्यै­क­त्व­हे­तुभ्यां प्रत्य­ग्या­था­त्म्य­व­स्तुनः ।। २९ ।।

ध्वस्त­ध्वा­न्तस्य विज्ञानादतो हेतुफलात्मनाम् ।।
दृशौ स्यात्समवनयः सर्पादीनां यथा स्रजि ।। ३० ।।

न स्वका­र­ण­सं­स­र्ग­स्तस्य ज्ञानादपह्नुतेः ।।
निष्फलं च भवेज्ज्ञानं यदि कारणसंगतिः ।। ३१ ।।

उत्क्रामन्ति न चेत्प्राणा नायं तर्हि मृतो भवेत् ।।
देहस्यैव मृतेर्नैवं जीवो न म्रियते सदा ।। ३२ ।।

जीवापेतमिति ह्युक्ते­र्ज­न्मा­देश्च निषेधतः ।।
यत्सं­ब­न्धा­द­चि­त्कोऽपि जीवतीत्यभिधीयते ।। ३३ ।।

देहस्तस्य कथं मृत्यु­र्जी­व­स्ये­हो­प­प­द्यते ।।
यतोऽतो देहमरणं प्रात्य­क्ष्या­दु­प­प­द्यते ।। ३४ ।।

प्राणा एव विलीयन्ते किंवाऽन्यदपि कृत्स्नतः ।।
प्रयोजकादि निःशेषं म्रिय­मा­णा­द्वि­प­श्चितः ।। ३५ ।।

प्राण­मा­त्र­वि­नाशे स्याद्भूयो जन्म प्रयोजकात् ।।
सप्रयोजकतन्नाशे मुक्ति­र­स्यो­प­प­द्यते ।। ३६ ।।

किमेनं न जहातीति पृष्टो नामे­त्य­था­ब्र­वीत् ।।
न किंचिन्न जहातीति प्रसि­द्धे­रि­द­मु­च्यते ।। ३७ ।।

नाममात्रावशेषं तदित्युक्तौ गम्यते यतः ।।
न किंचिदवशिष्टं स्यादिति यद्वत्तथेह तत् ।। ३८ ।।

शब्दा­र्थ­श्चाऽऽ­कृ­ति­र्य­स्मा­न्नातो नाम विनश्यति ।।
आनन्त्यं नित्यतैवास्य नाम्नो न व्यक्तिभूरिता ।। ३९ ।।

मृत्योः प्रयोजकं यत्स्या­द्ग्र­हा­ति­ग्र­ह­रू­पिणः ।।
तत्स्व­रू­पा­व­धृ­तये प्रार­ब्धै­षो­त्तरा श्रुतिः ।। ४० ।।

वैश्वानरवरादत्र केचि­दा­हु­र्म­हा­धियः ।।
देह­द्व­य­वि­मो­केऽपि नैव मुक्तः पुमानिति ।। ४१ ।।

नाम­मा­त्रा­व­शे­षोऽ­सा­व­न्त­रा­लेऽ­व­ति­ष्ठते ।।
परात्मनः परि­च्छि­न्नोऽ­वि­द्य­यो­ष­र­रू­पया ।। ४२ ।।

उच्छि­न्न­का­म­क­र्माऽसौ कृत्स्न­त­त्फ­ल­भो­गतः ।।
उच्छि­न्ना­शे­ष­बु­द्ध्या­दि­स्त­त्का­र­ण­प­रि­क्ष­यात् ।। ४३ ।।

अद्वै­त­द­र्श­ने­नास्य द्वैत­दृ­ष्ट्य­प­नु­त्तये ।।
पर आरभ्यते ग्रन्थो ब्रह्म­वि­द्या­व­बु­द्धये ।। ४४ ।।

अत्र यत्प्र­ति­व­क्तव्यं तदु­क्त­म­स­कृ­त्पुरा ।।
जिह्रेम्यत्र पुनर्वक्तुं पुनरुक्तगिरा भृशम् ।। ४५ ।।

भाष्योपात्तमतो ब्रूमो नानुपात्तं कथंचन ।।
पिष्ट­पे­ष­ण­व­त्सर्वं पूर्व­प­क्षो­क्ति­दू­ष­णम् ।। ४६ ।।

द्वैतदृष्ट्यैव निःशे­ष­द्वै­त­का­र्य­प­रि­क्ष­यात् ।।
न भूतमात्रोपादाने बीजमस्ति मनागपि ।। ४७ ।।

पुमर्थावसितेः शास्रं कृतार्थं विनिवर्तते ।।
अद्वै­त­द­र्श­ने­नातो नास्ति किंचि­त्प्र­यो­ज­नम् ।। ४८ ।।

अद्वै­त­द­र्श­ना­र्थाय शास्रारम्भोऽत एव च ।।
नैवोपपद्यते कृत्स्न­पु­रु­षा­र्था­व­सा­नतः ।। ४९ ।।

उप­प­न्न­स्त­दा­रम्भो मिथः­का­र्य­पृ­थ­क्त्वतः ।।
द्वैता­द्वै­ता­त्म­सं­दृ­ष्ट्यो­र्द­न्तो­लू­ख­ल­यो­रिव ।। ५० ।।

आस­ङ्ग­का­र्य­मु­च्छिन्नं द्वैत­दृ­ष्ट्याऽऽ­त्मनो यतः ।।
आसङ्ग एव भूता­ना­मु­पा­दा­न­मि­हे­ष्यते ।। ५१ ।।

स एष द्वैत­दृ­ष्ट्याऽत्र कर्मपक्षो निराकृतः ।।
कामश्च वासनाः सर्वा माहा­र­ज­न­पू­र्विकाः ।। ५२ ।।

सर्वं चेद्विनिवृत्तं स्यात्कि­म­न्य­द­व­शि­ष्यते ।।
तत्परिच्छेदि विज्ञा­न­म­वि­द्यै­वा­व­शि­ष्यते ।। ५३ ।।

कर्माऽऽरम्भे विकर्त्रेव स्वाश्रयस्य सदेष्यते ।।
इयत्ता कारकावस्था परि­च्छि­ज्ज्ञा­न­मेव तु ।। ५४ ।।

सैषाऽविद्या परिच्छेत्री ययाऽयं परमात्मनः ।।
संसारित्वं परिच्छिन्नो विज्ञा­ना­त्म­त्व­म­श्नुते ।। ५५ ।।

निवृत्तो द्वैत­वि­ष­या­द्य­द्य­प्येष तथाऽपि तु ।।
संसारावस्थ एवाथं द्वैत­त्वा­द्ब्र­ह्म­भे­दतः ।। ५६ ।।

यतोऽनवसितं वाक्यं पुमर्थानवसानतः ।।
प्रवर्तते पुरेवातो ब्रह्म­ण्य­प्य­य­सि­द्धये ।। ५७ ।।

एक­वा­क्य­त्व­मे­त­स्मा­द्दूै­ता­द्वै­ता­र्थ­वा­क्ययोः ।।
मोहाध्वस्तेर्न चाशेषः पुरुषार्थः समाप्यते ।। ५८ ।।

परिच्छेदं हि यत्कार्यं तदेव विनिवर्तते ।।
ध्वान्तो­च्छित्तौ विकर्तुत्वं कर्म­ण­स्त्व­नु­व­र्तते ।। ५९ ।।

आसङ्गश्च तथैवाऽऽस्ते ते एते सङ्गकर्मणी ।।
अनिवृत्ते सती भूयोऽविद्यां जनयितुं क्षमे ।। ६० ।।

अवि­नि­र्भा­ग­वृ­त्ति­त्वा­त्स­र्व­दैव परस्परम् ।।
न चाविशुद्धे द्वैतार्थे शक्य­म­द्वै­त­मी­क्षि­तुम् ।। ६१ ।।

इत्या­दि­पू­र्व­प­क्षो­क्ति­दू­ष­णे­ष्वा­भि­धा­स्यते ।।
ग्रन्थ­भू­य­स्त्व­सं­त्रा­सा­न्नेह कृत्स्नोऽ­भि­धी­यते ।। ६२ ।।

भूरि दूषणमत्रोक्तं श्रुत्या च स्वयमेव च ।।
पुरुषो वा इति ह्युक्त्या तथाऽस्मादिति वाक्यतः ।। ६३ ।।

कार­णा­द­क्ष­रा­दन्नं पुरुषेणेह कर्मणा ।।
अव्या­कृ­ता­दि­भा­वेन व्रीह्यादित्वाय जन्यते ।। ६४ ।।

तत्रैवं सति यद्येतद्येतैव हि केवलम् ।।
न जन्यतेऽतः क्षीयेत न त्वेतन्नेह जन्यते ।। ६५ ।।

नित्यं भुङ्क्ते यथैवान्नमात्मा वाग्दे­ह­बु­द्धिभिः ।।
अक्षीणैः कर्म­सं­ता­नै­स्त­थैव जनयत्यपि ।। ६६ ।।

भूतानि क्षीयमाणानि कर्मणा परमात्मनः ।।
पुरुषेणेह जन्यन्ते तस्मात्स पुरुषोऽक्षितिः ।। ६७ ।।

पूर्वकर्मोपभोगो यः पुरुषाणां शुभाशुभः ।।
तस्मा­दा­स­ङ्ग­वै­शे­ष्या­द­न्यस्य प्रक्रिया पुनः ।। ६८ ।।

तत्रैवं सति सासङ्गाः प्रायेण प्राणिनो यतः ।।
अतः कामा­श­य­व­शा­त्सृ­ज्य­तेऽन्नं मुहुर्मुहुः ।। ६९ ।।

क्षीय­न्तेऽ­न्याश्च भोगेन चीयन्तेऽन्याश्च कर्मणा ।।
भूतमात्राः प्रदीपस्य संतानेनार्चिषो यथा ।। ७० ।।

पर­स्प­रा­त्तृ­भो­ज्य­त्व­सं­स्का­रो­प­नि­ब­न्ध­नम् ।।
विज्ञा­ना­त्म­भि­रा­रब्धं बंभ्रमीत्यखिलं जगत् ।। ७१ ।।

