अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (१)

आनन्दं ब्रह्म विज्ञानं साक्षा­दि­त्या­दि­ल­क्ष­णम् ।।
पञ्चमान्ते विनिर्णीतं जल्पन्यायेन सांप्रतम् ।। १ ।।

वागा­दि­दे­व­ता­द्वारा भूयस्तस्यैव वित्तये ।।
षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्नतः ।। २ ।।

योग्य­का­ला­व­बो­धा­र्थ­मा­सां­चक्र इतीरणम् ।।
कल्पं बुद्ध्वाऽथ तमृषिराजगाम महीपतिम् ।। ३ ।।

पशू­नि­च्छ­न्कि­मा­गास्त्वं प्रश्नान्वा सूक्ष्म­नि­र्म­यान् ।।
वक्तुं किमागतोऽसीति नृपः पप्रच्छ तं मुनिम् ।। ४ ।।

धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते ।।
न त्वनापदि विद्यार्थं तं यान्तीह द्विजोत्तमाः ।। ५ ।।

नान्यत्र क्षत्र्रि­या­द्विद्या यत्र संभाव्यते क्वचित् ।।
उपसीदन्ति तत्रैव ब्राह्मणाः क्षत्र्रि­या­न्सदा ।। ६ ।।

याज्ञवल्क्यस्य शिष्यत्वे ग्रन्थच्छायाऽपि नेष्यते ।।
जनकस्यैव शिष्यत्वे ग्रन्थ­च्छा­यो­प­ल­क्ष्यते ।। ७ ।।

अण्वन्तानिति शब्दोऽयं न स्यात्प­शु­वि­शे­ष­णम् ।।
उभयं त्वित्यतः शेषाद्दूयं पृष्टमतो भवेत् ।। ८ ।।

तद्धे­तु­हे­तु­म­त्त्वस्य प्रसि­द्ध्य­र्थ­म­था­व­दत् ।।
इच्छा­म्यु­भ­य­म­प्ये­त­दि­त्येवं ह्यन्यथा वदेत् ।। ९ ।।

वाग्दे­व­ताऽ­ग्नि­रत्र स्यात्त­थाऽऽ­य­त­न­मि­न्द्रि­यम् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा च नामोपनिषदुच्यते ।। १० ।।

कर­णा­य­त­ना­न्दे­वा­न्स्व­प्र­ति­ष्ठा­न्व्र­जेत्तु सः ।।
प्रज्ञा­द्यु­प­नि­ष­त्कान्यो ध्यानाद्देवो भवेदिह ।। ११ ।।

देवतायतने चैव प्रति­ष्ठो­प­नि­ष­त्तथा ।।
षट्स्वप्येतेषु विज्ञेयमेतदेव चतुष्टयम् ।। १२ ।।

मातृमानिति हेतूक्तिः सम्य­ग्ब­क्तृ­त्व­सि­द्धये ।।
सम्य­क्त्व­प्र­ति­प­त्त्यर्थं तथैव स्यात्परं वचः ।। १३ ।।

यस्मादवदतो लोके पुरुषार्थो न कश्चन ।।
दृष्टो वा यदि वाऽदृष्टो वाग्ब्रह्मातः प्रतीयताम् ।। १४ ।।

न चेदा­य­त­ना­द्यु­क्त­मे­क­पा­द्ब्रह्म तर्हि तत् ।।
असमस्तमिदं ब्रह्म न युक्तं समुपासितुम् ।। १५ ।।

स त्वं जानं­श्च­तु­ष्पान्मे ब्रह्म व्याख्या­तु­म­र्हसि ।।
वागेवाऽऽयतनमिति याज्ञ­व­ल्क्योऽ­प्यु­वाच तम् ।। १६ ।।

वागेवाऽऽयतनं तस्य वागेव करणं भवेत् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा स्यात्प्र­ज्ञाऽ­स्यो­प­नि­ष­त्तथा ।। १७ ।।

प्रज्ञेयं किं ततो भिन्ना प्रतिष्ठायतने यथा ।।
किंवाऽभिन्नेति मे ब्रूहि प्रज्ञोपनिषदं स्फुटम् ।। १८ ।।

स्वयमेव तु वाक्प्रज्ञा ब्रह्मणो न तु भिद्यते ।।
कुतः प्रज्ञा­त्व­सं­सि­द्धि­र्वाच इत्येतदुच्यते ।। १९ ।।

यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत् ।।
विरा­ङ्गृ­ही­ति­रत्र स्यात्सा­धा­र­क­र­ण­ग्र­हात् ।। २० ।।

तथा देवतया सूत्रं नियन्ताऽपि वियद्गिरा ।।
कारणाद्यखिलं विश्वं देवतावधि भण्यते ।। २१ ।।

यतो वागा­द्यु­पा­स्त्यत्र तस्मात्सर्वं विवक्षितम् ।।
एनं भूतानि सर्वा­णी­त्यु­पा­स­न­फ­ला­भिधा ।। २२ ।।

देवो भूत्वेति देवान्हि प्रधा­न­फ­ल­की­र्त­नम् ।।
विद्वान्य एवमित्युक्त्या साध्यसाधनसंगतिः ।। २३ ।।

देवो भूत्वेति जीव­न्स­न्भा­व­नो­प­च­या­न्नरः ।।
वैल­क्ष­ण्य­मु­पा­स्तीनां भण्यते ब्रह्मबोधतः ।। २४ ।।

तथैव वचसोक्तिः स्याद्देवो भूत्वेति संभवात् ।।
प्रतिवाक्यं बहूक्तिश्च षण्णा­मे­क­त्व­सि­द्धये ।। २५ ।।

प्रागपि ब्रह्म­वि­ज्ञा­ना­द्ब्र­ह्मै­वा­भू­द्यथा तथा ।।
देवोपासनतः पूर्वं नाभूद्देव उपासकः ।। २६ ।।

भावनोपचयाद्देवो भूत्वा विद्वानिहैव तु ।।
देवानप्येति सोऽग्न्या­दी­ञ्श­री­र­त्या­गतः परम् ।। २७ ।।

उत्प­त्त्या­द्या­त्मकं कार्यं साध्यं सर्वस्य कर्मणः ।।
उपासनं च कर्मैव युक्तमुक्तमिदं ततः ।। २८ ।।

ब्रह्म वा इदमित्येवं तथा ब्रह्मैव सन्निति ।।
प्रागपि ब्रह्म­वि­ज्ञा­ना­त्सिद्धं तादा­त्म्य­मु­च्यते ।। २९ ।।

हस्त्यृषभमिति चोक्त्या भण्यते गुरुदक्षिणा ।।
स च तां नाग्रहीद्दत्तां पिता म इति हेतुगीः ।। ३० ।।

नन्वनुशिष्ट एवायं पूर्वो­क्तै­र­नु­शा­सनैः ।।
पितृ­व्र­तो­प­रो­धोऽत्र नातः कश्चन विद्यते ।। ३१ ।।

नाऽऽत्म­वि­द्या­ति­रे­केण पितु­र्व­स्त्व­न्तरे यतः ।।
असमाप्तेः पुमर्थस्य मतं नास्यानुशासनम् ।। ३२ ।।

यस्मि­ञ्ज्ञा­तेऽ­खिलं ज्ञातं कृतमाप्तं च कामितम् ।।
तित्यक्षितं च संत्यक्तं पितु­स्त­द­नु­शा­स­नम् ।। ३३ ।।

यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम् ।।
सम्य­क्त­ज्ज्ञा­न­मे­वा­त­स्त­द­न्यत्र मृषा मतिः ।। ३४ ।।

आत्म­ज्ञा­नो­द­या­यैव याज्ञ­व­ल्क्योऽ­प्य­तोऽ­व­दत् ।।
उपासनान्यशेषाणि तथा कर्माण्यशेषतः ।। ३५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके चतुर्थाध्यायस्य प्रथमं षडा­चा­र्य­ब्रा­ह्म­णम्

अनुशिष्यापि स नृपं यदा नैच्छद्धनं नृपात् ।।
अन­नु­शि­ष्ट­हे­तूक्त्या मती राज्ञस्तदाऽभवत् ।। १ ।।

यथोक्ता नानु­शि­ष्टि­श्चे­त्की­दृ­क्त­द­नु­शा­स­नम् ।।
संभा­वि­ता­नु­शि­ष्ट्यर्थं तं राजोपससाद ह ।। २ ।।

उपासनानां सर्वे­षा­मै­का­त्म्य­ज्ञा­न­नि­ष्ठता ।।
ब्रह्म­वि­द्या­धि­का­र­त्वा­दि­त्ये­त­द­धु­नो­त्यते ।। ३ ।।

कूर्चादुत्थाय विधिना तं राजोपससाद ह ।।
भगवन्ननुशाधीति यथेहाभिमतं तव ।। ४ ।।

यथा जिगमिषुः पान्थो रथंं वा नावमेव वा ।।
आद­दी­ताऽऽ­प्ति­सि­द्ध्यर्थं गन्तव्यस्य तथैव च ।। ५ ।।

यथो­क्तो­प­नि­ष­द्भिस्त्वं संस्कृतात्माऽसि भावितः ।।
एवं वृन्दारकः पूज्य आढ्यो मानुषवित्तवान् ।। ६ ।।

तथैवाधीतवेदश्च युक्तः साधनसंपदा ।।
गति­सा­ध­न­व­त्त्वाच्च गन्तव्यमनुमीयते ।। ७ ।।

अध्या­त्मा­दि­व्य­व­च्छे­दा­न्मु­च्य­मान उपासनैः ।।
आविरिञ्चादितो भूप यास्यसि क्वेति भण्यताम् ।। ८ ।।

पप्रच्छ याज्ञवल्क्योऽत इतस्त्वं क गमिष्यसि ।।
सर्व­स्यै­वाऽऽ­त्म­भू­त­त्वा­द्ग­न्तव्यं न स पश्यति ।। ९ ।।

ननू­क्तो­प­नि­ष­द्भिर्हि गन्तव्यं प्राक्प्र­बो­धि­तम् ।।
देवो भूत्वेति वचसा तत्कस्मादिह पृच्छयते ।। १० ।।

नाहं वेदेति च नृपो जान­न्न­प्य­ब्र­वी­त्क­थम् ।।
नैष दोषो यतोऽ­प्रा­क्षी­द्या­ज्ञ­वल्क्यो नराधिपम् ।। ११ ।।

पूर्व­भू­मे­र्मु­च्य­मान उत्तरां कां गमिष्यसि ।।
देव­तो­पा­स­ना­द्ये­त­ज्ज्ञा­नो­त्पत्त्यै विवक्षितम् ।। १२ ।।

उपासनानि सर्वाणि परविद्याधिकारतः ।।
क्रम­मु­क्ति­फ­ला­नीति क्व गमिष्यसिगीरतः ।। १३ ।।

राज्ञस्तु तद­वि­ज्ञा­ना­न्नाहं वेदेति युज्यते ।।
अन्ये गतिविवक्षार्थं मुनेः प्रश्नं प्रचक्षते ।। १४ ।।

साक्षा­द्ब्र­ह्म­वि­द­प्येष नाऽऽत्माप्तौ गतिविन्नृपः ।।
परमात्मैव गन्तव्यः परमात्मविदा ननु ।।
अथ कः संशयो येन स तेनैवं नियुज्यते ।। १५ ।।

गतिर्न विदिता तस्य तां स तस्मै विवक्षति ।।
एव­म­र्थ­मु­पो­द्धा­त­मेवं स कृतवान्मुनिः ।। १६ ।।

श्रुतौ यद्यपि नैतस्यां श्रूयते गतिचोदना ।।
तथाऽपि गति­रे­वे­य­मु­त्त­रत्र स्फुटं हि तत् ।। १७ ।।

गति­वि­ज्ञा­न­वै­क­ल्या­त्प­र­मा­त्म­वि­द­प्यसौ ।।
न जाने क्व गमिष्यामि कथं वेत्य­ब्र­वी­न्नृपः ।। १८ ।।

इति व्याचक्षते केचि­न्द्र­न्थ­मेतं महाधियः ।।
श्रुत्य­क्ष­रा­नु­सा­रेण नायमर्थोऽत्र लभ्यते ।। १९ ।।

ब्रह्मवित्त्वे तु राज्ञोऽस्य मितिं नोपलभामहे ।।
ग्रन्थे नानन्तरे यस्मा­दा­त्म­ज्ञानं समीरितम् ।। २० ।।

