अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

प्रथमोऽध्यायः: सप्तमः खण्डः

आधि­दै­वि­को­पा­स्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह –
अधरेति ।

कथमृक्सामयोरिव वाक्प्रा­ण­यो­र­ध­रो­प­रि­स्था­नत्वं तत्राऽऽह –
प्राण इति ।

स्थानमात्रत्वं व्यावर्तयति –
सहेति ॥ १ ॥

भोक्तारं व्यावर्तयति –
आत्मेति ।

छायात्मनः सामत्वे हेतुमाह –
तत्स्थत्वादिति ।
चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥

आध्यात्मिकानि कानि­चि­द­ङ्गो­पा­स­ना­न्यु­क्त्वाऽ­न­न्तरं प्रका­रा­न्त­रे­णा­ङ्गो­पा­स­न­मेव किञ्चिदुपदिशति –
अथेति ।
अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।

तदेव रूपं विशिनष्टि –
भा इति ।

ऋचि पूर्वो­क्त­रू­प­दृ­ष्टि­व­द्व­क्ष्य­मा­ण­रू­प­दृ­ष्टि­रपि साम्नि कर्तव्येत्याह –
अथेति ।
यथाऽऽ­दि­त्य­म­ण्डले सम­धि­ग­म्य­म­ति­कृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्श­क्ते­र­धि­ष्ठानं तादृ­ग्रू­प­मु­प­ल­भ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥

आध्या­त्मि­क­प्र­धा­नो­पा­स­न­शे­ष­त्वे­ना­ङ्गो­पा­स­ना­न्यु­क्त्वाऽ­न­न्तरं प्रधा­नो­पा­स­ना­वि­षयं दर्शयति –
अथेति ।

दृश्यत इति प्रयो­गा­च्छा­या­त्माऽ­य­मि­त्या­श­ङ्क्याऽऽह –
पूर्ववदिति ।
यथा पूर्व­स्मि­न्ना­धि­दै­विके वाक्ये समा­हि­त­चे­तो­भि­रा­दि­त्य­पु­रु­षस्य दृश्यत्वमुक्तं तथा चाक्षु­ष­पु­रु­ष­स्यापि विशि­ष्टा­धि­का­रि­भि­रेव दृश्य­त्व­मे­ष्ट­व्य­मि­त्यर्थः ।

छायात्मपक्षे वाक्य­शे­ष­वि­रो­ध­म­भि­प्रे­त्याऽऽह –
सैवेति ।
येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः ।

ऋच्युक्तं न्यायं साम्न्यतिदिशति –
तथेति ।
यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः ।

ऋक्सा­म­श­ब्द­यो­र­र्था­न्त­र­माह –
उक्थेति ।
ऋक्साम यद्वदिति दृष्टा­न्त­स्त­था­श­ब्दार्थः ।

कथ­मृ­गा­द्या­त्मत्वं पर­स्ये­त्या­श­ङ्क्याऽऽह –
सर्वा­त्म­क­त्वा­दिति ।
ब्रह्मशब्दस्य परमात्मविषयत्वं व्याव­र्त­य­न्प्र­क­र­णा­दि­त्यु­क्त­न्या­येन त्रयो वेदाः स एव पुरुष इत्युपसंहारः ।

छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति –
तस्येति ।

किं तदा­दि­त्य­पु­रु­षस्य रूप­मि­त्य­पे­क्षा­या­माह –
हिरण्मय इत्यादीति ।

इतश्च नायं छायात्मेत्याह –
यावमुष्येति ।

नामा­ति­दे­शोऽ­प्ये­त­म­र्थ­मु­पो­द्ब­ल­य­ती­त्याह –
यच्चेति ।

आदि­त्य­चा­क्षु­ष­यो­रु­पा­स्य­यो­र्भे­दा­दु­पा­स­नाऽपि भिन्नेति शङ्कते –
स्थानेति ।
आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिर­ण्य­श्म­श्रु­रि­त्यादि ऋगा­दि­गे­ष्ण­त्वा­दि­र्गुण उदित्यादि नाम तेषा­म­ति­दे­श­स्त­स्यै­तस्य तदेव रूपमित्यादिः । ये चामु­ष्मा­त्प­राञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैत­स्मा­द­र्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्य­य­मी­शि­तृ­त्व­वि­षयो भेदव्यपदेशः । अत­श्चै­त­यो­र्भे­दा­दु­पा­स­न­मपि भिन्न­मे­वे­त्यर्थः ।