विज्ञानात्मा हि यः कश्चित्कर्मणा येन केनचित् ।।
साधि­यू­ता­धि­दै­वस्य जगतः सर्गकारणम् ।। ७२ ।।

श्रुत्यै­त­त्स्व­य­मे­वोक्तं कर्म न क्षीयते यथा ।।
दैव­वा­गा­दि­सं­प­त्ति­स्तथा त्र्यन्ना­त्म­द­र्शिनः ।। ७३ ।।

इदं तत्तदिदं चेति त्रिषु कालेषु नित्यताम् ।।
प्राहास्य विद्यमानस्य विक्रि­या­मा­त्र­मेव तु ।। ७४ ।।

यद्यत्कामयते चास्मा­द­वि­द्या­का­म­क­र्म­णाम् ।।
ब्रह्म­ण्य­व­स्थि­त­स्यापि त्वक्षयत्वं श्रुतिर्जगौ ।। ७५ ।।

कृत्स्न­प्राप्त्या क्षयो नातो विद्यते कामकर्मणोः ।।
प्रमा­णा­सं­भ­वा­त्त­स्मा­द­स­मी­ची­न­मु­च्यते ।। ७६ ।।

व्यक्ततायाः क्षयो यस्तु कारणात्मतया श्रुतः ।।
तादृक्क्षयः सुषुप्तेऽपि नैवा­स्मा­भि­र्नि­वा­र्यते ।। ७७ ।।

प्रत्य­क्त­त्त्व­प­रि­ज्ञा­न­ज­न्मैव ध्वंसहेतुताम् ।।
द्वैतस्यैति पुमर्थश्च नातोऽ­न्य­त्किं­चि­दि­ष्यते ।। ७८ ।।

तमेतमिति च तथा सर्वेषामपि कर्मणाम् ।।
प्रत्य­ग्ज्ञा­न­स­मु­त्पत्तौ विनियोगः प्रदर्शितः ।। ७९ ।।

भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः ।।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।। ८० ।।

भोगक्षयेण काम्यानां निषिद्धानां च कर्मणाम् ।।
क्षय आरब्धकार्याणां ज्ञानिनोऽपि, न बोधतः ।। ८१ ।।

आभवादर्जितानां तु सर्वेषामपि कर्मणाम् ।।
क्षयोऽ­ना­र­ब्ध­का­र्याणां सम्य­ग्ज्ञा­न­प्र­सू­तितः ।। ८२ ।।

ज्ञानोत्पत्तौ क्षये मानं कर्मणां विद्यते यथा ।।
कृत्स्र­प्राप्त्या क्षये मानं न तथा किंचिदिष्यते ।। ८३ ।।

परिच्छेत्री न चाविद्या तमोरूपा हि सा यतः ।।
आच्छादिकाऽतः सा युक्ता सम­स्त­व्य­स्त­रू­पिणः ।। ८४ ।।

न चापि मिथ्याविज्ञानं परि­च्छे­द­क­मि­ष्यते ।।
परिच्छिनत्ति किं व्योम नीलज्ञानं मनागपि ।। ८५ ।।

सतो हि व्यञ्जकं मानं, न तु तत्कुम्भकारवत् ।।
मेय­व­स्त्व­नु­रो­धि­त्वा­त्प­रि­च्छे­द­कता धियः ।। ८६ ।।

यथा­व­स्त्व­नु­रो­धि­त्व­म­ज्ञ­न­स्यापि चेन्मतम् ।।
मुक्ते मेये सदा मुक्तिर्बन्धो वा स्याद्विपर्यये ।। ८७ ।।

नाऽऽत्माऽ­ना­न्मी­य­का­र्यस्य स्यादु­पा­दा­न­का­र­णम् ।।
अतादात्म्यान्न हि घटं जनयन्तीह तन्तवः ।। ८८ ।।

परात्मनः स्वतोऽविद्या बहिष्ठे कामकर्मणी ।।
आगते नत्वविद्याया भवतैवैतदुच्यते ।। ८९ ।।

न चाप्य­वि­द्या­म­सतीं शक्नुतः कामकर्मणी ।।
तदकारणतः कर्तुं मृत्स्ने­भा­श्वा­दिकं यथा ।। ९० ।।

न चात्यन्तासतो जन्म कुर्याल्लोकेऽपु कारणम् ।।
नर्ते धरां सुवृष्ट्याऽपि पद्मि­नी­सं­भ­वोऽ­म्ब­रात् ।। ९१ ।।

ब्रह्मैव चेदविद्याया जन्मनः कारणं मतम् ।।
तस्मिन्सति समु­च्छि­त्ति­र­वि­द्यायाः कथं भवेत् ।। ९२ ।।

आत्यन्तिकी समुच्छित्तिः स्याच्चे­न्मो­हस्य कारणे ।।
सत्येव नश्वरस्यास्य स्वतः किं साधनैर्वद ।। ९३ ।।

न चेत्ते शक्नुतोऽविद्यां रक्षितुं कामकर्मणी ।।
विद्यमानां विनष्टां तु कर्तुं ते शक्नुतः कथम् ।। ९४ ।।

काम­क­र्मा­दि­हा­नेऽपि यद्य­वि­द्याऽ­व­शि­ष्यते ।।
नेतीति वचसो व्याख्या तथा सति विरुध्यते ।। ९५ ।।

नेतीति प्रथमः शब्दो मूर्ता­मू­र्त­नि­षे­ध­कृत् ।।
द्वितीयो नेति यः सोऽथ भाव­ना­प्र­ति­षे­ध­कृत् ।। ९६ ।।

भावनादिविशेषेषु यच्छा­न्ते­ष्व­व­शि­ष्यते ।।
निष्कलं तत्परं ब्रह्म नेति नेत्युपदिश्यते ।। ९७ ।।

ज्ञातं ब्रह्म यथावच्च न चापागात्ततस्तमः ।।
इत्येतदविरुद्धं स्यात्प्र­सा­दा­ज्जा­त­वे­दसः ।। ९८ ।।

द्वैतार्थस्य विशुद्धिश्च कीदृश्यत्र विवक्षिता ।।
अद्वै­ता­न­भि­सं­बन्धो नाशो वा मलशुद्धिवत् ।। ९९ ।।

सम­स्त­व्य­स्त­सं­दृष्टौ नाद्वै­ता­द्वैू­तता पृथक् ।। १०० ।।
तयोरैकात्म्यतो युक्ता नापि तन्नाश इष्यते ।।
नष्टे द्वैतेऽखिले न स्यात्स­म­स्त­व्य­स्त­द­र्श­नम् ।। १०१ ।।

शीतोष्णयोरिव कथं परस्परविरोधिनोः ।।
एकत्र समवायः स्यात्स­म­स्त­व्य­स्त­ध­र्मयोः ।। १०२ ।।

अपूर्वादिषु जीवत्सु श्रुतिवाक्येषु शक्यते ।।
नेश्वरेणापि निर्वक्तुं समा­स्त­व्य­स्त­ताऽऽ­त्मनः ।। १०३ ।।

न च कुम्भा­दि­व­दृ­ष्टि­रा­त्म­नोऽ­व्य­ति­रे­कतः ।।
अना­त्म­त्व­प्र­सक्तिः स्याद्र­ष्टृ­दृ­श्य­प्र­भे­दतः ।। १०४ ।।

नो चेत्स­म­स्त­दृ­ष्ट्यौव व्यस्तदृष्टिः समाप्यते ।।
आत्मनीति श्रुते­र्वा­क्य­प्र­माणं प्रसज्यते ।। १०५ ।।

येनाश्रुतं श्रुतमिति कस्मिन्न्विति तथा वचः ।।
इत्यादि सुविरुद्धं स्यान्न चापीहापरा मितिः ।। १०६ ।।

सम­स्त­व्य­स्त­सं­दृष्टौ न किंचिदपि दृश्यते ।।
पूर्णा­ज्ञा­नै­क­हे­तु­त्वा­द्र­ज्जु­स­र्पा­दि­दृ­ष्टि­वत् ।। १०७ ।।

अणून्प्रत्येकशः सर्वान्स गृह्णीयादयत्नतः ।।
द्वैत­भे­दा­नि­मा­न्स­र्वा­ने­कै­कस्य न वेत्ति यः ।। १०८ ।।

सर्वेष्वपि च दृष्टेषु द्वेतभेदेषु केनचित् ।।
आनन्त्यं ब्रह्मता चास्य दुर्घटा स्यात्तथा सति ।। १०९ ।।

द्रव्यदृष्ट्या समीक्ष्यन्ते धर्मा नीलादयो यथा ।।
आत्मदृष्ट्या तथेक्ष्यन्ते नानात्मानो विरोधतः ।। ११० ।।

तथाचेहाऽऽगमवचः पराञ्चीति विरुद्धताम् ।।
आत्मा­ना­त्मा­र्थ­सं­दृष्ट्योः स्फुटं नः प्रत्यपीपदत् ।। १११ ।।

आत्मा वा अर इत्युक्तौ नैवानात्मेक्षणे विधिः ।।
अनूद्यैव यथा­प्रा­प्त­मा­त्म­दृ­ष्टि­र्वि­धी­यते ।। ११२ ।।

यत्र यत्र विधि­र्दृ­ष्ट­स्तत्र तत्राऽऽ­त्म­क­र्मकः ।।
कृत्स्ना­ना­त्मा­नु­वा­देन प्रत्य­ग्दृ­ष्टि­र्वि­धी­यते ।। ११३ ।।

साध्य­सा­ध­न­सं­ब­न्ध­वि­ज्ञानं नान्यतः श्रुतेः ।।
तदन्येषु पदार्थेषु प्रत्य­क्षा­दि­प्र­मा­णतः ।। ११४ ।।

सर्व­मा­ना­ति­व­र्त्या­त्म­प्र­ति­पत्तौ ततः श्रुतिः ।।
निमित्तत्वेन सन्मानं सुषु­प्तो­त्था­प­को­क्ति­वत् ।। ११५ ।।