गत्यर्थो नापि च प्रश्नः क्व गमिष्यसिलक्षणः ।।
गन्तव्यं पृच्छ्यते यस्मान्न पिपृच्छिषिता गतिः ।। २१ ।।

यत्सा­क्षा­दि­त्यु­प­क्रम्य य आत्मे­त्यु­प­सं­हृतेः ।।
तदन्यस्य तदा­त्म­त्वा­द्ब्र­ह्मणि स्यात्कथं गतिः ।। २२ ।।

गति­ग­न्त­व्य­ग­न्त्रा­दे­रो­त­प्रो­ता­त्म­व­र्त्मना ।।
ब्रह्मात्मनि समा­प्त­त्वा­द्गतिः का परमात्मनि ।। २३ ।।

अब्देशा पृथिवी कृत्स्ना तेजोदेशं तथा जलम् ।।
वायुदेशं तथा तेजो विय­द्दे­शोऽ­नि­लोऽ­खिलः ।। २४ ।।

स्वार्थदेशः परार्थोऽर्थः स्वप्न­द­र्श­न­व­द्यतः ।।
आत्म­मा­त्रै­क­या­था­त्म्यान्न मुक्तौ स्याद्गतिस्ततः ।। २५ ।।

ब्रह्मैव सन्नवाप्नोति ब्रह्मोति वचनं स्फुटम् ।।
गन्तृ­ग­न्त­व्य­यो­र्भेदे विरुध्येत न संशयः ।। २६ ।।

क्रियाकारकभेदे हि गतिः सर्वत्र दृश्यते ।।
गन्तव्य आत्मनि कुतः क्रियाकारकसंभवः ।। २७ ।।

नैवात्र गतिरस्तीति स्पष्ट­मा­ग­म­शा­स­नम् ।।
सर्वमात्मैव ब्रह्मैव तथाच श्रुतिशासनम् ।। २८ ।।

तमो­मा­त्रा­ति­रे­केण व्यवधानान्तरं न च ।।
यस्मादस्ति ततो मुक्तौ नाऽऽत्मनो गतिरिष्यते ।। २९ ।।

अध्या­त्मा­दि­प­रि­च्छे­दा­द्य­थो­क्तो­पा­स­ना­श्र­यात् ।।
विमुच्य़मानः केतस्त्वं गमिष्यसि वदाऽऽशु मे ।। ३० ।।

नाहं तद्भगवन्वेद यत्र यास्याम्यतः परम् ।।
देवतावर्त्मना नाहं गन्तव्यं वेद्मि किंचन ।। ३१ ।।

देव­ता­वा­प्ति­मात्रं हि त्वत्तः प्राक्श्रु­त­वा­न­हम् ।।
उक्तोपासाफलं नातो गन्तव्यं वेद्मि किंचन ।। ३२ ।।

इत्युक्तवन्तं प्रत्याह तद्वक्ष्यामि तवाधुना ।।
मुच्यमानोऽथ यत्र त्वं गमिष्यसि नराधिप ।। ३३ ।।

अवि­द्या­मा­त्र­वि­ध्वस्तौ यतोऽ­ना­प्त­व­दा­प्यते ।।
गमिष्यसीत्यतो वक्ति स्वास्थ्यं यातो यथा तथा ।। ३४ ।।

अतोऽवगतिरेवात्र गतित्वेन विवक्ष्यते ।।
प्राप्तोऽसीति यतो ज्ञानजन्ममात्रं प्रवक्ष्यति ।। ३५ ।।

इन्धो नामैष पुरुषो दक्षिणेऽक्षणि यः स्थितः ।।
आदित्यान्तर्गतो देवो व्याख्या­ता­य­त­ना­दिकः ।। ३६ ।।

इध्यतेऽहर्निशं यस्मादिन्धनामा ततः पुमान् ।।
श्रुत्येह दृष्टोऽतिशयः कश्चि­त्स्या­द्द­क्षि­णोऽ­क्षणि ।। ३७ ।।

अङ्गं वा वीर्यवदृष्टं पुंसां प्रायेण दक्षिणम् ।।
दक्षि­णा­क्षि­ग्र­ह­स्त­स्मा­द्भो­क्तृ­त्व­प्र­ति­प­त्तये ।। ३८ ।।

दक्षि­णेऽ­क्ष्णी­न्ध­ना­माऽयंं पुमान्भोक्तेति यं विदुः ।।
इन्धं सन्तं तमा­त्मा­न­मि­न्द्र­नाम्ना प्रचक्षते ।। ३९ ।।

प्रत्य­क्ष­ना­म­ग्र­हणं परिहृत्य परोक्षतः ।।
परो­क्ष­ना­म­ग्र­ह­ण­प्रिया देवा य़तस्ततः ।। ४० ।।

परोक्षनामग्रहणे प्रीयन्ते देवता यतः ।।
तस्मादाचक्षते नाम पारोक्ष्येणैव मानवाः ।। ४१ ।।

मा ज्ञासिष्ट कथं नाम नामतत्त्वं बहिर्जनः ।।
परोक्षनामग्रहणं तेन देवस्य रोचते ।। ४२ ।।

प्रत्य­क्ष­ना­म­ग्र­हणं प्रद्विषन्ति जगत्यपि ।।
श्रेयां­सोऽ­मु­क­मि­श्रास्त इत्युक्तिं कामयन्ति च ।। ४३ ।।

तस्यै­वा­न्न­प­ते­र्जाया येयं सव्येऽक्ष्णि संस्थिता ।।
भोग्यत्वात्सा विराडुक्ता तद्भोक्ता दक्षिणाक्षिगः ।। ४४ ।।

एकस्यैव हि देवस्य विभागः स्थानदेवतः ।।
अग्नीषोमात्मना श्रुत्या ध्यानार्थमिह भण्यते ।। ४५ ।।

नान­यो­र्व्य­ति­रे­कोऽस्ति भोक्तृ­भो­ग्या­त्मनोः क्वचित् ।।
प्रधानगुणभावेन सर्वत्रैते व्यवस्थिते ।। ४६ ।।

तयोः समा­ग­म­श्चा­स्मि­न्हृ­द्य­न्तस्थे सुषौ मिथः ।।
संस्तुतोऽत्रेति संस्तावो हृद्याकाश इहोच्यते ।। ४७ ।।

ऊर्ग्रसो लोहितस्यात्र पिण्डो यः सोऽन्नमेतयोः ।।
अन्नं दामेति यत्पूर्वं व्याख्यातं शिशुबन्धनम् ।। ४८ ।।

मिथो नाडीशतानद्धं तयोः प्रावरणं तथा ।।
तज्जा­ल­क­मि­वाऽऽ­भाति बहु­च्छि­द्र­त्व­सा­म्यतः ।। ४९ ।।

तयोः संचरतोर्मार्गो यैषोर्ध्वा हृदयाद्गता ।।
जाग्र­द्दे­शा­प्तये ज्ञेया नाडी स्वप्ना­ख्य­भू­मितः ।। ५० ।।

अन्नस्य प्रविवेकार्थं भोक्तुः सौक्ष्म्या­र्थ­मेव च ।।
नाडीनां परिणाहोऽथ सम्यक्श्रुत्येह वर्ण्यते ।। ५१ ।।

नाड्योऽ­ति­सूक्ष्माः पुसोऽस्य व्यव­हा­र­प्र­सि­द्धये ।।
सह­स्र­भे­द­सं­भि­न्न­के­शै­का­श­समा हिताः ।। ५२ ।।

नोपमेह यतस्तासां सौक्ष्म्ये जगति विद्यते ।।
तस्मा­त्के­श­वि­भा­गोऽयं नाडी­सौ­क्ष्म्या­र्थ­मु­च्यते ।। ५३ ।।

यथा संचरणी नाडी प्रोक्तेयं देवतात्मनोः ।।
देवतानां तथाऽन्यासां नाड्यो ज्ञेयाः सहस्रशः ।। ५४ ।।

शब्दाद्यन्नवहाः सूक्ष्माः श्रोत्रा­दि­क­र­णा­श्रयाः ।।
देवता देवतात्मानं तर्पयन्तीद्द ताः सदा ।। ५५ ।।

अति­सू­क्ष्मा­भि­रे­ता­भि­र्ज­ग्ध­मन्न समास्रवत् ।।
देवता आस्र­व­त्ये­त­द्व्या­प्नो­त्ये­त­द्य­थो­दि­तम् ।। ५६ ।।

सर्वास्वेव हितास्वासु सर्वा अध्यात्मदेवताः ।।
चर­न्त्यू­र्ग्र­स­पू­र्णासु भोगार्थे पुरुषस्य तु ।। ५७ ।।

स्वचि­दा­भा­स­सं­व्याप्तिः पुंभोगः सुखदुःखयोः ।।
सोऽप्यस्य देवतातन्त्रो देव­ता­श्चा­न्न­सं­श्रयाः ।। ५८ ।।

अन्नं नाड्याश्रयं सूक्ष्मं तच्छ्रु­त्ये­हो­प­व­र्ण्यते ।।
एताभिरित्यतो यावच्छारीरादिति चोदना ।। ५९ ।।

प्रवि­वि­क्त­त­रोऽ­न्नं­श­स्त­र्प­य­न्प्रा­ण­दे­वताः ।।
प्राप्नोति लिङ्गमाहारः स तस्येत्यभिधीयते ।। ६० ।।

चीयमानादितो देहा­द्र­सा­द्य­न्नेन भौतिकात् ।।
प्रवि­वि­क्त­त­रा­हारो लिङ्गात्माऽयं पुरोदितात् ।। ६१ ।।

रसादिः प्रविविक्तः स्यात्पु­री­ष­दि­व्य­पे­क्षया ।।
रसादेरपि सूक्ष्मोऽ­य­मा­हारो लिङ्गतृप्तिकृत् ।। ६२ ।।

यत एवमतः प्राह तल्लिङ्गं स्थूलदेहतः ।।
प्रवि­वि­क्त­त­रा­हारं श्रुतिः सूक्ष्मा­न्न­सं­स्थितेः ।। ६३ ।।

यतोऽतिसूक्ष्मो लिङ्गात्मा नातोऽयं स्थूलदेहवत् ।।
देहाद्देहान्तरं गच्छ­न्के­न­चि­त्प्र­ति­ह­न्यते ।। ६४ ।।

इवेत्यनर्थकं केचिदेवार्थेन विरोधतः ।।
एवा­र्थ­स्यो­प­मा­मन्य इवार्थे चावधारणम् ।। ६५ ।।

लिङ्गा­हा­रा­द­प्य­णी­या­न्यतः प्राज्ञा­त्म­न­स्ततः ।।
उप­मा­र्थ­मि­वे­त्ये­त­त्प­द­मत्र प्रयुज्यते ।। ६६ ।।

कद­म्ब­पु­ष्प­व­त्सैषा देवता हृदयाश्रया ।।
बहिर्गतासु नाडीषु विषक्ता हृदयादधि ।। ६७ ।।

यथेयं देवता सर्वास्तथाऽन्या अपि देवताः ।।
साधा­र­ण­त्वा­त्स­र्वासां कारप्यस्य करणस्य च ।। ६८ ।।

तत्रैकस्या यदा कार्यं दृष्ट्यादि स्यादुपस्थितम् ।।
गुणभावं तदा यान्ति सर्वास्तां प्रति देवताः ।। ६९ ।।

नाड्यन्तरेष्वपि तथा सर्वासां संहतत्वतः ।।
एष एव क्रमो ज्ञेयः प्राधा­न्य­गु­ण­भा­वयोः ।। ७० ।।

एवं च सति यावत्यो नाड्यो हृदयबन्धनाः ।।
संवत्सराश्च तावन्तस्ते प्रजापतयोऽग्नयः ।। ७१ ।।

प्रतिभागं समा­प्त­त्वा­त्पू­र्वो­क्त­स्येह वस्तुनः ।।
देवताऽतो यथाऽ­ध्या­त्म­म­धि­भूतं तथैव सा ।। ७२ ।।

अधिदैवं च विभ्वीयं द्वैतैकत्वेन विष्ठिता ।।
यथाऽस्य नाड्यः पुंसः स्युरध्यात्मं सर्वतो गताः ।। ७३ ।।

अधिभूतः तथाऽस्यैव वायुमय्यः समन्तगाः ।।
एतस्मादेव निःसृत्य शरीरात्सर्वतो गताः ।। ७४ ।।

अधि­भू­ता­त्म­नै­वायं नाडी­ल­क्ष­ण­व­र्त्मना ।।
आपूर्येदं जगत्सर्वं स्थित आध्यात्मिकः पुमान् ।। ७५ ।।

