आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: प्रथमः खण्डः (१)
नमो जन्मादिसम्बन्धबन्धविध्वंसहेतवे ।
हरये परमानन्दवपुषे परमात्मने ॥ १ ॥
नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥ २ ॥
छन्दोगानामुपनिषद्भ्वेदं व्याचिख्यासुर्भगवान्भाष्यकारश्चिकीर्षितग्रन्थपरिसमाप्तिप्रचयपरिपन्थिदुरितनिबर्हणसिद्ध्यर्थमोङ्कारोच्चारणलक्षणं मङ्गलाचरणं सम्पादयन्व्याख्येयस्वरूपं दर्शयति –
ओमित्येतदिति ।
व्याख्यानं सप्रयोजनं प्रतिजानीते –
तस्या इति ।
ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्यातत्वादमुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह –
सङ्क्षेपत इति ।
विस्तरेण व्याख्यातत्वेऽपि सङ्ग्रहतो व्याख्यानमस्याः सम्प्रणीयते विस्तृतस्य सङ्क्षिप्य ग्रहणे सुग्रहत्वादित्यर्थः । किञ्च न चेयं यथापाठक्रमं व्याख्याता ।
प्रकृते तु पाठक्रममनतिक्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याऽऽह –
ऋजुविवरणमिति ।
ऋजु पाठक्रमानुसारि विवरणमर्थस्फुटीकरणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् ।
अथ पाठक्रममाश्रित्यापि द्राविडं भाष्यं प्रणीतं तत्किमनेनेत्याशङ्क्याऽऽह –
अल्पग्रन्थमिति ।
तथाऽपि विशिष्टाधिकार्यभावे कथमिदमारभ्यते तत्राऽह –
अर्थजिज्ञासुभ्य इति ।
ये हि मुमुक्षवोऽस्या विवक्षितमर्थं जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तूयते । तथा च विशिष्टाधिकारिसम्भवे तदारम्भः सम्भवति तस्य च प्रकृतोपनिषदर्थपरिज्ञानमवान्तरफलं तद्द्वारा कैवल्यं परमं फलमिति भावः ।
ननु कर्मविधिशेषत्वादुपनिषदस्तद्व्याख्यानेनैव कृतव्याख्यानत्वात्पिष्टपिष्टिप्रसङ्गात्कृतं तद्भाष्येणेत्याशङ्क्य शेषशेषित्वे प्रमाणाभावान्मैवमित्यभिप्रेत्य पूर्वोत्तरकाण्डयोर्नियतपूर्वापरभावप्रयुक्तं सम्बन्धं प्रतिजानीते –
तत्रेति ।
तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषदः कर्मकाण्डेन सह सम्बन्धोऽभिधीयत इत्यर्थः ।
कोऽसावित्यपेक्षायां तदभिधित्सया कर्मकाण्डार्थमनुवदति –
समस्तमिति ।
विहितं प्रतिषिद्धं च कर्म पूर्वस्मिन्काण्डे प्रतिपन्नमित्यर्थः ।
तत्र हि विहितं समुच्चितमसमुच्चितं चेति द्विविधमित्यङ्गीकृत्य समुच्चितस्य फलमनुवदति –
प्राणादीति ।
प्राणश्चाग्निश्चेत्याद्या देवता तद्विज्ञानं तदुपासनं तेन समुच्चितमग्निहोत्रादिकर्मार्चिराद्युपलक्षितेन देवयानेन पथा कार्यब्रह्मप्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्तव्यत्वाभावात्कार्यस्यैव गन्तव्यताया बादर्यधिकरणे राद्धान्तितत्वात् । तस्मान्न समुच्चितं विहितं कर्म परमपुरुषार्थहेतुरित्यर्थः ।
तस्यैवासमुच्चितस्य फलमाह –
केवलं चेति ।
विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह –
स्वभावेति ।
स्वभावेन शास्त्रापेक्षामन्तरेण प्रकृतिवशादेव प्रवृत्ता यथेष्टचेष्टारसिकास्तेषां कर्मज्ञानाभावाद्देवयाने पितृयाणे च पथ्यनधिकृतानामधोगतिस्तिर्यगवस्था क्षुद्रजन्तुलक्षणा अपुनरावृत्तिदुर्लभा वाक्येन ।
अन्यतरस्मिन्वाऽधिकृतानां परमः पुरुषार्थः सेत्स्यति । “शुक्लकृष्णे गती ह्येते जगतः शाश्वते मतेे”(भ.गी. ८ । २६) इति स्मृत्या तयोर्नित्यफलत्वप्रतिपत्तेरत आह –
न चोभयोरित्यादि ।
ननु मार्गद्वयभ्रष्टानां पुरुषार्थाभावेऽपि द्वयोः पथोरन्यतरस्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निरतिशयपुरुषार्थसिद्धिः । “इमं मानवमावर्तं नावर्तन्ते”(छा.उ. ४ । १५ । ५) “तेषामिह न पुनरावृत्तिः” इत्यत्रेममिहेति विशेषणाद् “एकया यात्यनावृत्तिम्”(भ.गी. ८ । २६) इति स्मृतावनावृत्तेरेतत्कल्पविषयत्वात् कल्पान्तरेऽप्यनावृत्तावपि विशेषणानर्थक्यात् । नापि पितृयाणपथि निरतिशयपुरुषार्थसिद्धिः । “एतमेवाध्वानं पुनर्निवर्तन्ते”(छा.उ. ५ । १० । ५) । “अन्ययाऽऽवर्तते पुनः”(भ.गी. ८ । २६) इति चन्द्रस्थलस्खलनावगमात् । तस्मान्न कर्मवशादात्यन्तिकपुरुषार्थप्राप्तिरित्यर्थः ।
एवमनूद्य कर्मफलं फलितं सम्बन्धमाह –
इत्यत इति ।
उक्तरीत्या कर्म यतो न निरतिशयपुरुषार्थहेतुरतः ससाधनात्कर्मणस्तत्फलाच्च विरक्तस्य निरतिशयपुरुषार्थं काङ्क्षतस्तत्साधनं केवलमात्मज्ञानं संसारान्तर्भूतपूर्वोक्तगतित्रयहेतुकर्मतद्धेतुनिराकरणेन वक्तव्यमित्यभिप्रायेणोपनिषदेषाऽऽरभ्यते । न हि कर्मानुष्ठानात्पुमर्थो निरतिशयो लभ्यते । तस्य “तद्यथेह”(छा.उ. ८ । १ । ६) इत्यादौ क्षयिष्णुफलत्वश्रुतेः । तथा चेश्वरार्पणबुद्ध्याऽनुष्ठितशुभकर्मवशादुपजातशुद्धबुद्धेर्विरक्तस्य मुमुक्षोर्मोक्षसाधनज्ञानार्थोऽयमुपनिषदारम्भत इति हेतुहेतुमद्भावः सम्बन्ध इत्यर्थः ।
ननु “मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥” इति वृद्धैरुक्तत्वात्काम्यनिषिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमुक्षोर्वर्तमानदेहपाते पुनर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं तादर्थ्येनोपनिषदारभ्यते तत्राऽऽह -
न चेति ।
न हि त्वदुत्प्रेक्षितो मोक्षोपायो विना प्रमाणं प्रकल्पते । न च पौरुषेयं वाक्यं मूलप्रमाणमन्तरेण प्रमाणम् । न चात्र श्रुतिस्मृती प्रत्यक्षादि वा मूलमालोक्यते । सम्भवति च यथावर्णितचरितस्यापि कर्मशेषवशाद्देहान्तरं ; न चैकभाविकः कर्माशयः । “तद्य इह रमणीयचरणाः”(छा.उ. ५ । १० । ७) “ततः शेषेण”(गौ. ध. सू. २ । २ । २९) इत्यादिश्रुतिस्मृतिविरोधात्तस्मादात्मज्ञानादेव मुक्तिरिति भावः ।
अद्वैतात्मज्ञानविधुराणां भेदज्ञानभाजां कर्मानुष्ठायिनां क्षय्यफलशालित्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।
अद्वैतात्मोपदेशानन्तर्यमथशब्दार्थः । ये पुनरनुपासितगुरवस्तदुपदेशशून्या यथामति यथोक्तादद्वैतादन्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मानुतिष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः ।
अद्वैतात्मज्ञानादात्यन्तिकपुरुषार्थसिद्धिरित्यत्रापि वाक्यशेषमनुकूलयति –
विपर्यये चेति ।
चकारात्क्रियापदमनुकृष्यते । स हि विद्वान्विद्यया निरस्ताविद्यादिमलः स्वपरिज्ञानात्स्वयमेव परमात्मा भवति । भेदप्रतिपत्तिहेतोरुच्छिन्नत्वादित्यर्थः ।
भेदनिष्ठानां कर्मिणां पुरुषार्थो निरतिशयो न सिद्ध्यति । अद्वैतनिष्ठानां तु कर्म त्यजतां पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति –
तथेत्यादिना ।