मन्त्रा­म्ना­योऽ­प्यु­प­न्यस्तो यथेह न विरुध्यते ।।
तथोदर्के प्रवक्ष्यामः सर्वं भद्रं ततोऽस्त्विदम् ।। ११६ ।।

परापरत्वभेदेन द्वे विद्ये समुदीरिते ।।
विद्याविद्ये इहोच्येते तमोवस्त्ववसानतः ।। ११७ ।।

तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।।
तपसा कल्मषं हन्ति विद्य­याऽ­मृ­त­म­श्नुते ।। ११८ ।।

ध्वस्ता­ध्या­त्मा­दि­सं­भेदः प्रत्य­ङ्भो­है­क­मा­त्र­भाक् ।।
द्रष्टव्य इत्यादिविधौ प्रवर्तेत जडः कथम् ।। ११९ ।।

इत्यादि पूर्वमेवोक्तं दूषणं दूषितात्मनाम् ।।
आत्मा­न­मे­वे­त्य­त्रैव न भूयोऽ­त्रा­भि­धी­यते ।। १२० ।।

सुवि­स्प­ष्टा­र्थतो भाष्यं टीकां नैव व्यपेक्षते ।।
तस्मा­द्भा­ष्या­क्ष­रै­रेव शेषोऽर्थोऽत्र प्रतीयताम् ।। १२१ ।।

ग्रहातिग्रहरूपं तत्प्रयुक्तं केन बन्धनम् ।।
प्रयोजकावधृतये याज्ञ­व­ल्क्ये­त्यु­वाच ह ।। १२२ ।।

कर्माश्रयत्वतो लिङ्गा­द­वि­द्वा­निह गृह्यते ।।
प्रकृताया विभक्तेश्च विभ­क्त्य­न्त­र­सं­श्र­यात् ।। १२३ ।।

यत्रास्याविदुषः पुंसो मृत­स्याऽऽ­यु­ष्प­रि­क्ष­यात् ।।
स्वयोनिं वाक्समप्येति वातं प्राणोऽनुगच्छति ।। १२४ ।।

अग्न्या­दि­दे­व­तांशा ये भोगार्थं कर्मणाऽर्जिताः ।।
वागा­दि­श­ब्दै­रु­च्यन्ते त एवात्र न पौरुषाः ।। १२५ ।।

पुंसः कर्मक्षये स्वांशा­न्सं­ह­रन्ति यथायथम् ।।
अग्न्यादिदेवताः सोऽयमुपसंहार उच्यते ।। १२६ ।।

पुंसो देहग्रहे भूयो देहस्थानेषु देवताः ।।
अंशं निदधति स्वं स्वं कर्म­भो­ग­प्र­सि­द्धये ।। १२७ ।।

हृद्याकाश इहाऽऽमेति स्यादा­का­शा­प्य­य­त्वतः ।।
प्रश्नस्य विषयत्वेन विज्ञा­ना­त्मो­प­यो­गतः ।। १२८ ।।

अधि­ष्ठा­तृ­वि­यु­क्तानि न्यस्त­दा­त्रो­प­मानि हि ।।
वागादिकरणानीति नालं पुंभोगसिद्धये ।। १२९ ।।

विदेहदेवतः कायं भवत्येष पुमानिति ।।
आश्रयं केति पुंसोऽ­सा­व­प्रा­क्षी­न्मु­नि­स­त्त­मम् ।। १३० ।।

किं कारणात्मतामेति किंवा केनचिदात्मना ।।
अवतिष्ठत एवायं किवा कर्मैव संश्रितः ।। १३१ ।।

गुणान्वा यदि वेशानं कालं वा दैवमेव वा ।।
यदृच्छां संततिं शून्यं विनाशं वेति भण्यताम् ।। १३२ ।।

प्रश्नेन भावितस्तुष्टः पाणि­म­स्या­ग्र­ही­दृषिः ।।
अन्यासाधारणं प्रश्न­म­प्रा­क्षी­दिति विस्मितः ।। १३३ ।।

असा­धा­र­ण्य­सि­द्ध्य­र्थ­मा­वा­मे­वे­त्य­तोऽ­व­दत् ।।
विद्यागुप्तिश्च बहुशः श्रुतावपि समीक्ष्यते ।। १३४ ।।

आवयोरेव विज्ञानं यथेदं प्रागभूदितः ।।
आवामेव तथैवोर्ध्वं वेदिष्यावो यथोदितम् ।। १३५ ।।

सजने प्रश्न एत­स्मि­न्ख्या­प्य­माने त्वयोदिते ।।
न सिध्ये­दा­व­यो­रुक्तं प्रयोजनमिदं ध्रुवम् ।। १३६ ।।

न त्वन्यो­क्ति­प­रि­त्रा­सा­द्या­ज्ञ­व­ल्क्योऽ­ब्र­वी­दि­दम् ।।
जल्पे वाद्यतिरेकेण नान्यो वक्ति यतस्ततः ।। १३७ ।।

परिशिष्टानपि प्रश्ना­नु­त्क्रम्य व्याकरोदसौ ।।
सजनादिति नातः स्याद­न्यो­क्ति­भ­य­का­र­णम् ।। १३८ ।।

साध्वेतदिति संभाव्य सज­ना­दु­त्स­स­र्पतुः ।।
याज्ञ­व­ल्क्या­र्त­भागौ तावुत्क्रम्य च जजल्पतुः ।। १३९ ।।

सज­ना­त्ता­व­थो­त्क्रम्य मिथस्तत्र यदूचतुः ।।
तत्सर्वं श्रुति­रा­च­ख्या­व­स्म­त्प्रि­य­चि­की­र्षया ।। १४० ।।

कर्मा­दि­प­र­त­न्त्र­त्वा­त्स्वा­श्रयो नायमिष्यते ।।
संसा­र­भू­मि­व­र्ति­त्वान्न चाऽऽत्मा कारणाश्रयः ।। १४१ ।।

अचि­त्क­त्वा­त्प्र­धा­नादि पुंसो न स्थानमिष्यते ।।
न कर्म तत्फलं वेत्ति न च कस्यैति संगतिम् ।। १४२ ।।

न चेश्वरे स्थितिस्तस्य शास्रा­ना­र­म्भ­स­क्तितः ।।
कृत­ना­शा­कृ­त­प्राप्ती प्राप्नुतो नुस्तथा सति ।। १४३ ।।

दैवाधिष्ठित एवायं कर्मकालवशानुगः ।।
प्रवर्ततां चेत्पुरुषो नैवमप्युपपद्यते ।।
जडत्वादिति पूर्वोक्तो दोषोऽत्रापि च विद्यते ।। १४४ ।।

सदेवताकं पूर्वोक्तं समर्थमिति चेन्मतम् ।। १४५ ।।
प्रवृ­त्ति­र­प्र­वृ­त्तिर्वा देवतैश्वर्यतः सदा ।।
नियमे हेत्वसद्भावान्न स्यान्नैयमिकी स्थितिः ।। १४६ ।।

न चापि केवलं कर्म पुंसः स्यादाश्रयो यतः ।।
अचे­त­न­त्वा­नि­त्य­त्व­दो­ष­दुष्टं पुरोदितम् ।। १४७ ।।

मयाऽयमनुयातव्यः कर्ता चायं ममाभवत् ।।
कालादिविषयं ज्ञानं ध्वंसिनः कर्मणः कुतः ।। १४८ ।।

यत एवमतः सर्वे कालदैवेश्वरादयः ।।
कर्मप्रधानाः पुंसः स्यादा­श्र­योऽ­य­म­नु­त्तमः ।। १४९ ।।

इठो यदृच्छा नियतिः कारणत्वेन नाऽऽश्रिताः ।।
संततौ चान­व­स्था­ना­न्नाऽऽ­श्र­यत्वं प्रमाणतः ।। १५० ।।

न कर्म पूर्वस्कन्धेषु नष्ट­न्वा­दु­प­प­द्यते ।।
न चेह परिणामः स्यादु­त्त­र­स्क­न्ध­सं­गतौ ।। १५१ ।।

अनिष्ठितं न कर्मापि फलायालं भवेत्कचित् ।।
न चैकत्रैकदा स्थानं विरो­धा­ज्ज­न्म­ना­शयोः ।। १५२ ।।

न च स्कन्धातिरेकेण स्थिरः कश्चिदपीष्यते ।।
भोग­मो­क्षा­भि­सं­बन्धी यं प्रत्ये­त­त्प्र­व­र्तते ।। १५३ ।।

अनारम्भश्च शून्येऽपि यथाऽयमुपलभ्यते ।।
मिते­श्चा­सं­भ­वा­च्छून्यं सर्वथा नोपपद्यते ।। १५४ ।।

यत एवमतो न्याय्यं कर्मैवास्य समाश्रयः ।।
संसारभूमौ पुंसः स्यात्का­ला­दे­स्त­त्प्र­धा­नतः ।। १५५ ।।

कर्म­प्रा­धा­न्य­मे­वातः स्वय­मे­वा­ब्र­वी­च्छ्रुतिः ।।
काल­दै­वे­श्व­रा­दिभ्यः काला­दे­स्त­त्प्र­यु­क्तितः ।। १५६ ।।

सति कर्मणि वैचित्र्यं भूतानामुपपद्यते ।।
कर्मशब्देन विद्या च भावना कर्म चोच्यते ।। १५७ ।।

देहारम्भे न शुद्धस्य कर्मणः शक्तिरिष्यते ।।
तस्मा­त्र्रि­त­य­म­प्ये­त­त्क­र्म­श­ब्देन भण्यते ।। १५८ ।।

कारणानां यथोक्तानां यच्च तौ प्रशशंसतुः ।।
कर्मैवोक्तेषु सर्वेषु प्रश­शं­स­तु­रा­द­रात् ।। १६० ।।

कार­ण­त्वा­वि­शे­षेऽपि किं प्रधानमितीक्षणे ।।
कर्मणः स्यात्प्रशंसैवं तत्प्रा­धा­न्यो­प­प­त्तितः ।। १६१ ।।