नाड्य आध्यात्मिकस्येव ह्यधि­दै­वा­त्म­न­स्तथा ।।
विराजो रश्मयो ज्ञेयाः प्रत्यं­शा­व­सि­ता­स्तथा ।। ७६ ।।

आध्यात्मिकस्येव पुंसः कृत्स्नाऽ­ध्या­त्मा­धि­भू­तय़ोः ।।
अन­न्त­भि­न्न­का­र्येषु समा­प्ति­र्दे­व­ता­त्मनः ।। ७७ ।।

आध्यात्मिकं परि­च्छे­द­मु­क्त­द­र्श­न­व­र्त्मना ।।
देवतासूपसंहृत्य विराज्यपि च देवताः ।। ७८ ।।

विराजं चोपसंहृत्य प्राण­वि­ज्ञा­न­वि­ग्रहे ।।
हिरण्यगर्भे तं चापि सर्वकारण आत्मनि ।। ७९ ।।

अध्यात्मदेवताः सर्वा हृदि नीत्वाऽऽ­त्म­न­स्ततः ।।
हृद­या­दु­क्त­ना­डीभिः संद­ध्या­त्सू­र्य­र­श्मिभिः ।। ८० ।।

रविहृन्मध्यगं यायात्ततो रश्मिभिरावृतः ।।
हिर­ण्य­ग­र्भ­मा­त्मानं ततस्तत्कारणं बुधः ।। ८१ ।।

वैश्वा­न­रा­त्त­दा­त्मानं प्राप्तस्य हृदि तैजसम् ।।
हिरण्यगर्भं तं चापि प्राणा­त्म­न्यु­प­सं­ह­रेतु ।। ८२ ।।

प्राणशब्देन चाप्यत्र कार­णा­त्माऽ­भि­धी­यते ।।
बीजं कार्यस्य सर्वस्य प्राज्ञश्चेति निरुच्यते ।। ८३ ।।

कार्याणां कारणं मुक्त्वा नान्य­त्रा­स्त्य­प्ययो यतः ।।
तस्मा­त्का­र­ण­सं­प्राप्त्या याया­न्ने­ती­त्य­का­र­णम् ।। ८४ ।।

साश्रयैः करणैर्हीनो ग्रस्ता­ध्या­त्मा­धि­दै­वतः ।।
प्राणात्मा एक एवाऽऽस्ते प्रज्ञा­न­घ­न­वि­ग्रहः ।। ८५ ।।

निर्वि­भा­गा­त्म­न­स्तस्य प्राञ्चः प्राणाः पुराऽस्य ये ।।
प्राची दिगेव संवृ­त्ता­स्त­द­व­च्छे­द­हा­नतः ।। ८६ ।।

दक्षिणा दक्षिणे प्राणाः प्रत्यञ्चश्चापि पश्चिमाः ।।
उदीची दिगुदञ्चश्च सर्वे सर्वा दिशस्तथा ।। ८७ ।।

यत्साक्षिकी तमः­सि­द्धि­स्त­त्का­र्यस्य च लक्ष्यते ।।
तद्भा­वा­भा­व­यो­रात्मा न कार्यं नापि कारणम् ।। ८८ ।।

तेनैव ज्ञात्मनाऽशेषं तद्ध्वान्तं ध्वान्तजं तथा ।।
जग्ध्वा नित्यात्मना विद्वा­न्पू­र्ण­दृ­ष्ट्याऽ­व­शि­ष्यते ।। ८९ ।।

एष मार्ग उपन्यस्त ऐका­त्म्य­ज्ञा­न­ज­न्मने ।।
न त्वर्चि­रा­दि­व­त्तस्य प्राप्तये गतिकल्पना ।। ९० ।।

आत्म­त्वा­दा­प्त­त­त्त्वोऽयं न देशा­द्य­न्त­रा­य­वान् ।।
ज्ञानं मुक्त्वा ततः प्राप्तौ नान्य­त्किं­चि­द­पे­क्षते ।। ९१ ।।

प्रत्याय्यैवं परात्मानं मुनिराह नराधिपम् ।।
प्राप्तोऽ­स्य­भ­य­मि­त्येवं भयहेतुविनाशतः ।। ९२ ।।

भयहेतुरविद्यैव सा च दुःस्थि­त­सि­द्धिका ।।
प्राग­प्यै­का­त्म्य­वि­ज्ञा­ना­द­वि­चा­रि­त­सि­द्धिका ।। ९३ ।।

यतोऽतः प्रत्या­ग्या­था­त्म्य­भा­स्व­द्वि­ज्ञा­न­भा­स्कर -
प्रस­ति­मा­त्रा­दे­वास्या ध्वस्ति­रा­त्य­न्तिकी भवेत् ।। ९४ ।।

प्राप्तोऽसीति च निर्दे­शा­ज्ज्ञा­न­मे­वाऽऽ­त्मनो गतिः ।।
ज्ञानादन्या गति­श्चे­त्स्या­त्प्रा­प्स्य­सी­त्येव तं वदेत् ।। ९५ ।।

ज्ञान­तु­ल्या­म­म­न्वानो दक्षिणां गुरवे नृपः ।।
अभयं त्वामिति प्राह याज्ञवल्क्यं स पार्थिवः ।। ९६ ।।

उचिता दक्षिणैषैव योक्ते­हा­भ­य­ल­क्षणा ।।
सम्य­ग्ज्ञा­ना­ख्य­दा­नस्य तदन्या संसृतिर्यतः ।। ९७ ।।

यच्चाभयं वेदयस इति प्रत्यू­चि­वा­न्नृपः ।।
तत्तमोध्वस्तितः कार्यं नान्यदस्तीति लिङ्ग्यते ।। ९८ ।।

अभयस्य प्रदा­तृ­त्वा­न्न­न्व­वा­प्ता­भयो गुरुः ।।
अभयं त्वामिति कथं राज्ञाऽऽशीस्तं प्रतीर्यते ।। ९९ ।।

इत्यस्य परिहारोक्तिं केचिदाचक्षते बुधाः ।।
शब्दादवाप्तमभयं न तु साक्षाच्चकार तत् ।। १०० ।।

साक्षा­त्क­र­ण­सि­द्ध्य­र्थ­मतो राजाऽ­ब्र­वी­न्मु­निम् ।।
अभयं त्वामिति वच­स्त­द्ध्य­स्या­प्रा­प्त­मु­च्यते ।। १०१ ।।

यदि वा द्विविधो मोक्षो जीवत्येव शरीरके ।।
एकः साक्षा­त्कृ­त­ब्रह्मा मृतेरूर्ध्वं च तल्लयः ।। १०२ ।।

एवं परिजिहीर्षन्ति न तु न्यायो­क्ति­री­दृशी ।।
प्राप्तोऽसीति मुनेरुक्तेः परिहारो न युज्यते ।। १०३ ।।

तज्ज्ञा­न­मा­त्र­मे­वो­कत्वा प्राप्तोऽसीति यतोऽवदत् ।।
तत्सा­क्षा­त्क­र­णा­न्ना­न्य­स्त­ल्लयो वाऽत इष्यते ।। १०४ ।।

शाब्द­वि­ज्ञा­न­मा­त्रेण नाऽऽचार्यत्वे नियुज्यते ।।
श्रोत्रियं ब्रह्मनिष्ठं च गुरुं यायादिति श्रुतेः ।। १०५ ।।

अभयं वेदयसीत्येतन्न चासाश्रात्कृते परे ।।
शाब्द­मा­त्र­प­रि­ज्ञाने राज्ञोे युक्तं प्रभाषितुम् ।। १०६ ।।

असा­धा­र­ण­ध­र्मोत्थं विज्ञानं वस्तुनि प्रमा ।।
शब्द­मा­त्र­प्र­मोत्थं तु न मानं वस्त्वसंश्रयात् ।। १०७ ।।

साक्षा­त्कृ­तै­क­त­त्त्व­स्या­प्यै­का­त्म्य­प्र­लयं प्रति ।।
किं समाशङ्क्यते येन तदाशीः संप्रयुज्यते ।। १०८ ।।

ज्ञाना­नु­रू­पा­मे­वातो दक्षिणां दित्सुरब्रवीत् ।।
अभयं त्वामिति नृपो यथो­क्त­ज्ञा­न­लि­ङ्ग­नम् ।। १०९ ।।

साक्षा­ज्ज्ञा­ना­ति­रे­केण नाल­म­न्य­द्वि­मु­क्तये ।।
यथा तथाऽ­स­कृ­त्पू­र्व­म­वो­चाम पदे पदे ।। ११० ।।

भवानप्यहमेवेति यदा साक्षा­द्वि­नि­श्चयः ।।
विदेहादि तदा विश्वं त्वत्तः कस्येति कथ्यताम् ।। १११ ।।

ममेव भवतोऽपीदं न च किंचिदसंगतम् ।।
अभावाच्च त्वदन्यस्य सर्वमात्मेति शासनात् । ११२ ।।

अहं ममेत्यविद्याधीः सहेतुर्नाशिता यदा ।।
पूर्णात्मनि तदा दृष्टे कः कस्मै किं प्रदित्सति ।। ११३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके चतुर्थाध्यायस्य द्वितायं कूर्चब्राह्मणम्

नाम­रू­पा­दि­म­त्कार्यं यः प्रविष्टः स्वमोहजम् |
जला­र्क­व­द­कृ­त्स्न­त्व­मा­पे­देऽ­वि­द्यया परः || १ ||

तद­वि­द्या­प­नु­त्त्यर्थं गार्ग्य­का­श्या­दि­च्छ­द्मना |
अपू­र्वा­दि­स्व­भा­वोऽयं प्रविष्टंः प्रतिपादितः || २ ||

आगमादेमात्मानं प्रतिपाद्याथ तर्कतः|
स एव पञ्चमेऽप्युक्तः साक्षा­ज्ज­ल्पै­क­व­र्त्मना || ३ ||

वादन्यायेन तस्यैव प्रति­प­त्त्य­र­थे­म­ञ्जसा |
षष्ठे क्रमादुपन्यस्तं जाग्र­दा­दि­च­तु­ष्ट­यम् || ४ ||

इन्ध­तै­ज­स­सौ­षु­प्त­तु­री­या­ण्येव मांप्रतम् |
संश्रित्य पूर्व एवार्थ इह साक्षा­द्वि­भा­व्यते || ५ ||

विसंवादनिरासेन सद्भा­व­श्चाऽऽ­त्मनः पुनः |
व्यति­रि­क्त­त्व­शु­द्ध­त्व­स्व­यं­ज्यो­ति­ष्ट्व­नि­त्यता || ६ ||

स्वतो­न­ति­श­या­न­न्द­स्वा­भा­व्यै­का­त्म्य­नि­त्यता |
दृष्टि­मा­त्रा­द्व­यत्वं च तर्केण महताऽऽत्मनः || ७ ||

विभाव्यते सुविस्पष्टं वादन्यायेन यत्नतः |
विद्यायाः संप्र­दा­ना­दि­वि­ध्य­र्थाऽऽ­ख्या­यि­काऽत्र च || ८ ||

याज्ञवसल्क्योऽथ जनकं योग­क्षे­मा­र्थ­म­भ्य­गात् |
न वदिष्ये नृपेणाहमिति बद्ध्वा व्रतं किल || ९ ||

संवदिष्ये नृपेणाहमिति वा तं जगाम सः |
समि­त्य­स्या­भि­सं­ब­न्धा­दे­ने­ने­त्ये­व­मु­च्यते || १० ||

अविवक्षुरपि प्राह यत्पृष्टं जनकेन सः |
तत्र हेत्वभिधानार्थं वरदानं श्रुतिर्जगौ || ११ ||

एनेन संवदिष्येऽहमिति व्याख्यायते यदा|
तदाऽऽख्यायिकया हेतुस्तयोः संवाद इष्यते || १२ ||

राजैव पूर्वं पप्र­च्छे­त्ये­त­स्मा­द्न­म्यते शुभा |
लिङ्गा­द्व्या­ख्यो­त्तरा पूर्वा न साध्वी­त्य­प्र­मा­णतः || १३ ||

न वदि­ष्येऽ­ह­मि­त्यत्र व्रते हेतुर्न वीक्ष्यते |
यतोऽ­सं­तो­ष­त­स्त­स्मा­त्कृता व्याख्योत्तरा शुभा || १४ ||

