अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

प्रथमोऽध्यायः: चतुर्थः खण्डः

प्रासङ्गिकं हित्वा प्रकृ­त­म­नु­स­न्धत्ते –
ओमि­त्ये­त­दि­त्या­दीति ।

पुनरुपादानस्य तात्पर्यमाह –
उद्गीथेति ।
आदिशब्देन पूर्वो­क्ता­न्यु­प­स­र­णानि गृह्यन्ते । उद्गीथस्य तैर्व्य­व­हि­त­त्वा­त्प्र­क­र­ण­वि­च्छे­द­श­ङ्कायां ततोऽ­न्य­स्मि­न्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुन­रु­पा­दा­न­मि­त्यर्थः ।

देवा वै मृत्यो­रि­त्या­दे­स्ता­त्प­र्य­माह –
प्रकृतस्येति ।

अक्ष­र­व्या­ख्या­न­प्रा­प्ता­व­नु­वा­द­भागं प्रत्याह –
ओमित्यादीति ।
देवासुरा ह वै यत्रेत्यत व्याख्याता देवा मार­का­दा­सु­रा­त्पा­प्मनः सकाशादिति यावत् ॥ १ ॥

कोऽयं कर्मणि प्रवेशो नाम तत्राऽह –
वैदिकमिति ।
तदिति वैदिकं कर्मोच्यते ।

ते छन्दोभिरित्यादि व्याचष्टे –
किञ्चेति ।
न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैक­स्मि­न्क­र्म­ण्य­नु­ष्ठी­य­माने विनि­यु­क्ता­न्म­न्त्रा­न्हित्वा कर्मा­न्त­रे­ष्व­व­शि­ष्टै­र्ज­पादि कुर्वन्तः स्वात्मानं देवा­श्छा­दि­त­वन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः ।

तेषां छन्दो­भि­श्छा­दि­तत्वे छन्दसां छन्द­स्त्व­प्र­सि­द्धि­प्र­का­र­म­भि­न­यति –
तत्तस्मादिति ॥ २ ॥

कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्तेत्याह –
तानिति ।
तत्रेति वैदि­क­क­र्म­प्रा­र­म्भोक्तिः । उशब्दोऽप्यर्थः । यथो­क्त­क­र्म­प­रा­नपि तान्मृत्युः पर्यपश्यदिति सम्बन्धः ।

कर्मणां मृत्यु­प­द­गो­च­रत्वं दृष्टान्तेनाऽऽह –
यथेति ।

दार्ष्टा­न्ति­क­भा­गस्य विवक्षितमर्थं सङ्गृह्णाति –
मृत्युरिति ।

दार्ष्टान्तिके क्षुद्रो­द­क­स्था­नीयं किं स्यादिति प्रश्नपूर्वकं दर्शयति –
क्वासा­वि­त्या­दिना ।

ऋगादीनां नित्यत्वेन क्षयाभावान्न क्षुद्रो­द­क­स्था­नी­य­ते­त्या­शङ्क्य विवक्षितमर्थमाह –
ऋगिति ।
कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धेति भावः ।

मृत्यु­प­रि­हा­रो­पा­य­मु­प­दि­शति –
ते नु देवा इत्यादिना ।
कर्मभ्यः सकाशादूर्ध्वा व्यावृत्ता इत्यर्थः । सर्व­क­र्म­स­ङ्ग्र­हार्थं कर्मभ्य इति बहुवचनम् ।

अवै­दि­क­क­र्म­त्या­गस्य कर्मिष्वपि सिद्ध­त्वा­द्वै­दि­क­क­र्म­त्या­गार्थं विशिनष्टि –
ऋच इति ।

कर्म­त्या­ग­मा­त्रा­त्कृ­त­कृ­त्य­ता­शङ्कां वारयति –
तेनेति ।

किं तदक्षरं तदाह –
ओङ्कारेति ॥ ३ ॥

उदा­त्ता­दि­रू­प­त्वा­भा­वा­द­क्ष­रस्य न स्वर­श­ब्द­त्व­मि­त्या­शङ्क्य परिहरति –
कथमित्यादिना ।
ऋच­मा­प्नो­त्य­ध्य­य­नेन स्वाधीनां करोतीत्यर्थः । अति­स्व­र­त्य­ति­श­ये­नाऽऽ­द­र­धि­यो­च्चा­र­य­तीति यावत् । ऋग्यजुःसाम्नां प्रत्ये­क­मो­ङ्का­रो­च्चा­र­ण­द्वा­रे­णै­वाऽऽ­प्ति­द­र्श­ना­दि­त्य­ति­श­ब्दार्थः । उश­ब्दोऽ­पि­प­र्यायः । सम्प्र­ति­प­न्न­स्व­र­व­दिति दृष्टान्तार्थः । अमृतमभयं तथा­वि­ध­ब्र­ह्म­प्र­ती­क­त्वा­दि­त्यर्थः । तत्प्रविश्य ब्रह्मबुद्ध्या तद्ध्यानं कृत्वेत्यर्थः ॥ ४ ॥

भवतु देवा­ना­मे­व­म­स्माकं तु किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
स योऽन्योऽपीति ।

राजगृहं प्रविष्टस्य विशे­ष­द­र्श­ना­द­क्षरं प्रविष्टस्यापि फले विशेषः स्यादि­त्या­श­ङ्क्याऽऽह –
तत्प्रविश्येति ।
अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य चतुर्थः खण्डः ॥