वशी­कृ­त्ये­श्व­रा­दीनि कारणानि स्वतन्त्रवत् ।।
कर्म सिध्यद्यतो दृष्टं प्रधानं कर्म तेन तत् ।। १६२ ।।

क्रियां प्रत्यगुणीभूतं नेश्वराद्यपि सिध्यति ।।
कर्मातस्तेषु सर्वेषु प्रधानमिति भण्यते ।। १६३ ।।

यस्मादेवतः प्रेतो देवताविरहेऽपि ना ।।
देहा­द­स्मा­त्प­रि­भ्रष्टः कर्म­प्रा­धा­न्य­सं­श्र­यात् ।। १६४ ।।

पुण्यः पुण्येन भवति पापः पापेन कर्मणा ।।
इति श्रौतं वचो ज्ञेय­मा­ग­मै­क­प्र­मा­णतः ।। १६५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य द्विती­य­मा­र्त­भा­ग­ब्रा­ह्म­णम्

संसा­रा­न्मु­च्य­मा­नानां तथा संसरतामिह ।।
देहादिनाशे तुल्येऽपि तत्रैकेषां पुनर्भवः ।। १ ।।

देहा­द्या­त्य­न्तिकी हानिरन्येषां यत्र कारणे ।।
सति चासति चैवं स्यात्त­त्प्र­यो­ज­क­मी­रि­तम् ।। २ ।।

ग्रहा­ति­ग्र­ह­रू­पस्य मृत्योः कर्मेति निश्चितम् ।।
कीयती कर्मणस्तस्य व्याप्तिः स्यादिति भण्यते ।। ३ ।।

साधा­र­ण्य­वि­शे­षाभ्यां कर्मणश्च व्यवस्थितिः ।।
विशेषावस्था प्रागुक्ता सामान्यं त्वधुनोच्यते ।। ४ ।।

संसारे कियती व्याप्ति­र­भि­व्य­क्तस्य कर्मणः ।।
सामा­न्या­त्म­वि­शे­षा­भ्या­मि­त्ये­त­द्भु­ज्यु­नो­च्यते ।। ५ ।।

प्रत्य­ग्या­था­त्म्य­मो­हस्य कायेयत्तेह भण्यते ।।
एतस्यां सम्यगुक्तायां नानु­क्त­म­व­शि­ष्यते ।। ६ ।।

भ्रूण­ह­त्या­श्व­मे­धाभ्यां न परं पापपुण्ययोः ।।
इत्येवं धर्मकाराणामपि वाक्यानि कोटिशः ।। ७ ।।

पापस्य कर्मणः कार्यमन्यत्रापि मितं यतः ।।
नेहातो भण्यते भूयोऽ­न­र्थ­त्वा­च्चा­प्य­ना­दरः ।। ८ ।।

स्वतश्च तज्जिहासायाः सिद्धत्वान्नेह कीर्त्यते ।।
परमोदारफलता त्वश्व­मे­धा­ख्य­क­र्मणः ।। ९ ।।

निःशे­ष­पु­रु­षा­र्थानां पुण्यं कर्म हि साधनम् ।।
इत्याहुः श्रुतयः सर्वाः स्मृत­य­श्चा­प्य­ने­कशः ।। १० ।।

पुरु­षा­र्थ­त्व­सा­मा­न्या­त्स्व­र्गा­दि­पु­रु­षा­र्थ­वत् ।।
मुण्य­सा­ध­न­ता­शङ्का मुक्तेरपि यतस्ततः ।।
तदा­श­ङ्का­नि­वृ­त्त्यर्थं प्रार­ब्धै­षो­त्तरा श्रुतिः ।। ११ ।।

ज्ञानो­प­बृं­हि­त­स्यापि क्रतुराजस्य कर्मणः ।।
संसा­र­वि­ष­यै­वाऽऽ­प्ति­र्मक्तौ सा न मनागपि ।। १२ ।।

प्रत्य­ग्या­था­त्म्य­सं­मोहः क्रिया­का­र­क­रू­प­वान् ।।
प्रथ­तेऽ­पा­स्त­निः­शे­ष­क्रि­या­का­र­क­व­स्तुनि ।। १३ ।।

अनि­र्ज्ञा­ता­त्म­या­था­त्म्यै­र्यत्तु कैश्चिदिहोच्यते ।।
फलाभिसंधिरहितं विद्येतं कर्म मुक्तये ।। १४ ।।

बन्धहेत्वपि मोक्षाय विरु­द्ध­फ­ल­कृ­द्यथा ।।
विषदध्यादिवदिति तथो­दा­हृ­ति­रु­च्यते ।। १५ ।।

इत्यु­क्त­प­रि­हा­रार्थं नैत­त्स­म्य­गि­ती­र्यते ।।
अनारभ्यत्ववचनं तद्धे­तु­प्र­ति­प­त्तये ।। १६ ।।

आर­भ्य­त्वा­भ्यु­प­गमे मुक्ते­स्त­त्स्या­द्य­थो­दि­तम् ।।
अनारभ्या त्वियं मुक्ति­स्त­त्सि­द्धे­र्ज्ञा­न­हे­तुतः ।। १७ ।।

ब्रह्म वा इदमित्युक्तेः प्रागपि ज्ञानजन्मतः ।।
जग­द्ब्र­ह्मा­त्म­सं­सि­द्धे­र्नातो मुक्तिः क्रियोद्भवा ।। १८ ।।

यदि वस्तु स्वतो मुक्तं परतो बद्धमिष्यते ।।
मोक्षाय यत्नः फलवांस्तदा स्यान्न विपर्यये ।। १९ ।।

विद्याऽ­भि­व्य­ञ्जि­कै­वेयं स्वतः सिद्धस्य वस्तुनः ।।
आरम्भकत्वं जगति तस्या नैवोपपद्यते ।। २० ।।

अज्ञा­न­मा­त्र­व्य­वधौ वस्तुनि व्यापृतिर्मितेः ।।
आरभ्येऽर्थेऽफलं ज्ञानं व्यञ्ज­क­त्वा­त्प्र­दी­प­वत् ।। २१ ।।

न चाविद्यातिरेकेण मुक्ते­र्ब­न्धोऽन्य इष्यते ।।
निवृत्तिः क्रियते यस्य विद्येतेनेह कर्मणा ।। २२ ।।

अवि­द्या­ना­श­मा­त्रश्व मोक्ष आत्मन इष्यते ।।
यतस्ततोऽतिरेकेण मोक्षोऽनित्यो भवेद्ध्रुवम् ।। २३ ।।

सम्य­ग्ज्ञा­ना­ति­रे­केण न चान्येनास्ति निह्नुतिः ।।
प्रयङ्भोहस्य नातः स्याज्ज्ञा­न­क­र्म­स­मु­च्चयः ।। २४ ।।

निर्ज्ञा­त­वि­ष­य­त्वाच्च कर्म­श­क्ते­र्ज­ग­त्यपि ।।
दृष्टं हि कर्मणः कार्य­मु­त्प­त्त्या­दि­च­तु­ष्ट­यम् ।। २५ ।।

उत्प­त्त्या­प्ति­वि­कारा हि संस्कारश्च क्रियाफलम् ।।
नातोऽ­न्य­त्क­र्मणः कांर्य नातो मुक्तौ तदिष्यते ।। २६ ।।

न चान्यतम एतेषां मोक्षो युक्त्योपपद्यते ।।
उत्प­त्त्या­दि­प्र­का­रा­णा­म­नि­त्य­त्व­स­म­न्व­यात् ।। २७ ।।

अवि­द्या­मा­त्र­व्य­व­धि­र्यतो मोक्षोऽ­भ्यु­पे­यते ।।
तदन्यव्यवधाने हि प्रमाणं नोपपद्यते ।। २८ ।।

विनाशिफलवत्त्वं चेत्केवलस्यैव कर्मणः ।।
विद्येतस्य तु तस्यैव फलं ध्रौव्यं भवेदिति ।। २९ ।।

पूर्व­श­क्ति­नि­रा­सेन शक्त्य­न्त­र­स­मु­द्भवः ।। ३० ।।
वस्त्व­न्त­र­स­मा­यो­गा­द्वि­षा­दे­र्दृ­श्यते यतः ।।
प्रमा­णा­सं­भ­वा­न्मैवं वोचो लोकिकवस्तुवत् ।। ३१ ।।

नाऽऽगमादपरं मानं मुक्ता­व­भ्यु­प­ग­म्यते ।।
विष­द­ध्या­दि­व­त्त­स्मा­न्नै­त­त्सूक्तं भवेद्वचः ।। ३२ ।।

उक्त­का­र्या­ति­रे­केण विष­द­ध्या­दि­व­न्मितिः ।।
कार्या­न्त­र­स­मु­त्पत्तौ कर्मणोऽपि न विद्यते ।। ३३ ।।

साध्या­वृ­त्त्या­त्मकं ज्ञानं कर्मै­वा­व­स्तु­त­न्त्रतः ।।
ज्ञानं हि वस्तुतन्त्रं स्यान्न तु तत्कारकाश्रितम् ।। ३४ ।।

कर्मेतं कर्म तेने­दृ­ग्वि­द्येतं न कथंचन ।।
क्रिया­स­मु­च्च­योऽ­तोऽयं न तु विद्यासमुच्चयः ।। ३५ ।।

साध्यसाधनसंबन्ध आगमैकप्रमाणकः ।।
मुक्तेश्च साधनत्वेन कर्म नैव श्रुतं श्रुतौ ।। ३६ ।।

अज्ञानहानं नो मुक्तिस्तस्याः कर्म न साधनम् ।।
न हि कर्म तमो हन्ति तमसीवोत्थितं तमः ।। ३७ ।।

अवि­द्यै­को­द्भ­वत्वं स्याद्यद्यपि ज्ञानकर्णणोः ।।
मेयै­का­त्म्या­नु­रो­धित्वं तथाऽप्यतिशयो धियः ।। ३८ ।।

नाऽऽत्मा­वि­द्या­म­ति­क्रम्य कर्मै­का­त्म्या­नु­रोधि हि ।।
तमोमात्राभिजनतो नातोऽविद्यां निहन्ति तत् ।। ३९ ।।