नाप्रा­क्षी­त्तत्र यद्राजा वर­दा­ना­द­न­न्त­रम्‍|
प्रश्ना­नु­क्ति­र्वि­रु­द्ध­त्वा­द्वि­द्यायाः कर्मभिः सह || १५ ||

स्वोत्पत्तावेव विद्येवं हेत्व­न्त­र­म­पे­क्षते |
प्रत्य­गा­त्म­त­मो­ध्वस्तौ नासा­व­न्य­द­पे­क्षते || १६ ||

स्वरू­प­ला­भ­मा­त्रेण यतोऽविद्यां निहन्त्यतः|
प्रयोगमपि विद्येयं नोपरुध्यति दात्रवत् || १७ ||

व्यव­ह­र्तु­म­श­क्तोऽयं देहो मृत्पि­ण्डं­व­त्स्व­यम्‍|
पर­त­न्त्र­व्य­व­हृतिः स्वतो­जा­ड्य­स्व­भा­वतः || १८ ||

पृथि­व्या­द्या­ध्य­व­स्यायं स्वय­ज्यो­ति­र­नु­ग्र­हान् |
कर्माऽऽसनादि कुरुते तस्माच्च फ़लसंगतिः || १९ ||

त एव­म­तोऽ­प्रा­क्षी­द्या­ज्ञ­वल्क्यं नराधिपः |
किंज्यो­ति­र­य­मि­त्येवं प्रत्य­ग्ज्यो­ति­र्बु­भु­त्सया || २० ||

याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति || आदित्यज्योतिः सम्राडिति होवा­चा­दि­त्ये­नै­वायं ज्योतिषास्ते पल्ययते कर्म कुरुते विप­ल्ये­ती­त्ये­व­मे­वै­त­द्या­ज्ञ­वल्क्य || २ ||

करणानि च देहश्च पुरुषोऽत्र विवक्षितः |
आस­ना­दि­क्रि­या­कारी पीठक्षेत्रादि कर्म च || २१ ||

किं स्वाव­य­व­सं­घा­त­भि­न्न­जा­त्य­ति­रे­किणा |
ज्योतिषा व्यव­हा­र्ये­षोऽ­सं­ह­तेन पुमानिति || २२ ||

किंवा ताद्विपरीतेन ज्योति­षे­त्य­भि­धी­य­ताम् |
किंचातो यदि नामैवं शृण्वतो यत्प्रसिध्यति || २३ ||

तयोः पूर्वोक्तरूपेण ज्योति­षाऽ­नु­ग्रहो यदि |
अप्रव्यक्षेऽपि तस्मिं­स्त­त्पुं­स्क्रि­या­लि­ङ्ग­द­र्श­नात् || २४ ||

अनुमास्यामहे ज्योतिस्तादृगेव तदा वयम् |
अथ तद्विपरीतेन संग­ति­र्ज्यो­ति­षे­क्ष्यते || २५ ||

तथाभूतं तदा ज्योति­र­नु­मा­स्य­माहे वयम्‍|
अथो­भ­या­त्म­ताऽ­दृष्टा तदाऽपि स्यादनिश्चितिः || २६ ||

इत्येतदभिसंधाय पप्रच्छ जनको मुनिम् |
स च पृष्टो यथाप्रश्नं प्रत्यु­त्त­र­म­भा­षत || २७ ||

नन्वेवं कौशले राज्ञः किमर्थं पृष्टवान्मुतिम् |
स्वय­मे­वा­नु­मा­ये­दृ­ग्ज्योतिः किं न प्रपद्यते || २८ ||

सत्यमेवं तथाऽप्येष नृपः पप्रच्छ तं मुनिम्‍|
लिङ्ग­लि­ङ्ग्य­भि­सं­ब­न्ध­दु­र्ज्ञे­य­त्वा­त्सु­सू­क्ष्मतः || २९ ||

बहूनामपि संमोहो लिङ्गादिषु समीक्ष्यते |
किमुतैकस्य वक्तव्यं पर्यपृच्छदतो नृपः || ३० ||

सूक्ष्म­ध­र्म­वि­वे­का­र्थ­मत एवाब्रवीन्मनुः |
दशावरा पर्षदिति ह्यपेक्षन्ते च सद्धियः || ३१ ||

याज्ञ­व­ल्क्या­दि­रू­पेण श्रुतिरेवाथवा स्वयम् |
अनुमावर्त्मना ज्योतिः साक्षान्नः प्रत्यपीपदत् || ३२ ||

नृपा­भि­प्रा­य­वि­त्प्राह याज्ञवल्क्योऽपि तं नृपम् |
यथोक्तज्योतिषः सिद्धा­वा­दि­त्या­ज्यो­ति­रि­त्य­यम् || ३३ ||

देहा­व­य­व­सं­घा­त­जा­ति­सं­स्था­न­ता­त्क्रिया -
देशा­द्य­त्य­न्त­सं­भि­न्न­त­द्वि­ल­क्ष­ण­भा­स्वर -
स्वप्र­ति­ष्ठै­क­भा­न्वा­ख्य­ज्यो­ति­षैव पुमानयम् |
आस्ते पल्ययते कर्म कृत्वा भूयो निवर्तते || ३४ || ३५ ||

मध्ये जडस्वभावोऽयं ज्योति­षो­र्व­र्तते पुमान् |
बुद्ध्या­दि­वि­ष­यान्तो हि प्रत्य­क्चै­त­न्य­बि­म्बितः || ३६ ||

प्रत्य­गे­क­स्व­यं­ज्यो­तिः­स्थि­रा­सं­ह­त­नि­ष्क्रिय-
तद्वि­रु­द्ध­र­वी­न्द्वा­दि­ज्यो­ति­षो­र्मो­ह­हे­तुकः || ३७ ||

मातृ­मा­न­प्र­मे­यात्मा कर्तृ­सा­ध­न­का­र्य­वान् |
अश­ना­या­दि­सं­सा­र­ध­र्मा­पा­या­ग­मा­त्मकः || ३८ ||

तद्वि­रु­द्धा­त्म­के­नैव ज्योति­षो­द्दी­पि­ते­क्षणः |
आदित्येन स दैवाऽस्ते यात्यायातिकरोति च || ३९ ||

आदि­त्या­त्प­र­मे­वेति नाऽऽदि­त्य­स्या­व­धा­रणे |
पिण्ड­प्रा­णा­दि­ध­र्मेभ्यो वैधर्म्यावधृतौ यतः || ४० ||

आदि­त्त्या­व­धृ­ति­श्चे­त्स्या­न्ने­न्ग­द्वादेः स्यादनुग्रहः |
तस्मा­त्पि­ण्डा­दि­वै­ध­र्म्य­मे­वे­ती­हा­व­घा­र्यते || ४१ ||

नृप­स्त्वे­वे­ति­सं­श्ले­षा­दा­दि­त्य­स्या­व­धा­र­णम् | मत्वाऽस्तमित इत्येवं मुहु­र्वि­प्र­चू­चु­व­दत् || ४२ ||

आत्मैव ज्योतिरथवा रवि­सो­मा­ग्न्यु­पा­धि­गम् |
अवध्रियत एवेति तमेव इति च श्रुतेः || ४३ ||

रवी­न्द्वा­दि­प­दा­र्थेभ्यो ह्यनु­मा­नै­क­व­र्त्मना |
स्वार्थं विज्ञापयिष्यामि विभज्यातः परा श्रुतिः || ४४ ||

ज्योति­षोऽ­त्य­न्त­वै­ध­र्म्य­प्र­सि­द्ध्यर्थं विशेषणम् |
आस्त इत्यादि सुबहु श्रुत्यो­प­न्य­स्त­मा­द­रात् || ४५ ||

भूयसां चाप्युपन्यासो बाह्यानां ज्योतिषामिह |
लिङ्ग­स्या­व्य­भि­चा­रार्थं बुद्धि­वा­क्का­य­क­र्मणः || ४६ ||

आदित्येनैव चेत्पुं­सोऽ­नु­ग्रहो भवतोच्यते |
तस्मिन्नस्तंगते पुंस आसनादिः कुतो भवेत् || ४७ ||

चन्द्रमा एव पुंसोऽस्य तदा ज्योतिरनुग्रहे |
तस्या­प्य­स्त­म­येऽग्निः स्यादा­स­ना­दि­प्र­वृ­त्तये || ४८ ||

आदित्यादित्रयं ज्ञेयं ज्योति­षा­मु­प­ल­क्ष­णम् |
मण्यादीनां प्रवृत्तिर्हि पुंसां तैरपि दृश्यते || ४९ ||

तेष्व­प्य­स्त­मि­ते­ष्वस्य पुंसो वाग्ज्यो­ति­रि­ष्य­ताम् |
वाक्च शब्दोऽत्र विज्ञेयो ज्योति­ष्का­र्य­स­म­न्व­यात् || ५० ||

स्पर्शा­दि­वि­ष­याणां वागिह स्यादुपलक्षणम् |
यतः स्पर्शा­दि­नाऽ­प्येषां प्रवृ­ति­र्दृ­श्यते नृणाम् || ५१ ||

बाह्या­दि­त्या­दि­ज्यो­तिर्भिः पुमा­न्सं­दी­पि­ते­न्द्रियः |
प्रत्य­क्चै­त­न्य­सं­दीप्तः सर्वाश्चेष्टाः प्रपद्यते || ५२ ||

सर्वेष्वेतेषु शान्तेषु ज्योतिःषूक्तेषु कर्मणे |
पुमा­न्किं­ज्यो­ति­रे­वायं तम­स्य­न्धेऽ­भि­धी­य­ताम् || ५३ ||

सर्व­चे­ष्टा­नि­रो­धोऽस्य पुंसः प्राप्त­स्त­दाऽ­सति |
यथोक्तज्योतिषि ततो न स्युश्चेष्टा यथोदिताः || ५४ ||

स्मृति­स्व­प्न­स­मा­धाने पुरुषस्य समीक्ष्यते |
चेष्टाऽतः पूर्ववत्तस्य ज्योति­स्त­त्रा­नु­मी­यते || ५५ ||

बोद्धुः कर्तुश्च पुंसोऽस्य प्रवृत्तिर्येह काचन |
यथो­क्त­ज्यो­ति­र्वि­रहे नासौ दृष्टा कदाचन || ५६ ||

भान्वा­द्यु­द्दी­पि­ताक्षः सन्प्रमात्रादिः प्रसिध्यति |
ततः कर्त्रा­दि­सं­सिद्धिः प्रमाकर्मफ़लं ततः || ५७ ||

कूट­स्था­नि­त्य­यो­र्भा­सो­र्म­ध्य­वर्ती पुमानयम् |
वाङ्भ­नः­का­य­क­र्माणि सर्वदैव प्रपद्यते || ५८ ||

ध्वान्ता­दि­वि­ष­या­न्तोऽर्थो जड­त्वा­न्नाऽऽ­त्म­सि­द्धि­कृत् |
आत्म­ज्यो­ति­र­भा­वेऽतो नाभावमपि विन्दति || ५९ ||

आग­मा­पा­यि­ज्यो­ति­र्भि­र्ध­र्मा­ध­र्म­नि­ब­न्धना |
संगतिः पुरुषस्यास्य निर्हेतुः प्रत्यगात्मना || ६० ||

कुम्भस्य वियता यद्वन्निर्हेतुः संगतिः सदा || |
विनश्वरी सहेतुश्च जल­क्षी­रा­दि­सं­गतिः || ६१ ||

यथोहासंहतान्येव भान्वादीनि प्रकुर्वते |
अनुग्राह्येण पुंसेह सर्वदाऽनुग्रहं मुहुः || ६२ ||

अका­र­का­त्म­का­न्येव पुंसः कारकरूपिणः |
नाकृत्वा तानि कुर्वन्ति प्रकाशं गतिवद्यतः || ६३ ||

व्यञ्जकानां हि सर्वेषां न स्वरूपातिरेकतः |
व्यङ्ग्ये­ष्व­ति­शयो दृष्टस्तिष्ठतो नु गतिर्यथा || ६४ ||

आत्म­ज्यो­ति­स्त­थै­वेदं सदा­न­स्त­मि­तो­दि­तम् |
भान्वादिष्वपि सर्वेषु तदेव प्राग्वि­व­क्षि­तम् || ६५ ||

पुंस्प्र­वृ­त्ति­रियं लिङ्गं यथोक्तज्योतिषो भवेत् |
सर्व­त्रा­व्य­भि­चा­रि­त्वा­त्तथा स्वप्ना­दि­भू­ग्निषु || ६६ ||