द्वैतमेव विषयस्तस्मिन्वाचारम्भणश्रुतेरनृतेऽभिसन्धा यस्याभिसन्धा सत्यत्वाभिमानस्तस्य बन्धनं परमानन्दस्याऽऽविर्भावराहित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतः तस्करस्य नाहं तस्करोऽस्मीति मिथ्यैवाभिमन्यमानस्य परिशोधनार्थं तप्तपरशोर्ग्रहणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैताभिनिवेशवतोऽपीति प्रथममुक्त्वा वस्तुतोऽतस्करस्य परैरारोपिततस्करत्वस्य परिशुशुत्सया तप्तपरशुग्रहणे दाहाद्यभाववद्द्वैताभावोपलक्षिते प्रत्यगात्मनि परमार्थसत्येऽभिमानवतो द्वैताच्च व्यावृत्तचित्तस्यानर्थध्वंसो निरतिशयानन्दाविर्भावश्चेति यथोक्तार्थानुरोधेनाग्रे श्रुतिर्वक्ष्यतीति योजना । केवलमात्मज्ञानं कैवल्यहेतुस्तत्सिद्ध्यर्थमुपनिषदारम्भ इति स्वपक्षो दर्शितः ।
स्वयूथ्यास्तु कर्मसमुच्चितमात्मानं मोक्षसाधनं तादर्थ्येनोपनिषदारम्भ इत्याहुस्तान्प्रत्याह –
अत एवेति ।
यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया “तद्यथेह”(गौ. ध. सू. २ । २ । २९) इत्यादिश्रुत्या कर्मफलस्यानित्यत्वावगमाद् “ब्रह्मविदाप्नोति परम्”(तै. उ. २ । १ । १) इत्यादिश्रुत्या च ज्ञानफलस्य नित्यत्वसिद्धेर्ज्ञानकर्मणोर्विरुद्धफलत्वाध्यवसायादद्वैतस्याऽऽत्मनो दर्शनं नैव कर्मणा सह भवितुमुत्सहते । न हि विरुद्धयोस्तमःप्रकाशयोः समुच्चयः सङ्गच्छते । तन्न समुच्चितज्ञानार्थत्वेनोपनिषदारम्भ इत्यर्थः ।
किं चाद्वैतात्मज्ञानं स्वसाध्यसिद्ध्यर्थं वा कर्मापेक्षते स्वबाधकविधूननार्थं वा ? नाऽऽद्यः । तस्यासाध्यफलत्वादिति मन्वानो द्वितीयं प्रत्याह –
क्रियेति ।
वाक्यजनितस्याद्वैतात्मज्ञानस्येति शेषः । तस्य बाधकाभावेन तत्परिहारार्थं सहकार्यपेक्षा नास्तीत्यर्थः ।
बाधकप्रत्ययाभावस्यासिद्धिमाशङ्कते –
कर्मेति ।
तद्विषयो विधिप्रत्ययो यजेतेत्यादिविधिजनितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तृत्वादिकमाकाङ्क्षन्नकर्त्राद्यात्मज्ञानस्य बाधको भवतीत्यर्थः ।
कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽद्यं प्रत्याऽह –
नेत्यादिना ।
कर्त्राद्याकारं प्रमाणनिरपेक्षप्रकृतिप्रसूतं मिथ्याज्ञानं तद्वतस्तेन मिथ्याज्ञानेन जनितकर्मफलविषयो रागादिदोषस्तद्वतश्च कर्म विधीयते । न हि कर्ताऽहमित्यादिमिथ्याधियो रागादेश्चाभावे कर्म विधातुं शक्यम् । “यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्”(म.स्मृ. २ । ४) इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्यभावादित्यर्थः ।
द्वितीयं शङ्कते –
अधिगतेति ।
अधीतस्वाध्यायो हि वैदिके कर्मण्यधिक्रियते । अध्ययनं चार्थावबोधफलमिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञातसर्ववेदार्थस्य यजेतेत्यादिना कर्मविधानादात्मज्ञानस्यापि कर्माङ्गत्वं गम्यते । न चाऽऽत्मज्ञानमपबाध्यते । अविरोधादित्यर्थः ।
न तावदर्थावबोधफलमध्ययनमिति प्रामाणिकमक्षरावाप्तिफलं तदिति चाध्येतृप्रसिद्धं तत्राध्ययनविधिवशेन नाऽऽत्मज्ञानस्य कर्मविधिसम्बन्धः सम्भवतीति परिहरति –
नेति ।
किञ्च ममेदं कर्मेति कर्मण्यैश्वर्यं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्त्राद्याकारविज्ञानस्य प्रमाणापेक्षामन्तरेण स्वभावप्राप्तस्य वाक्योत्थेन सम्यग्ज्ञानेनापहृतत्वात्कर्मफलविषयरागाद्ययोगात्तन्निबन्धनस्य कर्मणोऽपि दुरनुष्ठानत्वान्नाऽऽत्मज्ञस्य कर्मोपपत्तिरित्याह –
कर्माधिकृतेति ।
अद्वैतात्मज्ञानस्य कर्मप्रवृत्तिविरोधित्वे फलितमुपसंहरति –
तस्मादिति ।
अज्ञस्य कर्मविधिर्न त्वात्मज्ञानस्येत्यत्र श्रुतिं सम्वादयति –
अत एवेति ।
एते त्रयोऽप्याश्रमिणः कर्माधिकृता इति यावत् ।
यथा ब्रह्माचारी गृहस्थो वानप्रस्थश्चेत्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथक्क्रियेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम् –
ब्रह्मसंस्थ इति ।
यदि समुच्चयासम्भवात्केवलमेवाऽऽत्मज्ञानं कैवल्यसाधनमिति तादर्थ्येनोपनिषदारभ्यते हन्त किमित्यस्यामुपनिषदि त्रिविधान्युपासनान्युपन्यस्यन्ते तत्राऽऽह -
तत्रेति ।
उक्तया रीत्योपनिषदारम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितीत्यादीन्यभ्युदयफलान्युपासनानि । कैवल्येन सनिकृष्टफलत्वं नाम क्रममुक्तिफलत्वम् । अद्वैतान्निष्प्रपञ्चादीषद्विकृतं सगुणं ब्रह्म । कर्मसमृद्धिफलानि कर्मफलगतातिशयफलान्युद्गीथाद्युपासनानीत्यर्थः ।
आत्मविद्याप्रकरणे त्रिविधोपासनोपन्यासे हेतुमाह –
रहस्येति ।
उपनिषत्पदवेदनीयत्वस्याऽऽत्मविद्यायामुपासनेषु चाविशेषादित्यर्थः ।
तत्रैव हेत्वन्तरमुद्भाव्य विभजते –
मनोवृत्तीत्यादिना ।
आत्मज्ञानस्योपासनानां च यथोक्तं सामान्यमिष्यते चेत्तर्हि फलतोऽपि विशेषो न स्यादिति मन्वानः शङ्कते –
कस्तर्हीति ।
फलतो विशेषं दर्शयन्नुत्तरमाह –
उच्यत इति ।
तत्र प्रथममात्मज्ञानस्योपासनाभ्यो विशेषमादर्शयति –
स्वाभाविकस्येति ।
प्रत्यगात्मनि क्रियाकारकफलविभागविकले कूटस्थे स्वभावशब्दिताविद्याकृतमध्यारोपितं कर्त्राद्याकारविज्ञानम् । तस्याद्वितीयत्वादिलक्षणाधिष्ठानयाथात्म्यज्ञानं निवर्तकम् । यथा रज्ज्वादावधिष्ठाने सर्पादिसमारोपरूपस्य मिथ्याज्ञानस्य प्रकाशादिकारणप्रसूतो रज्ज्वाद्यधिष्ठानस्वरूपनिश्चयो निवर्तकस्तथेत्यर्थः ।
संप्रत्युपासनानामद्वैतज्ञानाद्विशेषं दर्शयति –
उपासनं त्विति ।
शास्त्रं “मनो ब्रह्मेत्युपासीत”(छा. उ. ३ । १८ । १) इत्यादि, किञ्चिदालम्बनं मनःप्रभृति विवक्षितम् ।
समानजातीयप्रत्ययसन्तानकरणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि सिध्यतीति विशिनष्टि –
तद्विलक्षणेति ।
आत्मज्ञानस्योपासनानां चावान्तरविशेषमुपसंहरति –
इति विशेष इति ।
ननु विद्याप्रकरणे यथोक्तोपासनानामुपदेशसम्भवेऽपि विद्यैव प्राधान्यात्प्राथम्येनोच्यतामुपासनानि पुनरप्रधानत्वात्पाश्चात्येन वाच्यानीत्याशङ्क्याऽऽह –
तानीति ।
उपासनानामीश्वरार्पणबुद्ध्याऽनुष्ठितनित्यादिकर्मवच्चित्तशुद्धिद्वारा ज्ञानकारणत्वात्कार्याच्च कारणस्य प्राथम्यप्रसिद्धेः साकारवस्तुविषयत्वेन सुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृत्त्युपपत्तेरादावुपदेशः सम्भवतीत्यर्थः ।
तथाऽपि बहुविधेषूपासनेषु किमित्यङ्गावबद्धमेवोपासनं प्रथममुच्यते तत्राऽऽह –
तत्रेति ।
प्राकृते पुरुषे कर्माभ्यासस्यानादिवासनया दृढीकृतत्वादभ्यस्ततत्तत्कर्मत्यागेऽतत्सम्बन्धिनि केवलोपासने चेतसः समर्पणं दुःखं कर्तुमित्यङ्गावबद्धमेव तावदुपासनमुच्यते । एवमादावुक्त्वा पुनरुपासनान्तराणि क्रमेण वक्तव्यानीत्यर्थः ।
इत्युपोद्घातभाष्यटीका
काण्डद्वयस्य नियतपौर्वापर्यप्रयुक्तसम्बन्धमुपनिषत्तात्पर्यं चोक्त्वा प्रत्यक्षरं व्याख्यातुकामः प्रतीकमादत्ते –
ओमित्येतदक्षरमिति ।