स्वतः­सि­द्धा­त्म­व­स्त्वे­क­मा­त्रो­त्था­न­त्व­का­र­णात् ।।
ज्ञानं हन्ति तमोऽशेषं न तु कर्म तमोन्वयात् ।। ४० ।।

अज्ञानादित्रयं प्रत्यगाभासं यद्यपीष्यते ।।
ज्ञान­व­ज्ज्ञा­न­सं­भू­ते­र्नैव प्रागभ्युपेयते ।। ४१ ।।

कर्मातः कारणं मुक्तेर्न कथंचन युज्यते ।।
साक्षा­द­वि­द्या­प्र­ध्वस्तौ पारंपर्यात्तु युज्यते ।। ४२ ।।

मुक्तौ च कर्मसाध्यायां किमेकैकं विमुक्तिदम् ।।
किंवा संभूय सर्वाणि कर्माणि घ्नन्ति संसृतिम् ।। ४३ ।।

सकृ­द्भू­यः­प्र­यो­गाद्वा याव­ज्जी­व­प्र­यो­गतः ।।
एका­दि­द­क्षि­णा­स्वेवं विक्लपस्तुल्य इष्यते ।। ४४ ।।

काम्यैर्वा यदि वा नित्यैः सर्वैर्वा मुक्तिरिष्यते ।।
श्रौतैर्वा यदि वा स्मार्तैर्यदि वोभयकर्मभिः ।। ४५ ।।

तेषां च ज्ञानसंयोगे प्रधानगुणभेदतः ।।
त्रिधा विकल्पो विज्ञेयो विमु­क्ति­फ­ल­सि­द्धये ।। ४६ ।।

एकैकं मुक्ति­कृ­च्चे­त्स्या­द्य­व­व्री­ह्या­दि­हो­म­वत् ।।
एकेनैव कृता­र्थ­त्वा­न्ना­नु­ति­ष्ठे­त्त­तोऽ­प­रम् ।। ४७ ।।

प्रयोगे दक्षिणायां च समानोऽयं परिक्रमः ।।
अथ संभूय सर्वणि मुक्तिं कर्माणि कुर्वते ।। ४८ ।।

ऐककर्म्यं ध्रुवं प्राप­त्स­र्वे­षा­मपि कर्मणाम् ।।
दर्शा­दि­व­त्फ­लै­क­त्वा­त्त­च्चा­निष्टं प्रसज्यते ।। ४९ ।।

अन्यद्धि मुक्तिफलतः काम्यानां श्रूयते फलम् ।।
तेषां मुक्तिफलत्वं तु न श्रुतेर्नापि चान्यतः ।। ५० ।।

न च गोदोहनन्यायः काम्यकर्मसु युज्यते ।।
तेषां मुक्तिफलत्वे हि न मानं विद्यते यतः ।। ५१ ।।

सर्वं चाप्यप्रमाणं स्याद्यदुक्तं भेदलक्षणम् ।।
मुक्तिं सर्वाणि कर्माणि यदि संभूय कुर्वते ।। ५२ ।।

साध्य­सा­ध­न­बु­द्धिर्नो वचनात्पारलौकिकी ।।
न चाश्रौषं श्रुते­र्वा­क्या­त्कर्म मोक्षफलं क्वचित् ।। ५३ ।।

न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
वेदाहमिति मन्त्रश्च ज्ञाना­न्मा­र्गा­न्त­रा­प­नुत् ।। ५४ ।।

न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः ।।
नित्योऽस्य महि­मे­त्ये­व­मु­द­र्केऽपि प्रवक्ष्यते ।। ५५ ।।

क्षयी कर्मार्जितो लोको नित्यो ज्ञानजितस्तु यः ।।
इति स्पष्टं श्रुतेर्वाक्यं कस्मा­न्नाऽऽ­द्रि­यते त्वया ।। ५६ ।।

समु­च्च­य­श्चा­प्य­स­कृ­त्पु­रैव सुनिराकृतः ।।
भूयोऽपीह प्रवक्ष्यामः प्रस­ङ्गा­न्ना­ति­वि­स्त­रात् ।। ५७ ।।

संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति ।।
साध्य­सा­ध­न­भा­व­त्वो­दे­क­का­ला­न­व­स्थितेः ।। ५८ ।।

बाध्य­बा­ध­क­भा­वाच्च पञ्चा­स्यो­र­ण­यो­रिव ।।
एक­दे­शा­न­व­स्था­नान्न समुच्चयता तयोः ।। ५९ ।।

बाध्यबाधकभावेन काममस्तु समुच्चितिः ।।
स्वश­क्त्य­न­प­हा­रेण दाह्यदाहकयोरिव ।। ६० ।।

अय­था­व­स्त्व­विद्या स्याद्वि­द्यै­तस्या विरोधिनी ।।
समु­च्च­य­स्त­यो­रेवं रविशार्वरयोरिवः ।। ६१ ।।

वस्त्वधीना भवेद्विद्या कर्त्रधीना क्रिया तथा ।।
कर्त्रादि चाऽऽत्ममोहोत्थं स्वतोऽ­का­र­क­ताऽऽ­त्मनः ।। ६२ ।।

बृहस्पतिसवे यद्व­त्क्ष­त्र्रियो न प्रवर्तते ।।
ब्राह्म­ण­त्वा­न­हं­मानी विप्रो वा क्षत्र्रकर्मणि ।। ६३ ।।

विदेहो वीतसंदेहो नेति नेत्येव बोधितः ।।
देहा­द्य­ना­त्म­दृ­क्त­द्व­त्त­क्रियां वीक्षतेऽपि न ।। ६४ ।।

मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति ।।
अध्यस्याऽऽत्मनि देहा­दी­न्मू­ढ­स्त­द्व­द्वि­चे­ष्टते ।। ६५ ।।

स्थाणुं चोरधियाऽऽलाय भीतो यद्वत्पलायते ।।
बुद्ध्या­दि­भि­स्त­थाऽऽ­त्मानं भ्रान्तोऽ­ध्या­रोप्य चेष्टते ।। ६६ ।।

स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायने ।।
आत्म­न­स्त­त्त्व­वि­ज्ञानं तद्वन्नाङ्गं क्रियाविधौ ।। ६७ ।।

यद्धि यस्याविरोधेन स्वभावमनुवर्तते ।।
तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ।। ६८ ।।

अज्ञा­न­म­नि­रा­कु­र्व­ज्ज्ञा­न­मेव न सिध्यति ।।
विप­न्न­का­र­क­ग्रामं ज्ञानं कर्म न ढौकते ।। ६९ ।।

हेतु­स्व­रू­प­का­र्याणां प्रकाशतमसोरिव ।।
मिथो विरोधतो नातः संग­ति­र्ज्ञा­न­क­र्मणोः ।। ७० ।।

सकृ­त्प्र­वृत्त्या मृद्राति क्रिया­का­र­क­रू­प­भृत् ।।
अज्ञा­न­मा­ग­म­ज्ञानं सांगत्यं नास्त्यतोऽनयोः ।। ७१ ।।

सर्वथा नैव घटते ज्ञान­क­र्म­स­मु­च्चयः ।।
विद्ययैव तमोहानादकार्ये कर्म किंफलम् ।। ७२ ।।

न मानं किंचिदप्यस्ति ज्ञान­क­र्म­स­मु­च्चितेः ।।
प्रत्य­क्कै­व­ल्य­सं­सिद्धौ ज्ञानादेव तमोहतेः ।। ७३ ।।

उत्प­त्त्या­द्य­ति­रे­केण संसा­र­वि­नि­वृ­त्तये ।।
कर्मणोऽपि तथा मानं न किंचिदुपपद्यते ।। ७४ ।।

अस्ति मानं यतो नित्यं कर्म सर्वत्र चोद्यते ।।
न चोत्प­त्त्या­दि­म­त्किं­चि­त्तत्र साक्षात्फलं श्रुतम् ।। ७५ ।।

विश्वजिद्वन्न सामर्थ्यं तत्र संभाव्यतेऽण्वपि ।।
उत्प­त्त्या­दि­फ­लो­द्भूतौ मुक्तिरस्तु ततः फलम् ।। ७६ ।।

पुरुषार्थेऽसति फले विधानं नोपपद्यते ।।
नित्यानां कर्मणां तस्मिन्सत्येव घटते यतः ।। ७७ ।।

दुःखात्मकेषु नित्येषु समी­क्षा­पू­र्व­का­रिणः ।।
पुरुषा न प्रवर्तेरन्न चेत्तेभ्यः फलं भवेत् ।। ७८ ।।

नैवं वाक्यात्फलं यस्मान्न किंचिदपि लभ्यते ।।
तत्सा­म­र्थ्य­श्र­वा­भा­वा­त्फले नातो मितिश्च नः ।। ७९ ।।

प्रमाणबलतः प्राप्तमपि भूरि न वार्यते ।।
अणुमात्रं न तद्ग्राह्यं वस्तु यन्नि­ष्प्र­मा­ण­कम् ।। ८० ।।

पुमाशयवशाच्चेयं फल­क्लृ­प्ति­स्त्व­यो­च्यते ।।
अन्यानपेक्षं सन्मानं प्रमे­या­र्थ­स­म­र्प­कम् ।। ८१ ।।

प्रत्य­वा­या­द्य­भा­वश्च फलं नित्यस्य कर्मणः ।।
क्लृप्तं सत्कल्प्यते कस्मा­द्वि­मु­क्ति­र्नि­त्य­क­र्मणः ।। ८२ ।।

तावतैव कृता­र्थ­त्वा­द्वि­धे­र्नि­त्यस्य कर्मणः ।।
विमु­क्ति­फ­ल­सं­बन्धे न मानं विद्यते ततः ।। ८३ ।।

अन्य­थाऽ­नु­प­पत्त्या चेद्वि­श्व­जि­द्व­त्प्र­क­ल्प्यते ।।
फलं कथं नु न भवे­द्वि­श्व­जि­न्न्याय ईर्यताम् ।। ८४ ।।

