बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ (१)
आनन्दं ब्रह्म विज्ञानं साक्षादित्यादिलक्षणम् ।।
पञ्चमान्ते विनिर्णीतं जल्पन्यायेन सांप्रतम् ।। १ ।।
वागादिदेवताद्वारा भूयस्तस्यैव वित्तये ।।
षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्नतः ।। २ ।।
योग्यकालावबोधार्थमासांचक्र इतीरणम् ।।
कल्पं बुद्ध्वाऽथ तमृषिराजगाम महीपतिम् ।। ३ ।।
पशूनिच्छन्किमागास्त्वं प्रश्नान्वा सूक्ष्मनिर्मयान् ।।
वक्तुं किमागतोऽसीति नृपः पप्रच्छ तं मुनिम् ।। ४ ।।
धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते ।।
न त्वनापदि विद्यार्थं तं यान्तीह द्विजोत्तमाः ।। ५ ।।
नान्यत्र क्षत्र्रियाद्विद्या यत्र संभाव्यते क्वचित् ।।
उपसीदन्ति तत्रैव ब्राह्मणाः क्षत्र्रियान्सदा ।। ६ ।।
याज्ञवल्क्यस्य शिष्यत्वे ग्रन्थच्छायाऽपि नेष्यते ।।
जनकस्यैव शिष्यत्वे ग्रन्थच्छायोपलक्ष्यते ।। ७ ।।
अण्वन्तानिति शब्दोऽयं न स्यात्पशुविशेषणम् ।।
उभयं त्वित्यतः शेषाद्दूयं पृष्टमतो भवेत् ।। ८ ।।
तद्धेतुहेतुमत्त्वस्य प्रसिद्ध्यर्थमथावदत् ।।
इच्छाम्युभयमप्येतदित्येवं ह्यन्यथा वदेत् ।। ९ ।।
वाग्देवताऽग्निरत्र स्यात्तथाऽऽयतनमिन्द्रियम् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा च नामोपनिषदुच्यते ।। १० ।।
करणायतनान्देवान्स्वप्रतिष्ठान्व्रजेत्तु सः ।।
प्रज्ञाद्युपनिषत्कान्यो ध्यानाद्देवो भवेदिह ।। ११ ।।
देवतायतने चैव प्रतिष्ठोपनिषत्तथा ।।
षट्स्वप्येतेषु विज्ञेयमेतदेव चतुष्टयम् ।। १२ ।।
मातृमानिति हेतूक्तिः सम्यग्बक्तृत्वसिद्धये ।।
सम्यक्त्वप्रतिपत्त्यर्थं तथैव स्यात्परं वचः ।। १३ ।।
यस्मादवदतो लोके पुरुषार्थो न कश्चन ।।
दृष्टो वा यदि वाऽदृष्टो वाग्ब्रह्मातः प्रतीयताम् ।। १४ ।।
न चेदायतनाद्युक्तमेकपाद्ब्रह्म तर्हि तत् ।।
असमस्तमिदं ब्रह्म न युक्तं समुपासितुम् ।। १५ ।।
स त्वं जानंश्चतुष्पान्मे ब्रह्म व्याख्यातुमर्हसि ।।
वागेवाऽऽयतनमिति याज्ञवल्क्योऽप्युवाच तम् ।। १६ ।।
वागेवाऽऽयतनं तस्य वागेव करणं भवेत् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा स्यात्प्रज्ञाऽस्योपनिषत्तथा ।। १७ ।।
प्रज्ञेयं किं ततो भिन्ना प्रतिष्ठायतने यथा ।।
किंवाऽभिन्नेति मे ब्रूहि प्रज्ञोपनिषदं स्फुटम् ।। १८ ।।
स्वयमेव तु वाक्प्रज्ञा ब्रह्मणो न तु भिद्यते ।।
कुतः प्रज्ञात्वसंसिद्धिर्वाच इत्येतदुच्यते ।। १९ ।।
यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत् ।।
विराङ्गृहीतिरत्र स्यात्साधारकरणग्रहात् ।। २० ।।
तथा देवतया सूत्रं नियन्ताऽपि वियद्गिरा ।।
कारणाद्यखिलं विश्वं देवतावधि भण्यते ।। २१ ।।
यतो वागाद्युपास्त्यत्र तस्मात्सर्वं विवक्षितम् ।।
एनं भूतानि सर्वाणीत्युपासनफलाभिधा ।। २२ ।।
देवो भूत्वेति देवान्हि प्रधानफलकीर्तनम् ।।
विद्वान्य एवमित्युक्त्या साध्यसाधनसंगतिः ।। २३ ।।
देवो भूत्वेति जीवन्सन्भावनोपचयान्नरः ।।
वैलक्षण्यमुपास्तीनां भण्यते ब्रह्मबोधतः ।। २४ ।।
तथैव वचसोक्तिः स्याद्देवो भूत्वेति संभवात् ।।
प्रतिवाक्यं बहूक्तिश्च षण्णामेकत्वसिद्धये ।। २५ ।।
प्रागपि ब्रह्मविज्ञानाद्ब्रह्मैवाभूद्यथा तथा ।।
देवोपासनतः पूर्वं नाभूद्देव उपासकः ।। २६ ।।
भावनोपचयाद्देवो भूत्वा विद्वानिहैव तु ।।
देवानप्येति सोऽग्न्यादीञ्शरीरत्यागतः परम् ।। २७ ।।
उत्पत्त्याद्यात्मकं कार्यं साध्यं सर्वस्य कर्मणः ।।
उपासनं च कर्मैव युक्तमुक्तमिदं ततः ।। २८ ।।
ब्रह्म वा इदमित्येवं तथा ब्रह्मैव सन्निति ।।
प्रागपि ब्रह्मविज्ञानात्सिद्धं तादात्म्यमुच्यते ।। २९ ।।
हस्त्यृषभमिति चोक्त्या भण्यते गुरुदक्षिणा ।।
स च तां नाग्रहीद्दत्तां पिता म इति हेतुगीः ।। ३० ।।
नन्वनुशिष्ट एवायं पूर्वोक्तैरनुशासनैः ।।
पितृव्रतोपरोधोऽत्र नातः कश्चन विद्यते ।। ३१ ।।
नाऽऽत्मविद्यातिरेकेण पितुर्वस्त्वन्तरे यतः ।।
असमाप्तेः पुमर्थस्य मतं नास्यानुशासनम् ।। ३२ ।।
यस्मिञ्ज्ञातेऽखिलं ज्ञातं कृतमाप्तं च कामितम् ।।
तित्यक्षितं च संत्यक्तं पितुस्तदनुशासनम् ।। ३३ ।।
यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम् ।।
सम्यक्तज्ज्ञानमेवातस्तदन्यत्र मृषा मतिः ।। ३४ ।।
आत्मज्ञानोदयायैव याज्ञवल्क्योऽप्यतोऽवदत् ।।
उपासनान्यशेषाणि तथा कर्माण्यशेषतः ।। ३५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य प्रथमं षडाचार्यब्राह्मणम्
अनुशिष्यापि स नृपं यदा नैच्छद्धनं नृपात् ।।
अननुशिष्टहेतूक्त्या मती राज्ञस्तदाऽभवत् ।। १ ।।
यथोक्ता नानुशिष्टिश्चेत्कीदृक्तदनुशासनम् ।।
संभावितानुशिष्ट्यर्थं तं राजोपससाद ह ।। २ ।।
उपासनानां सर्वेषामैकात्म्यज्ञाननिष्ठता ।।
ब्रह्मविद्याधिकारत्वादित्येतदधुनोत्यते ।। ३ ।।
कूर्चादुत्थाय विधिना तं राजोपससाद ह ।।
भगवन्ननुशाधीति यथेहाभिमतं तव ।। ४ ।।
यथा जिगमिषुः पान्थो रथंं वा नावमेव वा ।।
आददीताऽऽप्तिसिद्ध्यर्थं गन्तव्यस्य तथैव च ।। ५ ।।
यथोक्तोपनिषद्भिस्त्वं संस्कृतात्माऽसि भावितः ।।
एवं वृन्दारकः पूज्य आढ्यो मानुषवित्तवान् ।। ६ ।।
तथैवाधीतवेदश्च युक्तः साधनसंपदा ।।
गतिसाधनवत्त्वाच्च गन्तव्यमनुमीयते ।। ७ ।।
अध्यात्मादिव्यवच्छेदान्मुच्यमान उपासनैः ।।
आविरिञ्चादितो भूप यास्यसि क्वेति भण्यताम् ।। ८ ।।
पप्रच्छ याज्ञवल्क्योऽत इतस्त्वं क गमिष्यसि ।।
सर्वस्यैवाऽऽत्मभूतत्वाद्गन्तव्यं न स पश्यति ।। ९ ।।
ननूक्तोपनिषद्भिर्हि गन्तव्यं प्राक्प्रबोधितम् ।।
देवो भूत्वेति वचसा तत्कस्मादिह पृच्छयते ।। १० ।।
नाहं वेदेति च नृपो जानन्नप्यब्रवीत्कथम् ।।
नैष दोषो यतोऽप्राक्षीद्याज्ञवल्क्यो नराधिपम् ।। ११ ।।
पूर्वभूमेर्मुच्यमान उत्तरां कां गमिष्यसि ।।
देवतोपासनाद्येतज्ज्ञानोत्पत्त्यै विवक्षितम् ।। १२ ।।
उपासनानि सर्वाणि परविद्याधिकारतः ।।
क्रममुक्तिफलानीति क्व गमिष्यसिगीरतः ।। १३ ।।
राज्ञस्तु तदविज्ञानान्नाहं वेदेति युज्यते ।।
अन्ये गतिविवक्षार्थं मुनेः प्रश्नं प्रचक्षते ।। १४ ।।
साक्षाद्ब्रह्मविदप्येष नाऽऽत्माप्तौ गतिविन्नृपः ।।
परमात्मैव गन्तव्यः परमात्मविदा ननु ।।
अथ कः संशयो येन स तेनैवं नियुज्यते ।। १५ ।।
गतिर्न विदिता तस्य तां स तस्मै विवक्षति ।।
एवमर्थमुपोद्धातमेवं स कृतवान्मुनिः ।। १६ ।।
श्रुतौ यद्यपि नैतस्यां श्रूयते गतिचोदना ।।
तथाऽपि गतिरेवेयमुत्तरत्र स्फुटं हि तत् ।। १७ ।।