जाग्रत्काले नारस्यास्य भान्वा­दि­ज्यो­तिषा यदा |
चक्षु­रा­द्य­नु­गृ­ह्येत स्फ़ुटा व्यवहृतिस्तदा || ६७ ||

विभि­न्ना­सं­ह­त­ज्यो­ति­र­नु­ग्र­ह­पुरः सरः |
पुंव्यापारः सद­क्षे­त्थ­प्र­मा­ण­प्र­मितः स्फ़ुटः || ६८ ||

लिङ्ग­लि­ङ्ग्य­भि­सं­बन्धो यस्मादेवं मितस्ततः || |
सर्व­ज्यो­ति­र­भा­वेऽपि तादृगेवानुमीयते || ६९ ||

ज्योतिर्जागरिते यद्व­द्र­वी­न्द्वादि समीक्ष्यते |
नर­व्या­पा­र­लि­ङ्गेन धूमा­ग्नि­व­द­सं­श­यम् || ७० ||

लिङ्गा­त्सा­मा­न्यतो ज्ञाते विशे­षे­णा­प्य­नी­क्षिते |
भान्वादिवदतो राजा भूयः पप्रच्छ तं गुरुम् || ७१ ||

शान्तेषु सर्वज्योतिःषु पूर्वो­क्ते­ष्वस्य देहिनः |
क्रिज्योतिरिति मे ब्रूहि पुंव्या­पा­रा­नु­भू­तितः || ७२ ||

सर्व­ज्यो­ति­रु­प­रतौ भूरि­व्या­पा­र­का­र­णम् |
स्वयं­ज्यो­ति­ष्क­मपि तं राजा पप्रच्छ मोहतः || ७३ ||

यत्प्र­सा­दा­द­वि­द्यादि सिध्यतीव दिवानिशम् |
तम­प्य­प­ह्नु­तेऽ­विद्या नाज्ञानस्यास्ति दुष्करम् || ७४ ||

स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं निरात्मिका |
अवि­चा­रि­त­सं­सि­द्धि­र­विद्या लिङ्गते कथम् || ७५ ||

निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा |
पूर्ण­स्या­ना­त्मना योगो वास्तवो नोपपद्यते || ७६ ||

सर्व­ज्यो­ति­रु­प­रमे किंज्योतिरिति चोदिते |
आत्मैवास्येति जनकं याज्ञ­व­ल्क्योऽ­प्यु­वाच ह || ७७ ||

आत्मप्रत्यय आत्मैको द्वीतीयः पुनरात्मनः |
अना­त्म­प्र­त्य­योऽ­तोऽहं स्वत एवास्मि केवलः || ७८ ||

न सामान्यं विशेषं वा प्रत्य­ग्धी­र­व­गा­हते |
तद्या­य­था­त्म्या­त्प्र­ती­चोऽतः सम्यग्दृष्ट्या न वीक्ष्यते || ७९ ||

नावि­द्या­घ­स्म­रै­का­त्म्य­स­म्य­ग्दृष्ट्या समीक्ष्यते |
आत्माविद्या तदुत्थो वा बाध्य­त्वा­द्र­ज्जु­स­र्प­वत् || ८० ||

आध्यात्मिकस्य नेत्रा­दे­र्बा­ह्य­ज्यो­ति­र­सं­गतौ |
तद्दूरेण प्रकाशोऽयं न मनस्युपजायते || ८१ ||

भान्वा­द्य­नु­ग्र­हा­भावे तस्मादेष पुमानिह |
प्राप्तोऽ­द्रष्टा तथाऽश्रोता स्मृति­स्व­प्ना­दि­भू­मिषु || ८२ ||

मनसैवेक्षते यस्मा­त्स­र्वा­नि­न्द्रि­य­गो­च­रान् |
तदभावे पुमानेष किंज्योतिरिति कथ्यताम् || ८३ ||

आत्मैवास्य तदा ज्योति­र्भ­व­ती­त्य­भ्य­धा­दृषिः |
आत्मनैव तदा चेष्टां ज्योतिषा संप्रपद्यते || ८४ ||

प्रत्य­क्षा­द्यु­प­लब्धौ यो बुद्धौ संस्कार आहितः |
कर्मणोद्भावितः सोऽयं स्मृतिरूपेण जायते || ८५ ||

आत्मा स्वाभाससचिवो धिय­मि­च्छा­दि­रू­पि­णीम् |
अनुगृह्णाति कर्मोत्थां प्रत्य­ग­ज्ञा­न­का­र­णात् || ८६ ||

यथा प्रकाशयत्येकः कृत्स्रं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति तथा स्मृतिः || ८७ ||

नाना­सं­स्का­र­सं­स­र्गि­प्र­त्य­ग­ज्ञा­न­मेव तत् |
बुद्ध्या­दि­स्मृ­ति­रू­पेण प्रथते कर्मणो वशात || ८८ ||

भान्वादिवदतो बुद्धिं स्वाभा­सै­क­स­हा­य­वान् |
अनुगृह्णाति कूटस्थः स्वात्मा­वि­द्या­नु­रो­धतः || ८९ ||

अनु­ग्रा­ह्या­भि­सं­बन्ध एकजातिसमन्वयात् |
आदि­त्या­दे­रि­हा­वा­प्ति­रा­त्म­नोऽ­ज्ञ­न­व­र्त्मना || ९० ||

चिदा­भा­वि­द्य­यै­वाऽऽत्मा कूटस्थोऽप्येति साक्षिताम् |
आगमापायिरूपेषु स्थितोऽनेकेषु चैकलः || ९१ ||

दृश्या­र्थ­व­द­भि­न्नोऽयं द्रष्टृ­द­र्श­न­सा­क्ष्यपि |
द्रष्टृ­द­र्श­न­भे­देऽपि न भेदोऽस्य मनागपि || ९२ ||

कार­णा­न्व­य­व­द्बु­द्धे­श्चि­दा­भा­सोऽपि सर्वदा |
चिदाभासातिरेकेण बुद्धेः परिणतिर्वृथा || ९३ ||

विषयः प्रत्यगात्मा च स्वाभासेन विशेद्धियम् |
स्वाभासवत्स्वयं साक्षा­द्वि­य­त्कु­म्भा­दिगं यथा || ९४ ||

योऽप्य­वि­द्या­दि­सं­बन्धः सोऽप्य­वि­द्या­प्र­क­ल्पितः |
वास्त­व­स्त्व­भि­सं­बन्धो नोप­प­त्त्याऽऽ­त्मनो यतः || ९५ ||

यथा ज्ञान­प्र­का­शाभ्यां संप्लुतावेव नान्यथा |
कुम्भादेः कर्मयोग्यत्वं स्यादेवं धिषणादिषु || ९६ ||

चिद्बा­ह्या­कृ­ति­सं­बन्धे कर्मणेऽलं भवेन्मतिः |
तयो­र्भि­न्ना­श्र­यत्वे तु दुःख्यस्मीति न सिध्यति || ९७ ||

कौट­स्थ्या­द्वि­क्रि­या­भा­वा­न्नि­श्चि­त्क­त्वा­द्वि­का­रिणः |
आत्मनः स्यादिदं विश्व­म­न्ध­का­र­प्र­नृ­त्त­वत् || ९८ ||

घटा­द्या­भा­स­व­त्त­स्मा­न्मो­हा­दे­र­भ्यु­पे­य­ताम् |
चिदाभासोऽपि सर्वत्र न वेद्मी­त्यु­नु­भू­तितः || ९९ ||

एषोऽस्यानुग्रहः श्रुत्या प्रतीचोऽत्र विवक्षितः |
भान्व­नु­ग्र­ह­व­त्पुंस आस­ना­दि­प्र­सि­द्धये || १०० ||

आत्मेति प्राण­पि­ण्डा­दि­त­दं­श­स­मु­दा­यतः |
तज्जा­त्या­कृ­ति­सं­ब­न्ध­गु­ण­क­र्म­वि­ल­क्षणः || १०१ ||

तत्सतत्त्वं तदा­त्म­त्वा­द­ज्ञा­ना­द्य­व­भा­स­यत् |
ज्योतिरेकात्मकं नित्य­म­सा­धा­र­ण­मा­न­गम् || १०२ ||

तदन्यस्य जडत्वाच्च नान्य­प्र­त्य­क्ष­मि­ष्यते |
तथाऽ­न­ति­श­य­त्वा­त्स्यान्न पुमन्तरगोचरः || १०३ ||

शब्दा­दि­गु­ण­ही­न­त्वा­त्प्र­त्य­क्त्वा­सं­ह­त­त्वतः |
दृष्टि­मा­त्र­स्व­भा­वाच्च नाऽऽत्मा दर्शनमर्हति || १०४ ||

देशा­न्त­रा­द्य­सं­ब­न्धा­न्मो­हा­द्या­व्य­व­धा­नतः |
न च मोहा­दि­व­त्प्र­त्य­क्तथा दर्शनमर्हति || १०५ ||

नाऽऽदि­त्या­दि­स­जा­ती­य­मा­त्म­ज्यो­ति­रि­ती­ष्य­ताम् |
तन्मा­ना­न­व­ग­म्य­त्वा­दा­दि­त्या­देश्च तद्गहात् || १०६ ||

अनु­ग्रा­ह्य­स­जा­तीयं यच्च ज्योतिरिहेष्यते |
तच्च­क्षु­रा­दि­क­र­ण­ग्राह्यं दृष्टं घटादिवत् || १०७ ||

न चाप्रमेयमिति तच्छ­श­शृ­ङ्गा­दि­व­न्म­तम् |
तदनन्यमिति व्याप्तेः प्रत्य­क­त्वा­द्दि­न­कृ­द्यथा || १०८ ||

प्रत्य­क्ष­मा­न­ग­म्यत्वं विषा­ण­स्या­व­धा­रि­तम् |
स्वभावस्तमृते शृङ्गं स्वभावमतिवर्तते || १०९ ||

मान­पा­दो­प­जी­वित्वं स्वभा­वोऽ­ना­त्म­व­स्तुनः |
मात्रा­दि­सि­द्धि­द­स्यैष स्वतःसिद्धेर्न सर्वदा || ११० ||

अस्तं यातेषु सर्वेषु ज्योतिःषूक्तेषु वासनाः |
ज्योतिः प्रत्यक्स्वयं दृष्टमासनाद्याः प्रकाशयेत् || १११ ||

एष आत्मा स्वयंज्योती रवि­सो­मा­ग्नि­वाक्षु यः |
यातेष्वस्तं दृशैवाऽऽस्ते भास­यं­श्चि­त्त­चे­ष्टि­तम् || ११२ ||

आत्म­प्र­त्य­य­मा­मेयः सर्वेषामपि देहेनाम् |
यतोऽ­तोऽ­ना­त्म­यो­गोऽस्य न मानादवसीयते || ११३ ||

न चेदा­त्मे­ति­धी­मा­ना­त्प्र­ती­चो­न्योऽर्थ ईक्ष्यते |
प्रमा­न्त­रा­वि­रो­धेन य आत्मे­त्यु­प­प­द्यते || ११४ ||

आत्मा ब्रह्मेति वाक्ये­भ्य­स्त­था­चे­दंल प्रतीयते |
प्रत्य­क्षा­द्या­न­व­ष्ट­ब्ध­मै­कात्म्यं बाधवर्जितम् || ११५ ||

ननु देहा­द्य­भि­न्न­त्वा­दा­त्मनो मुक्तता कुतः |
प्रत्यक्षेण विरु­द्ध­त्वा­दै­कात्म्यं चापि न श्रुतेः || ११६ ||

तथा हि क्षिति­तो­या­ग्नि­म­रुतां योगजं मतम् |
प्रत्येकं शक्त्यभावेऽपि चैतन्यं मदशक्तिवत् || ११७ ||

अहं मनुष्य इत्येवं सामानाधिकरण्यतः |
प्रत्य­क्ष­बु­द्धि­र्दे­हेऽ­स्मि­ञ्जा­यते कृष्णसर्पवत् || ११८ ||

न चाहं­बु­द्धि­ग­म्योऽर्थो दृष्टो देहातिरेकतः |
सर्पादेरिव कार्ष्ण्या­दि­र्दे­ह­ध­र्म­स्त­त­श्चितिः || ११९ ||

ननु युक्ता पराग्भूते प्रमा­तु­र्व्य­ति­रे­कतः |
सर्पादौ धर्मसंबन्धप्रमा नाऽऽत्मन्यभेदतः || १२० ||