काम्या­ग्नि­हो­त्र­व­न्नित्यं काम्यं चापि प्रसज्यते ।।
फले­ना­स्या­भि­सं­ब­न्धा­न्नि­ष्कामं नित्यमुच्यते ।। ८५ ।।

मतं चेन्न फलत्वेन मोक्षो नित्योऽ­भ्यु­पे­यते ।।
प्रति­ज्ञा­ता­र्थ­हा­ना­प्ते­र्नै­व­म­प्यु­प­प­द्यते ।। ८६ ।।

आरभ्यमाणता मुक्तेः प्रत्यज्ञायि त्वयैव सा ।।
विरु­ध्य­तेऽ­फ­लो­क्त्यै­व­मा­रभ्यं स्याद्यतः फलम् ।। ८७ ।।

मुक्तेश्च कर्मकार्यत्वे विशेषो भवतोच्यताम् ।।
स्वर्गादिभ्यो विनाशादौ मोक्षे तेऽनि­र्वृ­ति­र्यतः ।। ८८ ।।

अथोपचारतो मोक्षः कार्यं स्यान्नि­त्य­क­र्मणः ।।
ज्ञान­का­र्य­व­दि­त्येवं मतं चेन्नैवमिष्यते ।। ८९ ।।

अज्ञा­न­ध्वं­स­का­रि­त्वा­न्मोक्षो ज्ञानस्य भण्यते ।।
उप­चा­रा­त्का­र्य­मिति तदसत्त्वान्न कर्मणः ।। ९० ।।

व्यव­धा­ना­प­नु­ज्ज्ञानं न कर्मा­ज्ञा­न­हा­नि­कृत् ।।
यतोऽतो नोपचारेण कर्मणो मुक्तिकार्यता ।। ९१ ।।

न चाज्ञानातिरेकेण व्यवधानान्तरं मतम् ।।
विवर्त्यत्वेन मोक्षस्य कर्मणा यन्निवर्त्यते ।। ९२ ।।

विरो­ध्य­न्त­र­वि­ध्वंसो दृष्टो लोके विरोधिना ।।
तमः­प्र­का­श­व­त्कर्म नाज्ञानेन विरुध्यते ।। ९३ ।।

मत­म­ज्ञा­न­मे­वै­त­त्कर्म नाशयतीति चेत् ।।
नाविरोधात्तमो हन्ति कर्म किंचित्कदाचन ।। ९४ ।।

अज्ञा­न­म­न­भि­व्य­क्ति­र्बो­धोऽ­भि­व्य­क्ति­रा­त्मनः ।।
बाध्य­बा­ध­क­भा­वोऽयं विरोधाद्धटते तयोः ।। ९५ ।।

विरु­द्ध­ध­र्म­कत्वं तु मिथो नाज्ञानकर्मणोः ।।
बाध्य­बा­ध­क­भा­वोऽयं न तयोर्युज्यते ततः ।। ९६ ।।

कर्म­णोऽ­दृ­ष्ट­सा­मर्थ्यं यद्य­ज्ञा­ना­प­नु­न्म­तम् ।।
ज्ञाने­ना­ज्ञा­न­वि­ध्वस्तेः प्रात्य­क्ष्या­त्त­द­स­द्वचः ।। ९७ ।।

तुष­त­ण्डु­ल­नि­र्मोके प्रत्यक्षे ह्यवघातजे ।। ९८ ।।
साम­र्थ्या­त्त­द्वि­नि­ष्प­त्ति­र्ना­ग्नि­हो­त्रा­दि­क­र्मणः ।।
कल्प्यते तद्वदेवेह प्रत्य­क्षे­णा­व­बो­धतः ।। ९९ ।।

प्रत्य­ग­ज्ञा­न­वि­ध्वंसे साम­र्थ्या­न्नि­त्य­क­र्णणः ।।
न युक्तोऽ­ज्ञा­न­वि­ध्वंसो बलात्कल्पयितुं त्वया ।। १०० ।।

कर्म­भि­श्चा­वि­रुद्धं यद्दे­व­ता­द्र­व्य­त­त्त्व­गम् ।।
समुच्चीयेत तज्ज्ञानं न तु कर्मविरोधि यत् ।। १०१ ।।

कल्प्ये चादृ­ष्ट­सा­मर्थ्ये नित्यानां कर्मणां त्वया ।।
विरुद्धं कर्मभिः किंवा यदु­त्प­त्त्या­दि­व­र्जि­तम् ।। १०२ ।।

न जन्यं जनकं वस्तु न द्रव्य­गु­ण­क­र्मभिः ।।
अन्यते यत्फलं तादृक्कल्प्यतां नित्यकर्मणः ।। १०३ ।।

किंवो­त्प­त्त्या­दि­म­त्किं­चि­त्सा­मर्थ्यं यत्र कर्मणः ।।
तादृक्फलं प्रकल्प्यं स्याद्यथा न्याय्यं तथाऽस्त्विह ।। १०४ ।।

अवश्यं चेत्प्रकल्प्यं स्यात्पु­स्प्र­वृ­त्ति­प्र­यो­ज­कम् ।।
तदु­त्प­त्त्या­दि­म­त्स्वेव युक्तं कल्पयितुं फलम् ।। १०५ ।।

अर्थापत्तेश्च तत्रैव क्षीण­त्वा­न्मो­क्ष­क­ल्पने ।।
न सामर्थ्यं यतस्तस्मान्न युक्ता मुक्तिकल्पना ।। १०६ ।।

नित्यस्य कर्मणः कार्यं पारि­शे­ष्य­स­मा­श्र­यात् ।।
युक्ता कल्पयितुं मुक्ति­र­न्य­स्या­सं­भवो यतः ।। १०७ ।।

मोक्षा­त्फ­ला­न्त­रै­र्योगः काम्यानां स्याच्छ्रु­त­त्वतः ।।
नित्य­क­र्मा­भि­सं­बन्धो मुक्तेः स्यात्पा­रि­शे­ष्यतः ।। १०८ ।।

मैवं कर्म­फ­ल­व्य­क्ते­रा­न­न्त्या­दु­प­प­द्यते ।।
पारि­शे­ष्य­न­य­द्वारा मुक्तेः कर्मफलात्मता ।। १०९ ।।

पुंस्का­म­वि­ष­याणां तु नेय­त्ते­हो­प­प­द्यते ।।
काम्यकर्मफलानां हि तथा तत्साधनस्य च ।। ११० ।।

देश­का­ला­द्य­नि­य­मा­त्पु­मि­च्छा­ना­म­न­न्तता ।।
तथा तत्साधनानां च काम्ये­ष्ट­र्थ­प्र­यु­क्तितः ।। १११ ।।

प्रतिप्राणि च वैचि­त्र्या­द्दे­श­का­ला­दि­हे­तुतः ।।
इच्छा­त­त्सा­ध­नानां च स्यादानन्त्यं तथा सति ।। ११२ ।।

पारिशेष्यनयो न स्यात्स­र्व­ज्ञ­स्या­प्य­न­न्ततः ।।
न च कर्मफलत्वेन पारिशेष्यं प्रसिध्यति ।। ११३ ।।

नित्य­क­र्म­फ­ल­त्वेन मुक्तेरपि परिग्रहात् ।।
न पारि­शे­ष्य­सं­सि­द्धि­स्त­थाऽ­पी­हो­प­प­द्यते ।। ११४ ।।

नित्यकर्मफलत्वं चेन्मु­क्ते­र­प्य­भ्यु­पे­यते ।।
कर्म­का­र्य­स­जा­ति­त्वा­त्पा­रि­शे­ष्य­नयः कुतः ।। ११५ ।।

अर्था­प­त्ति­क्ष­योऽतः स्याद­न्य­थाऽ­प्यु­प­प­त्तितः ।।
उत्प­त्त्या­दे­र­न्य­तमो न च मोक्ष इहेष्यते ।। ११६ ।।

उत्प­त्त्या­दि­वि­रु­द्धा­त्वा­न्मो­क्ष­रू­पस्य नित्यतः ।।
नोत्पद्यो वा विकार्यो वा विकारप्रतिषेधतः ।। ११७ ।।

व्रीहि­पा­त्रा­दि­व­न्नापि मोक्षः संस्कार्य इष्यते ।।
असा­ध­न­त्वा­न्ना­प्याप्यः प्रत्य­ङ्भा­त्र­स्व­भा­वतः ।। ११८ ।।

नित्यस्य सर्वकर्मभ्यो वैलक्षण्याच्च कारणात् ।।
कार­णा­नु­वि­धा­यि­त्वा­त्फ­म­प्यस्तु चेतथा ।। ११९ ।।

नैवं कर्म­त्व­सा­रू­प्या­त्सा­ल­क्षण्यं भवेन्न किम् ।।
काम्य­क­र्म­फ­लै­र्नि­त्य­फ­ल­स्ये­त्य­भि­धी­य­ताम् ।। १२० ।।

वैलक्षण्यं निमित्ताच्चेन्न नैमि­त्ति­क­तु­ल्यतः ।।
क्षाम­व­त्या­दि­व­न्नित्यं कस्मान्न स्यात्सलक्षणम् ।। १२१ ।।

न हि लौकि­क­च­क्षु­र्भि­र्वै­ल­क्ष­ण्या­त्स­म­र्थ्यते ।।
उलू­क­च­क्षु­षोऽ­रू­पा­द्र­सा­दि­ग्र­हणं कचित् ।। १२२ ।।

रसादिग्रहणे शक्तिर्लोके दृष्टा न चक्षुषः ।।
साम­र्थ्य­स्या­ग्र­हा­त्त­स्मान्न विरुद्दा प्रकल्प्यते ।। १२३ ।।

सामर्थ्यं यस्य यत्रैव दृष्टं तत्रैव तस्य तत् ।।
सुदूरमपि गत्वेह ह्यति­शी­ति­र­पी­ष्यते ।। १२४ ।।

कर्मकार्यान्तरं नित्यं विष­द­ध्या­दि­व­द्ध्रु­वम् ।।
यदारभत इत्युक्तं तच्चाप्यस्तु स्वगोचरे ।। १२५ ।।