गतिविज्ञानवैकल्यात्परमात्मविदप्यसौ ।।
न जाने क्व गमिष्यामि कथं वेत्यब्रवीन्नृपः ।। १८ ।।
इति व्याचक्षते केचिन्द्रन्थमेतं महाधियः ।।
श्रुत्यक्षरानुसारेण नायमर्थोऽत्र लभ्यते ।। १९ ।।
ब्रह्मवित्त्वे तु राज्ञोऽस्य मितिं नोपलभामहे ।।
ग्रन्थे नानन्तरे यस्मादात्मज्ञानं समीरितम् ।। २० ।।
गत्यर्थो नापि च प्रश्नः क्व गमिष्यसिलक्षणः ।।
गन्तव्यं पृच्छ्यते यस्मान्न पिपृच्छिषिता गतिः ।। २१ ।।
यत्साक्षादित्युपक्रम्य य आत्मेत्युपसंहृतेः ।।
तदन्यस्य तदात्मत्वाद्ब्रह्मणि स्यात्कथं गतिः ।। २२ ।।
गतिगन्तव्यगन्त्रादेरोतप्रोतात्मवर्त्मना ।।
ब्रह्मात्मनि समाप्तत्वाद्गतिः का परमात्मनि ।। २३ ।।
अब्देशा पृथिवी कृत्स्ना तेजोदेशं तथा जलम् ।।
वायुदेशं तथा तेजो वियद्देशोऽनिलोऽखिलः ।। २४ ।।
स्वार्थदेशः परार्थोऽर्थः स्वप्नदर्शनवद्यतः ।।
आत्ममात्रैकयाथात्म्यान्न मुक्तौ स्याद्गतिस्ततः ।। २५ ।।
ब्रह्मैव सन्नवाप्नोति ब्रह्मोति वचनं स्फुटम् ।।
गन्तृगन्तव्ययोर्भेदे विरुध्येत न संशयः ।। २६ ।।
क्रियाकारकभेदे हि गतिः सर्वत्र दृश्यते ।।
गन्तव्य आत्मनि कुतः क्रियाकारकसंभवः ।। २७ ।।
नैवात्र गतिरस्तीति स्पष्टमागमशासनम् ।।
सर्वमात्मैव ब्रह्मैव तथाच श्रुतिशासनम् ।। २८ ।।
तमोमात्रातिरेकेण व्यवधानान्तरं न च ।।
यस्मादस्ति ततो मुक्तौ नाऽऽत्मनो गतिरिष्यते ।। २९ ।।
अध्यात्मादिपरिच्छेदाद्यथोक्तोपासनाश्रयात् ।।
विमुच्य़मानः केतस्त्वं गमिष्यसि वदाऽऽशु मे ।। ३० ।।
नाहं तद्भगवन्वेद यत्र यास्याम्यतः परम् ।।
देवतावर्त्मना नाहं गन्तव्यं वेद्मि किंचन ।। ३१ ।।
देवतावाप्तिमात्रं हि त्वत्तः प्राक्श्रुतवानहम् ।।
उक्तोपासाफलं नातो गन्तव्यं वेद्मि किंचन ।। ३२ ।।
इत्युक्तवन्तं प्रत्याह तद्वक्ष्यामि तवाधुना ।।
मुच्यमानोऽथ यत्र त्वं गमिष्यसि नराधिप ।। ३३ ।।
अविद्यामात्रविध्वस्तौ यतोऽनाप्तवदाप्यते ।।
गमिष्यसीत्यतो वक्ति स्वास्थ्यं यातो यथा तथा ।। ३४ ।।
अतोऽवगतिरेवात्र गतित्वेन विवक्ष्यते ।।
प्राप्तोऽसीति यतो ज्ञानजन्ममात्रं प्रवक्ष्यति ।। ३५ ।।
इन्धो नामैष पुरुषो दक्षिणेऽक्षणि यः स्थितः ।।
आदित्यान्तर्गतो देवो व्याख्यातायतनादिकः ।। ३६ ।।
इध्यतेऽहर्निशं यस्मादिन्धनामा ततः पुमान् ।।
श्रुत्येह दृष्टोऽतिशयः कश्चित्स्याद्दक्षिणोऽक्षणि ।। ३७ ।।
अङ्गं वा वीर्यवदृष्टं पुंसां प्रायेण दक्षिणम् ।।
दक्षिणाक्षिग्रहस्तस्माद्भोक्तृत्वप्रतिपत्तये ।। ३८ ।।
दक्षिणेऽक्ष्णीन्धनामाऽयंं पुमान्भोक्तेति यं विदुः ।।
इन्धं सन्तं तमात्मानमिन्द्रनाम्ना प्रचक्षते ।। ३९ ।।
प्रत्यक्षनामग्रहणं परिहृत्य परोक्षतः ।।
परोक्षनामग्रहणप्रिया देवा य़तस्ततः ।। ४० ।।
परोक्षनामग्रहणे प्रीयन्ते देवता यतः ।।
तस्मादाचक्षते नाम पारोक्ष्येणैव मानवाः ।। ४१ ।।
मा ज्ञासिष्ट कथं नाम नामतत्त्वं बहिर्जनः ।।
परोक्षनामग्रहणं तेन देवस्य रोचते ।। ४२ ।।
प्रत्यक्षनामग्रहणं प्रद्विषन्ति जगत्यपि ।।
श्रेयांसोऽमुकमिश्रास्त इत्युक्तिं कामयन्ति च ।। ४३ ।।
तस्यैवान्नपतेर्जाया येयं सव्येऽक्ष्णि संस्थिता ।।
भोग्यत्वात्सा विराडुक्ता तद्भोक्ता दक्षिणाक्षिगः ।। ४४ ।।
एकस्यैव हि देवस्य विभागः स्थानदेवतः ।।
अग्नीषोमात्मना श्रुत्या ध्यानार्थमिह भण्यते ।। ४५ ।।
नानयोर्व्यतिरेकोऽस्ति भोक्तृभोग्यात्मनोः क्वचित् ।।
प्रधानगुणभावेन सर्वत्रैते व्यवस्थिते ।। ४६ ।।
तयोः समागमश्चास्मिन्हृद्यन्तस्थे सुषौ मिथः ।।
संस्तुतोऽत्रेति संस्तावो हृद्याकाश इहोच्यते ।। ४७ ।।
ऊर्ग्रसो लोहितस्यात्र पिण्डो यः सोऽन्नमेतयोः ।।
अन्नं दामेति यत्पूर्वं व्याख्यातं शिशुबन्धनम् ।। ४८ ।।
मिथो नाडीशतानद्धं तयोः प्रावरणं तथा ।।
तज्जालकमिवाऽऽभाति बहुच्छिद्रत्वसाम्यतः ।। ४९ ।।
तयोः संचरतोर्मार्गो यैषोर्ध्वा हृदयाद्गता ।।
जाग्रद्देशाप्तये ज्ञेया नाडी स्वप्नाख्यभूमितः ।। ५० ।।
अन्नस्य प्रविवेकार्थं भोक्तुः सौक्ष्म्यार्थमेव च ।।
नाडीनां परिणाहोऽथ सम्यक्श्रुत्येह वर्ण्यते ।। ५१ ।।
नाड्योऽतिसूक्ष्माः पुसोऽस्य व्यवहारप्रसिद्धये ।।
सहस्रभेदसंभिन्नकेशैकाशसमा हिताः ।। ५२ ।।
नोपमेह यतस्तासां सौक्ष्म्ये जगति विद्यते ।।
तस्मात्केशविभागोऽयं नाडीसौक्ष्म्यार्थमुच्यते ।। ५३ ।।
यथा संचरणी नाडी प्रोक्तेयं देवतात्मनोः ।।
देवतानां तथाऽन्यासां नाड्यो ज्ञेयाः सहस्रशः ।। ५४ ।।
शब्दाद्यन्नवहाः सूक्ष्माः श्रोत्रादिकरणाश्रयाः ।।
देवता देवतात्मानं तर्पयन्तीद्द ताः सदा ।। ५५ ।।
अतिसूक्ष्माभिरेताभिर्जग्धमन्न समास्रवत् ।।
देवता आस्रवत्येतद्व्याप्नोत्येतद्यथोदितम् ।। ५६ ।।
सर्वास्वेव हितास्वासु सर्वा अध्यात्मदेवताः ।।
चरन्त्यूर्ग्रसपूर्णासु भोगार्थे पुरुषस्य तु ।। ५७ ।।
स्वचिदाभाससंव्याप्तिः पुंभोगः सुखदुःखयोः ।।
सोऽप्यस्य देवतातन्त्रो देवताश्चान्नसंश्रयाः ।। ५८ ।।
अन्नं नाड्याश्रयं सूक्ष्मं तच्छ्रुत्येहोपवर्ण्यते ।।
एताभिरित्यतो यावच्छारीरादिति चोदना ।। ५९ ।।
प्रविविक्ततरोऽन्नंशस्तर्पयन्प्राणदेवताः ।।
प्राप्नोति लिङ्गमाहारः स तस्येत्यभिधीयते ।। ६० ।।
चीयमानादितो देहाद्रसाद्यन्नेन भौतिकात् ।।
प्रविविक्ततराहारो लिङ्गात्माऽयं पुरोदितात् ।। ६१ ।।
रसादिः प्रविविक्तः स्यात्पुरीषदिव्यपेक्षया ।।
रसादेरपि सूक्ष्मोऽयमाहारो लिङ्गतृप्तिकृत् ।। ६२ ।।
यत एवमतः प्राह तल्लिङ्गं स्थूलदेहतः ।।
प्रविविक्ततराहारं श्रुतिः सूक्ष्मान्नसंस्थितेः ।। ६३ ।।
यतोऽतिसूक्ष्मो लिङ्गात्मा नातोऽयं स्थूलदेहवत् ।।
देहाद्देहान्तरं गच्छन्केनचित्प्रतिहन्यते ।। ६४ ।।
इवेत्यनर्थकं केचिदेवार्थेन विरोधतः ।।
एवार्थस्योपमामन्य इवार्थे चावधारणम् ।। ६५ ।।
लिङ्गाहारादप्यणीयान्यतः प्राज्ञात्मनस्ततः ।।
उपमार्थमिवेत्येतत्पदमत्र प्रयुज्यते ।। ६६ ।।
कदम्बपुष्पवत्सैषा देवता हृदयाश्रया ।।
बहिर्गतासु नाडीषु विषक्ता हृदयादधि ।। ६७ ।।
यथेयं देवता सर्वास्तथाऽन्या अपि देवताः ।।
साधारणत्वात्सर्वासां कारप्यस्य करणस्य च ।। ६८ ।।
तत्रैकस्या यदा कार्यं दृष्ट्यादि स्यादुपस्थितम् ।।
गुणभावं तदा यान्ति सर्वास्तां प्रति देवताः ।। ६९ ।।
नाड्यन्तरेष्वपि तथा सर्वासां संहतत्वतः ।।
एष एव क्रमो ज्ञेयः प्राधान्यगुणभावयोः ।। ७० ।।
एवं च सति यावत्यो नाड्यो हृदयबन्धनाः ।।
संवत्सराश्च तावन्तस्ते प्रजापतयोऽग्नयः ।। ७१ ।।
प्रतिभागं समाप्तत्वात्पूर्वोक्तस्येह वस्तुनः ।।
देवताऽतो यथाऽध्यात्ममधिभूतं तथैव सा ।। ७२ ।।