जडस्वभावतश्चापि कार्ष्ण्या­दे­र्ध­र्म­ते­ष्यते |
स्वसं­वि­दि­त­मा­त्र­त्वान्न त्वेवंरूपता चितेः || १२१ ||

यथै­क­बु­द्धि­नि­र्ग्राह्यं द्रव्येणेह विशेषणम् |
नैवं चित्काययोः सिद्धि­श्चि­च्छ­क्त्य­वि­ष­य­त्वतः || १२२ ||

नैवं येनैव मानेन सत्ता संविद ईक्ष्यते |
तेनैव धर्मता तस्याः कार्ष्ण्यादेरिव मीयते || १२३ ||

ननु देह इदं­बु­द्धि­र्घ­टा­दा­विव जायते |
प्रत्य­ग्बु­द्धि­स्त्व­हं­भागे नान­यो­र्ध­र्म­ध­र्मिता || १२४ ||

यथैव पारिहार्यादि हेमै­क­द्र­व्य­नि­ष्ठि­तम् |
अल­ब्धा­त्म­क­म­न्यत्र लब्धा­त्म­क­मि­वे­क्ष्यते || १२५ ||

तथैव वस्तु­स्वा­भा­व्या­च्चि­च्छ­क्ति­र्भू­त­नि­ष्ठिता |
अह­मि­त्या­दि­बु­द्धीनां व्यवहाराय कल्पते || १२६ ||

चैतन्यं देह­ध­र्म­श्चे­न्मृ­ता­व­वि­क­लस्य तत् |
कस्मान्न गम्यते साक्षा­ज्जी­व­द्दे­ह­गतं यथा || १२७ ||

नैष दोषश्चतुर्णां हि भूतानां संहतिस्तनुः |
ततो वायावपक्रान्ते चैतन्यमपि नश्यति || १२८ ||

स्वप्न­दे­हा­दि­सं­ब­न्धि­प्र­त्य­भि­ज्ञा­ब­ला­न्ननु |
व्यतिरेकश्चितेः सिद्धो भूतेभ्यो जाग्रतोऽप्यतः || १२९ ||

देहा­न्त­र­वि­नि­र्माणं जाग्र­च्चै­त­न्य­व­द्ध्रु­वम् |
करोति भूतसंधातः स्वप्ने बालयुवादिवत् || १३० ||

न चात्र प्रत्य­भि­ज्ञाऽस्ति मिथ्या­प­रि­ण­ते­स्तव |
नैव बाल्या­दि­व­द्य­स्मात् स्वप्ने देहः प्रतीयते || १३१ ||

जाति­स्म­र­ण­दृ­ष्टा­न्ता­दात्मा नित्यो मतो यदि |
व्रणं पूर्वकृतं दृष्ट्वा देहः किं नोच्यते ध्रुवः || १३२ ||

प्रत्य­भि­ज्ञा­न­त­स्तत्र ध्रौव्यं चेदात्मनो मतम् |
स्वप्ना­त्म­प्र­त्य­भि­ज्ञेयं मृषार्था साऽपि पूर्ववत् || १३३ ||

सशल्यदेहशायीनि भूतान्येव तथाविधम् |
देहान्तरं करिष्यन्ति प्रत्यभिज्ञा यदीष्यते || १३४ ||

तान्येवैतानि भूतानीत्येवं यद्वत्प्रजायते |
प्रत्यभिज्ञा स एवाहमिति यद्वद्भवेन्न किम् || १३५ ||

यच्चै­त­दा­त्म­ज्यो­तिष्ट्वं व्यति­रि­क्त­त­यो­दि­तम् |
आदित्यादिलयेनेह भौतिकं त्वेव तद्भवेत् || १३६ ||

उपकारि सजा­ती­य­मु­प­का­र्यस्य वस्तुनः |
जगत्यस्मिन्यतो दृष्ट­मा­दि­त्य­श्च­क्षु­षो­र्यथा || १३७ ||

शब्दादिभिर्हि घ्राणा­दे­र्नो­प­कारः समीक्ष्यते |
विजातीयैरतो ज्योति­र्भू­त­जा­ती­य­मि­ष्य­ताम् || १३८ ||

भौतिकस्यैव कुम्भा­दे­र्भौ­ति­कै­रेव वीक्ष्यते |
उपकारो जग­त्य­स्मि­न्ना­दि­त्या­द्यै­र्यथा तथा || १३९ ||

देहादेर्यदि नामेदं ज्योति­र­र्था­न्तरं मतम् |
तथाऽपि नासजातीयं व्यञ्ज­क­त्वा­त्प्र­दी­प­वत् || १४० ||

ननु देहा­स­जा­ती­य­म­न्त­स्था­ती­न्द्रि­य­त्वतः |
यद्य­द्दे­ह­स­जा­तीयं ज्योतिर्दृष्टं तदिन्द्रियैः || १४१ ||

मैवं नैकान्तिको हेतु­श्च­क्षु­रा­दी­न्द्रियैः स्फ़ुटम् |
अन्तस्थानि यतोऽक्षाणि प्रत्यक्षाणि न चाऽऽत्मवत् || १४२ ||

आदि­त्या­दि­स­जा­ती­य­मा­त्म­ज्यो­ति­र­ती­न्द्रि­यम् |
अन्त­स्था­ती­न्द्रि­य­त्वाभ्यां चक्षु­रा­दी­न्द्रियं यथा || १४३ ||

विशे­षेऽ­नु­ग­मा­भावः सामान्ये सिद्धसाध्यता |
इत्या­दि­दो­ष­दु­ष्ट­त्वान्न च नोऽनुमितिः प्रमा || १४४ ||

अनुमानबलेनैव देहा­दि­व्य­ति­रे­कतः |
प्रत्यगात्मा स्वयंज्योतिः साध्यते तच्च नानुमा || १४५ ||

प्रत्य­क्षै­क­प्र­मा­णेन देहे चिद्ध­र्म­केऽ­ञ्जसा |
गृह्य­मा­णेऽ­नु­मा­नेन न तच्छक्यं प्रबाधितुम् || १४६ ||

दर्शनादिक्रियां कुर्व­न्स­र्व­दाऽ­व्य­भि­चा­रतः |
प्रत्यक्षेणैव दृष्टोऽयं देहो नातस्ततोऽपरः || १४७ ||

दर्श­ना­दि­क्रि­या­कारी देह­श्चे­द­भ्यु­पे­यते |
कस्मादविकलस्यैव दृष्ट्यादिर्न तथेक्ष्यते || १४८ ||

नैष दोषो भवेदत्र प्रत्य­क्ष­प्र­मि­त­त्वतः |
न हि दृष्टं समुल्लङ्घ्य ततोऽ­न्य­द्व­ल­व­न्म­तम् || १४९ ||

भास्व­रा­भा­स्व­रत्वं च प्रत्यक्षेणैव वीक्ष्यते |
खद्यो­त­स्या­नु­मा­नेन न हेत्व­न्त­र­क­ल्प­नम् || १५० ||

हेत्व­न्त­रेऽ­नु­मेये च किंचि­त्सा­मा­न्य­ग­न्धतः |
सर्वं सर्वस्य लिङ्गं स्यात्त­च्चा­निष्टं प्रसज्यते || १५१ ||

न च नास्ति पदार्थानां लोकेऽसाधारणः कचित् |
स्वभा­वोऽ­ग्न्या­दि­कानां हि नोष्ण­त्वा­द्य­न्व­हे­तुतः || १५२ ||

प्राणि­ध­र्मा­द्य­पेक्षं चेदुष्णत्वादि हविर्भुजः |
नैवं तत्रापि दोषस्य प्रस­क्ते­र­नि­वृ­त्तितः || १५३ ||

तदप्यस्त्विति चेन्मैवं धर्मा­दे­र­प्र­सि­द्धितः |
धर्माभ्युपगमे दोषो ह्यनवस्था प्रसज्यते || १५४ ||

न चानवस्थया सिद्धि­र­भि­प्रे­तस्य वस्तुनः |
तदलं क्षिति­तो­या­ग्नि­म­रुतां परिणामजे |
चेतो­व­त्य­क्ष­सं­वेद्ये कष्टकल्पनयाऽनया || १५५ ||

सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः |
यदभ्युपगमादेव तत्सि­द्धि­र्वा­र्यते कुतः || १५६ ||

प्रत्यक्षेण विरुद्धत्वं न तावदुपपद्यते |
विषयाभावतस्तस्य प्रामाण्यं दुर्लभं यतः || १५७ ||

सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् |
अज्ञा­ता­र्था­धि­ग­मनं त्वदुक्ते तन्न युज्यते || १५८ ||

प्राक्प्र­मा­ण­स­मु­त्प­त्ते­र्दे­हा­दे­र्वि­ष­यस्य ते |
प्रमाणहेतोः केन स्याद­ज्ञा­त­त्व­मि­ती­र्य­ताम् || १५९ ||

स्वतः सिद्धोऽ­थ­वाऽ­सिद्धो देहादिस्ते भवन्भवेत् |
प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते || १६० ||

प्रमा­णा­न्य­न्त­रे­णापि देहा­दि­श्चे­त्प्र­सि­ध्यति |
वद प्रमाणैः को न्वर्थो न हि सिद्धस्य साधनम् || १६१ ||

स्वतोऽ­सि­द्धेऽ­प्र­मेये च नासतो व्यञ्जिका प्रमा |
नाभिव्यनक्ति सविता खरशृङ्गं स्फ़ुरन्नपि || १६२ ||

प्रमा­ण­व्य­ति­रे­केण नाप्यसत्त्वं प्रसिध्यति |
सत्त्ववन्नापि चाभेदे मानमेयौ प्रसिध्यतः || १६३ ||

यदि माना­ति­रि­क्ता­र्थोऽ­मितः संभाव्यते तदा |
तं बोधयद्भवेन्मानं न तु तत्कुर्वदिष्यते || १६४ ||

अबुद्धबोधनं मुक्त्वा नान्यत्कार्यं क्वचिद्यतः |
सत्त्वं वा यदि वाऽसत्त्वं नातो मेये प्रमाणतः || १६५ ||

मानव्यापारतः पूर्वं सिद्धा­मे­वा­व­बो­ध­यत् |
शुक्तिकां मानतां याति, नासिद्धं रजतादिकम् || १६६ ||

शुक्तौ रज­त­वि­ज्ञा­ना­च्छु­क्ति­व­न्ना­मितं यतः |
रजतं विद्यते किंचिद्विज्ञातं चाऽऽत्मवस्तुवत् || १६७ ||

नाति­रे­का­न्व­याभ्यां यद्वस्तु संभाव्यते कथम् |
तत्प्रति स्यात्प्र­मा­णत्वं शुक्तिकारजते यथा || १६८ ||

किं मानसंगतेरर्थे जातेयमवबुद्धता |
किंवा प्रागपि संब­न्धा­द्बु­द्धोऽ­र्थोऽ­भून्न मानतः || १६९ ||

बोधात्मकत्वं च मितेः किमा­सी­न्मे­य­सं­गतेः |
प्राग्वा मेया­भि­सं­ब­न्धा­न्मि­ते­र्बो­धा­त्मता भवेत् || १७० ||

नार्थानधिगतत्वं च प्रमाणेभ्यः प्रसिध्यति |
रूपानधिगतत्वं नो न श्रोत्रादेः प्रमाणतः || १७१ ||

मान­व्या­पा­र­त­श्चे­त्स्या­न्मे­या­न­धि­गा­ति­स्तदा |
तद्व्या­पा­रा­त्पुरा मेयः स्यात्स्व­तो­धि­ग­ता­त्मकः || १७२ ||

यत एवमतोऽवश्यं प्रमाणव्यापृतेः पुरा |
मेयोऽनधिगतः सिद्धो ह्यभ्यु­पे­योऽ­व­बु­द्ध­वत् || १७३ ||

न चाना­हि­त­स­न्मा­न­स्व­त­श्चि­न्मा­त्र­वि­ग्र­हात् |
प्रत्व­गै­का­त्म्य­तोऽ­न्यत्र यथोक्तां धुरमुद्वहेत् || १७४ ||

न ह्यज्ञाते यथा ज्ञाते विशेषणविशेष्यता |
ततश्च नैत­त्सं­सि­ध्ये­द­ज्ञा­नादि प्रमाणतः || १७५ ||

प्रमा­णा­च्चा­न­धि­गतौ तन्निवृत्तिः कुतो भवेत् |
न दाह­ज्व­र­नु­त्त्य­र्थ­म­ग्निना स्याद्भि­ष­क्क्रिया || १७६ ||