नोपा­स्य­भे­दा­दु­पा­स­ना­भे­दोऽ­स्तीति दूषयति –
नेति ।
उपा­स­क­स्ता­व­द­मु­नाऽऽ­दि­त्या­त्मना पराचो लोका­न्दे­व­का­मां­श्चाऽऽ­प्नोति । स एवानेन चाक्षु­ष­रू­पे­णा­र्वा­ची­न­लो­का­न्म­नु­ष्य­का­मां­श्चाऽऽ­प्नो­तीति श्रूयते । न चैकस्य वस्तुतो भिन्नो­भ­य­रू­प­त्व­प्रा­प्ति­रु­प­प­द्यते । तस्मा­द्भे­द­क­ल्पना न युक्तेत्यर्थः ।

उभ­या­त्म­क­त्व­मे­क­स्यापि विद्या­मा­हा­त्म्या­द्वे­द्य­भा­वो­प­ग­मा­दु­प­प­न्न­मिति शङ्कते –
द्विधेति ।

एकस्य विद्या­व­शा­द­ने­क­रू­पत्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।

एक­स्या­ने­क­श­री­र­प­रि­ग्र­हेपि न स्वरू­प­भे­दो­प­प­त्ति­रिति परिहरति –
न चेतनस्येति ।
एक­त्व­सा­ध­क­स­द्भा­व­स्त­च्छ­ब्दार्थः ।

परोक्तं भेदकमनुवदति –
यस्त्विति ।
भेद­का­र­ण­मि­त्य­स्मा­दु­प­रि­ष्टा­दि­ति­शब्दो द्रष्टव्यः ।

दूषयति –
न तदित्यादिना ।
तदि­त्य­ति­दि­श्य­मानं रूपाद्युक्तम् ॥ ५ ॥

आधि­दै­वि­क­पु­रु­ष­व­दा­ध्या­त्मि­केऽपि पुरुषे निर­ति­श­यै­श्व­र्य­श्र­व­णाच्च तयोरैक्यमित्याह –
स एष इति ।

तयोर्भेदाभावे हेत्वन्तरमाह –
तत्तस्मादिति ।
ईश्वरस्यैव प्रागु­क्त­हे­तो­र्गा­न­वि­ष­य­त्व­यो­ग्य­त्वा­दि­त्यर्थः ।

तच्छब्दार्थं स्फुटयति –
यस्मादिति ॥ ६ ॥

स्थानभेदेन यथो­क्तो­पा­स­न्न­वतः फलोक्त्यर्थं पातनिकां करोति –
अथेति ।
एतत्सामेति सम्बन्धः ।

एवं विद्वा­नि­त्ये­त­देव विभजते –
यथोक्तमिति ।
विद्वा­नि­त्य­स्मा­दु­प­रि­ष्टा­द­थ­शब्दः सम्बध्यते । सोऽमुनैव लोका­न्का­मां­श्चाऽऽ­प्नो­तीति सम्बन्धः ।

आप्तिप्रकारं विवृणोति –
स एष इति ।

उपा­स्य­व­दु­पा­स­क­स्यापि कुतो निर­ति­श­य­मै­श्वर्यं न हि द्वयो­र्नि­र­ङ्कु­श­मै­श्वर्यं युक्त­मि­त्या­श­ङ्क्याऽऽह –
आदित्येति ।
अमु­नै­वाऽऽ­दि­त्ये­ने­त्यु­क्त­मे­वात्र व्यक्तीकृतम् ॥ ७ ॥

अथ­श­ब्द­स्त­था­प­र्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति –
तस्मादिति ।

तच्छब्दार्थमेव कथयति –
एष हीति ।

उद्गातारं विशिनष्टि –
कोऽसाविति ।

उद्गीथे परस्य सम्पाद्योपासनं विभा­गे­नो­क्त­मु­प­सं­ह­रति –
द्विरुक्तिरिति ॥ ८ - ९ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य सप्तमः खण्डः ॥