अधिदैवं च विभ्वीयं द्वैतैकत्वेन विष्ठिता ।।
यथाऽस्य नाड्यः पुंसः स्युरध्यात्मं सर्वतो गताः ।। ७३ ।।
अधिभूतः तथाऽस्यैव वायुमय्यः समन्तगाः ।।
एतस्मादेव निःसृत्य शरीरात्सर्वतो गताः ।। ७४ ।।
अधिभूतात्मनैवायं नाडीलक्षणवर्त्मना ।।
आपूर्येदं जगत्सर्वं स्थित आध्यात्मिकः पुमान् ।। ७५ ।।
नाड्य आध्यात्मिकस्येव ह्यधिदैवात्मनस्तथा ।।
विराजो रश्मयो ज्ञेयाः प्रत्यंशावसितास्तथा ।। ७६ ।।
आध्यात्मिकस्येव पुंसः कृत्स्नाऽध्यात्माधिभूतय़ोः ।।
अनन्तभिन्नकार्येषु समाप्तिर्देवतात्मनः ।। ७७ ।।
आध्यात्मिकं परिच्छेदमुक्तदर्शनवर्त्मना ।।
देवतासूपसंहृत्य विराज्यपि च देवताः ।। ७८ ।।
विराजं चोपसंहृत्य प्राणविज्ञानविग्रहे ।।
हिरण्यगर्भे तं चापि सर्वकारण आत्मनि ।। ७९ ।।
अध्यात्मदेवताः सर्वा हृदि नीत्वाऽऽत्मनस्ततः ।।
हृदयादुक्तनाडीभिः संदध्यात्सूर्यरश्मिभिः ।। ८० ।।
रविहृन्मध्यगं यायात्ततो रश्मिभिरावृतः ।।
हिरण्यगर्भमात्मानं ततस्तत्कारणं बुधः ।। ८१ ।।
वैश्वानरात्तदात्मानं प्राप्तस्य हृदि तैजसम् ।।
हिरण्यगर्भं तं चापि प्राणात्मन्युपसंहरेतु ।। ८२ ।।
प्राणशब्देन चाप्यत्र कारणात्माऽभिधीयते ।।
बीजं कार्यस्य सर्वस्य प्राज्ञश्चेति निरुच्यते ।। ८३ ।।
कार्याणां कारणं मुक्त्वा नान्यत्रास्त्यप्ययो यतः ।।
तस्मात्कारणसंप्राप्त्या यायान्नेतीत्यकारणम् ।। ८४ ।।
साश्रयैः करणैर्हीनो ग्रस्ताध्यात्माधिदैवतः ।।
प्राणात्मा एक एवाऽऽस्ते प्रज्ञानघनविग्रहः ।। ८५ ।।
निर्विभागात्मनस्तस्य प्राञ्चः प्राणाः पुराऽस्य ये ।।
प्राची दिगेव संवृत्तास्तदवच्छेदहानतः ।। ८६ ।।
दक्षिणा दक्षिणे प्राणाः प्रत्यञ्चश्चापि पश्चिमाः ।।
उदीची दिगुदञ्चश्च सर्वे सर्वा दिशस्तथा ।। ८७ ।।
यत्साक्षिकी तमःसिद्धिस्तत्कार्यस्य च लक्ष्यते ।।
तद्भावाभावयोरात्मा न कार्यं नापि कारणम् ।। ८८ ।।
तेनैव ज्ञात्मनाऽशेषं तद्ध्वान्तं ध्वान्तजं तथा ।।
जग्ध्वा नित्यात्मना विद्वान्पूर्णदृष्ट्याऽवशिष्यते ।। ८९ ।।
एष मार्ग उपन्यस्त ऐकात्म्यज्ञानजन्मने ।।
न त्वर्चिरादिवत्तस्य प्राप्तये गतिकल्पना ।। ९० ।।
आत्मत्वादाप्ततत्त्वोऽयं न देशाद्यन्तरायवान् ।।
ज्ञानं मुक्त्वा ततः प्राप्तौ नान्यत्किंचिदपेक्षते ।। ९१ ।।
प्रत्याय्यैवं परात्मानं मुनिराह नराधिपम् ।।
प्राप्तोऽस्यभयमित्येवं भयहेतुविनाशतः ।। ९२ ।।
भयहेतुरविद्यैव सा च दुःस्थितसिद्धिका ।।
प्रागप्यैकात्म्यविज्ञानादविचारितसिद्धिका ।। ९३ ।।
यतोऽतः प्रत्याग्याथात्म्यभास्वद्विज्ञानभास्कर -
प्रसतिमात्रादेवास्या ध्वस्तिरात्यन्तिकी भवेत् ।। ९४ ।।
प्राप्तोऽसीति च निर्देशाज्ज्ञानमेवाऽऽत्मनो गतिः ।।
ज्ञानादन्या गतिश्चेत्स्यात्प्राप्स्यसीत्येव तं वदेत् ।। ९५ ।।
ज्ञानतुल्याममन्वानो दक्षिणां गुरवे नृपः ।।
अभयं त्वामिति प्राह याज्ञवल्क्यं स पार्थिवः ।। ९६ ।।
उचिता दक्षिणैषैव योक्तेहाभयलक्षणा ।।
सम्यग्ज्ञानाख्यदानस्य तदन्या संसृतिर्यतः ।। ९७ ।।
यच्चाभयं वेदयस इति प्रत्यूचिवान्नृपः ।।
तत्तमोध्वस्तितः कार्यं नान्यदस्तीति लिङ्ग्यते ।। ९८ ।।
अभयस्य प्रदातृत्वान्नन्ववाप्ताभयो गुरुः ।।
अभयं त्वामिति कथं राज्ञाऽऽशीस्तं प्रतीर्यते ।। ९९ ।।
इत्यस्य परिहारोक्तिं केचिदाचक्षते बुधाः ।।
शब्दादवाप्तमभयं न तु साक्षाच्चकार तत् ।। १०० ।।
साक्षात्करणसिद्ध्यर्थमतो राजाऽब्रवीन्मुनिम् ।।
अभयं त्वामिति वचस्तद्ध्यस्याप्राप्तमुच्यते ।। १०१ ।।
यदि वा द्विविधो मोक्षो जीवत्येव शरीरके ।।
एकः साक्षात्कृतब्रह्मा मृतेरूर्ध्वं च तल्लयः ।। १०२ ।।
एवं परिजिहीर्षन्ति न तु न्यायोक्तिरीदृशी ।।
प्राप्तोऽसीति मुनेरुक्तेः परिहारो न युज्यते ।। १०३ ।।
तज्ज्ञानमात्रमेवोकत्वा प्राप्तोऽसीति यतोऽवदत् ।।
तत्साक्षात्करणान्नान्यस्तल्लयो वाऽत इष्यते ।। १०४ ।।
शाब्दविज्ञानमात्रेण नाऽऽचार्यत्वे नियुज्यते ।।
श्रोत्रियं ब्रह्मनिष्ठं च गुरुं यायादिति श्रुतेः ।। १०५ ।।
अभयं वेदयसीत्येतन्न चासाश्रात्कृते परे ।।
शाब्दमात्रपरिज्ञाने राज्ञोे युक्तं प्रभाषितुम् ।। १०६ ।।
असाधारणधर्मोत्थं विज्ञानं वस्तुनि प्रमा ।।
शब्दमात्रप्रमोत्थं तु न मानं वस्त्वसंश्रयात् ।। १०७ ।।
साक्षात्कृतैकतत्त्वस्याप्यैकात्म्यप्रलयं प्रति ।।
किं समाशङ्क्यते येन तदाशीः संप्रयुज्यते ।। १०८ ।।
ज्ञानानुरूपामेवातो दक्षिणां दित्सुरब्रवीत् ।।
अभयं त्वामिति नृपो यथोक्तज्ञानलिङ्गनम् ।। १०९ ।।
साक्षाज्ज्ञानातिरेकेण नालमन्यद्विमुक्तये ।।
यथा तथाऽसकृत्पूर्वमवोचाम पदे पदे ।। ११० ।।
भवानप्यहमेवेति यदा साक्षाद्विनिश्चयः ।।
विदेहादि तदा विश्वं त्वत्तः कस्येति कथ्यताम् ।। १११ ।।
ममेव भवतोऽपीदं न च किंचिदसंगतम् ।।
अभावाच्च त्वदन्यस्य सर्वमात्मेति शासनात् । ११२ ।।
अहं ममेत्यविद्याधीः सहेतुर्नाशिता यदा ।।
पूर्णात्मनि तदा दृष्टे कः कस्मै किं प्रदित्सति ।। ११३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य द्वितायं कूर्चब्राह्मणम्
नामरूपादिमत्कार्यं यः प्रविष्टः स्वमोहजम् |
जलार्कवदकृत्स्नत्वमापेदेऽविद्यया परः || १ ||
तदविद्यापनुत्त्यर्थं गार्ग्यकाश्यादिच्छद्मना |
अपूर्वादिस्वभावोऽयं प्रविष्टंः प्रतिपादितः || २ ||
आगमादेमात्मानं प्रतिपाद्याथ तर्कतः|
स एव पञ्चमेऽप्युक्तः साक्षाज्जल्पैकवर्त्मना || ३ ||
वादन्यायेन तस्यैव प्रतिपत्त्यरथेमञ्जसा |
षष्ठे क्रमादुपन्यस्तं जाग्रदादिचतुष्टयम् || ४ ||
इन्धतैजससौषुप्ततुरीयाण्येव मांप्रतम् |
संश्रित्य पूर्व एवार्थ इह साक्षाद्विभाव्यते || ५ ||
विसंवादनिरासेन सद्भावश्चाऽऽत्मनः पुनः |
व्यतिरिक्तत्वशुद्धत्वस्वयंज्योतिष्ट्वनित्यता || ६ ||
स्वतोनतिशयानन्दस्वाभाव्यैकात्म्यनित्यता |
दृष्टिमात्राद्वयत्वं च तर्केण महताऽऽत्मनः || ७ ||
विभाव्यते सुविस्पष्टं वादन्यायेन यत्नतः |
विद्यायाः संप्रदानादिविध्यर्थाऽऽख्यायिकाऽत्र च || ८ ||
याज्ञवसल्क्योऽथ जनकं योगक्षेमार्थमभ्यगात् |
न वदिष्ये नृपेणाहमिति बद्ध्वा व्रतं किल || ९ ||
संवदिष्ये नृपेणाहमिति वा तं जगाम सः |
समित्यस्याभिसंबन्धादेनेनेत्येवमुच्यते || १० ||
अविवक्षुरपि प्राह यत्पृष्टं जनकेन सः |
तत्र हेत्वभिधानार्थं वरदानं श्रुतिर्जगौ || ११ ||
एनेन संवदिष्येऽहमिति व्याख्यायते यदा|
तदाऽऽख्यायिकया हेतुस्तयोः संवाद इष्यते || १२ ||
राजैव पूर्वं पप्रच्छेत्येतस्माद्नम्यते शुभा |