यदेव विद्ययेत्यादि श्रुतेरपि वचस्तथा ।। १२६ ।।
देवयाजिसकाशाच्च विशे­ष­श्चाऽऽ­त्म­या­जिनः ।।
तदाहुरिति विस्पष्टं श्रूयते श्रुतिवाक्यतः ।। १२७ ।।

मनु­नाऽ­प्या­त्म­या­जीति यदुक्तं परदर्शने ।।
तत्रापि च समं पश्यन्नात्मयाजी भवत्यम् ।।
सम­दृ­ष्टि­प्र­शं­सैषा यदि वा भूतपूर्वतः ।। १२८ ।।

आत्मसंस्कृतये कर्म यः करोति यथाविधि।।
आत्मयाजीति मनुना स एवेहाभिधीयते ।। १२९ ।।

सुसंस्कृतधियः पुंसो यथोक्तैः कर्मभिः समम् ।।
इह वाऽमुत्र वा ज्ञानं जायते मोक्ष­कृ­द्ध्रु­वम् ।। १३० ।।

ब्रह्मा विश्व­सृ­जो­वा­क्या­द्दे­व­सा­र्ष्ट्य­ति­रे­कतः ।।
भूतापीतिं मनुः साक्षा­द्द­र्श­य­त्य­वि­न­श्व­रीम् ।। १३१ ।।

अत्येतीति तु ये पाठं कुर्वते तेऽविपश्चितः ।।
यथो­क्त­दो­ष­दु­ष्ट­त्वा­न्ना­त्ययो बोधतोऽन्यतः ।। १३२ ।।

स्पष्टा­र्थ­मु­त्तरं भाष्यं न व्याख्या­न­म­पे­क्षते ।।
यतोऽत उत्तरो ग्रन्थः सम्य­ग­व्या­ख्या­य­तेऽ­धुना ।। १३३ ।।

प्रयोज्यस्य हि बन्धस्य प्रयो­ज­क­मि­हो­दि­तम् ।।
प्राधान्येनेह कर्मैव तद­न्य­त्तू­प­स­र्ज­नम् ।। १३४ ।।

परि­च्छि­न्ना­प­रि­च्छिन्नं तच्च कर्म स्वभावतः ।। १३५ ।।
परिच्छिन्नस्य संव्या­प्ति­र्व्या­ख्याता पूर्वमेव तु ।।
अप­रि­च्छि­न्न­सं­व्या­प्ति­र्भु­ज्यु­प्र­श्नेन भण्यते ।। १३६ ।।

ब्रह्मा­ण्डा­द्ब­हि­र­न्तश्च सम­ष्टि­व्य­ष्टि­रू­पिणः ।।
व्याप्ति­र्हि­र­ण्य­रा­र्भस्य बन्धज्ञानाय भण्यते ।। १३७ ।।

वैष­म्य­प्र­ति­प­त्त्यर्थं प्रश्नस्य च्रासजन्मने ।।
प्रतिवादिधियो यत्ना­द्भु­ज्यु­नाऽऽ­ख्या­यि­का­च्यते ।। १३८ ।।

लोकानामवसानानि पर्यपृच्छाम तं यदा ।।
गन्धर्वं तत्र काले तमथाब्रूम क्व तेऽभवन् ।। १३९ ।।

अप्र­सि­द्धा­भि­धा­नोक्त्या वादि­व्या­मो­ह­सि­द्धये ।।
अश्वमेधकृतो वक्ति भुज्युः पारिक्षिता इति ।। १४१ ।।

पारिक्षिताः क तेऽभू­व­न्नि­त्यु­क्ति­स्रि­रि­हो­दिता ।।
त्रिरु­क्ते­रु­प­यो­गोऽयं विभा­गे­नो­प­व­र्ण्यते ।। १४१ ।।

प्रश्नार्था प्रथमोक्तिः स्यात्प्र­त्यु­क्त्यर्था तथा परा ।।
तृतीय याज्ञ­व­ल्क्यार्थं तिस्रोऽ­प्यु­क्ती­रि­ती­र­येत् ।। १४२ ।।

भानु­स्य­न्द­न­ग­त्याऽध्वा मितो यावानहर्निशम् ।।
द्वात्रिं­श­द्गु­णि­त­स्ता­वा­न्व्याप्तो भानुगभस्तिभिः ।। १४३ ।।

द्वात्रिं­श­द्भि­र­हो­रा­त्रै­र्या­वन्तं देशमुद्व्रजन् ।।
मण्डली कुरुते भानु­स्ता­वाँ­ल्लो­क­र­वे­रितः ।।
शरीरमेतद्वैराजं देवताकरणं महत् ।। १४४ ।।

इयानेव तु देशोऽयं प्राणिनां भोगसिद्धिकृत् ।।
अग्न्या­दि­दे­व­तानां च व्याप्तिरेतावती मता ।। १४५ ।।

लोकात्परं निरालोकः सर्व­प्रा­णि­वि­व­र्जितः ।।
पर्येति लोकं द्विस्ता­व­त्पृ­थिवी पूर्वमानतः ।। १४६ ।।

लोका­लो­क­गि­रे­र्भागः सर्व­प्रा­णि­वि­व­र्जितः ।।
समुद्रो द्विगुणो भूमेः परस्तादवतिष्ठते ।। १४७ ।।

यं घनोदमिति प्राहुः पुराणज्ञा विपश्चितः ।।
ब्रह्मा­ण्ड­सं­पु­ट­स्त­स्मा­त्प­रे­णा­भ्येति सर्वतः ।। १४८ ।।

पृथिव्यनन्तरं साक्षात्समुद्रः श्रूयते श्रुतौ ।।
अण्डाद्वहिः पुराणे तु विरोधे स्मृतिबाधनम् ।। १४९ ।।

व्याख्येह संप्र­वृ­त्ते­य­म­श्व­मे­ध­कृ­कतां पथः ।।
स चैवं शक्यते वक्तुं लोकालोकादिमानतः ।। १५० ।।

यथोक्तपरिमाणेन ध्यान­क­र्म­वि­व­क्षया ।।
लोका­लो­का­दि­का­र्याणां परिमाणवचस्ततः ।। १५१ ।।

अस्ति तावदयं लोको यथो­क्त­प­रि­मा­ण­वान् ।।
भानु­प्र­का­श­सं­व्याप्तो विराजो विस्तृ­ति­स्त्वि­यम् ।। १५२ ।।

ततो लोका­द्वि­नि­ष्क्रम्य द्विगुणा पृथिवी स्थिता ।।
सम­न्ता­द्दूि­गु­णोऽ­ब्धिश्च संवेष्ट्य पृथिवीं स्थितः ।। १५३ ।।

तं समुद्रं समुत्तीर्य यदन्यत्परतस्ततः ।।
गन्त­व्य­मु­प­मा­नोक्तिः क्रियते तस्य सांप्रतम् ।। १५४ ।।

कपालसंधिगं व्योम साम­र्थ्या­त्प­रि­मा­णतः ।।
याव­ती­त्यु­प­मो­क्तेह श्रुत्याऽऽ­वि­ष्क्रि­य­तेऽ­नया ।। १५५ ।।

तेन पारिक्षितान्खेन चित्या­त्म­त्व­मु­पा­ग­तान् ।।
अन्तः संस्थाप्य नयति सम­ष्टि­व्य­ष्टि­ता­मसुः ।। १५६ ।।

चित्यात्माऽत्र सुपर्णः स्यादा­दि­त्या­त्माऽ­थ­वो­च्यते ।।
इमं देशं यतः प्राप्ता­ना­दि­त्या­द्यु­क्त­व­र्त्मना ।। १५७ ।।

एवं पारि­क्षि­ता­न्स­र्वा­न­ग्नि­रिन्द्रो वियत्पथा ।।
निर्गमय्याण्डतः प्रादाद्वायवे सूक्ष्मरूपिणे ।। १५८ ।।

अश्व­मे­ध­म­खा­पूर्वं देव­ताऽ­ग्नि­रि­हो­च्यते ।।
वायु­वे­ष्ट­न­मे­तच्च यद­पू­र्व­मि­हो­दि­तम् ।। १५९ ।।

वायुरेव ततोऽ­पू­र्व­म­भि­व्य­क्त­त­नु­र्मतः ।।
अनन्तरमपूर्वस्य कार्यं निर्दि­श्य­तेऽ­धुना ।। १६० ।।

पारि­क्षि­ता­न­थाऽऽ­दाय वायुः स्वात्म­स­मा­श्र­यान् ।।
आपाद्य गमयामास तत्र प्राणैकरूपिणः ।। १६१ ।।

अश्वमेधकृतो यत्र पूर्वे तस्थुरितो गताः ।।
वाय्वात्मा गमयामास सम­ष्टि­व्य­ष्टि­ता­प्तये ।। १६२ ।।

अश्व­मे­ध­म­खा­पू­र्व­फ­ल­प्र­क­थ­नेन या ।।
प्रवृ­त्ताऽऽ­ख्या­यिका सेयं समाप्ताऽनवशेषतः ।। १६३ ।।

प्रश्न­शे­ष­म­थे­दानीं स्वयमेव श्रुतिर्जगौ ।।
यदि वा याज्ञ­व­ल्क्यो­क्ति­रे­व­मे­वेति यद्वचः ।। १६४ ।।

तस्मादित्यादिकं वाक्यं श्रुतेरिति च निर्दिशेत् ।।
वायुमेव स गन्धर्वः प्रश­शं­सा­ति­वि­स्मितः ।। १६५ ।।

वायुं मुकत्वा बहि­र्य­स्मा­न्ना­न्यस्या विद्यतेऽबहिः ।।
देवताया गति­स्त­स्मा­द्वा­यु­र्ज्या­या­नि­है­कलः ।। १६६ ।।

यत एवमतो ज्ञेयो वायुरेव न चापरः ।।
व्यष्टिः सम­ष्टि­रि­त्ये­व­म­ण्डा­द­न्त­र्ब­हिश्च सः ।। १६७ ।।