तत्र प्रथममोङ्कारस्याभिधायकत्वपक्षमेवावलम्बते –
परमात्मन इति ।
अभिधानान्तरेभ्यो विशेषं दर्शयति –
नेदिष्ठमिति ।
निकटतममतिशयेन प्रियमिति यावत् ।
ओङ्कारस्य नेदिष्ठत्वं समर्थयते –
तस्मिन्निति ।
ओङ्कारस्यान्यत्र परमात्मनामत्वेऽपि प्रकृते किं विवक्षितमित्याशङ्क्याऽऽह –
तदिहेति ।
प्रकृते हि वाक्ये तदोमिति पदमितिशब्दशिरस्कं प्रयुक्तमिति शब्दसामर्थ्यादेव वाचकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रमुपास्यं गम्यते । यत्र हातिपरः प्रयोगो न तत्राभिधेयविवक्षास्ति यथा गौरित्ययमाहेति । तथा चात्रेतिपरत्वादोङ्कारस्य स्वरूपमात्रमुपास्यं विवक्षितमित्यर्थः ।
तथोपास्यत्वार्थं श्रैष्ठ्यं साधयति –
तथा चेति ।
इतिपरप्रयोगवशादभिधायकत्वाभावे सत्यर्चाशब्दितप्रतिमाया भगवत्प्रतीकत्ववदोङ्कारस्यापि परमात्मप्रतीकत्वेन श्रेष्ठत्वादुपास्यत्वसिद्धिरित्यर्थः ।
तदीय श्रैष्ठ्यं सप्रमाणकं निगमयति –
एवमिति ।
सर्ववेदान्तेष्वेतदालम्बनं परमित्यादिषु ।
किञ्च नास्य श्रैष्ठ्यं समर्थनीयं प्रसिद्धत्वादित्याह –
जपेति ।
गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्यायस्याऽऽदावन्ते चोङ्कारस्य प्रयोगो दृश्यते ।
“तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”(भ.गी. १७ । २४)
“ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥”(म.स्मृ. २ । ७४) इति स्मृतेः । “ओमिति ब्राह्मणः प्रवक्ष्यन्नाह”(तै.उ. १ । ८) इत्यादिश्रुतेश्चेत्यर्थः ।
ओमितीत्ययं भागो व्याख्यातः संप्रत्येतदक्षरमित्यस्यार्थमाह –
अत इति ।
श्रेष्ठत्वमुपास्यत्वार्थमनुकृष्यते ।
व्याप्तेश्च समञ्जसमिति न्यायेन विशेषणस्यार्थवत्त्वमभिप्रेत्य रूढिर्योगमपहरतीति न्यायेनाक्षरशब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह –
वर्णात्मकमिति ।
ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह –
उद्गीथेति ।
उपास्तिं विभजते –
कर्मेति ।
उद्गीथावयवत्वादोङ्कारे तच्छब्दप्रवृत्तिरित्युक्तत्वादनन्तरवाक्यमकिञ्चित्करमित्याशङ्क्य श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन स्फुटीक्रियते ततश्चोत्कृष्यास्माभिर्दर्शित इत्यभिप्रेत्याऽऽह –
स्वयमेवेति ।
ओमित्येतदक्षरमित्यत्रोपासनोत्पत्तिविधिरुक्तः ।
सम्प्रति गुणं विवक्षुर्वाक्यान्तरमादाय व्याचष्टे –
तस्येति ।
एवमुपासनमिति ।
रसतमत्वमाप्तिः समृद्धिरित्येवंगुणकमुपासनं यस्याक्षरस्य तत्तथेत्यर्थः ।
एवंविभूतीति ।
परमः परार्ध्यस्तेनेयं त्रयी विद्या वर्तत इत्याद्या विभूतिः स्तुतिर्यस्य तत्तथेति यावत् ।
एवंफलमिति ।
“आपयिता ह वै कामानाम्”(छा.उ. १ । १ । ७) इत्यादि फलं यस्योपास्यसाक्षात्कारस्य तत्तथोक्तमित्यर्थः । गोदोहनवदाश्रित्य विधानादधिकृताधिकारमिदमुपासनं तथाऽपि पृथगेव पृथग्घ्यप्रतिबन्धः फलमिति न्यायेन फलवत् । फलं याजमानमुद्गातुर्यजमानेन कर्मार्थं क्रीतत्वात्तत्कर्तृकस्योपासनस्यापि यजमानस्य स्वामिनः फलमिति वचनमादिशब्दार्थः ।
वाक्यस्य साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति –
प्रवर्तत इति ॥ १ ॥
तदेवोपव्याख्यानमनुवर्तयन्नोङ्कारस्य रसतमत्वं गुणं विधातुं पातनिकां करोति –
एषामिति ।
गतिरित्युत्पत्तिकारणत्वं परायणमिति स्थितिहेतुत्वमवष्टम्भ इति प्रलयनिदानत्वमुच्यत इति भेदः । वैपरीत्येन वाऽमूनि पदानि नेयानि ।
अपां पृथिवीरसत्वं साधयति –
अप्सु हीति ।
अस्यार्थस्य श्रुत्यन्तरप्रसिद्धिं द्योतयितुं हिशब्दः ।
ओषधीनामपः प्रति कारणत्वाभावात्कथं तत्र रसशब्दस्तत्राऽऽह –
अप्परिणामत्वादिति ।
कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः ।
कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽह –
अन्नेति ।
पुरुषरसत्वं वाचः समर्थयते –
पुरुषेति ।
वाग्विहीनं हि प्रतिपुरुषान्तरं विनिन्दन्ति । अतो वाचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारिष्ठत्वप्रसिद्धिरतःशब्दार्थः ।
वाङ्निर्वर्त्यत्वादृचस्तद्रसत्वमित्यभिप्रेत्याऽऽह –
सारतरेति ।
ऋचः सकाशादपि तद्ध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह –
सारतरमिति ।
उद्गीथशब्दं चावयवे प्रकरणान्नियमयति –
प्रकृतत्वादिति ।
न हि सामानोङ्कृतं फलाय भवतीति मन्वानो ब्रूते –
सारतर इति ॥ २ ॥
तदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति –
एवमिति ।
रसतमत्वगुणकमोङ्कारमुपास्यत्वार्थं विशेषणाभ्यां महीकरोति –
परम इति ।
तस्य परमात्मस्थानयोग्यत्वं समर्थयते –
परमात्मवदिति ।
यथा परमात्मा स्वरूपत्वेनानुसन्धीयते तथाऽस्यापि तदात्मनाऽनुसन्धेयत्वाद्विष्णुबुद्ध्यालम्बनार्हप्रतिमावदयमपि परमात्मत्वबुद्ध्यालम्बनयोग्यो भवतीत्यर्थः ।
ओङ्कारात्पराचीनो रसो नास्तीति तदीयरसतमत्वस्फुटीकरणार्थं परिगणनातः सिद्धमष्टमत्वमनुवदति –
अष्टम इति ।
ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथमोङ्कारस्याष्टमत्वं प्रतिज्ञायते तत्राऽऽह –
पृथिव्यादीति ।
स एष इत्युक्तं व्यक्तीकर्तुं यदुद्गीथ इत्येतद्व्याचष्टे –
य इति ।
पूर्ववदुद्गीथशब्दोऽवयवपरो नेतव्यः ॥ ३ ॥
अथ गुणान्तरविधानार्थं प्रश्नमवतारयन्वृत्तमनुवदति –
वाच इति ।
ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् ।
इदानीमृगादिजातिं जिज्ञासमानः पृच्छति –
कतमेति ।
वीप्सात्रयं प्रश्ने तत्तज्जातिज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह –
कतमा कतमेति ।
प्रश्नत्रयमाक्षिपति –
नन्विति ।
अनेकजात्यवच्छिन्नानां मध्ये यदैकस्या जातेर्निर्धारणार्थः परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा बहूनां कठादीनां मध्ये कठजातिनिर्णयार्थं कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापीति सूत्रार्थः ।
बहूनामेकस्या निर्धारणे डतमज्विधानेऽपि प्रकृते प्रश्नत्रये काऽनुपपत्तिरित्याशङ्क्याऽऽह –
न हीति ।
अत्रेत्यध्यापकाध्येतृव्यवहारभूमिरुक्ता । ऋग्जातिग्रहणं सामजातेरुद्गीथजातेश्चोपलक्षणम् ।
तद्बहुत्वाभावेऽपि किं नश्छिद्यते तत्राऽऽह –
कथमिति ।
ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासां मध्ये कतमर्ग जातिः कतमा सामजातिर्वा कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबहुत्वं प्रमाणाभावादतोऽनुपपन्नं प्रश्नत्रयमित्यर्थः ।
प्रश्नानुपपत्तिं दूषयति –
नैष दोष इति ।
बहूनां तत्तज्जात्यवच्छिन्नानां सन्निधाने जातौ सत्यां व्यक्तिबहुत्वसम्भवात्तदन्यतमनिर्धारणार्थं परिप्रश्ने विकल्पेन डतमाजति सूत्रार्थाङ्गीकारादृगादिजातौ तद्व्यक्तिबाहुल्यात्कतमा तद्व्यक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्नपर्यवसानादुपपन्नं प्रश्नत्रयमित्यर्थः ।