साक्ष्य­मा­तृ­प्र­मा­रूपं मानभूमौ यथेक्ष्यते |
नाज्ञा­तेऽ­नु­भ­वा­देषां कश्चि­द­न्य­स्त­थे­क्ष्यते || १७७ ||

प्रमा­ण­व्या­पृ­ते­रूर्ध्वं ज्ञाताज्ञातटूयं मिथः |
संध­त्तेऽ­नु­भ­वे­नैव न तदन्येन केनचित् || १७८ ||

यदि नाम न मानानि व्याप्रियन्ते विनिश्चितेः |
प्राक्त­थाऽ­प्य­प­ला­पोऽस्या नानु­भू­ते­र्घ­टा­दि­वत् || १७९ ||

एवं सिद्धेऽप्यनुभवे स्वमहिम्ना पुरा मितेः |
प्रमा­णो­त्प­त्ति­र­न्वेष्यै प्रत्य­ग्ध्वा­न्ता­प­नु­त्तये || १८० ||

अव­बु­द्ध­स्व­भा­वोऽपि सह­तेऽ­न­व­बु­द्ध­ताम् |
वस्तुत्वान्न तमो हन्ति तथाऽपि प्रमितिं विना || १८१ ||

प्रमाणफ़लकारूढं स्वतमो हन्ति नान्यथा |
वस्तु मेयाभिसंबद्धं मानं तद्वत्तमोपनुत् || १८२ ||

प्रत्य­क्ष­मा­न­सि­द्ध्यर्थं तस्मा­त्प्र­त्य­क्ष­वा­दिना |
प्राङ्भा­ना­द­भ्यु­पे­योऽर्थो थोऽज्ञा­त­त्वा­दि­सि­द्धि­कृत् || १८३ ||

वागादिव्यापृतेः कर्ता शब्दा­दि­गु­ण­ला­ञ्छितः |
प्रत्यक्षो गम्यते मात्रा प्रती­चोऽ­त्य­न्त­भे­दतः || १८४ ||

श्रोत्रा­दि­व्या­पृतो माता दुःखा­दि­गु­ण­वा­न्प­राङ् |
कर्तेवानुभवेनैव प्रतीचा गम्यतेऽञ्जसा || १८५ ||

अनन्यानुभवः प्रत्यङ्न प्रमा­त्रा­दि­गो­चरः |
यतोऽपहतपाप्मादि युक्तं स्यात्त­द्वि­शे­ष­णम् || १८६ ||

लोकायतस्य बोद्धस्य कण­भो­ज्या­क्ष­पा­दयोः |
प्रत्यक्षेणैव मानेन विमुखीकरणं कृतम् || १८७ ||

प्रमा­ण­फ़­ल­यो­र्भे­द­स्तथा मानप्रमेययोः |
स्वतः­कू­ट­स्थ­चि­त्सि­द्धि­रै­कात्म्यं चानुभूतितः || १८८ ||

प्रत्यक्षं मानमेवेदमिति यस्मा­त्प्र­सि­ध्यति |
प्रत्य­क्ष­दृ­क्स्व­यं­ज्यो­ति­स्त­दा­त्मे­त्य­भ्यु­पे­य­ताम् || १८९ ||

मेयादींस्तभावं च संश­या­नृ­त­नि­श्च­यान् |
विविच्य योऽनुगृह्णाति शब्ददींश्च जडान्पृथक् || १९० ||

देहे­न्द्रि­य­म­नो­बुद्धीः सुखादींश्च घटादिवत् |
तमे­क­म­न्त­रा­त्मा­न­म­प्र­त्यक्षं प्रपश्य भोः || १९१ ||

द्रष्टृ­द­र्श­न­दृ­श्यांश्च यः स्वप्ने प्रसमीक्षते |
तदभावं सुषुप्ते च स आत्मे­त्य­भ्यु­पे­य­ताम् || १९२ ||

चक्षु­रा­दी­न्द्रि­याणां च न च स्वप्नेऽस्ति संभवः |
सुषुप्ते चानुभूतिस्तु तयोरव्यभिचारिणी || १९३ ||

प्रमाणं मेयविषयं तत्फ़लं मातृसंश्रयम् |
यत्साक्षिकं द्वयं सिध्येत्स आत्मे­त्य­भ्यु­पे­य­ताम् || १९४ ||

मानस्य हि फ़लं यत्र न तन्मानस्य गोचरः |
तस्य मेयै­क­नि­ष्ठ­त्वा­त्फ़लं तु स्यात्प्रमातरि || १९५ ||

प्रत्यक्षं वर्तते यत्र तत्फ़लं तत्र नेक्ष्यते |
तत्फ़लं वर्तते यत्र मानं तत्र न वर्तते || १९६ ||

एवं सति प्रमा­मा­तृ­फ़­ल­मे­या­त्मनां तव |
कुतः प्रत्य­क्ष­ता­सि­द्धि­र्यदि नाऽऽत्माऽ­भ्यु­पे­यते || १९७ ||

व्यभिचारिषु सर्वेषु प्रत्य­गा­त्मै­क­सा­क्षिषु |
प्रत्यक्प्रत्यय एवैकः सर्व­त्रा­व्य­भि­चा­र­वान् || १९८ ||

एवं प्रत्य­क्ष­त­स्ता­व­द्दे­हा­दि­व्य­ति­रे­कतः |
तथाऽनुभवतः साक्षादात्माऽयं प्रतिपादितः || १९९ ||

यच्चै­त­त्कृ­ष्ण­स­र्पा­दि­दृ­ष्टा­न्ता­द्भ­व­तो­दि­तम् | अहं मनुष्य इत्यादि तत्र प्रतिविधीयते || २०० ||

चैतन्यं काय­ध­र्म­श्चे­न्म­नु­ष्योऽ­सा­विति प्रमा |
असाधारणतो न स्यादहं वेद्मीतिवत्तदा || २०१ ||

समवेतं हि यद्यत्र चैतन्यं स्याच्छरीरके |
तस्यैव तद्भ­वे­त्सा­क्षा­न्ना­न्य­दे­हा­श्रि­तस्य तत् || २०२ ||

करणव्यापृतिं चर्ते मनुष्योऽस्मीति धीर्भवेत् |
पूर्ववन्न तु तत्ता­दृ­ग्दे­हा­द्भिन्ना ततश्चितिः || २०३ ||

न चाहं­बु­द्धि­नि­र्ग्रा­ह्य­मि­दं­धी­ग्रा­ह्य­गो­चरः ||
विरोधान्न हि शीत­त्व­मु­ष्ण­स्या­ग्ने­र्वि­शे­ष­णम् || २०४ ||

कायस्यापि न चैतन्यमेवमेव विशेषणम् |
विरोधिना जडत्वेन व्याप्तेः किमु परस्य तत् || २०५ ||

विशेष्यमपि नाऽऽप्नोति धर्मा­न्त­र­वि­शे­षि­तम् |
विशे­ष्य­मा­त्र­नि­ष्ठ­त्वा­द­न्यत्र स्यात्कथं नु तत् || २०६ ||

विशे­ष­ण­वि­शे­ष्यत्वे संग­ति­श्चे­द्भ­वे­त्तयोः |
एक­प्र­त्य­य­ग­म्यत्वं स्यात्तदा कृष्णसर्पवत् || २०७ ||

आवि­द्व­द­ङ्ग­ना­वालं देहादौ घटवन्मतिः |
पृथक्त्वेन भवन्तीयं कथं स्याच्चि­द्वि­शे­षिता || २०८ ||

मातारमपि नाऽऽप्नोति यत्प्र­मे­यै­क­नि­ष्ठि­तम् |
प्रत्यक्षं तस्य का शक्तिः स्वार्थायां चिति वर्तितुम् || २०९ ||

असा­धा­र­ण­रू­पो­त्था­ज्ञा­ने­नैव प्रमीयते |
यथा घटस्तथैवाऽऽत्मा नान­त्म­प्र­त्य­य­प्रमः || २१० ||

स्वार्थं सन्न परार्थस्य स्वात­न्त्र्या­त्स्या­द्वि­शे­ष­णम् |
न च चैत­न्य­मि­त्किं­चि­च्चै­त­न्या­ल्ल­भ्यते पृथक् || २११ ||

ग्रहीत्रेव हि चैत­न्य­मा­त्म­नोऽ­ना­त्म­न­स्तथा |
ग्रही­तु­र्ग्रा­ह्यता लोके न न्यायेनोपपद्यते || २१२ ||

प्रत्यक्त्या विभिन्नस्य चैतन्यस्य विशेषणम् |
पराकत्वान्नापि कायः स्याच्छीततेव विभावसोः || २१३ ||

पारिहार्यादिगं हेम्नि प्रमाणं मेयनिष्ठितम् |
कथमात्मचितौ तत्स्या­त्त­द्वि­रु­ग­द्धा­र्थ­सि­द्धये || २१४ ||

भूतेभ्यश्च चिदुत्पत्तिर्न प्रत्य­क्ष­प्र­मा­णिका |
भूतान्वयस्य चासत्त्वान्नापि लिङ्गा­त्प्र­सि­द्ध्यति || २१५ ||

मृतोऽस्मीत्यपि संवि­त्ति­श्चै­त­न्या­प­गमे कुतः |
जाड्या­त्स्या­न्नापि कायस्य चिदभावश्चितेः कुतः || २१६ ||

नापि स्वप्ना­नु­भू­तेश्च मिथ्यात्वं स्वप्नवन्मतम् |
बोधा­नु­भ­व­व­त्तस्या बाधको नेक्ष्यते यतः || २१७ ||

वायोरपि समुत्क्रान्तिः प्रत्य­क्षा­न्ना­व­सी­यते |
चिते­स्त­द्भा­व­भा­वि­त्वा­द्वा­यु­रे­वास्तु चेतनः || २१८ ||

चैतन्यं भूतकार्यं चेत्का­य­व­त्ति­ष्ठतां चितिः |
चितिवन्नश्यतां यद्वा कायोऽयं हेतुनाशतः || २१९ ||

जाग्र­च्छ­री­र­व­च्चे­त्स्या­त्स्व­प्न­का­योऽपि भूततः ||
सत्य­भू­तै­क­हे­तु­त्वा­न्मि­थ्यात्वंं तस्य किंकृतम् || २२० ||

सत्यो वा यदि वा मिथ्यां स्वप्न­दे­होऽ­भ्यु­पे­यते |
चिते­र­व्य­भि­चा­रि­त्वा­त्त­थाऽ­पीष्टं प्रसिध्यति || २२१ ||

तस्मा­न्नृ­ह­स्ति­दे­हादौ जाग्र­त्स्व­प्ना­दि­भू­मिषु |
भिन्नः शरीरतः सिद्धः प्रमाता प्रत्यभिज्ञया || २२२ ||

देश­का­ल­व­यो­जा­ति­रू­प­श­क्त्या­दि­भे­दतः |
देहे न प्रत्यभिज्ञा स्याज्जाते स्मर्तरि युज्यते || २२३ ||

अनु­ग्रा­ह्य­स­जा­तीयं न च प्रत्यक्षमानिनः |
ज्योतिः साधयितुं युक्त­म­नु­मा­न­द्विषः सतः || २२४ ||

सजातीयगिरा चात्र भवता किं विवक्षितम् |
सामान्यमथवा व्यक्तिर्यदि सामान्यमुच्यते || २२५ ||

सजाति नास्ति सामान्यमनवस्था तथा सति |
निःसामान्यानि तेनाऽऽहुः सामान्यानीति वादिनः || २२६ ||

भौतिकत्वेन चेज्ज्यो­ति­र्दे­हा­नु­ग्रा­हकं मतम् |
देहेऽपि तस्य सद्भा­वा­न्ना­पेक्ष स्यात्तदा रवौ || २२७ ||

विशे­ष­श्चे­द­पेक्ष्यः स्याद्यो देहेऽस्मिन्न विद्यते |
नानु­ग्रा­ह्य­स­जा­तित्वं तस्या­नु­ग्रा­ह­क­त्वतः || २२८ ||

देहा­त्स्या­द्भि­न्न­जा­तीयं वस्तु देहावभासि यत् |
विवादगोचरापन्नं भास्व­र­त्वा­द्र­वी­न्दु­वत् || २२९ ||

नानु­ग्रा­ह्य­स­जा­तीयं नाप्यनुग्राहकं तथा |
घटो घटं रविर्वेन्दुं नानुगृह्णाति कुत्रचित् || २३० ||