लिङ्गाद्व्याख्योत्तरा पूर्वा न साध्वीत्यप्रमाणतः || १३ ||
न वदिष्येऽहमित्यत्र व्रते हेतुर्न वीक्ष्यते |
यतोऽसंतोषतस्तस्मात्कृता व्याख्योत्तरा शुभा || १४ ||
नाप्राक्षीत्तत्र यद्राजा वरदानादनन्तरम्|
प्रश्नानुक्तिर्विरुद्धत्वाद्विद्यायाः कर्मभिः सह || १५ ||
स्वोत्पत्तावेव विद्येवं हेत्वन्तरमपेक्षते |
प्रत्यगात्मतमोध्वस्तौ नासावन्यदपेक्षते || १६ ||
स्वरूपलाभमात्रेण यतोऽविद्यां निहन्त्यतः|
प्रयोगमपि विद्येयं नोपरुध्यति दात्रवत् || १७ ||
व्यवहर्तुमशक्तोऽयं देहो मृत्पिण्डंवत्स्वयम्|
परतन्त्रव्यवहृतिः स्वतोजाड्यस्वभावतः || १८ ||
पृथिव्याद्याध्यवस्यायं स्वयज्योतिरनुग्रहान् |
कर्माऽऽसनादि कुरुते तस्माच्च फ़लसंगतिः || १९ ||
त एवमतोऽप्राक्षीद्याज्ञवल्क्यं नराधिपः |
किंज्योतिरयमित्येवं प्रत्यग्ज्योतिर्बुभुत्सया || २० ||
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति || आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य || २ ||
करणानि च देहश्च पुरुषोऽत्र विवक्षितः |
आसनादिक्रियाकारी पीठक्षेत्रादि कर्म च || २१ ||
किं स्वावयवसंघातभिन्नजात्यतिरेकिणा |
ज्योतिषा व्यवहार्येषोऽसंहतेन पुमानिति || २२ ||
किंवा ताद्विपरीतेन ज्योतिषेत्यभिधीयताम् |
किंचातो यदि नामैवं शृण्वतो यत्प्रसिध्यति || २३ ||
तयोः पूर्वोक्तरूपेण ज्योतिषाऽनुग्रहो यदि |
अप्रव्यक्षेऽपि तस्मिंस्तत्पुंस्क्रियालिङ्गदर्शनात् || २४ ||
अनुमास्यामहे ज्योतिस्तादृगेव तदा वयम् |
अथ तद्विपरीतेन संगतिर्ज्योतिषेक्ष्यते || २५ ||
तथाभूतं तदा ज्योतिरनुमास्यमाहे वयम्|
अथोभयात्मताऽदृष्टा तदाऽपि स्यादनिश्चितिः || २६ ||
इत्येतदभिसंधाय पप्रच्छ जनको मुनिम् |
स च पृष्टो यथाप्रश्नं प्रत्युत्तरमभाषत || २७ ||
नन्वेवं कौशले राज्ञः किमर्थं पृष्टवान्मुतिम् |
स्वयमेवानुमायेदृग्ज्योतिः किं न प्रपद्यते || २८ ||
सत्यमेवं तथाऽप्येष नृपः पप्रच्छ तं मुनिम्|
लिङ्गलिङ्ग्यभिसंबन्धदुर्ज्ञेयत्वात्सुसूक्ष्मतः || २९ ||
बहूनामपि संमोहो लिङ्गादिषु समीक्ष्यते |
किमुतैकस्य वक्तव्यं पर्यपृच्छदतो नृपः || ३० ||
सूक्ष्मधर्मविवेकार्थमत एवाब्रवीन्मनुः |
दशावरा पर्षदिति ह्यपेक्षन्ते च सद्धियः || ३१ ||
याज्ञवल्क्यादिरूपेण श्रुतिरेवाथवा स्वयम् |
अनुमावर्त्मना ज्योतिः साक्षान्नः प्रत्यपीपदत् || ३२ ||
नृपाभिप्रायवित्प्राह याज्ञवल्क्योऽपि तं नृपम् |
यथोक्तज्योतिषः सिद्धावादित्याज्योतिरित्ययम् || ३३ ||
देहावयवसंघातजातिसंस्थानतात्क्रिया -
देशाद्यत्यन्तसंभिन्नतद्विलक्षणभास्वर -
स्वप्रतिष्ठैकभान्वाख्यज्योतिषैव पुमानयम् |
आस्ते पल्ययते कर्म कृत्वा भूयो निवर्तते || ३४ || ३५ ||
मध्ये जडस्वभावोऽयं ज्योतिषोर्वर्तते पुमान् |
बुद्ध्यादिविषयान्तो हि प्रत्यक्चैतन्यबिम्बितः || ३६ ||
प्रत्यगेकस्वयंज्योतिःस्थिरासंहतनिष्क्रिय-
तद्विरुद्धरवीन्द्वादिज्योतिषोर्मोहहेतुकः || ३७ ||
मातृमानप्रमेयात्मा कर्तृसाधनकार्यवान् |
अशनायादिसंसारधर्मापायागमात्मकः || ३८ ||
तद्विरुद्धात्मकेनैव ज्योतिषोद्दीपितेक्षणः |
आदित्येन स दैवाऽस्ते यात्यायातिकरोति च || ३९ ||
आदित्यात्परमेवेति नाऽऽदित्यस्यावधारणे |
पिण्डप्राणादिधर्मेभ्यो वैधर्म्यावधृतौ यतः || ४० ||
आदित्त्यावधृतिश्चेत्स्यान्नेन्गद्वादेः स्यादनुग्रहः |
तस्मात्पिण्डादिवैधर्म्यमेवेतीहावघार्यते || ४१ ||
नृपस्त्वेवेतिसंश्लेषादादित्यस्यावधारणम् | मत्वाऽस्तमित इत्येवं मुहुर्विप्रचूचुवदत् || ४२ ||
आत्मैव ज्योतिरथवा रविसोमाग्न्युपाधिगम् |
अवध्रियत एवेति तमेव इति च श्रुतेः || ४३ ||
रवीन्द्वादिपदार्थेभ्यो ह्यनुमानैकवर्त्मना |
स्वार्थं विज्ञापयिष्यामि विभज्यातः परा श्रुतिः || ४४ ||
ज्योतिषोऽत्यन्तवैधर्म्यप्रसिद्ध्यर्थं विशेषणम् |
आस्त इत्यादि सुबहु श्रुत्योपन्यस्तमादरात् || ४५ ||
भूयसां चाप्युपन्यासो बाह्यानां ज्योतिषामिह |
लिङ्गस्याव्यभिचारार्थं बुद्धिवाक्कायकर्मणः || ४६ ||
आदित्येनैव चेत्पुंसोऽनुग्रहो भवतोच्यते |
तस्मिन्नस्तंगते पुंस आसनादिः कुतो भवेत् || ४७ ||
चन्द्रमा एव पुंसोऽस्य तदा ज्योतिरनुग्रहे |
तस्याप्यस्तमयेऽग्निः स्यादासनादिप्रवृत्तये || ४८ ||
आदित्यादित्रयं ज्ञेयं ज्योतिषामुपलक्षणम् |
मण्यादीनां प्रवृत्तिर्हि पुंसां तैरपि दृश्यते || ४९ ||
तेष्वप्यस्तमितेष्वस्य पुंसो वाग्ज्योतिरिष्यताम् |
वाक्च शब्दोऽत्र विज्ञेयो ज्योतिष्कार्यसमन्वयात् || ५० ||
स्पर्शादिविषयाणां वागिह स्यादुपलक्षणम् |
यतः स्पर्शादिनाऽप्येषां प्रवृतिर्दृश्यते नृणाम् || ५१ ||
बाह्यादित्यादिज्योतिर्भिः पुमान्संदीपितेन्द्रियः |
प्रत्यक्चैतन्यसंदीप्तः सर्वाश्चेष्टाः प्रपद्यते || ५२ ||
सर्वेष्वेतेषु शान्तेषु ज्योतिःषूक्तेषु कर्मणे |
पुमान्किंज्योतिरेवायं तमस्यन्धेऽभिधीयताम् || ५३ ||
सर्वचेष्टानिरोधोऽस्य पुंसः प्राप्तस्तदाऽसति |
यथोक्तज्योतिषि ततो न स्युश्चेष्टा यथोदिताः || ५४ ||
स्मृतिस्वप्नसमाधाने पुरुषस्य समीक्ष्यते |
चेष्टाऽतः पूर्ववत्तस्य ज्योतिस्तत्रानुमीयते || ५५ ||
बोद्धुः कर्तुश्च पुंसोऽस्य प्रवृत्तिर्येह काचन |
यथोक्तज्योतिर्विरहे नासौ दृष्टा कदाचन || ५६ ||
भान्वाद्युद्दीपिताक्षः सन्प्रमात्रादिः प्रसिध्यति |
ततः कर्त्रादिसंसिद्धिः प्रमाकर्मफ़लं ततः || ५७ ||
कूटस्थानित्ययोर्भासोर्मध्यवर्ती पुमानयम् |
वाङ्भनःकायकर्माणि सर्वदैव प्रपद्यते || ५८ ||
ध्वान्तादिविषयान्तोऽर्थो जडत्वान्नाऽऽत्मसिद्धिकृत् |
आत्मज्योतिरभावेऽतो नाभावमपि विन्दति || ५९ ||
आगमापायिज्योतिर्भिर्धर्माधर्मनिबन्धना |
संगतिः पुरुषस्यास्य निर्हेतुः प्रत्यगात्मना || ६० ||
कुम्भस्य वियता यद्वन्निर्हेतुः संगतिः सदा || |
विनश्वरी सहेतुश्च जलक्षीरादिसंगतिः || ६१ ||
यथोहासंहतान्येव भान्वादीनि प्रकुर्वते |
अनुग्राह्येण पुंसेह सर्वदाऽनुग्रहं मुहुः || ६२ ||
अकारकात्मकान्येव पुंसः कारकरूपिणः |
नाकृत्वा तानि कुर्वन्ति प्रकाशं गतिवद्यतः || ६३ ||
व्यञ्जकानां हि सर्वेषां न स्वरूपातिरेकतः |
व्यङ्ग्येष्वतिशयो दृष्टस्तिष्ठतो नु गतिर्यथा || ६४ ||
आत्मज्योतिस्तथैवेदं सदानस्तमितोदितम् |
भान्वादिष्वपि सर्वेषु तदेव प्राग्विवक्षितम् || ६५ ||
पुंस्प्रवृत्तिरियं लिङ्गं यथोक्तज्योतिषो भवेत् |
सर्वत्राव्यभिचारित्वात्तथा स्वप्नादिभूग्निषु || ६६ ||
जाग्रत्काले नारस्यास्य भान्वादिज्योतिषा यदा |
