अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: तृतीयः खण्डः

महा­भू­ता­ना­म­चे­त­नानां ब्रह्म­का­र्य­तोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्म­का­र्य­तै­वेति वक्तुं तान्यनुवदति –
तेषामिति ।
पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसि­द्ध­त्व­द्यो­त­नार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भव­न्ती­त्यु­त्त­रत्र सम्बन्धः ।

भूतशब्दस्य तेजःप्रभृतिषु रूढ­त्वा­त्ते­षा­मिह ग्रहणं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
एषामितीति ।
भूतानां प्रत्य­क्ष­त्व­मे­षा­मिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्य­क्ष­त्वा­यो­गा­दि­त्यर्थः ।

तेजःप्रभृतीनां प्रत्य­क्ष­त्वा­यो­गा­दे­षा­मिति निर्दे­शा­नु­प­पत्तिं समर्थयते –
तेषामिति ।

तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह –
देवताशब्देति ।
देवतानां परो­क्ष­त्व­प्र­सि­द्धे­रे­तेषु च देव­ता­प­द­प्र­यो­गा­न्नै­तेषां प्रत्य­क्ष­त्वो­प­प­त्ति­रि­त्यर्थः । तस्मा­न्म­हा­भू­ता­ना­मत्र भूत­श­ब्दे­नो­पा­दा­ना­यो­गा­दि­त्यर्थः ।

आण्डजं पक्ष्या­दी­त्ये­त­त्प्र­त्य­क्षे­णो­प­पा­द­यति –
पक्षि­स­र्पा­दिभ्यो हीति ।
अन्यदपीति गोधाद्युच्यते ।

अण्डा­ज्जा­त­मि­ति­व्यु­त्प­त्त्य­नु­सा­रे­णा­ण्ड­मेव बीजं न त्वण्डजमिति शङ्कते –
नन्विति ।

पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति –
सत्यमित्यादिना ।

न केवलं श्रुतेरेषा व्यवस्था किन्तू­प­प­त्ते­श्चे­त्याह –
दृश्यते चेति ।
सत्येवाण्डजादौ तज्जा­ती­य­म­ण्ड­जादि सन्तत्या जायते तदभावे तदभाव इत्य­न्व­य­व्य­ति­रे­का­भ्या­म­ण्ड­जा­द्य­वा­ण्ड­ज­जा­ति­का­र­णम् । यद्य­प्व­ण्डा­द्य­भावे नाण्डजादि जायते तथाऽ­प्य­ण्डा­दि­भा­वेऽ­ण्ड­जा­द्य­भा­वेऽपि तद्भवतीति नान्वयः । तस्मा­द­ण्ड­जा­दी­ना­म­ण्ड­जा­न्येव बीजानि नाण्डा­दी­नी­त्यर्थः । धानाशब्दो बीजविषयः ।

ननु स्वेदजं संशोकजमिति बीज­द्व­य­म­व­शि­ष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह –
स्वेदजेति ।
स्वेदमुद्भिद्य जायमानं दंशमशकादि तदु­द्भि­ज्जेऽ­न्त­र्भ­वति । संशो­का­दौ­ष्ण्या­ज्जा­य­मानं यूकादि तद­ण्ड­जेऽ­न्त­र्भ­वति । यद्वा स्वेदजं यूकादि तद­ण्ड­जेऽ­न्त­र्भूतं संशो­का­दौ­ष्ण्या­द्भू­मि­मु­द्भिद्य जातं मशकादि तस्यो­द्भि­ज्जेऽ­न्त­र्भावः । तथा च न तयोरस्ति पृथ­ग्व्यु­त्पा­द­ना­पे­क्षे­त्यर्थः ।

स्वेद­जा­दे­र­ण्ड­जा­दा­व­न्त­र्भा­वस्य प्रापकमाह –
एवमिति ॥१॥

जीवाविष्टानां भूतानां सत्कार्यत्वं प्रक­र­ण­प्रा­मा­ण्या­दु­क्त­मि­दानीं जीवानां विशिष्टरूपेण ब्रह्म­का­र्य­त्वेऽपि न स्वरूपेण तत्कार्यत्वं ब्रह्मै­वो­पा­धि­प्र­विष्टं जीव­व्य­व­हा­रा­स्प­द­मि­त्य­ङ्गी­का­रा­त्तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिकानि कार्याणि तेषां नामरूपनिर्माणं वक्त­व्य­मि­त्य­भि­प्रे­त्यो­त्त­र­ग्र­न्थ­मा­दाय व्याकरोति –
सेयमित्यादिना ।

