आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: सप्तमः खण्डः
आधिदैविकोपास्त्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह –
अधरेति ।
कथमृक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह –
प्राण इति ।
स्थानमात्रत्वं व्यावर्तयति –
सहेति ॥ १ ॥
भोक्तारं व्यावर्तयति –
आत्मेति ।
छायात्मनः सामत्वे हेतुमाह –
तत्स्थत्वादिति ।
चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥
आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किञ्चिदुपदिशति –
अथेति ।
अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।
तदेव रूपं विशिनष्टि –
भा इति ।
ऋचि पूर्वोक्तरूपदृष्टिवद्वक्ष्यमाणरूपदृष्टिरपि साम्नि कर्तव्येत्याह –
अथेति ।
यथाऽऽदित्यमण्डले समधिगम्यमतिकृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्शक्तेरधिष्ठानं तादृग्रूपमुपलभ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥
आध्यात्मिकप्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयति –
अथेति ।
दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्क्याऽऽह –
पूर्ववदिति ।
यथा पूर्वस्मिन्नाधिदैविके वाक्ये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्यापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः ।
छायात्मपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह –
सैवेति ।
येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः ।
ऋच्युक्तं न्यायं साम्न्यतिदिशति –
तथेति ।
यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः ।
ऋक्सामशब्दयोरर्थान्तरमाह –
उक्थेति ।
ऋक्साम यद्वदिति दृष्टान्तस्तथाशब्दार्थः ।
कथमृगाद्यात्मत्वं परस्येत्याशङ्क्याऽऽह –
सर्वात्मकत्वादिति ।
ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः ।
छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति –
तस्येति ।
किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह –
हिरण्मय इत्यादीति ।
इतश्च नायं छायात्मेत्याह –
यावमुष्येति ।
नामातिदेशोऽप्येतमर्थमुपोद्बलयतीत्याह –
यच्चेति ।
आदित्यचाक्षुषयोरुपास्ययोर्भेदादुपासनाऽपि भिन्नेति शङ्कते –
स्थानेति ।
आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिरण्यश्मश्रुरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्ययमीशितृत्वविषयो भेदव्यपदेशः । अतश्चैतयोर्भेदादुपासनमपि भिन्नमेवेत्यर्थः ।
नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति –
नेति ।
उपासकस्तावदमुनाऽऽदित्यात्मना पराचो लोकान्देवकामांश्चाऽऽप्नोति । स एवानेन चाक्षुषरूपेणार्वाचीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरुपपद्यते । तस्माद्भेदकल्पना न युक्तेत्यर्थः ।
उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्यभावोपगमादुपपन्नमिति शङ्कते –
द्विधेति ।
एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।
एकस्यानेकशरीरपरिग्रहेपि न स्वरूपभेदोपपत्तिरिति परिहरति –
न चेतनस्येति ।
एकत्वसाधकसद्भावस्तच्छब्दार्थः ।
परोक्तं भेदकमनुवदति –
यस्त्विति ।
भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः ।
दूषयति –
न तदित्यादिना ।
तदित्यतिदिश्यमानं रूपाद्युक्तम् ॥ ५ ॥
आधिदैविकपुरुषवदाध्यात्मिकेऽपि पुरुषे निरतिशयैश्वर्यश्रवणाच्च तयोरैक्यमित्याह –
स एष इति ।
तयोर्भेदाभावे हेत्वन्तरमाह –
तत्तस्मादिति ।
ईश्वरस्यैव प्रागुक्तहेतोर्गानविषयत्वयोग्यत्वादित्यर्थः ।
तच्छब्दार्थं स्फुटयति –
यस्मादिति ॥ ६ ॥
स्थानभेदेन यथोक्तोपासन्नवतः फलोक्त्यर्थं पातनिकां करोति –
अथेति ।
एतत्सामेति सम्बन्धः ।
एवं विद्वानित्येतदेव विभजते –
यथोक्तमिति ।
विद्वानित्यस्मादुपरिष्टादथशब्दः सम्बध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति सम्बन्धः ।
आप्तिप्रकारं विवृणोति –
स एष इति ।
उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोर्निरङ्कुशमैश्वर्यं युक्तमित्याशङ्क्याऽऽह –
आदित्येति ।
अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥
अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति –
तस्मादिति ।
तच्छब्दार्थमेव कथयति –
एष हीति ।
उद्गातारं विशिनष्टि –
कोऽसाविति ।
उद्गीथे परस्य सम्पाद्योपासनं विभागेनोक्तमुपसंहरति –
द्विरुक्तिरिति ॥ ८ - ९ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य सप्तमः खण्डः ॥