यत्तु विग्रहान्तरं गृहीत्वा प्रश्नानुपपत्तिरित्युक्तं तत्राऽऽह –
न त्विति ।
तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्तीकरिष्यति । अस्मदिष्टविग्रहापरिग्रहे वृत्तिकारीयमुदाहरणं विरुद्ध्यते ।
कठशब्दस्य व्यक्तिविशेषत्वाभावादिति शङ्कते –
नन्विति ।
उदाहरणेऽपि सत्यां कठजातौ तद्व्यक्तिबाहुल्यात्तदन्यतमनिर्धारणाभिप्रायेण परिप्रश्ने डतमजित्यङ्गीकारान्न परोक्तोदाहरणविरोधोऽस्मत्पक्षेऽस्तीति परिहरति –
तत्रापीति ।
ननु द्विधाऽपि विग्रहोपपत्तौ किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह –
यदीति ।
त्वदिष्टविग्रहपरिग्रहश्चेदृगादिजातेरेकत्वात्प्रत्येकं बहुत्वायोगात् वा बहूनामित्यादिसूत्रेण कतमर्क्कतमत्सामेत्युदाहरणं न सिद्ध्येत् । तथा च तत्सिद्ध्यर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्यं तस्मादृगादिव्यक्तिरेवात्र प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥
किमिति यथोक्तरीत्या विमृश्यते । विवक्षितमृगादिस्वरूपमेवाऽऽदावुपन्यस्यतां लाघवादित्याशङ्क्याऽऽह –
विमर्शे हीति ।
शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूता परिहरति –
वागेवेति ।
नन्वाद्ये प्रतिवचने वागृचोरेकत्वावगमादोङ्कारस्य रसतमवाक्योपदिष्टमष्टमत्वं व्याहन्येतेत्याशङ्क्याऽऽह –
वागृचोरिति ।
कथं पुना रसतमवाक्यादिदं प्रश्नप्रतिवचनरूपवाक्यं भिद्यतेऽर्थाधिक्याभावात्तत्राऽऽह –
आप्तीति ।
पूर्वं हि वाक्यमोङ्कारस्य रसतमत्वं विदधाति । इदं तु तस्यैवाऽऽप्तिगुणं विधत्ते । तथा च तादृग्गुणविध्यर्थत्वेनास्य वाक्यान्तरत्वादेतद्वाक्यवशादष्टमत्वाभावेऽपि पूर्ववाक्यादोङ्कारस्याष्टमत्वमविरुद्धमित्यर्थः ।
तथाऽपि कथमृगादिजातीये पृष्टे वागेवर्गित्यादिप्रतिवचनमुचितं तद्व्यक्तिविशेषवचनमेव प्रश्नानुसारीत्याशङ्क्याऽऽह –
वाक्प्राणाविति ।
वागृचो योनिस्तन्निर्वर्तकत्वात् । प्राणश्च साम्नोतो हेतुर्बलेन हि गीतिरुत्पाद्यते । तथा च वागेवेत्यादिना कार्यकारणयोरभेदोपदेशादृङ्मात्रं साममात्रं वा तत्तत्कारणात्मकं प्रतीयते तेन पूर्वत्रापि व्यक्तिरविवक्षिता । प्रश्नप्रतिवचनयोरेकार्थत्वात् । न चैवमृगादिजातेरेकत्वाडुतमच्प्रत्ययानुपपत्तिः । तत्तज्जात्यवच्छिन्नानामृक्सामोद्गीथानां सन्निधावृगादिजातेरेकस्या निर्धारणार्थं परिप्रश्ने तत्प्रयोगसम्भवादृगादिषु प्रत्येकं भेदविवक्षया षष्ठीसमासे दूषणमुक्तम् । तत्र प्रत्येकमेकत्वमुपेत्योक्तरीत्या षष्ठीसमासे तु न किञ्चिद्दुष्यतीति भावः ।
ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्तीकरोति –
यथाक्रममिति ।
ऋक्साममात्रावरोधेऽपि सिध्यतीत्याशङ्क्याऽऽह –
सर्वेति ।
तथाऽपि किं स्यादिति चेत्तदाह –
सर्वे कामा इति ।
उक्तप्रक्रियया सर्वकामावाप्तिहेतुरोङ्कारो विवक्षिताप्तिगुणकः सिध्यतीत्यर्थः ।
तृतीये वचने तात्पर्यमाह –
ओमित्येतदिति ।
अत्रापि पूर्ववज्जातिगृहीतौ तद्व्यक्तित्वेन भक्तिरेवोक्तेति शङ्कां निरसितुमोमित्येतदक्षरमिति विशेषणम् । तथा चोद्गीथस्तदवयवो विशेषणात्प्रकरणाच्चेत्यर्थः ।
पारम्पर्येण वाक्प्राणयोः सर्वकामसम्बन्धादुद्गीथस्यापि तथाभूतवागादिसम्बन्धादस्ति सर्वकामसम्बन्ध इत्युक्तम् । इदानीमोङ्कारस्य वाक्प्राणद्वारा सर्वकामसम्बन्धे हेत्वन्तरमाह –
तद्वा इति ।
तदेतत्पदयोरक्षरविषयत्वं व्यावर्त्य वक्ष्यमाणविषयत्वं दर्शयति –
मिथुनमिति ।
वैशब्दो मिथुनप्रसिद्ध्यर्थः ।
वाक्च प्राणश्चेति यदुभयमुपलभ्यते तदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह –
ऋक्सामेति ।
वाक्प्राणयोरृक्सामकारणत्वमुत्तरवाक्येन स्पष्टयति –
ऋक्चेति ।
यथा वाक्प्राणौ मिथुनमेवमृक्सामे च स्वातन्त्र्येण मिथुनं निर्देशसामान्यादित्याशङ्क्याऽऽह –
न त्विति ।
विपक्षे दोषमाह –
अन्यथेति ।
इष्टमेव मिथुनद्वयमिति चेन्नेत्याह –
तथा चेति ।
ननु मिथुनयोरनुगतं मिथुनत्वमादायैकवचनमुपपत्स्यते चेन्नेत्याह –
तस्मादिति ।
उपक्रमभङ्गान्न स्वतन्त्रमिथुनद्वयमस्तीत्यर्थः ॥ ५ ॥
भवतु वाक्प्राणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओङ्कारमिथुनयोः संसर्गे किं फलतीत्याह –
एवमिति ।
कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह –
वाङ्मयत्वमिति ।
यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति –
मिथुनस्येति ।
प्रसिद्धमिति ।
तादृगर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवाक्येनेत्यर्थः ।
दृष्टान्तमेव विवृणोति –
यथेत्यादिना ।
मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह –
मिथुनावयवाविति ।
ग्राम्यधर्मतया तथाविधव्यापारतयेति यावत् । वैशब्दोऽवधारणे ।
विवक्षितं दार्ष्टान्तिकमाचष्टे –
तथेति ॥ ६ ॥
एवमोङ्कारमाप्तिगणविशिष्टं शिष्ट्वा तदुपासनाफलं कथयति –
तदुपासकोऽपीति ।
तद्धर्मेत्युपासकस्याऽऽप्तिगुणवैशिष्ट्योक्तिः ।
आप्तेति वक्तव्ये कथमापयितेत्युक्तं तत्राऽऽह –
यजमानस्येति ।
निपातौ त्ववधारणार्थौ उद्गीथं तदवयवभूतमिति यावत् ।
आप्तिगुणवदोङ्कारोपासनात्कथमुपासिता तद्गुणो भवतीत्याशङ्क्याऽऽह –
तमिति ॥ ७ ॥
उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्यं दर्शयति –
समृद्धीति ।
तस्य समृद्धिगुणवत्त्वमप्रामाणिकमित्याशङ्क्य परिहरति –
स्वयमित्यादिना ।
तदेतत्पदयोरोङ्काराख्यमक्षरं विषयत्वेन निर्दिशति –
प्रकृतमिति ।
तस्य स्मृत्यर्थो वैशब्दः ।
अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति –
अनुज्ञा चेति ।
तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति –
कथमिति ।
तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यसाधारण्येनोच्यते ।
ओङ्कारस्यानुज्ञाक्षरत्वे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति –
तथा चेति ।
कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रयुक्ते सत्योमिति शाकल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने षडिति प्रतिवचने सत्योमिति होवाचेत्यादि वाक्यं बृहदारण्यके यथोक्तार्थानुसारि प्रसिद्धमित्यर्थः ।
यद्धि किञ्चेत्यादावुक्तां लोकप्रसिद्धिमेव प्रकटयति –
तथा च लोकेऽपीति ।
ओङ्कारस्य लोकवेदप्रसिद्धिभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्क्याऽऽह –
अत इति ।
उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि सम्बध्यते ।
तस्याः समृद्धिमूलत्वं साधयति –
समृद्धो हीति ।