यथा बहु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयो­ज­ना­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
ह्रदेवेति ।
इदानीं महा­भू­त­सृ­ष्टे­र­न­न्त­र­मिति यावत् । ब्रह्मणो मायोपाधिकस्य कार­ण­त्वा­न्मा­यो­पा­धि­व­शा­त्पू­र्व­सृ­ष्टा­व­नु­भू­तत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् ।

आत्म­ने­ति­वि­शे­ष­णस्य तात्पर्यमाह –
प्राणेति ।

निर्वि­क­ल्प­क­चि­न्मा­त्र­रूपा देवता माया­व­शा­न्म­हा­भू­तानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्र­वि­रा­ट्प्र­भृ­तिषु सम­ष्टि­व्य­ष्ट्या­त्मसु देहेषु प्रविश्य तत्त­द्दे­हा­भि­मा­न­वती देव­द­त्ता­दि­नाम्ना रूपेण च शौक्ल्यादिना संबोज्य पिण्डं व्याकरोतीत्याह –
अनुप्रविश्येति ।

देवतायाः सर्व­ज्ञ­त्वा­द­सं­सा­रि­त्वा­त्स्वा­त­न्त्र्याच्च सङ्क­ल्प­प्र­वे­शा­व­यु­क्ता­विति शङ्कते –
नन्विति ।

किं साक्षा­द­नु­प्र­वे­शादि विरुध्यते किं वा जीवद्वाराऽपीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

साक्षा­द­नु­प्र­वे­शादि नास्ति चेत्तर्हि कथं तदि­त्या­का­ङ्क्षा­पू­र्वकं द्वितीयं दूषयति –
कथमिति ।
देवताया जीव­द्वा­रे­णा­नु­प्र­वे­शा­द्य­वि­रु­द्ध­मिति शेषः ।

अविरोधमेव साधयितुं जीवस्वरूपमाह –
जीवो हीति ।
आभि­मु­ख्ये­ना­ह­मि­त्या­प­रो­क्ष्येण भासत इत्याभासः स्वतोऽ­प­रो­क्ष­श्चि­त्प्र­ति­बि­म्ब­स्त­न्मात्रं जीवो नामेत्यर्थः ।

तस्य स्वरू­पे­णा­ना­दि­त्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –
बुद्ध्यादीति ।
बुद्ध्या­दि­भि­र्भू­त­मा­त्रा­दि­भिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।

ननु चिदात्मा कूट­स्थोऽ­स­ङ्गोऽ­द्वि­ती­य­श्चे­ष्यते स कथं बुद्ध्या­दि­भि­र्भू­त­मा­त्रा­दि­भिश्च चिदात्मनः संसृज्यते तत्राऽऽह –
अचिन्त्येति ।
सत्त्वा­दि­प्र­का­रै­र­श­क्य­चि­न्त­नी­याऽ­ना­दि­र­नि­र्वाच्या सम्य­ग्ज्ञा­न­म­न्त­रेण नाशशून्या दण्डायमाना या माया­श­क्ति­स्तस्या विष­य­त्वे­नाऽऽ­ना­श्र­य­त्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनि­ष्ठ­मा­या­श­क्ति­व­शा­द्बु­द्ध्या­दि­भि­रा­त्मनः सम्बन्धः सिद्ध्य­ती­त्यर्थः ।

बुद्ध्या­दि­स­म्ब­न्ध­फ­ल­माह –
चैतन्येति ।
तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।

बुद्ध्या­दि­भि­रा­त्मनः सम्बन्धे माया­श­क्ति­रु­पा­दा­न­मि­त्युक्तं तत्रैव निमित्तकारणमाह –
देवतेति ।
आव­र­ण­वि­क्षे­प­श­क्ति­स­म्पन्ना हि माया­श­क्ति­स्त­तोऽ­वि­द्यो­त्थ­दे­श­का­ला­द्य­न­व­च्छि­न्न­दे­व­ता­स्व­रू­पोऽ­ह­मि­ति­वि­शे­षा­ग्र­ह­ण­मा­व­रणं निमित्तं कृत्वा बुद्ध्या­द्य­ध्यासः सिद्ध्य­ती­त्यर्थः ।