सजा­ती­या­स­जा­ती­यै­र्दे­हो­प­कृ­ति­रि­ष्यते |
क्ष्माब­ग्नि­वा­युभिः साक्षान्नातो नियम इष्यते || २३१ ||

विजा­ती­यो­प­का­र­श्चे­द्भ­वता नाभ्युपेयते |
चतुर्भूतात्मको देह इत्ये­त­त्क­थ­मु­च्यते || २३२ ||

अभा­वोऽ­प्यु­प­कु­रुते लोकेऽ­स्मि­न्भा­व­व­द्यतः ||
नातोऽ­नु­ग्रा­ह­क­त्वा­दि­नि­य­मोऽयं समञ्जसः || २३३ ||

पार्थिवैः पार्थि­व­स्या­ग्ने­रु­प­कारो यथेन्धनैः |
वैद्युतस्य तथै­वा­द्भि­रु­प­कारः समीक्ष्यते || २३४ ||

अद्भिः काष्ठैश्चोपकारः पावकस्यैव वीक्ष्यते |
अग्न्यम्बुभिश्च शमनं तथाऽग्नेरेव दृश्यते || २३५ ||

सजा­ती­या­स­जा­ती­य­नि­य­मोऽतो न युज्यते |
उपकारापकारत्वे पूर्वोक्तेनैव वर्त्मना || २३६ ||

यच्चा­प्य­क्षै­र­नै­कान्त्यं हेतोरभिहितं पुरा |
तच्चा­प्य­स­त्त्व­याऽ­भाणि धर्मित्वेन परिग्रहात् || २३७ ||

सेन्द्रि­य­स्यास्य देहस्य पुरुषोक्त्या परिग्रहात् |
न ह्येकदेशः साध्यस्य दृष्टान्तत्वाय कल्पते || २३८ ||

लिङ्गस्य मात्वसंसिद्धौ दूषणं दूषणं भवेत् |
विशेषेऽनुगमाभाव इत्यादि यदुदीरितम् || २३९ ||

सामा­न्ये­त­र­रू­प­त्वा­त्सा­ध्य­स्या­ग्न्या­दि­रू­पिणः |
अपि दोषद्वयं न स्यादेकरूपे हि शङ्क्यते || २४० ||

न चेन्द्रियाणि ते सन्ति प्रत्य­क्षै­क­प्र­मा­णिनः |
अनुमानादृते तेषां संसि­द्धि­र्ने­ष्यते यतः || २४१ ||

ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­भा­वा­भा­व­वि­भा­ग­वित् |
स्वार्थ­म­न्या­न­पेक्षं सच्चैतन्यं नाक्षमानगम् || २४२ ||

न च तद्भावभावित्वं व्यति­रे­का­प्र­सि­द्धितः |
देहाभावे ह्यभा­वोऽ­स्या­श्चितेः स्यात्किं­प्र­मा­णकः || २४३ ||

अनु­मा­ना­प्र­मा­णत्वं न प्रत्यक्षेण साध्यते |
लिङ्गेनापि च तत्सिद्धौ त्वदुक्त्यैव विरुद्धता || २४४ ||

त्वद­शे­ष­प्र­वृ­त्तीनां निरोधश्च प्रसज्यते |
लिङ्ग­स्ये­हा­प्र­मा­णत्वे निश्चेष्टं स्याज्जगत्तथा || २४५ ||

वागा­भि­व्या­हृ­ति­श्चे­य­मपि ते न प्रसिध्यति ||
नैवाऽऽ­त्म­प्र­ति­प­त्त्यर्थं भार­त्यु­च्चा­र्यते त्वाया || २४६ ||

विवादगोचरापन्ना प्रमा­ण­म­नु­मे­ष्य­ताम् |
अनुमानत्वतो लिङ्गा­द्दू­ष­णा­नु­मि­ति­र्यथा || २४७ ||

खद्यो­ता­दि­प्र­का­शस्य यच्चा­नि­त्य­त्व­मु­च्यते ||
पक्षा­दि­व्य­व­धा­न­त्वा­त्त­च्चा­स्माकं न तान्प्तति || २४८ ||

भावाभावग्रहो नापि सिध्ये­त्प्र­त्य­क्ष­मा­नतः |
विद्य­मा­ना­र्थ­सं­ब­न्धा­त्प्र­त्य­क्ष­स्येह सर्वतः || २४९ ||

अथाभावोऽपि तद्गाह्य इति चेदभिधीयते |
प्रत्य­क्षा­भा­व­सं­सिद्धौ किं प्रमा­ण­मि­ती­र्य­ताम् || २५० ||

प्रमा­तृ­मा­ना­भा­वोऽपि भवता प्रतिपाद्यते |
यद्भावेऽपि न यन्मानं तदभावेऽपि तत्कथम् || २५१ ||

व्यावर्तते स्वभा­व­श्चे­दि­त्ये­त­द­ति­दु­र्घ­टम् |
स्वभावो वस्तुनस्तत्त्वं तत्त्वा­त्तत्त्वं न हीयते || २५२ ||

धर्मादेः फ़लदातृत्वं स्वभावोऽवश्यमेव तत् |
अभ्यु­पे­य­स्त्व­याऽ­पीह यथा तदपि मे शृणु || २५३ ||

क्रियातः स्तुतिनिन्दादेः सुख­दुः­खा­दि­ल­क्ष­णम् |
धर्माधर्मफ़लं साक्षा­त्प्र­त्य­क्षे­णा­नु­भू­यते || २५४ ||

आग­मै­क­प्र­मा­ण­त्वा­त्कथं धर्मा­द्यु­दा­हृतिः |
अथा­भ्यु­प­ग­मा­द्युक्तं वेदा­भ्यु­प­ग­ति­स्तथा || २५५ ||

माना­न्त­रा­भ्यु­प­ग­मा­द्भ­व­तश्च तथा सति |
स्वसि­द्धा­न्त­वि­रो­धोऽयं बला­दा­या­त्य­नी­प्सितः || २५६ ||

दग्धृ­त्वा­दि­स्व­भा­वोऽग्नेः शक्ति­श्चे­द्भ­व­तो­च्यते ||
प्रत्य­क्षा­त्त­द­सं­सि­द्धे­र्वि­रो­ध­स्तेऽ­नु­मा­श्रितेः || २५७ ||

मदभ्युपगमो यद्वद्भवतोऽपि तथा यदि || ||
सर्व­मा­ना­भ्यु­प­ग­मान्न किंचिन्नोऽस्ति दुःस्थितम् || २५८ ||

त्वद­भ्यु­प­ग­मा­र्थाय यत्नोऽयं क्रियते मया |
अभ्युपेतो मदु­क्त­श्चे­त्सिद्धं नः स्यात्प्रयोजनम् || २५९ ||

अनवस्थेति योऽप्युक्तः सोऽपि दोषो निराकृतः |
सर्व­मा­ना­भ्यु­प­ग­मा­न्ना­न­वस्था ततो बलात् || २६० ||

देहा­दि­व्य­ति­रि­क्तोऽत आत्मा सिद्धो यथोदितः |
आदि­त्या­द्य­स­जा­तीयः पूर्वा­क्ता­द­नु­मा­नतः || २६१ ||

दर्श­ना­दि­क्रि­या­वां­श्चे­द्देह एवाभ्युपेयते |
दृष्टस्यैव स्मृतौ न स्यात्स्वप्ने चार्थस्य दर्शनम् || २६२ ||

बाह्या­दि­त्या­दि­वि­रहे करणव्यापृतिं विना ||
जाग्र­द्व­द्वी­क्षते स्वप्ने दृष्टपूर्वं यतो नरः || २६३ ||

सामग्र्या स यया पूर्व­म­द्रा­क्षी­च्छि­खरं गिरेः |
तया विनैव स्वप्ने तदात्मा पूर्ववदीक्षते || २६४ ||

उत्खा­त­न­य­न­श्चा­य­म­नु­त्खा­ता­क्ष­व­द्ध­टम् |
स्वप्ने समीक्षते नात आत्मनोऽन्यः प्रपश्यति || २६५ ||

तत­श्चै­त­द्भ­वे­त्सिद्धं यः स्वप्ने कुम्यमीक्षते |
विचक्षुः प्रागपि घटं स एवैक्षिष्ट चक्षुषा || २६६ ||

मृतौ चाविकलस्यैव दर्श­ना­दे­र­सं­भ­वात् |
न स्याद्देहस्य तच्चापि देहो द्रष्टा भवेद्यदि || २६७ ||

नेक्षि­तृ­त्वेऽ­क्ष­बु­द्ध्यादेः प्रत्य­भि­ज्ञो­प­प­द्यते |
न भिन्नद्रष्टृकं यस्मा­त्प्र­ति­सं­धा­न­म­र्हति || २६८ ||

यमद्राक्षं पुरा कुम्भं तमेवाद्य स्पृशाम्यहम् |
इत्ये­त­त्प्र­ति­सं­धानं न भिन्नद्रष्टृकं भवेत् || २६९ ||

प्रति­सं­धा­न­कृ­त्तर्हि मनः संस्का­र­सं­श्र­यात् ||
नैवं तस्यापि मनसो विषयत्वेन दर्शनात् || २७० ||

शब्दादिखचितं साक्षा­त्स्मृ­ति­स्व­प्न­गतं मनः |
कुम्भ­व­द्वी­क्ष्यते यस्मान्नात आत्मा मनोऽपि नः || २७१ ||

भावाभावौ प्रमा­त्रा­दे­स्त­द्वि­ल­क्ष­ण­रू­प­भृत् |
प्रत्य­क्स­मी­क्षते नित्यं नातो द्रष्टृ भवेन्मनः || २७२ ||

योग्यत्वं चास्य देहस्य प्रत्य­क्षै­क­प्र­मा­ण­कम् |
प्रत्य­क्षा­प्र­मितं कस्मा­द्भो­क्तृत्वं तस्य कल्प्यते || २७३ ||

अयंरूपेण भोग्योऽर्थो ह्यहंरूपेण भोजकः |
विरुद्धरूपौ प्रत्य­क्षा­द्न­म्येते भोज्यभोजकौ || २७४ ||

इत्यलं शुष्क­त­र्को­त्थ­वा­ङ्भा­त्रा­क्षे­प­दू­षणैः |
पुंसां पुम­र्थ­सि­द्ध्यर्थं प्रक्रा­न्त­म­भि­धी­यते || २७५ ||

आत्मै­वा­स्ये­त्यु­प­श्रुत्य पूर्वा­त्त­र­वि­रु­द्ध­ताम् |
आशङ्क्य जन­कोऽ­प्रा­क्षी­दा­त्माऽयं कतमो न्विति || २७६ ||

देहा­दि­सं­ह­ता­व­स्या­मा­त्मेति ह्यभिधाधियौ |
सुप्रसिद्धे जग­त्य­स्मि­न्ना­यो­षि­द्वा­ल­प­ण्डि­तम् || २७७ ||

पंव्यापारस्य संबन्धो देहा­दि­व्य­ति­रे­किण ||
ज्योति­षाऽ­ना­त्मना पूर्वं लिङ्गेन प्रतिपादितः || २७८ ||

आत्मैवास्येति वच­ना­त्पू­र्वो­त्त­र­वि­रो­धतः |
संजातसंशयो राजा याज्ञ­ब­ल्क्य­म­पृ­च्छत || २७९ ||

अर्थान्तरं चेद्दे­हा­दे­रा­त्म­ज्यो­ति­र्वि­व­क्षि­तम् |
पूर्वो­त्त­र­वि­रो­धोऽयं तदा नैवेह ढौकते || २८० ||

आत्मशब्दश्च लोकेऽ­स्मि­न्प्र­सि­द्धोऽ­ने­क­व­स्तुषु |
साक्षि­बु­द्धि­श­री­रा­न्ते­ष्वा­त्म­बु­द्धि­स­म­न्व­यात् || २८१ ||

डत­च्प्र­त्य­य­स्त­स्मा­द्ब­ह्व­र्थ­स्यात्र संभवात् |
कतमो भवताऽऽत्मेति ज्योतिष्ट्वेन विवक्षितः || २८२ ||

इति पृष्टोऽ­नु­मा­ने­ना­वि­रुद्धं प्रत्यपीपदत् |
आत्मज्योतिः सुविस्पष्टं राजानं योऽयमित्यतः || २८३ ||

भान्वा­दि­ज्यो­तिषा ताव­द्व्य­व­ह­र्तु­र­नु­ग्रहः |
कुष्ण­सा­रा­दि­दे­शेषु स्वान्त­स्या­नु­ग्र­ह­स्ततः || २८४ ||