अनुज्ञायाः समृद्धिं प्रति कारणत्वेन समृद्धित्वे सत्योङ्कारस्यापि तदात्मकस्य समृद्धिगुणवत्त्वं सिद्धमित्युपसंहरति –
तस्मादिति ।
समर्धयितेत्यादिफलवाक्यं प्रत्याह –
समृद्धीति ।
अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्व्याख्येयमित्याह –
इत्यादि पूर्ववदिति ॥ ८ ॥
ओङ्कारस्य गुणत्रयवतः सफलमुपासनमुक्तम् । तथा वक्तव्याभावात्तेनेयमित्यादिवाक्यमनर्थकमित्याशङ्क्याऽऽह –
अथेति ।
स्तुतेरानर्थक्यमाशङ्क्याऽऽह –
उपास्यत्वादिति ।
प्ररोचनं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
त्रयि विद्या वर्तत इति सम्बन्धः ।
त्रयी विद्येत्यस्योपचरितार्थत्वं कथयति –
त्रयी विद्येति ।
किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह –
न हीति ।
तस्याः स्वरूपलाभस्यानादित्वेन हेत्वनपेक्षत्वादित्यर्थः ।
कर्मापि कथमाश्रावणादिभिरात्मानं लभते तत्राऽऽह –
कर्म त्विति ।
प्रसिद्धिमेव प्रपञ्चयति –
कथमित्यादिना ।
आध्वर्यवहौत्रौद्गात्रसमाहारस्य दर्शपूर्णमासादिष्वसम्भवादग्निष्टोमादिषु च सम्भवात्तत्त्रितयसमाहाराल्लिङ्गादोङ्कारेण प्रवर्तमानं त्रयविहित कर्म सोमयाग इति प्रतिभातीत्याह –
लिङ्गाच्चेति ।
स्रवत्यनोङ्कृतं कर्मेति न्यायादोङ्कारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह –
तच्चेति ।
कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽह –
परमात्मेति ।
तस्य तत्प्रतीकत्वे किं स्यादिति चेत्तदाह –
तदपचितिरिति ।
ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्रतीकत्वादक्षरस्यापि तेनाऽऽराधनं स्यात् । न चेश्वरस्तेनाऽऽराध्यत इति प्रमाणमस्ति तत्राऽऽह –
स्वकर्मणेति ।
वर्णाश्रमविहितेन कर्मणेश्वरं प्रसाद्य तत्प्रसादवशात्तत्फलं कर्ता प्राप्नोतीति भगवतोक्तत्वादीश्वरपूजार्थं कर्मेति गम्यते । तथा च तत्प्रतीकत्वादोङ्कारस्य तत्पूजार्थं कर्मेति युक्तमित्यर्थः ।
वैदिकं कर्माक्षरपूजार्थमित्यक्षरं स्तुत्वा विधान्तरेण स्तौति –
किञ्चेति ।
यजमानादीत्यादिपदेन पत्नी गृह्यते । प्राणैस्त्रयीविहितं कर्म वर्तत इति सम्बन्धः ।
स्तुत्यन्तरमाह –
तथेति ।
यथाऽक्षरविकारैर्यजमानादिप्राणैर्वैदिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः ।
कथमृत्विगादिप्राणानां हविषश्चाक्षरविकारत्वमत आह –
यागेति ।
आदिशब्दोऽनुक्तवैदिककर्मसङ्ग्रहार्थः ।
“तस्मादोमित्युदाहृत्य”(भ. गी. १७ । २४) इत्यादिस्मृतेरित्यर्थः । “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।”(म.स्मृ. ३ । ७६) इति स्मृतिमाश्रित्याह –
तच्चेति ।
वृष्ट्यादीत्यादिशब्देनान्नस्य प्रजानां चोत्पत्त्युपकरणं सर्वमुच्यते ।
तथाऽपि कथमेतस्यैवाक्षरस्य महिम्नेत्यादि तत्राऽऽह –
प्राणैरिति ॥ ९ ॥
अक्षरस्य स्तुत्या महीकृतत्वादुपासने सिद्धे किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽह –
तत्रेति ।
पूर्वस्मिन्सन्दर्भे स्तुतिवशादक्षरविज्ञाने कर्तव्ये तन्निष्पाद्यं कर्म तद्विज्ञानवतोऽनुष्ठेयमिति स्थितिं तदाक्षेप्तुमुत्तरं वाक्यमित्यर्थः ।
आक्षेपाक्षराणि व्याचष्टे –
तेनेत्यादिना ।
ननु कर्मकर्तृत्वे विद्वदविदुषोर्विद्वानेव तत्फलमश्नुते नाविद्वानिति कथमित्याशङ्क्याऽऽह –
तयोश्चेति ।
इतिशब्दस्त्वाक्षिपतीत्यनेन सम्बध्यते ।
कथं विद्वदविदुषोरविशिष्टं फलमित्याशङ्क्य दृष्टान्तमाह –
दृष्टं हीति ।
विमतं न स्वतन्त्रफलमङ्गज्ञानत्वादाज्यावेक्षणवदिति प्राप्ते प्रत्याह –
नैवमिति ।
हेतुत्वेनावतारितं वाक्यं व्याचष्टे –
भिन्ने हीति ।
विद्योपासना कर्माविद्या तयोर्भिन्नत्वं तन्न विद्यावैयर्थ्यमित्यर्थः ।
विद्यायाः स्वतन्त्रफलवत्त्वं नास्तीति पक्षस्य व्यावृत्तिप्रकारमेव प्रपञ्चयति –
नेत्यादिना ।
अङ्गज्ञानाद्गुणवदक्षरज्ञानस्याऽऽधिक्ये फलितमाह –
तस्मादिति ।
तदङ्गं कर्माङ्गमुद्गीथमात्रज्ञानं तस्मादाधिक्याद्विशिष्टाक्षरज्ञानस्येति यावत् ।
यत्तु पुनरुक्तं तयोश्च कर्मसामर्थ्यादेव फलं स्यादिति तत्राऽऽह –
दृष्टं हीति ।
यत्त्वङ्गज्ञानत्वादिति तत्किमङ्गत्वे सति ज्ञानत्वं वाऽऽश्रित्य विहितत्वमथवैतदेव ज्ञानत्वविशेषितम् ? नाऽऽद्यः । तन्निर्धारणानियमन्यायेनासिद्धेः । न द्वितीयो गोदोहने व्यभिचारात् । त तृतीयो दृष्टान्तस्य साधनविकलत्वादाज्यावेक्षणस्याऽऽश्रित्य विध्युदाहरणबहिर्भूतत्वादङ्गसम्बन्धज्ञानत्वमात्रेण दृष्टान्तत्वे सत्यङ्गत्वोपाधेः सम्भवादित्यभिप्रेत्य ज्ञानाधिक्ये फलाधिक्यमित्यत्रानन्तरवाक्यं योजयति –
तस्मादिति ।
विज्ञानमुद्गीथाद्यङ्गमात्रविषयमुपासनातिरिक्तं तेनेति यावत् । योगो देवतादिविषयमुपासनम् । इतिशब्दस्तदर्थसमाप्त्यर्थः ।
तत्रैवार्थसिद्धमर्थं कथयति –
विद्वदिति ।
नन्वर्थी समर्थो विद्वानपर्युदस्तश्च कर्मण्यधिकारीत्यङ्गीकारादविदुषस्तल्लक्षणानाक्रान्तस्यानधिकारात्कथं तत्कर्म वीर्यवदिति प्रतिज्ञायते तत्राऽऽह –
न चेति ।
औषस्त्य उषस्तिसम्बन्धे मटचीहतेष्वित्यादिके तस्मिन्ग्रन्थजाते विद्याहीनानामपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेदविद्वानित्यादिलिङ्गात् । तस्मादविदुषोऽपि कर्मण्यधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्यादिज्ञानमात्रेण विशेषणसिद्धिरित्यर्थः ।
गुणवदक्षरज्ञानं स्वतन्त्रमित्युक्तम् । तत्तु रसतमगुणवदक्षरविषयमेकमुपासनम् । तत्र च विध्युद्देशे फलस्याश्रुतत्वेऽपि विश्वजिन्न्यायेन वा तत्कल्प्यते । आप्तिगुणवतः समृद्धिगुणवतश्चाक्षरस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि पृथक्फलानि विवक्षितानीत्यत आह –
रसतमेति ।
न तावदिहोपासीतेतिविधिव्यतिरेकेण मध्ये विध्यन्तरमुपलभ्यते । न चाऽऽपयिता ह वै कामानामित्यादिवाक्ये फलश्रुत्या विधिरुन्नेयः । रसतमगुणवदक्षरविज्ञानविधौ फलाकाङ्क्षिण्यर्थवादस्थफलांशान्वयेनानेकगुणवदेकविज्ञानविधिसम्भवे विधिभेदकल्पनायोगात् । नो खल्वर्थवादिकफलवदनेकविशेषणकैकोपासनविषयविध्यभ्युपगमेन वाक्यैक्यसम्भवे वाक्यं भेत्तुमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रिसत्रन्यायस्तु प्रकृताविरोधीति भावः ।
तस्योपव्याख्यानमित्युक्तस्योपसंहारवाक्यं खल्वेतस्येत्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह –
अनेकैरिति ।
रसतमाप्तिसमृद्धिरूपाण्यनेकानि विशेषणानि तैर्विशिष्टत्वेनाक्षरस्यानेकप्रकारेणोपास्यत्वात् । प्रकारभेदेऽप्युपासनैक्यस्य प्रागेवोक्तत्वात्प्रकृतस्यैवाक्षरस्यैतदुपव्याख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥
इति प्रथमाध्यायस्य प्रथमः खण्डः ॥