चक्षुराद्यनुगृह्येत स्फ़ुटा व्यवहृतिस्तदा || ६७ ||
विभिन्नासंहतज्योतिरनुग्रहपुरः सरः |
पुंव्यापारः सदक्षेत्थप्रमाणप्रमितः स्फ़ुटः || ६८ ||
लिङ्गलिङ्ग्यभिसंबन्धो यस्मादेवं मितस्ततः || |
सर्वज्योतिरभावेऽपि तादृगेवानुमीयते || ६९ ||
ज्योतिर्जागरिते यद्वद्रवीन्द्वादि समीक्ष्यते |
नरव्यापारलिङ्गेन धूमाग्निवदसंशयम् || ७० ||
लिङ्गात्सामान्यतो ज्ञाते विशेषेणाप्यनीक्षिते |
भान्वादिवदतो राजा भूयः पप्रच्छ तं गुरुम् || ७१ ||
शान्तेषु सर्वज्योतिःषु पूर्वोक्तेष्वस्य देहिनः |
क्रिज्योतिरिति मे ब्रूहि पुंव्यापारानुभूतितः || ७२ ||
सर्वज्योतिरुपरतौ भूरिव्यापारकारणम् |
स्वयंज्योतिष्कमपि तं राजा पप्रच्छ मोहतः || ७३ ||
यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् |
तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् || ७४ ||
स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं निरात्मिका |
अविचारितसंसिद्धिरविद्या लिङ्गते कथम् || ७५ ||
निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा |
पूर्णस्यानात्मना योगो वास्तवो नोपपद्यते || ७६ ||
सर्वज्योतिरुपरमे किंज्योतिरिति चोदिते |
आत्मैवास्येति जनकं याज्ञवल्क्योऽप्युवाच ह || ७७ ||
आत्मप्रत्यय आत्मैको द्वीतीयः पुनरात्मनः |
अनात्मप्रत्ययोऽतोऽहं स्वत एवास्मि केवलः || ७८ ||
न सामान्यं विशेषं वा प्रत्यग्धीरवगाहते |
तद्यायथात्म्यात्प्रतीचोऽतः सम्यग्दृष्ट्या न वीक्ष्यते || ७९ ||
नाविद्याघस्मरैकात्म्यसम्यग्दृष्ट्या समीक्ष्यते |
आत्माविद्या तदुत्थो वा बाध्यत्वाद्रज्जुसर्पवत् || ८० ||
आध्यात्मिकस्य नेत्रादेर्बाह्यज्योतिरसंगतौ |
तद्दूरेण प्रकाशोऽयं न मनस्युपजायते || ८१ ||
भान्वाद्यनुग्रहाभावे तस्मादेष पुमानिह |
प्राप्तोऽद्रष्टा तथाऽश्रोता स्मृतिस्वप्नादिभूमिषु || ८२ ||
मनसैवेक्षते यस्मात्सर्वानिन्द्रियगोचरान् |
तदभावे पुमानेष किंज्योतिरिति कथ्यताम् || ८३ ||
आत्मैवास्य तदा ज्योतिर्भवतीत्यभ्यधादृषिः |
आत्मनैव तदा चेष्टां ज्योतिषा संप्रपद्यते || ८४ ||
प्रत्यक्षाद्युपलब्धौ यो बुद्धौ संस्कार आहितः |
कर्मणोद्भावितः सोऽयं स्मृतिरूपेण जायते || ८५ ||
आत्मा स्वाभाससचिवो धियमिच्छादिरूपिणीम् |
अनुगृह्णाति कर्मोत्थां प्रत्यगज्ञानकारणात् || ८६ ||
यथा प्रकाशयत्येकः कृत्स्रं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति तथा स्मृतिः || ८७ ||
नानासंस्कारसंसर्गिप्रत्यगज्ञानमेव तत् |
बुद्ध्यादिस्मृतिरूपेण प्रथते कर्मणो वशात || ८८ ||
भान्वादिवदतो बुद्धिं स्वाभासैकसहायवान् |
अनुगृह्णाति कूटस्थः स्वात्माविद्यानुरोधतः || ८९ ||
अनुग्राह्याभिसंबन्ध एकजातिसमन्वयात् |
आदित्यादेरिहावाप्तिरात्मनोऽज्ञनवर्त्मना || ९० ||
चिदाभाविद्ययैवाऽऽत्मा कूटस्थोऽप्येति साक्षिताम् |
आगमापायिरूपेषु स्थितोऽनेकेषु चैकलः || ९१ ||
दृश्यार्थवदभिन्नोऽयं द्रष्टृदर्शनसाक्ष्यपि |
द्रष्टृदर्शनभेदेऽपि न भेदोऽस्य मनागपि || ९२ ||
कारणान्वयवद्बुद्धेश्चिदाभासोऽपि सर्वदा |
चिदाभासातिरेकेण बुद्धेः परिणतिर्वृथा || ९३ ||
विषयः प्रत्यगात्मा च स्वाभासेन विशेद्धियम् |
स्वाभासवत्स्वयं साक्षाद्वियत्कुम्भादिगं यथा || ९४ ||
योऽप्यविद्यादिसंबन्धः सोऽप्यविद्याप्रकल्पितः |
वास्तवस्त्वभिसंबन्धो नोपपत्त्याऽऽत्मनो यतः || ९५ ||
यथा ज्ञानप्रकाशाभ्यां संप्लुतावेव नान्यथा |
कुम्भादेः कर्मयोग्यत्वं स्यादेवं धिषणादिषु || ९६ ||
चिद्बाह्याकृतिसंबन्धे कर्मणेऽलं भवेन्मतिः |
तयोर्भिन्नाश्रयत्वे तु दुःख्यस्मीति न सिध्यति || ९७ ||
कौटस्थ्याद्विक्रियाभावान्निश्चित्कत्वाद्विकारिणः |
आत्मनः स्यादिदं विश्वमन्धकारप्रनृत्तवत् || ९८ ||
घटाद्याभासवत्तस्मान्मोहादेरभ्युपेयताम् |
चिदाभासोऽपि सर्वत्र न वेद्मीत्युनुभूतितः || ९९ ||
एषोऽस्यानुग्रहः श्रुत्या प्रतीचोऽत्र विवक्षितः |
भान्वनुग्रहवत्पुंस आसनादिप्रसिद्धये || १०० ||
आत्मेति प्राणपिण्डादितदंशसमुदायतः |
तज्जात्याकृतिसंबन्धगुणकर्मविलक्षणः || १०१ ||
तत्सतत्त्वं तदात्मत्वादज्ञानाद्यवभासयत् |
ज्योतिरेकात्मकं नित्यमसाधारणमानगम् || १०२ ||
तदन्यस्य जडत्वाच्च नान्यप्रत्यक्षमिष्यते |
तथाऽनतिशयत्वात्स्यान्न पुमन्तरगोचरः || १०३ ||
शब्दादिगुणहीनत्वात्प्रत्यक्त्वासंहतत्वतः |
दृष्टिमात्रस्वभावाच्च नाऽऽत्मा दर्शनमर्हति || १०४ ||
देशान्तराद्यसंबन्धान्मोहाद्याव्यवधानतः |
न च मोहादिवत्प्रत्यक्तथा दर्शनमर्हति || १०५ ||
नाऽऽदित्यादिसजातीयमात्मज्योतिरितीष्यताम् |
तन्मानानवगम्यत्वादादित्यादेश्च तद्गहात् || १०६ ||
अनुग्राह्यसजातीयं यच्च ज्योतिरिहेष्यते |
तच्चक्षुरादिकरणग्राह्यं दृष्टं घटादिवत् || १०७ ||
न चाप्रमेयमिति तच्छशशृङ्गादिवन्मतम् |
तदनन्यमिति व्याप्तेः प्रत्यकत्वाद्दिनकृद्यथा || १०८ ||
प्रत्यक्षमानगम्यत्वं विषाणस्यावधारितम् |
स्वभावस्तमृते शृङ्गं स्वभावमतिवर्तते || १०९ ||
मानपादोपजीवित्वं स्वभावोऽनात्मवस्तुनः |
मात्रादिसिद्धिदस्यैष स्वतःसिद्धेर्न सर्वदा || ११० ||
अस्तं यातेषु सर्वेषु ज्योतिःषूक्तेषु वासनाः |
ज्योतिः प्रत्यक्स्वयं दृष्टमासनाद्याः प्रकाशयेत् || १११ ||
एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु यः |
यातेष्वस्तं दृशैवाऽऽस्ते भासयंश्चित्तचेष्टितम् || ११२ ||
आत्मप्रत्ययमामेयः सर्वेषामपि देहेनाम् |
यतोऽतोऽनात्मयोगोऽस्य न मानादवसीयते || ११३ ||
न चेदात्मेतिधीमानात्प्रतीचोन्योऽर्थ ईक्ष्यते |
प्रमान्तराविरोधेन य आत्मेत्युपपद्यते || ११४ ||
आत्मा ब्रह्मेति वाक्येभ्यस्तथाचेदंल प्रतीयते |
प्रत्यक्षाद्यानवष्टब्धमैकात्म्यं बाधवर्जितम् || ११५ ||
ननु देहाद्यभिन्नत्वादात्मनो मुक्तता कुतः |
प्रत्यक्षेण विरुद्धत्वादैकात्म्यं चापि न श्रुतेः || ११६ ||
तथा हि क्षितितोयाग्निमरुतां योगजं मतम् |
प्रत्येकं शक्त्यभावेऽपि चैतन्यं मदशक्तिवत् || ११७ ||
अहं मनुष्य इत्येवं सामानाधिकरण्यतः |
प्रत्यक्षबुद्धिर्देहेऽस्मिञ्जायते कृष्णसर्पवत् || ११८ ||
न चाहंबुद्धिगम्योऽर्थो दृष्टो देहातिरेकतः |
सर्पादेरिव कार्ष्ण्यादिर्देहधर्मस्ततश्चितिः || ११९ ||
ननु युक्ता पराग्भूते प्रमातुर्व्यतिरेकतः |
सर्पादौ धर्मसंबन्धप्रमा नाऽऽत्मन्यभेदतः || १२० ||
जडस्वभावतश्चापि कार्ष्ण्यादेर्धर्मतेष्यते |
स्वसंविदितमात्रत्वान्न त्वेवंरूपता चितेः || १२१ ||
