अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: चतुर्थः खण्डः

कथ­मु­दा­ह­र­ण­तोऽ­व­धा­र­ण­मि­त्या­श­ङ्क्या­न­न्त­र­वा­क्य­म­व­ता­र­यति –
यत्तदिति ।

उदाहरणशब्दं व्युत्पादयति –
उदाहरणं नामेति ।

तत्रैव श्रुतिमवतार्य व्याचष्टे –
तदेतदित्यादिना ।
अत्रि­वृ­त्कृ­तानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवे­क­द­शा­या­मि­त्यर्थः ।

अक्ष­रा­र्थ­मुक्त्वा वाक्य­ता­त्प­र्या­र्थ­माह –
प्रागिति ।

रूप­त्र­य­वि­वे­का­त्प्रा­ग­व­स्था­या­म­ग्नि­श­ब्द­बुद्धी तद्वि­वे­का­दूर्ध्वं तन्नि­वृ­त्ति­रि­त्ये­त­मर्थं दृष्टान्तेन समर्थयते –
यथेत्यादिना ।

अग्निविषये श्रुतं हित्वाऽ­धि­क­क­ल्प­नायां नास्ति निबन्धनमिति शङ्कते –
नन्विति ।

रोहि­ता­दि­रू­प­त्र­य­वि­वेके सत्य­ग्ने­र­ग्नि­त्व­म­प­ग­च्छ­ती­त्यत्र दृष्टान्तमाह –
यथेति ।

शब्द­बु­द्धि­प्र­क्षे­पेऽपि न श्रुत­त्या­गोऽ­स्तीति परिहरति –
नैवमिति ।

तत्र प्रमा­ण­त्वे­ना­न­न्त­र­वा­क्य­मा­दाय व्याचष्टे –
यत इति ।
अग्ने­र्ना­म­मा­त्र­त्व­म­तः­श­ब्दार्थः ॥१॥

प्रक्र­म­प­र्या­लो­च­ना­या­मु­दा­ह­रणे न्यूनत्वमस्तीति शङ्कते –
नन्विति ।

यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तद­न्न­स्ये­त्यु­दा­ह­र­ण­स­म्भ­वान्न न्यूनतेति परिहरति –
नैष दोष इति ।

तर्हि तेजो­वि­ष­य­म­प्यु­दा­ह­र­ण­मू­ह­नीयं किमि­त्यु­दा­हृ­त­मि­त्या­श­ङ्क्याऽऽह –
तेजस इति ।
यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्ये­द­ग्ने­स्त्र­याणां रूपत्त्वेन यथो­क्त­रू­प­वि­भा­गस्य तेषु स्फुट­त्व­स­म्भ­वा­त्ते­जसो दृष्टा­न्त­प्र­द­र्श­न­म­न्ना­दि­वि­ष­यो­दा­ह­र­णो­प­ल­क्ष­णार्थं, तेन नोपे­क्षि­त­मि­त्यर्थः ।

अबन्नयोरपि त्रिवृ­त्क­र­ण­मु­प­ल­क्षितं चेत्तर्हि तत्र रस­ग­न्ध­यो­र­सा­धा­र­ण्या­त्त­यो­स्त्रि­वृ­त्क­र­ण­मु­दा­ह­र्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
गन्धरसयोरिति ।
यथा यद­ब­न्न­यो­र्भा­स्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेज­सोऽ­पा­म­ग्ने­श्चा­स्तीति ज्ञातुं शक्य­मि­त्य­नु­दा­ह­रणं तयोरित्यर्थः ।

ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयो­स्र­या­णा­म­स­म्भ­वो­क्ति­स्त­त्राऽऽह –
न हीति ।
सम्भावितावपि तौ त्रिषु विवे­क्तु­म­श­क्या­वि­त्य­नु­दा­ह­र­णी­या­वि­त्यर्थः ।

तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्श­श­ब्द­यो­रु­दा­ह­रणं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
स्पर्श­श­ब्द­यो­रिति ।
यथा लोहि­ता­दि­रू­प­त्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वे­क­त्रो­ष्ण­शी­ता­नु­ष्णा­शी­त­स्प­र्श­त्रयं दृश्यते नापि खर­म­धु­र­म­ध्य­म­श­ब्द­त्र­य­मे­क­त्रो­प­ल­ब्ध­मि­त्यर्थः ।

सर्वस्य त्रिवृत्कृतत्वे फलितमाह –
यदीति ।
यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृ­त्कृ­त­मि­त्य­ङ्गी­कृतं तदाऽ­ग्ने­र­ग्नि­त्व­व­ज्ज­गतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना ।

तथाऽपि कथं सन्मात्रपरिशेषः स्यादि­त्या­श­ङ्क्याऽऽह –
तथेति ।
रूप­त्र­य­व्य­ति­रे­केण जग­तोऽ­भा­व­व­त्कृ­ष्ण­स्यापि रूपस्य पृथिवीशब्दितस्य शुक्ल­रू­प­मा­त्र­ज­ल­का­र्य­त्वा­त्त­द­ति­रे­के­णा­सत्त्वं पृथिवीवदपामपि शुक्ल­रू­प­मा­त्राणां लोहि­त­रू­प­मा­त्र­ते­जो­वि­का­र­त्वा­त्त­द्व्य­ति­रे­के­णा­भा­व­स्त­स्यापि सत्का­र्य­त्वा­त्ततो भेदेनासत्त्वं सन्मात्रमेव परि­शि­ष्ट­मि­त्ये­त­त्त्रि­वृ­त्क­र­ण­प्र­क­रणे विव­क्षि­त­मि­त्यर्थः ।