गुणत्रयविशिष्टमुद्गीथावयवभूतमोङ्काराख्यमक्षरं परमात्मप्रतीकं तद्बुद्ध्योपास्यमित्युपदिष्टमिदानीं तस्यैवाक्षरस्याध्यात्माधिदैवभेदेनाऽऽदित्यप्राणदृष्ट्योपासनं विवक्षन्कण्डिकान्तरमवतारयति –
देवासुरा इति ।
तत्राक्षराणि व्याचिख्यासुरप्रतिभाव्युदासार्थं विवक्षितं समासं दर्शयति –
देवाश्चेति ।
देवशब्दनिष्पत्तिप्रकारं सूचयति –
देवा इति ।
दीव्यतिर्द्योतनार्थः “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु” इति दर्शनात्तस्य चाजन्तस्य सति गुणे कर्तरि यथोक्तरूपसिद्धिरित्यर्थः ।
ते च द्योतका देवा रूढेरिन्द्रादयो भविष्यन्तीत्याशङ्क्याह –
शास्त्रेति ।
इत्यध्यात्ममित्युपसंहारविरोधात्प्रसिद्धेरेव हेयत्वादुपासकशरीरस्थकरणावस्थादिवाः सत्त्वात्मकाः शास्त्रानुसारिणो देवशब्दवाच्या इत्यर्थः ।
तथाऽध्यात्ममसुरा विरोचनादयः स्युरित्याशङ्क्य पूर्ववदुपसंहारविरोधमभिप्रेत्याऽऽह –
असुरा इति ।
असुरा इन्द्रियवत्तय एवेति सम्बन्धः ।
सात्त्विकेन्द्रियवृत्तिभ्यो वैपरीत्यं तासामसुरत्वसिद्ध्यर्थं दर्शयति –
तद्विपरीता इति ।
तासामसुरशब्दवाच्यत्वे निमित्तान्तरमाह –
स्वेष्वेवेति ।
विष्वग्विषयासु विष्वञ्चो नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवानानुकूलप्राणचेष्टास्वित्यर्थः ।
तदेव स्फोरयति –
स्वाभाविक्य इति ।
शास्त्रापेक्षामन्तरेणैव स्वभाववशात्प्रवर्तमानत्वं स्वाभाविकत्वम् । तथा च शास्त्रीयेन्द्रियवृत्तिभ्यो वैपरीत्यममूषामतिविशदमित्यर्थः ।
वैपरीत्यान्तरमाह –
तम आत्मिका इति ।
कथं मिथो विषयापहारं निमित्तीकृत्य देवानामसुराणां च सङ्ग्रामोऽभूदित्यपेक्षायामासुरीं वृत्तिं प्रकटयति –
शास्त्रीयेति ।
दैवीं वृत्तिं प्रथयति –
तथेति ।
देवानामुक्तासुरवैपरीत्यं स्फुटयति –
शास्त्रेति ।
स्वाभाविकः शास्त्रानपेक्षस्तमोरूपपाप्मासुरः परिच्छेदाभिमानस्तस्य तिरस्करणार्थमिति यावत् ।
उक्तमाध्यात्मिकसङ्ग्रामं निगमयति –
इत्यन्योन्येति ।
उक्तरीत्या यथोक्तानां देवानामसुराणां च पराभिभवः स्वोद्भवश्चेत्येवंरूपः सङ्ग्रामः प्रतिदेहमनादिकालप्रवृत्तो यथा देवासुरसङ्ग्रामस्तथेति योजना ।
किमर्थं पुनरपुरुषार्थरूपो देवासुरसङ्ग्रामः श्रुत्या श्राव्यते तत्राऽऽह –
स इहेति ।
स हि सङ्ग्रामोऽस्मिन्प्रकरणे प्राणस्य विशुद्धिविषयं विज्ञानं विधातुं प्रवृत्तः । तथा श्रुत्या कथारूपेणाऽऽख्यायते । इन्द्रियाणां वषयवैमुख्ये धर्मः स्यात्तेषां तदाभिमुख्ये पापस्योत्पत्तिरिति विवेकविज्ञानसिद्ध्यर्थं चाऽऽख्यायिका प्रणीयते । तस्मादिन्द्रियाणां प्रयत्नतो विषयप्रावण्यं परिहर्तव्यम् । तद्वैमुख्यं च तेषां श्रेयोर्थिभिर्यत्नादाधेयमिति भावः । यजमानप्राणानामेव देवासुरभावस्योक्तत्वमतःशब्दार्थः ।
प्रजापतिशब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह –
प्रजापतिरिति ।
उक्तरूपः पुरुषः प्रजापतिरित्यत्र गमकमाह –
पुरुष एवेति ।
कथं पुनर्यथोक्तानां देवासुराणां तदपत्यत्वं तत्राऽऽह –
तस्य हीति ।
यत्रेत्युक्तं सङ्ग्रामनिमित्तं परामृशति –
तत्तत्रेति ।
देवानामुत्कर्षोऽपकर्षश्चासुराणामित्यस्मिन्निमित्ते कथमुद्गीथभक्त्याहरणमित्याशङ्क्याऽऽह –
उद्गीथेति ।
लक्षितलक्षणान्यायं सूचयति –
तस्यापीति ।
उद्गीथभक्तेरिवेत्यपेरर्थः ।
तदाहरणप्रयोजनं प्रश्नपूर्वकं कथयति –
तत्किमर्थमित्यादिना ॥ १ ॥
संप्रत्युद्गीथाहरणप्रकारं प्रकटयति –
यदा चेति ।
अचेतनस्य करणस्योद्गातृत्वासम्भवाद्विशिनष्टि –
चेतनावन्तमिति ।
मुख्यं प्राणं व्यावर्तयति –
घ्राणमिति ।
त्वं न उद्गाये वाजसनेयकश्रुतिमाश्रित्याऽऽह –
उद्गीथ कर्तारमिति ।
अथोद्गीथभक्तिरेव श्रूयते न तूद्गाता तत्कथं तदुपासनमित्याशङ्क्याऽऽह –
उद्गीथभक्त्येति ।
तयोपलक्षितमुद्गातारमुपासत इति यावत् ।
कथमुपासनमित्यपेक्षायामुद्गीथेन कर्तृत्वप्रार्थनयेत्याह –
कृतवन्त इति ।
ते ह नासिक्यमित्यक्षरोक्तमर्थमुक्त्वा वाक्यार्थमाह –
नासिक्येति ।
किमित्यक्षरमोङ्काराख्यमिहोपास्यत्वेन व्याख्यायते तत्राऽऽह –
एवं हीति ।
उक्तमेव स्फुटयति –
खल्विति ।
तथा च प्राणस्योद्गातृदृष्ट्योपासने प्रकृतस्य परित्यागो भक्तेश्च घ्राणप्राणदृष्ट्योपास्वत्वाङ्गीकारेऽप्रकृतोपादानमिति शेषः ।
पूर्वापरविरोधमाशङ्कते –
नन्विति ।
उद्गीथोपलक्षितेनौद्गात्रेणोपलक्षितं ज्योतिष्टोमादि कर्माऽऽहृतमित्युक्तं तदाहरणं च तस्योपासनं तद्विरुद्धं नासिक्यप्राणदृष्ट्याऽक्षरोपासनवचनमित्यर्थः ।
स्वोक्तेर्मिथो विरोधं परिहरति –
नैष दोष इति ।
उद्गीथोपलक्षितकर्मोपलक्षिते ज्योतिष्टोमादौ कर्मणि सत्येवोद्गातृप्राणदृष्ट्योपास्यत्वेनाक्षरं विवक्षितम् । ओङ्कारश्चोद्गीथावयवो ध्येयत्वेनेष्टो न स्वतन्त्रो व्यापकः । तथा चाक्षरोपासनार्थत्वेन कर्माहरणं न ध्येयत्वेनेत्यविरोध इत्यर्थः ।
आश्रित्य विधानार्थं कर्माहरणमित्युक्त्वा तं हेत्यादि व्याचष्टे –
तमेवमिति ।
स्वोत्थेन चाऽऽसुरेण नासिकासम्बद्धेनेति यावत् ।
अधर्मादासङ्गस्तद्रूपेणेत्येतस्याऽऽङ्गवेधं साधयति –
स हीति ।
कल्याणो गन्धः सुरभिरुक्तस्तस्य ग्रहणं ममैवेत्यभिमानात्मा योऽयमासङ्गस्तेनाभिभूतमुपकारो गन्धाघ्राणकृतस्तुल्यः सर्वस्य कार्यकारणसङ्घातस्येति विवेकविज्ञानं यस्य स तथेति विग्रहः ।
ननु कथं यथोक्तासङ्गस्पर्शितेत्याशङ्क्याऽऽह –
स तेनेति ।
उक्तेऽर्थे वाक्यं पातयति –
तदिदमिति ।
घ्राणप्राणस्याऽऽसुरपाप्मविद्धत्वे कार्यलिङ्गकमनुमानं सूचयति –
यस्मादिति ।
उक्तानुमानावद्योति वाक्यं व्याकरोति –
अत इति ।
अतःशब्दार्थमेव स्पष्टयति –
पाप्मनेति ।
ननु पाप्मना विद्वत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुरभिज्ञानस्य पाप्मकर्मत्वाभावात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह –
उभयग्रहणमिति ।
एकस्यापि हविषो द्रावात्मकस्य पुरोडाशादेर्वा काकादिसम्बन्धाद्भ्रंशे प्रायश्चित्तसत्त्वेऽपि यस्योभयं हविरार्तिमार्छति स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्रोभयग्रहणमविवक्षितमिति स्थितं प्रथमे तन्त्रे तथाऽत्रापीत्याह –
यस्येति ।
न केवलं पाप्मना हीति वाक्यशेषादत्रोभयग्रहणामविवक्षितं किन्तु वाजसनेयके यथोक्तोद्गीथविद्याविषयत्वेन समानप्रकरणे यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्मवेधवशाद्दुर्गन्धं जानातीत्येव वक्तव्यत्वादविवक्षितमुभयग्रहणमित्याह –
यदेवेति ॥ २ ॥
ननु नासिक्यस्य प्राणस्य पाप्मविद्धत्वादनुपास्यत्वे सिद्धे न्यायसाम्याद्वागादीनामपि नोपास्यत्वमिति सिद्ध्यति तत्किमुत्तरग्रन्थेनेत्यत आह –
मुख्यप्राणस्येति ।