यथैकबुद्धिनिर्ग्राह्यं द्रव्येणेह विशेषणम् |
नैवं चित्काययोः सिद्धिश्चिच्छक्त्यविषयत्वतः || १२२ ||
नैवं येनैव मानेन सत्ता संविद ईक्ष्यते |
तेनैव धर्मता तस्याः कार्ष्ण्यादेरिव मीयते || १२३ ||
ननु देह इदंबुद्धिर्घटादाविव जायते |
प्रत्यग्बुद्धिस्त्वहंभागे नानयोर्धर्मधर्मिता || १२४ ||
यथैव पारिहार्यादि हेमैकद्रव्यनिष्ठितम् |
अलब्धात्मकमन्यत्र लब्धात्मकमिवेक्ष्यते || १२५ ||
तथैव वस्तुस्वाभाव्याच्चिच्छक्तिर्भूतनिष्ठिता |
अहमित्यादिबुद्धीनां व्यवहाराय कल्पते || १२६ ||
चैतन्यं देहधर्मश्चेन्मृतावविकलस्य तत् |
कस्मान्न गम्यते साक्षाज्जीवद्देहगतं यथा || १२७ ||
नैष दोषश्चतुर्णां हि भूतानां संहतिस्तनुः |
ततो वायावपक्रान्ते चैतन्यमपि नश्यति || १२८ ||
स्वप्नदेहादिसंबन्धिप्रत्यभिज्ञाबलान्ननु |
व्यतिरेकश्चितेः सिद्धो भूतेभ्यो जाग्रतोऽप्यतः || १२९ ||
देहान्तरविनिर्माणं जाग्रच्चैतन्यवद्ध्रुवम् |
करोति भूतसंधातः स्वप्ने बालयुवादिवत् || १३० ||
न चात्र प्रत्यभिज्ञाऽस्ति मिथ्यापरिणतेस्तव |
नैव बाल्यादिवद्यस्मात् स्वप्ने देहः प्रतीयते || १३१ ||
जातिस्मरणदृष्टान्तादात्मा नित्यो मतो यदि |
व्रणं पूर्वकृतं दृष्ट्वा देहः किं नोच्यते ध्रुवः || १३२ ||
प्रत्यभिज्ञानतस्तत्र ध्रौव्यं चेदात्मनो मतम् |
स्वप्नात्मप्रत्यभिज्ञेयं मृषार्था साऽपि पूर्ववत् || १३३ ||
सशल्यदेहशायीनि भूतान्येव तथाविधम् |
देहान्तरं करिष्यन्ति प्रत्यभिज्ञा यदीष्यते || १३४ ||
तान्येवैतानि भूतानीत्येवं यद्वत्प्रजायते |
प्रत्यभिज्ञा स एवाहमिति यद्वद्भवेन्न किम् || १३५ ||
यच्चैतदात्मज्योतिष्ट्वं व्यतिरिक्ततयोदितम् |
आदित्यादिलयेनेह भौतिकं त्वेव तद्भवेत् || १३६ ||
उपकारि सजातीयमुपकार्यस्य वस्तुनः |
जगत्यस्मिन्यतो दृष्टमादित्यश्चक्षुषोर्यथा || १३७ ||
शब्दादिभिर्हि घ्राणादेर्नोपकारः समीक्ष्यते |
विजातीयैरतो ज्योतिर्भूतजातीयमिष्यताम् || १३८ ||
भौतिकस्यैव कुम्भादेर्भौतिकैरेव वीक्ष्यते |
उपकारो जगत्यस्मिन्नादित्याद्यैर्यथा तथा || १३९ ||
देहादेर्यदि नामेदं ज्योतिरर्थान्तरं मतम् |
तथाऽपि नासजातीयं व्यञ्जकत्वात्प्रदीपवत् || १४० ||
ननु देहासजातीयमन्तस्थातीन्द्रियत्वतः |
यद्यद्देहसजातीयं ज्योतिर्दृष्टं तदिन्द्रियैः || १४१ ||
मैवं नैकान्तिको हेतुश्चक्षुरादीन्द्रियैः स्फ़ुटम् |
अन्तस्थानि यतोऽक्षाणि प्रत्यक्षाणि न चाऽऽत्मवत् || १४२ ||
आदित्यादिसजातीयमात्मज्योतिरतीन्द्रियम् |
अन्तस्थातीन्द्रियत्वाभ्यां चक्षुरादीन्द्रियं यथा || १४३ ||
विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता |
इत्यादिदोषदुष्टत्वान्न च नोऽनुमितिः प्रमा || १४४ ||
अनुमानबलेनैव देहादिव्यतिरेकतः |
प्रत्यगात्मा स्वयंज्योतिः साध्यते तच्च नानुमा || १४५ ||
प्रत्यक्षैकप्रमाणेन देहे चिद्धर्मकेऽञ्जसा |
गृह्यमाणेऽनुमानेन न तच्छक्यं प्रबाधितुम् || १४६ ||
दर्शनादिक्रियां कुर्वन्सर्वदाऽव्यभिचारतः |
प्रत्यक्षेणैव दृष्टोऽयं देहो नातस्ततोऽपरः || १४७ ||
दर्शनादिक्रियाकारी देहश्चेदभ्युपेयते |
कस्मादविकलस्यैव दृष्ट्यादिर्न तथेक्ष्यते || १४८ ||
नैष दोषो भवेदत्र प्रत्यक्षप्रमितत्वतः |
न हि दृष्टं समुल्लङ्घ्य ततोऽन्यद्वलवन्मतम् || १४९ ||
भास्वराभास्वरत्वं च प्रत्यक्षेणैव वीक्ष्यते |
खद्योतस्यानुमानेन न हेत्वन्तरकल्पनम् || १५० ||
हेत्वन्तरेऽनुमेये च किंचित्सामान्यगन्धतः |
सर्वं सर्वस्य लिङ्गं स्यात्तच्चानिष्टं प्रसज्यते || १५१ ||
न च नास्ति पदार्थानां लोकेऽसाधारणः कचित् |
स्वभावोऽग्न्यादिकानां हि नोष्णत्वाद्यन्वहेतुतः || १५२ ||
प्राणिधर्माद्यपेक्षं चेदुष्णत्वादि हविर्भुजः |
नैवं तत्रापि दोषस्य प्रसक्तेरनिवृत्तितः || १५३ ||
तदप्यस्त्विति चेन्मैवं धर्मादेरप्रसिद्धितः |
धर्माभ्युपगमे दोषो ह्यनवस्था प्रसज्यते || १५४ ||
न चानवस्थया सिद्धिरभिप्रेतस्य वस्तुनः |
तदलं क्षितितोयाग्निमरुतां परिणामजे |
चेतोवत्यक्षसंवेद्ये कष्टकल्पनयाऽनया || १५५ ||
सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः |
यदभ्युपगमादेव तत्सिद्धिर्वार्यते कुतः || १५६ ||
प्रत्यक्षेण विरुद्धत्वं न तावदुपपद्यते |
विषयाभावतस्तस्य प्रामाण्यं दुर्लभं यतः || १५७ ||
सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् |
अज्ञातार्थाधिगमनं त्वदुक्ते तन्न युज्यते || १५८ ||
प्राक्प्रमाणसमुत्पत्तेर्देहादेर्विषयस्य ते |
प्रमाणहेतोः केन स्यादज्ञातत्वमितीर्यताम् || १५९ ||
स्वतः सिद्धोऽथवाऽसिद्धो देहादिस्ते भवन्भवेत् |
प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते || १६० ||
प्रमाणान्यन्तरेणापि देहादिश्चेत्प्रसिध्यति |
वद प्रमाणैः को न्वर्थो न हि सिद्धस्य साधनम् || १६१ ||
स्वतोऽसिद्धेऽप्रमेये च नासतो व्यञ्जिका प्रमा |
नाभिव्यनक्ति सविता खरशृङ्गं स्फ़ुरन्नपि || १६२ ||
प्रमाणव्यतिरेकेण नाप्यसत्त्वं प्रसिध्यति |
सत्त्ववन्नापि चाभेदे मानमेयौ प्रसिध्यतः || १६३ ||
यदि मानातिरिक्तार्थोऽमितः संभाव्यते तदा |
तं बोधयद्भवेन्मानं न तु तत्कुर्वदिष्यते || १६४ ||
अबुद्धबोधनं मुक्त्वा नान्यत्कार्यं क्वचिद्यतः |
सत्त्वं वा यदि वाऽसत्त्वं नातो मेये प्रमाणतः || १६५ ||
मानव्यापारतः पूर्वं सिद्धामेवावबोधयत् |
शुक्तिकां मानतां याति, नासिद्धं रजतादिकम् || १६६ ||
शुक्तौ रजतविज्ञानाच्छुक्तिवन्नामितं यतः |
रजतं विद्यते किंचिद्विज्ञातं चाऽऽत्मवस्तुवत् || १६७ ||
नातिरेकान्वयाभ्यां यद्वस्तु संभाव्यते कथम् |
तत्प्रति स्यात्प्रमाणत्वं शुक्तिकारजते यथा || १६८ ||
किं मानसंगतेरर्थे जातेयमवबुद्धता |
किंवा प्रागपि संबन्धाद्बुद्धोऽर्थोऽभून्न मानतः || १६९ ||
बोधात्मकत्वं च मितेः किमासीन्मेयसंगतेः |
प्राग्वा मेयाभिसंबन्धान्मितेर्बोधात्मता भवेत् || १७० ||
नार्थानधिगतत्वं च प्रमाणेभ्यः प्रसिध्यति |
रूपानधिगतत्वं नो न श्रोत्रादेः प्रमाणतः || १७१ ||
मानव्यापारतश्चेत्स्यान्मेयानधिगातिस्तदा |
तद्व्यापारात्पुरा मेयः स्यात्स्वतोधिगतात्मकः || १७२ ||
यत एवमतोऽवश्यं प्रमाणव्यापृतेः पुरा |
मेयोऽनधिगतः सिद्धो ह्यभ्युपेयोऽवबुद्धवत् || १७३ ||
न चानाहितसन्मानस्वतश्चिन्मात्रविग्रहात् |
प्रत्वगैकात्म्यतोऽन्यत्र यथोक्तां धुरमुद्वहेत् || १७४ ||
न ह्यज्ञाते यथा ज्ञाते विशेषणविशेष्यता |
ततश्च नैतत्संसिध्येदज्ञानादि प्रमाणतः || १७५ ||