त्रिवृ­त्क­र­ण­पक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परि­शि­ष्ट­वि­ज्ञे­य­स­द्भा­वा­दिति शङ्कते –
नन्विति ।
इतिपदं कथमित्यादिना सम्बध्यते ।

गन्धादयश्च शब्दान्ता गुणा गुणि­श्व­न­न्त­र्भूताः सन्तीति न सद्विज्ञानेन तद्वि­ज्ञा­नो­प­प­त्ति­रि­त्याह –
गन्धेति ।
तद्विज्ञाने = सद्विज्ञानेन वाय्वा­दि­वि­ज्ञाने, तत्र प्रकारान्तरं तत्का­र्य­त्वा­द­ति­रि­क्त­मिति यावत् ।

आका­शा­दे­स्त्रि­ष्वे­वा­न्त­र्भा­व­स­म्भ­वान्न परि­शि­ष्ट­वि­ज्ञे­य­म­स्तीति परिहरति –
नैष दोष इति ।

कथं तेजोबन्नेषु सर्वस्य आका­शा­दे­र्द­र्श­न­मि­त्याह –
कथमिति ।

तत्र शब्द­स्प­र्श­यो­रा­का­श­वा­य्वोश्च भूतत्रये प्रत्य­क्षा­नु­मा­ना­भ्या­मु­प­लब्धिं दर्शयति –
तेजसीति ।

तेजो­ग्र­ह­ण­म­ब­न्न­यो­रु­प­ल­क्षणं तत्रापि स्पर्शा­द्यु­प­ल­ब्धे­र­वि­शे­षा­द्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह –
तथेति ।
भूतत्रये स्पर्शा­द्य­न्त­र्भा­व­व­दिति यावत् ।

त्रिष्वे­वा­न्त­र्भावे फलितमाह –
रूपवतामिति ।

भूतत्रये रूप­व­त्या­का­शा­दे­र­न्त­र्भावं व्यतिरेकद्वारा समर्थयते –
न हीति ।

अन्त­र्भा­वो­क्ति­प्र­यासं परिहर्तुं पक्षान्तामाह –
अथवेति ।
प्रदर्शनार्थं पञ्चीकरणस्येति शेषः ।

कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
यथेति ।
यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभा­गा­ति­रि­क्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्यु­प­ल­क्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मा­त्रा­ण्य­व­शि­ष्यन्ते तान्यपि पृथि­व्या­दी­न्य­बा­दि­का­र्य­त्वा­त्त­त्त­त्का­र­ण­व्य­ति­रे­केण न सिद्ध्यन्तीति त्रिवृ­त्क­र­ण­व­त्प­ञ्ची­क­र­णेऽपि न्याय­सा­म्या­त्स­र्वस्य सद्वि­का­र­त्वा­त्त­द्व्य­ति­रे­के­णा­भा­वा­त्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः ।

उक्त­न्या­ये­नै­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­श्रु­ति­र­वि­रु­द्धे­त्यु­प­सं­ह­रति –
तदेकस्मिन्निति ॥२-३-४॥

त्रिवृ­त्क­र­ण­प­क्षेऽ­प्ये­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­श्रु­ति­वि­रु­द्धे­त्यु­प­पाद्य त्रिवृ­त्क­र­ण­मु­दा­ह­र­णा­न्त­रेण दर्शयितुमारभते –
एतदिति ।
त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृ­त्क­र­ण­वि­ज्ञा­न­वन्तो निर्दिश्यन्ते ॥५॥

वेद­न­प्र­का­र­मे­वाऽऽ­का­ङ्क्षा­पू­र्वकं प्रकटयति –
कथमित्यादिना ।
अन्य­द­ग्न्या­दिभ्यः सकाशादिति शेषः ।
यद­ने­क­रू­प­त्वा­त्क­पो­ता­दि­रू­पेण सन्दि­ह्य­मा­न­मे­त­द्दृ­श्यते तस्मि­न्क­पो­ता­दि­स्व­रूपे यत्कि­ञ्चि­द्रो­हि­त­मिव रूपं गृह्यमाणं पूर्वे­षा­मा­सी­त्त­त्ते­जसो रूपमिति ते विदितवन्त इति योजना । अत्य­न्त­दु­र्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्या­दी­त्यर्थः ।

अगृह्यमाणमिति च्छेदः यथा नु खल्वि­त्या­दि­वाक्यं वृत्ता­नु­वा­द­पू­र्व­क­म­व­ता­र­यति –
एवं तावदिति ।
यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृ­त्त्रि­वृ­द्भ­वति तथेदानीं तदाध्यात्मिकं त्रिवृ­त्क­र­ण­मे­व­मे­वेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