न्यायसाम्येऽपि मुखतो निराकरणाभावे मुख्यप्राणस्यैवोपास्यत्वमित्यनिश्चयात्तदुपास्यतादार्ढ्यार्थं मुखतो वागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति सम्बन्धः ।
उत्तरवाक्येष्वक्षरव्याख्यानमनपेक्षितं पूर्वेण समानत्वादित्याह –
समानमिति ।
अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् ।
ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि त्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्यैव प्राणस्योपास्यत्वं नावसीयते तत्राऽऽह –
अनुक्ता इति ।
उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुतिं सम्वादयति –
एवमु खल्विति ॥ ३ – ४ – ५ – ६ ॥
अथ हेत्यादि मुख्यप्राणविषयं वाक्यमुत्थाप्य व्याकरोति –
आसुरेणेत्यादिना ।
पूर्ववद्वागादिष्विवेति यावत् । टङ्कैश्च विदारकैर्लोहविशेषैरित्यर्थः ।
अश्रुतस्य लोष्टस्यात्रोपादाने हेतुमाह –
सामर्थ्यादिति ।
तस्य ध्वंसनयोग्यत्वाद्ध्वंसतेश्च कर्त्रपेक्षत्वादित्यर्थः ।
तर्हि यस्य कस्यचिदेवंविधस्य सम्भवादलं लोष्टग्रहणेनेत्याशङ्क्य “यथाऽश्मानमृत्वा लोष्टो विध्वंसेत”(बृ.उ. १ । ३ । ७) इति बृहदारण्यकश्रुतेस्तस्यैवात्र ग्रहणमित्याह –
श्रुत्यन्तराच्चेति ॥ ७ ॥
दृष्टान्तदार्ष्टान्तिकाभ्यां सिद्धमर्थं निगमयति –
एवमिति ।
प्राणस्य विशुद्धत्वात्तदुपासनं कर्तव्यमिति शेषः ।
फलवचनमवतार्य व्याकरोति –
एवंविद इत्यादिना ।
प्राणवित्प्रत्तिस्पर्धिनो विनाशे हेतुमाह –
यस्मादिति ।
नासिक्यप्राणस्य मुख्यप्राणस्य च वायुविकारत्वेन प्राणत्वाविशेषात्पाप्मना वेधावेधौ तुल्यावेव स्यातामिति शङ्कते –
नन्विति ।
स्थानविशेषसम्बन्धासम्बन्धाभ्यां द्वयोरपि पाप्मवेधावेधव्यवस्था युक्तेति परिहरति –
नैष दोष इति ।
स्थानावस्थावच्छिन्ने करणे वैगुण्यं विषयविशेषासक्तत्वं तस्मात्तद्रूपस्य नासिक्यप्राणस्यापि विद्धता स्यादिति यावत् । तदसम्भवाद्विशेषसम्बन्धप्रयुक्तवैगुण्यायोगादित्येतच्छ्लिष्टमुक्तमुपपन्नम् ।
स्थानसम्बन्धविशेषाद्घ्राणप्राणस्य पाप्मविद्धत्वं तदभावाच्च मुख्यप्राणस्य तदविद्धत्वमित्येतद्दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
न मुख्यो दोषवद्घ्राणसचिवत्वाभावादिति शेषः ॥ ८ ॥
घ्राणदेवता विद्धा प्राणदेवता तु न विद्धेत्यत्र गमकत्वेनानन्तरवाक्यं व्याचष्टे –
यस्मादिति ।
मुख्यप्राणस्य पाप्मवेधाभावमुपसंहरति –
अतश्चेति ।
पाप्मकार्यमासङ्गस्तस्य प्राणेऽनुपलम्भादित्यतःशब्दस्यैवार्थः ।
हिशब्देनोक्तं पाप्मावेधं विशुद्धत्वे हेतूकृत्य मुख्यप्राणविशुद्धिमुपसंहरति –
ह्येष इति ।
तस्य विशुद्धत्वे हेत्वन्तरमाह –
यस्माच्चेति ।
अतो विशुद्ध इत्युत्तरत्र सम्बन्धः ।
सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
घ्राणादीत्यादिशब्देन कार्यमप्युच्यते ।
तेनैतास्तृप्यन्तीति श्रुत्यन्तरमाश्रित्याऽऽह –
तेन हीति ।
प्राणवृत्तिहेतुभ्यामन्नपानाभ्यां सङ्घातस्थितिरतःशब्दार्थः । सर्वार्थत्वं द्वितीयस्यातःशब्दस्यार्थः ।
मुख्यप्राणोपयुक्तत्वादन्नपानानां सङ्घातस्थितिहेतुत्वमित्यत्र प्रश्नपूर्वकं लिङ्गं दर्शयति –
कथमित्यादिना ।
वृत्तिमेव विशिनष्टि –
अन्नपाने इति ।
अन्वहमुपभुज्यमाने अन्नपाने प्राणस्थितिहेतू इति यावत् ।
प्राणस्योच्चिक्रमिषायामपि सङ्घातः स्वयमशनपाने कृत्वा स्थास्यतीत्याशङ्क्याऽह –
अप्राणो हीति ।
तदा प्राणोच्चिक्रमिषावस्थायामिति यावत् ।
ननूत्क्रान्त्यवस्थायामशिशिषाद्यभावादेव सङ्घातस्योत्क्रान्तिर्न त्वशनाद्यभावात्तत्र प्रमाणाभावादत आह –
दृश्यते हीति ।
तदिति मुखव्यादानमुच्यते । अन्नग्रहणं पानोपलक्षणार्थम् ॥ ९ ॥
विशुद्धिगुणकमुख्यप्राणात्मोद्गातृदृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्युक्तमिदानीं तत्रैवाऽऽङ्गिरसबृहस्पत्ययास्यगुणत्रयविधानार्थमुत्तरग्रन्थमुत्थापयति –
तं हेति ।
तत्र वृत्तिकाराभिप्रेतं सम्बन्धं दर्शयति –
तं मुख्यमिति ।
पराभिप्रेतसम्बन्धे गमकमाह –
एतमिति ।
अव्यवहितसम्बन्धसम्भवे व्यवहितसम्बन्धकल्पना न युक्तेति परिहरति –
भवत्येवमिति ।
ऋषीणामङ्गिरोबृहस्पत्यादिशब्दैरुपदेशेऽपि गुणत्रयविशिष्टप्राणोपासनं न विरुध्यते ततश्च प्रधानानामबाधे प्राणोपासकानामृषीणामुपदेशो न त्यागमर्हत्यङ्गिरोबृहस्पत्यादिशब्देभ्योऽपि प्रथमप्रतिपन्नानृषीन्विहाय यौगिकवृत्तिप्रतिपत्तव्यगुणमात्रप्रतिपत्त्यनुपपत्तेरित्यर्थः ।
प्राणोपासकानामृषीणामभिधानमैतरेयकश्रुत्या द्रढयति –
श्रुत्यन्तरवदिति ।
तदेव स्पष्टयति –
तस्मादिति ।
शतर्चिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं सङ्गाताख्यं शतवर्षाण्यभिगतवांस्तस्मादेतमेव प्राणं सन्तमृषिशरीरस्थितमपि शतर्चिनशब्दवाच्यं वदन्तीति योजना ।
शतर्चिशब्दवदुभयविषयाणि शब्दान्तराण्यपि सन्तीत्याह –
तथेति ।
आद्यन्ते मण्डले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्वजगद्विधारकत्वात् । गृत्समदस्तु द्वितीयमण्डलदर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतोविसर्गकारणमदहेतुत्वादपानो मदः प्राणापानात्मकत्वात्प्राणोऽपि तथोच्यते । तृतीयमण्डलदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तस्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चतुर्थमण्डलद्रष्टा प्राणोऽपि तच्छब्दवाच्यस्तस्य वागादिदेवतासम्भजनीयत्वात् । पञ्चममण्डलद्रष्टाऽत्रिरित्युच्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्मनोऽनर्थरूपान्प्रति सर्वत्रात्तृत्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि ।
दृष्टान्तमेवं व्याख्याय दार्ष्टान्तिकमाह –
तथेति ।
किमित्यङ्गिरःप्रभृतीन्प्राणं करोति श्रुतिरत आह –
अभेदेति ।
तथा च सप्तमे प्राणस्य सार्वात्म्यं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह –
प्राणो हेति ।
अव्यवहितसम्बन्धसम्भवे फलितं वाक्यार्थं कथयति –
तस्मादिति ।
प्राणस्याङ्गिरसत्वं व्युत्पादयति –
यस्मादिति ॥ १० ॥
अङ्गरःशब्दवद्बृहस्पतिशब्दोऽप्युभयत्र नेतव्य इत्याह –
तथेति ।
प्राणस्य बृहस्पतित्वं साधयति –
वाच इति ।
अङ्गिरोबृहस्पतिशब्दवदस्यशब्दोऽप्युभयत्र द्रष्टव्य इत्याह –
तथेति ।
तस्योभयत्र वृत्तिं विशदयति –
यद्यस्मादिति ।
यस्मादास्यादयते तेनाऽयास्यः प्राणः स एवात्रोपासकत्वादृषिरपि तथेति योजना ।
यथोक्तानामृषीणामेवोक्तगुणकमुपासनं नान्येषां विशेषवचनादित्याशङ्क्याऽऽह –
तथेति ।
विशेषस्य न शेषनिवर्तकत्वं प्रदर्शनार्थत्वादित्यर्थः ॥ ११ – १२ ॥
यथोक्तोपासनस्य त्रिषु नियमाभावे गमकं दर्शयति –
न केवलमिति ।