व्याप्ति­र्वि­शे­ष­रू­पेण व्यष्टि­रि­त्य­भि­धी­यते ।।
सामान्येन समष्टिश्च वायुरेव द्विधा स्थितः ।। १६८ ।।

वस्तु यल्लक्ष्यते किंचि­ज्ज­ग­त्य­स्मिं­श्च­रा­चरे ।।
सामान्येन विशेषेण वायुरेव तदीक्ष्यते ।। १६९ ।।

न सामा­न्य­वि­शे­षाभ्यां वायोरन्यस्य वस्तुनः ।।
संबन्धो वायुरेवेति सावधारणवाक्यतः ।। १७० ।।

अन्य­यो­ग­व्य­व­च्छेदे प्रशं­से­य­म­सो­र्भ­वेत् ।।
न त्वयोगव्यवच्छेद उत्क­र्ष­स्ता­दृ­गि­ष्यते ।। १७१ ।।

अश्वमेधक्रतोरेष सम­ष्टि­व्य­ष्टि­ल­क्षणः ।।
महिमाऽऽविष्कृतः श्रुत्या विद्यायुक्तस्य संभ्रमात् ।। १७२ ।।

सम­ष्टि­व्य­ष्टि­रूपं यो वायुमात्मेति संश्रितः ।।
सोऽपहन्ति पुनर्मृत्युं मृत्यु­मा­त्मा­न­मे­त्यसौ ।। १७३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य तृतीयं भुज्यु­ब्रा­ह्म­णम्

ऐका­त्म्या­न­व­बो­धस्य कार्य­मु­क्त­म­शे­षतः ।।
तन्मू­ल­ध्व­स्त­येऽ­थोर्ध्वं परो ग्रन्थोऽ­व­ता­र्यते ।। १ ।।

पुण्या­पु­ण्य­प्र­युक्तः सन्ग्र­हा­ति­ग्र­ह­ब­न्धनः ।।
आब्र­ह्माऽऽ­स्थाणु चाजस्रं यः संसरति मूढधीः ।। २ ।।

सोऽय­मु­क्त­स्त­थो­त्कर्षः परः पुण्यस्य चोदितः ।।
मुमुक्षुरस्ति नास्तीति परो ग्रन्थोऽ­व­ता­र्यते ।। ३ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­वे­द­ना­व्य­ति­रे­कतः ।।
अस्तित्वे तस्य संसिद्धे तन्मुक्त्यै यत्यते यतः ।। ४ ।।

भवि­ष्य­ल्लो­क­सं­बन्धी येषामागमतो मतः ।।
न तान्प्रति समारम्भः सिद्ध एव हि तान्प्रति ।। ५ ।।

कर्त्रात्मनः पुरा सिद्धे­र्बु­द्ध्या­द्य­व्य­ति­रे­कतः ।।
कर्त्रादेरिह साक्ष्यात्मा दृष्टे­र्द्र­ष्टो­च्य­तेऽ­धुना ।। ६ ।।

विषयो ब्रह्मविद्याया योग्यः क इति चिन्त्यते ।।
विषयेऽवधृते यस्मा­दु­प­दे­शोऽ­र्थ­वा­न्भ­वेत् ।। ७ ।।

ब्रह्मणो वोपदेशः स्याद­थ­वाऽ­ब्र­ह्मणो भवेत् ।।
ब्रह्मत्वस्य स्वतः सिद्धे­र्ब्र­ह्मणि स्यादनर्थकः ।। ८ ।।

उपदेशशतेनापि ब्रह्मत्वं न कथंचन ।।
स्वतोऽ­ब्र­ह्म­त्व­त­स्तस्य नातोऽब्रह्मण इष्यते ।। ९ ।।

सर्व­स्यै­का­त्म्य­या­था­त्म्यान्न चाब्रह्मेह लभ्यते ।।
क्षेत्र­ज्ञे­श्व­र­सं­भे­द­श­ङ्का­नु­त्त्य­र्थ­मु­च्यते ।। १० ।।

यदित्यनेन निर्देशो विशेष्यस्य विवक्षितः ।।
सामा­न्य­मा­त्र­वि­ज्ञा­ना­द्वि­शे­ष­स्या­प्र­ती­तितः ।। ११ ।।

साक्षा­दि­त्या­दिकं सर्वं तद्वि­शे­ष­ण­मु­च्यते ।।
विशि­ष्टा­र्था­व­बो­धि­त्वा­न्नी­ल­र­क्तो­त्प­ला­दि­वत् ।। १२ ।।

यदित्यादिपदानां च सामानाधिकरण्यतः ।।
विशे­ष­ण­वि­शे­ष्यत्वं श्रुत्यै­वे­हा­व­सी­यते ।। १३ ।।

साक्षा­दि­त्य­भि­धा­नेन प्रत्य­क्षोऽ­र्थोऽ­भि­धी­यते ।।
मनसोऽग्रहणं तस्य न दृष्टेरिति वारणात् ।। १४ ।।

यदि वा द्रष्टरि प्राप्ते साक्षादिति विशेषणात् ।।
तत्प्र­स­ङ्ग­नि­वृ­त्त्य­र्थ­म­प­रो­क्षा­दि­ती­र्यते ।। १५ ।।

द्रष्टृ­द­र्श­न­दृ­श्या­र्थ­प्रा­प्ता­वा­द्य­वि­शे­ष­णात् ।।
लोक­व­त्त­न्नि­षे­धा­र्थ­म­प­रो­क्षा­दि­ती­र्यते ।। १६ ।।

द्रष्टृ­द­र्श­न­दृ­श्या­र्थ­सं­भे­द­वि­ष­यस्य हि ।।
निषे­धा­या­प­रो­क्षा­द्गी­र­भि­न्ना­र्थ­ग्र­हाय तु ।। १७ ।।

द्रष्टृ­द­र्श­न­दृ­श्या­र्थ­सं­भे­दस्य निषेधतः ।।
दृष्टिमात्रं स्वप्तः सिद्धं विशेषणफलं भवेत् ।। १८ ।।

एऴं सदेकरूपं च यदि नामोक्तलक्षणम् ।।
निर्द्वयं सद्वयं वेति नोक्त­हे­तो­स्त­दी­क्ष्यते ।। १९ ।।

यतोऽ­तोऽ­द्व­य­सि­द्ध्यर्थं ब्रह्मे­त्ये­त­द्वि­शे­ष्यते ।।
अव्या­वृ­त्ता­न­नु­गतं वस्तु ब्रह्मेति भण्यते ।। २० ।।

अपुमर्थमिदं प्राप्तं न चेदात्मैव तद्भवेत् ।।
यतोऽत आत्म­रू­पा­र्थ­मा­त्मे­त्येवं विशेष्यते ।। २१ ।।

सजा­ती­या­स­जा­ती­य­द्वि­ती­या­र्था­न­भि­प्लु­तम् ।।
सांख्य­रा­द्धा­न्त­पुं­व­त्त­त्प्राप्तं नानात्वदर्शनात् ।। २२ ।।

यतोऽ­त­स्त­न्नि­षे­धार्थं सर्वान्तर इतिरणम् ।।
सर्वेषामान्तरो योऽर्थो नाना स कथमुच्यते ।। २३ ।।

स्रग्व­त्स­र्पा­दि­क्लृ­प्तानां प्रत्य­ङ्भा­त्रै­क­रू­पतः ।।
प्रत्य­ग्व­स्तू­प­रो­धेन नानार्थो नावशिष्यते ।। २४ ।।

प्रत्य­ग्रू­पा­व­बो­धस्य भावा­भा­वा­त्म­व­स्तुषु ।।
सर्व­त्रा­व्य­भि­चा­रि­त्वा­दात्मा सर्वान्तरो भवेत् ।। २५ ।।

यत्सा­क्षा­द­प­रो­क्षाद्भ्यां ब्रह्म वेह विशिष्यते ।।
सर्वा­न्त­र­गृ­हीत्या च प्रत्यगर्थस्य संगतिः ।। २६ ।।

साक्षा­दि­त्य­व्य­व­हि­त­म­गौ­ण­म­प­रो­क्षतः ।।
इति द्वयं प्रतीच्येव संभाव्यं ब्रह्मणीरितम् ।। २७ ।।

तथा सर्वान्तरत्वस्य सभे­द­वृ­त्ति­वि­रो­धतः ।।
संभा­व­नाऽ­द्वि­ती­य­त्वा­द्ब्र­ह्म­ण्ये­वाऽऽ­त्म­सं­स्थितेः ।। २८ ।।

यतोऽत एकवाक्यत्वे ब्रह्मा­त्मा­ख्या­प­दा­र्थयोः ।।
द्वैत­सं­स­र्ग­बा­धेन पूर्णं वस्तु प्रतीयते ।। २९ ।।

यदि वैकविशेष्येण विशेषणतया युतिः ।।
साक्षा­दि­त्या­दि­कानां स्यान्मि­थोऽ­न्यो­न्या­न­पे­क्षतः ।। ३० ।।

एक­व­स्त्व­व­सा­यि­त्वा­द­न्यो­न्या­र्था­नु­रो­धतः ।।
विशेषणानि सर्वाणि विशिं­ष­न्त्यु­त्प­ला­दि­वत् ।। ३१ ।।

उपा­त्त­स्व­वि­शे­ष्याणि साक्षा­दि­त्या­दि­कानि हि ।।
परस्परोपरोधेन स्ववि­रु­द्धा­र्थ­हा­नतः ।। ३२ ।।

स्वार्था­सं­त्या­ग­म­र्गेण नाना­सं­स­र्ग­बा­ध­नात् ।।
भेद­हे­तु­त­मो­घा­ति­प्र­त्य­ग्या­था­त्म्य­शे­मुषी -
जन्म­नै­वाऽऽ­प्त­मां­प्नोति स्वतोऽमेयं वचःश्रवात् ।। ३३ ।।

सामा­ना­धि­क­र­ण्यो­क्ते­र्वि­शे­ष­ण­वि­शे­ष्यतः ।।
लक्ष्य­ल­क्ष­ण­ग­त्याऽतो यथोक्तार्थं प्रपद्यते ।। ३४ ।।