प्रमाणाच्चानधिगतौ तन्निवृत्तिः कुतो भवेत् |
न दाहज्वरनुत्त्यर्थमग्निना स्याद्भिषक्क्रिया || १७६ ||
साक्ष्यमातृप्रमारूपं मानभूमौ यथेक्ष्यते |
नाज्ञातेऽनुभवादेषां कश्चिदन्यस्तथेक्ष्यते || १७७ ||
प्रमाणव्यापृतेरूर्ध्वं ज्ञाताज्ञातटूयं मिथः |
संधत्तेऽनुभवेनैव न तदन्येन केनचित् || १७८ ||
यदि नाम न मानानि व्याप्रियन्ते विनिश्चितेः |
प्राक्तथाऽप्यपलापोऽस्या नानुभूतेर्घटादिवत् || १७९ ||
एवं सिद्धेऽप्यनुभवे स्वमहिम्ना पुरा मितेः |
प्रमाणोत्पत्तिरन्वेष्यै प्रत्यग्ध्वान्तापनुत्तये || १८० ||
अवबुद्धस्वभावोऽपि सहतेऽनवबुद्धताम् |
वस्तुत्वान्न तमो हन्ति तथाऽपि प्रमितिं विना || १८१ ||
प्रमाणफ़लकारूढं स्वतमो हन्ति नान्यथा |
वस्तु मेयाभिसंबद्धं मानं तद्वत्तमोपनुत् || १८२ ||
प्रत्यक्षमानसिद्ध्यर्थं तस्मात्प्रत्यक्षवादिना |
प्राङ्भानादभ्युपेयोऽर्थो थोऽज्ञातत्वादिसिद्धिकृत् || १८३ ||
वागादिव्यापृतेः कर्ता शब्दादिगुणलाञ्छितः |
प्रत्यक्षो गम्यते मात्रा प्रतीचोऽत्यन्तभेदतः || १८४ ||
श्रोत्रादिव्यापृतो माता दुःखादिगुणवान्पराङ् |
कर्तेवानुभवेनैव प्रतीचा गम्यतेऽञ्जसा || १८५ ||
अनन्यानुभवः प्रत्यङ्न प्रमात्रादिगोचरः |
यतोऽपहतपाप्मादि युक्तं स्यात्तद्विशेषणम् || १८६ ||
लोकायतस्य बोद्धस्य कणभोज्याक्षपादयोः |
प्रत्यक्षेणैव मानेन विमुखीकरणं कृतम् || १८७ ||
प्रमाणफ़लयोर्भेदस्तथा मानप्रमेययोः |
स्वतःकूटस्थचित्सिद्धिरैकात्म्यं चानुभूतितः || १८८ ||
प्रत्यक्षं मानमेवेदमिति यस्मात्प्रसिध्यति |
प्रत्यक्षदृक्स्वयंज्योतिस्तदात्मेत्यभ्युपेयताम् || १८९ ||
मेयादींस्तभावं च संशयानृतनिश्चयान् |
विविच्य योऽनुगृह्णाति शब्ददींश्च जडान्पृथक् || १९० ||
देहेन्द्रियमनोबुद्धीः सुखादींश्च घटादिवत् |
तमेकमन्तरात्मानमप्रत्यक्षं प्रपश्य भोः || १९१ ||
द्रष्टृदर्शनदृश्यांश्च यः स्वप्ने प्रसमीक्षते |
तदभावं सुषुप्ते च स आत्मेत्यभ्युपेयताम् || १९२ ||
चक्षुरादीन्द्रियाणां च न च स्वप्नेऽस्ति संभवः |
सुषुप्ते चानुभूतिस्तु तयोरव्यभिचारिणी || १९३ ||
प्रमाणं मेयविषयं तत्फ़लं मातृसंश्रयम् |
यत्साक्षिकं द्वयं सिध्येत्स आत्मेत्यभ्युपेयताम् || १९४ ||
मानस्य हि फ़लं यत्र न तन्मानस्य गोचरः |
तस्य मेयैकनिष्ठत्वात्फ़लं तु स्यात्प्रमातरि || १९५ ||
प्रत्यक्षं वर्तते यत्र तत्फ़लं तत्र नेक्ष्यते |
तत्फ़लं वर्तते यत्र मानं तत्र न वर्तते || १९६ ||
एवं सति प्रमामातृफ़लमेयात्मनां तव |
कुतः प्रत्यक्षतासिद्धिर्यदि नाऽऽत्माऽभ्युपेयते || १९७ ||
व्यभिचारिषु सर्वेषु प्रत्यगात्मैकसाक्षिषु |
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान् || १९८ ||
एवं प्रत्यक्षतस्तावद्देहादिव्यतिरेकतः |
तथाऽनुभवतः साक्षादात्माऽयं प्रतिपादितः || १९९ ||
यच्चैतत्कृष्णसर्पादिदृष्टान्ताद्भवतोदितम् | अहं मनुष्य इत्यादि तत्र प्रतिविधीयते || २०० ||
चैतन्यं कायधर्मश्चेन्मनुष्योऽसाविति प्रमा |
असाधारणतो न स्यादहं वेद्मीतिवत्तदा || २०१ ||
समवेतं हि यद्यत्र चैतन्यं स्याच्छरीरके |
तस्यैव तद्भवेत्साक्षान्नान्यदेहाश्रितस्य तत् || २०२ ||
करणव्यापृतिं चर्ते मनुष्योऽस्मीति धीर्भवेत् |
पूर्ववन्न तु तत्तादृग्देहाद्भिन्ना ततश्चितिः || २०३ ||
न चाहंबुद्धिनिर्ग्राह्यमिदंधीग्राह्यगोचरः ||
विरोधान्न हि शीतत्वमुष्णस्याग्नेर्विशेषणम् || २०४ ||
कायस्यापि न चैतन्यमेवमेव विशेषणम् |
विरोधिना जडत्वेन व्याप्तेः किमु परस्य तत् || २०५ ||
विशेष्यमपि नाऽऽप्नोति धर्मान्तरविशेषितम् |
विशेष्यमात्रनिष्ठत्वादन्यत्र स्यात्कथं नु तत् || २०६ ||
विशेषणविशेष्यत्वे संगतिश्चेद्भवेत्तयोः |
एकप्रत्ययगम्यत्वं स्यात्तदा कृष्णसर्पवत् || २०७ ||
आविद्वदङ्गनावालं देहादौ घटवन्मतिः |
पृथक्त्वेन भवन्तीयं कथं स्याच्चिद्विशेषिता || २०८ ||
मातारमपि नाऽऽप्नोति यत्प्रमेयैकनिष्ठितम् |
प्रत्यक्षं तस्य का शक्तिः स्वार्थायां चिति वर्तितुम् || २०९ ||
असाधारणरूपोत्थाज्ञानेनैव प्रमीयते |
यथा घटस्तथैवाऽऽत्मा नानत्मप्रत्ययप्रमः || २१० ||
स्वार्थं सन्न परार्थस्य स्वातन्त्र्यात्स्याद्विशेषणम् |
न च चैतन्यमित्किंचिच्चैतन्याल्लभ्यते पृथक् || २११ ||
ग्रहीत्रेव हि चैतन्यमात्मनोऽनात्मनस्तथा |
ग्रहीतुर्ग्राह्यता लोके न न्यायेनोपपद्यते || २१२ ||
प्रत्यक्त्या विभिन्नस्य चैतन्यस्य विशेषणम् |
पराकत्वान्नापि कायः स्याच्छीततेव विभावसोः || २१३ ||
पारिहार्यादिगं हेम्नि प्रमाणं मेयनिष्ठितम् |
कथमात्मचितौ तत्स्यात्तद्विरुगद्धार्थसिद्धये || २१४ ||
भूतेभ्यश्च चिदुत्पत्तिर्न प्रत्यक्षप्रमाणिका |
भूतान्वयस्य चासत्त्वान्नापि लिङ्गात्प्रसिद्ध्यति || २१५ ||
मृतोऽस्मीत्यपि संवित्तिश्चैतन्यापगमे कुतः |
जाड्यात्स्यान्नापि कायस्य चिदभावश्चितेः कुतः || २१६ ||
नापि स्वप्नानुभूतेश्च मिथ्यात्वं स्वप्नवन्मतम् |
बोधानुभववत्तस्या बाधको नेक्ष्यते यतः || २१७ ||
वायोरपि समुत्क्रान्तिः प्रत्यक्षान्नावसीयते |
चितेस्तद्भावभावित्वाद्वायुरेवास्तु चेतनः || २१८ ||
चैतन्यं भूतकार्यं चेत्कायवत्तिष्ठतां चितिः |
चितिवन्नश्यतां यद्वा कायोऽयं हेतुनाशतः || २१९ ||
जाग्रच्छरीरवच्चेत्स्यात्स्वप्नकायोऽपि भूततः ||
सत्यभूतैकहेतुत्वान्मिथ्यात्वंं तस्य किंकृतम् || २२० ||
सत्यो वा यदि वा मिथ्यां स्वप्नदेहोऽभ्युपेयते |
चितेरव्यभिचारित्वात्तथाऽपीष्टं प्रसिध्यति || २२१ ||
तस्मान्नृहस्तिदेहादौ जाग्रत्स्वप्नादिभूमिषु |
भिन्नः शरीरतः सिद्धः प्रमाता प्रत्यभिज्ञया || २२२ ||
देशकालवयोजातिरूपशक्त्यादिभेदतः |
देहे न प्रत्यभिज्ञा स्याज्जाते स्मर्तरि युज्यते || २२३ ||
अनुग्राह्यसजातीयं न च प्रत्यक्षमानिनः |
ज्योतिः साधयितुं युक्तमनुमानद्विषः सतः || २२४ ||
सजातीयगिरा चात्र भवता किं विवक्षितम् |
सामान्यमथवा व्यक्तिर्यदि सामान्यमुच्यते || २२५ ||
सजाति नास्ति सामान्यमनवस्था तथा सति |
निःसामान्यानि तेनाऽऽहुः सामान्यानीति वादिनः || २२६ ||
भौतिकत्वेन चेज्ज्योतिर्देहानुग्राहकं मतम् |
देहेऽपि तस्य सद्भावान्नापेक्ष स्यात्तदा रवौ || २२७ ||
विशेषश्चेदपेक्ष्यः स्याद्यो देहेऽस्मिन्न विद्यते |
नानुग्राह्यसजातित्वं तस्यानुग्राहकत्वतः || २२८ ||
देहात्स्याद्भिन्नजातीयं वस्तु देहावभासि यत् |
विवादगोचरापन्नं भास्वरत्वाद्रवीन्दुवत् || २२९ ||
