अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: द्वाविंशः खण्डः

सामोपासनं समाप्तं चेत्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह –
सामेति ।

आदिशब्देन स्वरादयो वर्णा गृह्यन्ते किमि­त्यु­द्गा­तु­र्य­थो­क्तो­पा­स्ति­रु­च्यते तत्राऽऽह –
फलेति ।
मृत्यु­प­रि­हा­रादिः फल­वि­शे­ष­स्त­त्स­म्ब­न्धा­दे­षो­पा­स्ति­र­नु­ष्ठे­ये­त्यर्थः । पशुभ्यो हितत्वमस्य वच­ना­द्ग­म­यि­त­व्यम् ।

वाक्य­स्थ­मि­ति­शब्दं व्याचष्टे –
इति कश्चिदिति ।
इत्यविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः ।

तस्य प्राजापत्यत्वे हेतुमाह –
आनिरुक्त्यादिति ।
नील­पी­ता­दि­भि­र्नि­श्चि­त्या­व­च­ना­दि­त्यर्थः ॥१॥

स्वर­वि­शे­ष­ज्ञा­न­पू­र्व­क­मु­द्गा­न­काले ध्यातव्यार्थमाह –
अमृतत्वमिति ।
स्वरो­ष्म­व्य­ञ्ज­ना­दिभ्य इत्य­त्राऽऽ­दि­श­ब्देन स्थान­प्र­य­त्ना­दि­सं­ग्रहः ॥२॥

केना­प्या­क्षि­प्त­स्यो­द्गा­तु­रु­द्गा­न­काले प्रतीकारज्ञानाय स्वरा­दि­दे­व­ता­ज्ञा­न­मु­प­न्य­स्यति –
सर्वे स्वरा इति ।
शषसहादय इत्या­दि­श­ब्द­स्त­द­वा­न्त­र­भे­दा­भि­प्रायः यत्तव वक्त­व्य­मि­त्य­स्मा­दूर्ध्वं त च्छब्दो द्रष्टव्यः ॥३॥

तथैव स्वरेष्विवेति यावत् ॥४॥

देव­ता­ज्ञा­न­ब­ले­नो­द्गात्रा न प्रमत्तेन भवितव्यं स्वरा­दी­ना­म­न्य­थो­च्चा­रणे देव­ता­श­री­र­भे­द­प्र­स­ङ्गा­दतः स्वरा­द्यु­च्चा­रणे तात्पर्यं कर्त­व्य­मि­त्यु­द्गा­तार शिक्षयति –
यत इति ।

प्रयोगकाले चिन्तनीयमर्थं कथयति –
तथेऽति ।
यथोक्तरीत्या स्वराणां प्रयो­गा­व­स्था­या­मि­त्यर्थः । आदधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयो­गा­व­स्था­या­मिति यावत् । विवृ­त­प्र­य­त्नो­पेताः प्रयोक्तव्या इति शेषः ।

तत्रापि ध्यातव्यं दर्शयति –
प्रजापतेरिति ।
अति­द्रु­तो­च्चा­र­णेन वर्णो वर्णान्तरे यथा निक्षिप्तो न भवति तथा प्रयु­ज्य­मा­न­त्व­म­न­भि­नि­क्षि­प्त­त्वम् ।

मृत्यो­रा­त्मा­न­मिति वाक्योपादानं तस्यार्थमाह –
बालानिवेति ।
यथा लोकः बालान्परिहरति तथा मृत्यो­रा­त्मा­न­महं परिहराणीति ध्यात्वा­स्प­र्शानां प्रयोगः कर्तव्य इत्यर्थः ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य द्वाविंशः खण्डः ॥