बुद्ध्या­द्य­ध्या­सस्य कर्यान्तरं दर्शयति –
सुखेति ।

परैव तर्हि देवता संसारिणी स्यादिति चेत्स­त्य­म­ज्ञा­न­द्वारा बुद्ध्या­दि­स­म्ब­न्ध­म­नु­भूय जीवत्वं प्राप्य सैव संसरतीत्याह –
छायामात्रेणेति ।

परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।

तस्याः स्वतो दुःखा­द्य­स­म्बन्धे श्रुतिं प्रमाणयति –
सूर्य इति ।

उपाधिद्वारा तस्याः संसारित्वे च श्रुति­र­स्ती­त्याह –
ध्यायतीति ।

प्रतिबिम्बे छाया­श­ब्द­प्र­यो­गा­न्मि­थ्या­त्व­मि­ष्ट­मिति मन्वानः शङ्कते –
नन्विति ।

तन्मृ­षा­त्व­मि­ष्ट­मे­वे­त्या­श­ङ्क्याऽऽह –
तथेति ।
जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धे­तु­र्मो­क्ष­स्त­द्धे­तु­श्चेति सर्वं मृषा स्यादित्यर्थः ।

विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्य­त्वा­ज्जी­वस्य ब्रह्मा­स्मी­ति­ज्ञा­ना­न्मुक्तिः सम्भवतीति समाधत्ते –
नैष दोष इति ।

यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –
सर्वं चेति ।

कथं तर्हि तस्य मिथ्या­त्वो­क्ति­रि­त्या­श­ङ्क्याऽऽह –
स्वत इति ।

यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीव­श­ब्द­वा­च्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीक­र्त­व्य­मि­त्याह –
तथेति ।

अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्य­प्र­प­ञ्च­स्यैव मिथ्या­त्व­मि­ष्य­ता­मि­त्या­श­ङ्क्याऽऽह –
यक्षानुरूपो हीति ।
लौकि­क­न्या­या­नु­सा­रेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।

यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वै­त­व्या­ह­ति­रि­त्युक्तं तद­प्यु­क्त­न्या­येन निरस्तमित्याह –
अत इति ।

अद्वैतवादे दोषाभावं वैध­र्म्य­दृ­ष्टा­न्तेन स्पष्टयति –
यथेति ॥२॥

व्याक­र­वा­णी­त्ये­त­दन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –
सैवमित्यादिना ।
व्याक­र­वा­णी­त्यै­क्ष­तेति सम्बन्धः ।

कथं पुनरिदं त्रिवृ­त्क­र­ण­मि­त्या­शङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदि­त­र­भा­ग­यो­र्नि­क्षिप्य त्रिवृत्करणं विवक्षितमित्याह –
एकैकस्या इति ।

गुण­प्र­धा­न­भा­वा­न­ङ्गी­कारे समा­न­प­रि­मा­ण­सू­त्र­त्र­य­नि­र्मि­त­र­ज्जु­व­त्त्रि­वृ­त्क­र­ण­मे­क­मेव स्यादित्याह –
अन्यथेति ।

एवकारार्थं दर्शयति –
न त्विति ।
गुणप्रधानभावेन त्रिवृ­त्क­र­ण­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

इतश्च गुणप्रधानभावेन त्रिवृ­त्क­र­ण­मे­ष्ट­व्य­मि­त्याह –
एवं हीति ।

पृथ­ङ्ना­म­प्र­त्य­य­ला­भे­नापि किं स्यादि­त्या­श­ङ्क्याऽऽह –
पृथगिति ।

सेयमित्यादि व्याचष्टे –
एवमित्यादिना ॥३॥

संक्षेपेण त्रिवृत्करणं प्रति­ज्ञा­यो­दा­ह­र­णतः स्फुटी­क­र्तु­मा­र­भ­माणो देहे त्रिवृ­त्क­र­ण­स्याग्रे स्फुटी­क­र्त­व्य­त्वा­द्दे­हा­ति­रि­क्तेषु प्रथमं तदु­दा­ह­र्तु­मु­प­क्र­मते –
तिष्ठतु तावदिति ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य तृतीयः खण्डः ॥