नानुग्राह्यसजातीयं नाप्यनुग्राहकं तथा |
घटो घटं रविर्वेन्दुं नानुगृह्णाति कुत्रचित् || २३० ||
सजातीयासजातीयैर्देहोपकृतिरिष्यते |
क्ष्माबग्निवायुभिः साक्षान्नातो नियम इष्यते || २३१ ||
विजातीयोपकारश्चेद्भवता नाभ्युपेयते |
चतुर्भूतात्मको देह इत्येतत्कथमुच्यते || २३२ ||
अभावोऽप्युपकुरुते लोकेऽस्मिन्भाववद्यतः ||
नातोऽनुग्राहकत्वादिनियमोऽयं समञ्जसः || २३३ ||
पार्थिवैः पार्थिवस्याग्नेरुपकारो यथेन्धनैः |
वैद्युतस्य तथैवाद्भिरुपकारः समीक्ष्यते || २३४ ||
अद्भिः काष्ठैश्चोपकारः पावकस्यैव वीक्ष्यते |
अग्न्यम्बुभिश्च शमनं तथाऽग्नेरेव दृश्यते || २३५ ||
सजातीयासजातीयनियमोऽतो न युज्यते |
उपकारापकारत्वे पूर्वोक्तेनैव वर्त्मना || २३६ ||
यच्चाप्यक्षैरनैकान्त्यं हेतोरभिहितं पुरा |
तच्चाप्यसत्त्वयाऽभाणि धर्मित्वेन परिग्रहात् || २३७ ||
सेन्द्रियस्यास्य देहस्य पुरुषोक्त्या परिग्रहात् |
न ह्येकदेशः साध्यस्य दृष्टान्तत्वाय कल्पते || २३८ ||
लिङ्गस्य मात्वसंसिद्धौ दूषणं दूषणं भवेत् |
विशेषेऽनुगमाभाव इत्यादि यदुदीरितम् || २३९ ||
सामान्येतररूपत्वात्साध्यस्याग्न्यादिरूपिणः |
अपि दोषद्वयं न स्यादेकरूपे हि शङ्क्यते || २४० ||
न चेन्द्रियाणि ते सन्ति प्रत्यक्षैकप्रमाणिनः |
अनुमानादृते तेषां संसिद्धिर्नेष्यते यतः || २४१ ||
ग्राहकग्रहणग्राह्यभावाभावविभागवित् |
स्वार्थमन्यानपेक्षं सच्चैतन्यं नाक्षमानगम् || २४२ ||
न च तद्भावभावित्वं व्यतिरेकाप्रसिद्धितः |
देहाभावे ह्यभावोऽस्याश्चितेः स्यात्किंप्रमाणकः || २४३ ||
अनुमानाप्रमाणत्वं न प्रत्यक्षेण साध्यते |
लिङ्गेनापि च तत्सिद्धौ त्वदुक्त्यैव विरुद्धता || २४४ ||
त्वदशेषप्रवृत्तीनां निरोधश्च प्रसज्यते |
लिङ्गस्येहाप्रमाणत्वे निश्चेष्टं स्याज्जगत्तथा || २४५ ||
वागाभिव्याहृतिश्चेयमपि ते न प्रसिध्यति ||
नैवाऽऽत्मप्रतिपत्त्यर्थं भारत्युच्चार्यते त्वाया || २४६ ||
विवादगोचरापन्ना प्रमाणमनुमेष्यताम् |
अनुमानत्वतो लिङ्गाद्दूषणानुमितिर्यथा || २४७ ||
खद्योतादिप्रकाशस्य यच्चानित्यत्वमुच्यते ||
पक्षादिव्यवधानत्वात्तच्चास्माकं न तान्प्तति || २४८ ||
भावाभावग्रहो नापि सिध्येत्प्रत्यक्षमानतः |
विद्यमानार्थसंबन्धात्प्रत्यक्षस्येह सर्वतः || २४९ ||
अथाभावोऽपि तद्गाह्य इति चेदभिधीयते |
प्रत्यक्षाभावसंसिद्धौ किं प्रमाणमितीर्यताम् || २५० ||
प्रमातृमानाभावोऽपि भवता प्रतिपाद्यते |
यद्भावेऽपि न यन्मानं तदभावेऽपि तत्कथम् || २५१ ||
व्यावर्तते स्वभावश्चेदित्येतदतिदुर्घटम् |
स्वभावो वस्तुनस्तत्त्वं तत्त्वात्तत्त्वं न हीयते || २५२ ||
धर्मादेः फ़लदातृत्वं स्वभावोऽवश्यमेव तत् |
अभ्युपेयस्त्वयाऽपीह यथा तदपि मे शृणु || २५३ ||
क्रियातः स्तुतिनिन्दादेः सुखदुःखादिलक्षणम् |
धर्माधर्मफ़लं साक्षात्प्रत्यक्षेणानुभूयते || २५४ ||
आगमैकप्रमाणत्वात्कथं धर्माद्युदाहृतिः |
अथाभ्युपगमाद्युक्तं वेदाभ्युपगतिस्तथा || २५५ ||
मानान्तराभ्युपगमाद्भवतश्च तथा सति |
स्वसिद्धान्तविरोधोऽयं बलादायात्यनीप्सितः || २५६ ||
दग्धृत्वादिस्वभावोऽग्नेः शक्तिश्चेद्भवतोच्यते ||
प्रत्यक्षात्तदसंसिद्धेर्विरोधस्तेऽनुमाश्रितेः || २५७ ||
मदभ्युपगमो यद्वद्भवतोऽपि तथा यदि || ||
सर्वमानाभ्युपगमान्न किंचिन्नोऽस्ति दुःस्थितम् || २५८ ||
त्वदभ्युपगमार्थाय यत्नोऽयं क्रियते मया |
अभ्युपेतो मदुक्तश्चेत्सिद्धं नः स्यात्प्रयोजनम् || २५९ ||
अनवस्थेति योऽप्युक्तः सोऽपि दोषो निराकृतः |
सर्वमानाभ्युपगमान्नानवस्था ततो बलात् || २६० ||
देहादिव्यतिरिक्तोऽत आत्मा सिद्धो यथोदितः |
आदित्याद्यसजातीयः पूर्वाक्तादनुमानतः || २६१ ||
दर्शनादिक्रियावांश्चेद्देह एवाभ्युपेयते |
दृष्टस्यैव स्मृतौ न स्यात्स्वप्ने चार्थस्य दर्शनम् || २६२ ||
बाह्यादित्यादिविरहे करणव्यापृतिं विना ||
जाग्रद्वद्वीक्षते स्वप्ने दृष्टपूर्वं यतो नरः || २६३ ||
सामग्र्या स यया पूर्वमद्राक्षीच्छिखरं गिरेः |
तया विनैव स्वप्ने तदात्मा पूर्ववदीक्षते || २६४ ||
उत्खातनयनश्चायमनुत्खाताक्षवद्धटम् |
स्वप्ने समीक्षते नात आत्मनोऽन्यः प्रपश्यति || २६५ ||
ततश्चैतद्भवेत्सिद्धं यः स्वप्ने कुम्यमीक्षते |
विचक्षुः प्रागपि घटं स एवैक्षिष्ट चक्षुषा || २६६ ||
मृतौ चाविकलस्यैव दर्शनादेरसंभवात् |
न स्याद्देहस्य तच्चापि देहो द्रष्टा भवेद्यदि || २६७ ||
नेक्षितृत्वेऽक्षबुद्ध्यादेः प्रत्यभिज्ञोपपद्यते |
न भिन्नद्रष्टृकं यस्मात्प्रतिसंधानमर्हति || २६८ ||
यमद्राक्षं पुरा कुम्भं तमेवाद्य स्पृशाम्यहम् |
इत्येतत्प्रतिसंधानं न भिन्नद्रष्टृकं भवेत् || २६९ ||
प्रतिसंधानकृत्तर्हि मनः संस्कारसंश्रयात् ||
नैवं तस्यापि मनसो विषयत्वेन दर्शनात् || २७० ||
शब्दादिखचितं साक्षात्स्मृतिस्वप्नगतं मनः |
कुम्भवद्वीक्ष्यते यस्मान्नात आत्मा मनोऽपि नः || २७१ ||
भावाभावौ प्रमात्रादेस्तद्विलक्षणरूपभृत् |
प्रत्यक्समीक्षते नित्यं नातो द्रष्टृ भवेन्मनः || २७२ ||
योग्यत्वं चास्य देहस्य प्रत्यक्षैकप्रमाणकम् |
प्रत्यक्षाप्रमितं कस्माद्भोक्तृत्वं तस्य कल्प्यते || २७३ ||
अयंरूपेण भोग्योऽर्थो ह्यहंरूपेण भोजकः |
विरुद्धरूपौ प्रत्यक्षाद्नम्येते भोज्यभोजकौ || २७४ ||
इत्यलं शुष्कतर्कोत्थवाङ्भात्राक्षेपदूषणैः |
पुंसां पुमर्थसिद्ध्यर्थं प्रक्रान्तमभिधीयते || २७५ ||
आत्मैवास्येत्युपश्रुत्य पूर्वात्तरविरुद्धताम् |
आशङ्क्य जनकोऽप्राक्षीदात्माऽयं कतमो न्विति || २७६ ||
देहादिसंहतावस्यामात्मेति ह्यभिधाधियौ |
सुप्रसिद्धे जगत्यस्मिन्नायोषिद्वालपण्डितम् || २७७ ||
पंव्यापारस्य संबन्धो देहादिव्यतिरेकिण ||
ज्योतिषाऽनात्मना पूर्वं लिङ्गेन प्रतिपादितः || २७८ ||
आत्मैवास्येति वचनात्पूर्वोत्तरविरोधतः |
संजातसंशयो राजा याज्ञबल्क्यमपृच्छत || २७९ ||
अर्थान्तरं चेद्देहादेरात्मज्योतिर्विवक्षितम् |
पूर्वोत्तरविरोधोऽयं तदा नैवेह ढौकते || २८० ||
आत्मशब्दश्च लोकेऽस्मिन्प्रसिद्धोऽनेकवस्तुषु |
साक्षिबुद्धिशरीरान्तेष्वात्मबुद्धिसमन्वयात् || २८१ ||
डतच्प्रत्ययस्तस्माद्बह्वर्थस्यात्र संभवात् |
कतमो भवताऽऽत्मेति ज्योतिष्ट्वेन विवक्षितः || २८२ ||
इति पृष्टोऽनुमानेनाविरुद्धं प्रत्यपीपदत् |
आत्मज्योतिः सुविस्पष्टं राजानं योऽयमित्यतः || २८३ ||
भान्वादिज्योतिषा तावद्व्यवहर्तुरनुग्रहः |
कुष्णसारादिदेशेषु स्वान्तस्यानुग्रहस्ततः || २८४ ||