सम्प्रति विहितोपासनस्य दृष्टफलमादेष्टुं पातनिकां करोति –
विदित्वेति ॥ १३ ॥
भूमिकां कृत्वा विवक्षितमुपास्तिफलं कथयति –
तथेति ।
दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे –
प्राणेति ।
आत्मविषयं शरीरवर्तिप्राणगोचरमिति यावत् ।
उपसंहारस्य प्रयोजनमाह –
आधिदैवेति ॥ १४ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वितीयः खण्डः ॥
अनन्तरमाध्यात्मिकप्राणदृष्ट्योद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमुद्गीथोपासनं प्रस्तूयते तत्राऽऽह –
अनेकधेति ।
प्राणरूपेणाऽऽदित्यादिरूपेण चोद्गीथस्योपास्यत्वाद्देवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः ।
आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति –
आदित्यदृष्ट्येति ।
“तमादित्यमुद्गीथमुपासीत” इत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषयत्वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते –
तमुद्गीथमितीति ।
आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह –
उच्यत इति ।
प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति –
प्रजानामिति ।
अन्नोत्पत्त्यर्थमुद्गायतीति पूर्वेण सम्बन्धः ।
तदेव व्यतिरेकद्वारा साधयति –
न हीति ।
आदित्यस्यान्नार्थमागानमतःशब्दार्थः ।
न तस्योद्गातुरिव प्रत्यक्षमुद्गानमुपलब्धमित्याशङ्क्याऽऽह –
उद्गायतीवेति ।
उपमामेवोपपादयति –
यथेति ।
’अथाऽऽत्मनेऽन्नाद्यमागायेदि”तिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानामन्नार्थमागायतीत्यर्थः ।
उद्गीथशब्दस्याऽऽदित्ये सम्भवं परामृश्य फलिर्तमाह –
अत इति ।
आदित्यदृष्ट्योद्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे –
किञ्चेत्यादिना ।
एवंगुण तमस्तज्जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥
नन्वध्यात्ममधिदैवतमिति स्थानभेदात्प्राणादित्ययोर्भिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेयमत आह –
यद्यपीति ।
प्राणदित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति ।
गुणतः साम्य साधयति –
यस्मादिति ।
नामतः साम्यं सङ्गिरते –
किञ्चेति ।
सवितृवत्प्राणेऽपि प्रत्यास्वरशब्दप्रवृत्तिमाशङ्क्याऽऽह –
यस्मादिति ।
स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः ।
सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवेत्याशङ्क्याऽऽह –
सविता त्विति ।
आदित्यस्यास्तं गतस्य प्रत्यहमेकत्रैवाऽऽगतिदर्शनात्तस्मिन्प्रत्यास्वरशब्दस्यापि प्रवृत्तिरस्तीत्यर्थः ।
अतः प्राणादित्ययोरुक्तं साम्यं निगमयति –
अस्मादिति ।
अन्योन्यसाम्यकृतं फलमाह –
अत इति ।
प्राणादित्यावेकीकृत्य तद्दृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥
अथाऽऽध्यात्मिकमाधिदैविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्तव्याभावात् किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽह –
अथेति ।
कोऽसौ व्यानो यद्दृष्ट्योद्गीथोपासनमुपदिदिक्षितमत आह –
वक्ष्यमाणलक्षणमिति ।
पक्षान्तरं व्यावर्तयति –
प्राणस्यैवेति ।
वक्ष्यमाणलक्षणमित्युक्तं व्यक्तीकरोति –
अधुनेति ।
तन्निरूपणार्थमादौ प्राणापानौ निरूपयति –
यद्वा इत्यादिना ।
ताभ्यामेव मुखनासिकाभ्यामित्येतत् ।
स्यातामेवं प्राणापानौ व्यानस्य तु किमायातामिति शङ्कित्वा तत्स्वरूपं दर्शयति –
तत इत्यादिना ।
सन्धिमेव स्फुटयति –
तयोरिति ।
प्राणापानयोर्वृत्त्योरभावावस्थायां मध्ये च वायोर्वृत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः ।
सन्धिस्कन्धमर्मदेशवृत्तिर्व्यान इति साङ्ख्या योगाश्चाऽऽहुस्तान्प्रत्याह –
यः साङ्ख्यादीति ।
साङ्ख्यानां योगानां च शास्त्रे प्रसिद्धो यो वायोर्वृत्तिविशेषः स्कन्धादिदेशगो नासौ व्यानःश्रुत्या विशेषनिरूपणादिति योजना ।
व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमेवोचितं न व्यानोपासनमिति मन्वानश्चोदयति –
कस्मादिति ।
महताऽऽयासेन व्यानसतत्त्वनिरूपणेनेति यावत् ।
ताभ्यां तस्य वैशिष्ट्यमुपेत्य परिहरति –
वीर्यवदिति ।
व्यानस्यैवोपासनमिति शेषः ।
तदेव प्रश्नद्वारा प्रपञ्चयति –
कथमित्यादिना ।
कथं व्यानस्य वीर्यवत्कर्म प्रसिद्ध प्रतिज्ञायते कार्यकारणभावादित्याह –
व्यानेति ।
वाचो व्याननिर्वर्त्यत्वे लिङ्गं दर्शयति –
यस्मादिति ॥ ३ ॥
या वागित्यादिवाक्यानामर्थं सङ्क्षिपति –
तथेत्यादिना ॥ ४ ॥
अतो यानीत्यादि व्याचष्टे –
न केवलमिति ।
व्यानेन निर्वर्तयतीति पूर्वेण सम्बन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र सम्बन्धः ।
प्रयत्नाधिक्यनिर्वर्त्यानि कर्माण्येवोदाहरति –
यथेति ।
यथा तानि कर्माणि तथाऽन्यान्यप्येवंप्रकाराणीति योजना ।
व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह –
अत इति ।
वैशिष्ट्येऽपि किं स्यादिति चेत्तदाह –
विशिष्टस्येति ।
वैशिष्ट्यफलमुपसंहरति –
एतस्येति ।
फलवत्त्वादित्युक्तमुपास्तिफलं स्पष्टयति –
कर्मेति ।
व्यानदृष्ट्योद्गीथोपासनस्याङ्गावबद्धत्वादिति शेषः ॥ ५ ॥
उद्गीथोपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति –
अथेति ।
विशेषणतात्पर्यं दर्शयति –
भक्तीति ।
उद्गीथाक्षराण्युपासीतेत्युक्ते भक्त्यक्षराण्युपास्यानि प्राप्तानि तानि मा भूवन्निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः ।
विशेषणश्रुतिं व्याकरोति –
उद्गीथेति ।
नामाक्षरोपासनमुद्गीथोपासनस्याकिञ्चित्करमित्याशङ्क्याऽऽह –
नामेति ।
यथा लोके कृष्णमिश्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथेहापीत्यर्थः ।
नामाक्षरोपासने नामवदुपासनेऽपि तदुपासनमेव कथमित्याशङ्क्य विभजते –
प्राण एवेति ।
प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह –
कथमित्यादिना ।
गीरित्यस्मिन्नक्षरे वाग्दृष्टिः कर्तव्येत्याह –
वाग्गीरिति ।
वाचो गिरश्च सादृश्यं दर्शयति –
वाचो हेति ।
उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह –
तथेति ।
थकारान्नयोरपेक्षितं सादृश्यं दर्शयति –
अन्ने हीति ॥ ६ ॥
प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्यौरेवोदित्यादौ तु नोक्तं तथा च तत्र सादृश्याभावे कथं दृष्टिकरणमित्याशङ्क्याऽऽह –
त्रयाणामिति ।
अन्तरिक्षमाकाशस्तदन्तःप्रतिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह –
गिरणादिति ।
अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् ।
“सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह –
स्वर्गेति ।
यजुषा स्वाहास्वधादिनेति यावत् ।