आनन्दगिरिटीका (छान्दोग्य)
चतुर्थोऽध्यायः: सप्तदशः खण्डः
नित्यानुष्ठानमुक्त्वा नैमित्तिकप्रायश्चित्तविधानार्थमुपक्रमते –
अत्रेति ।
तद्वेषे ब्रह्मणो मौनभ्रंशे सतीति यावत् ।
रसान्विशेषतो ज्ञातुं पृच्छति –
कानिति ॥१॥
एवं यथा लोकानभ्यतपत्तथेति यावत् । जग्राहेति सम्बन्धः ॥२॥
तदेव विवृणोति –
भूरिति व्याहृतिमित्यादिना ।
प्रथमोऽतःशब्दो यत इत्यस्मिन्नर्थे ।
यद्दृक्त इति ।
ऋक्शब्दस्तस्मिन् ।
उक्तप्रायश्चित्तमेवाऽऽकाङ्क्षापूर्वकं विवृणोति –
कथमित्यादिना ।
क्रियाविशेषणमिति ।
यज्ञस्य क्षतं सन्दधातीति यत्तदृचामेव रसने सन्दधातीत्यर्थः । ओजसा सन्दधातीति सम्बन्धः ॥३ -४॥
तथा च यथोक्ते साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसने होता सन्दधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषां साम्नां च रसेनाध्वर्युरुद्गाता च तत्क्षतं संधत्त इत्याह –
पूर्ववदिति ।
होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्त्वा ब्रह्मापराधकृते यज्ञनशे किं प्रायश्चित्तमित्याशङ्क्याऽऽह –
ब्रह्मेति ।
यथा यथोक्तप्रायश्चित्ते लिङ्गं दर्शयति –
त्रय्या हीति ।
ब्रह्मणस्त्रयीसारत्वे प्रमाणमाह –
अथ केनेति ।
साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मत्वे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः ।
संप्रत्यस्यैव वेदैकत्वप्रसिद्धेर्ब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहात्म्येनैव दोषनिरासान्नान्यत्प्रायश्चित्तं विधेयमिति न्यायान्तरमाह –
न्यायान्तरं वेति ॥५ -६॥
वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्सन्धानं भवतीत्यत्र दृष्टान्तानाह –
तद्यथेत्यादिना ।
किं तत्र साधनमिति तद्दर्शयति –
क्षारेणेति ।
खरे सुवर्णे वह्निसंयुक्ते द्रवीभूते क्षारप्रक्षेपेण ट्ङ्कणादिना मृदुकरणं मिथोऽवयवसंयोजनं सन्धानं प्रसिद्धमित्यर्थः ।
रजतं सुवर्णेन स्वरसतस्तावदशक्यसन्धानं तथाऽपि वह्निसंयोगपूर्वक पूर्ववदेव तत्रापि प्रसिद्धं सन्धानमित्याह –
सुवर्णेनेति ।
रजतेनेत्यादावपि यथोक्तं द्रष्टव्यम् । सन्दधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् ।
तदेव स्फुटयति –
रोगार्त इति ।
भवति संस्कृत इति शेषः ॥७ -८॥
इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह –
किञ्चेति ।
गाथाशब्दो गायत्र्यादिच्छन्दोव्यतिरिक्तच्छन्दोविषयः ।
यतो यतः प्रदेशात्कर्माऽऽवर्तत इत्युक्तं विवृणोति –
ऋत्विजामिति ।
यत्र यत्र प्रदेशे यज्ञस्य क्षतिरध्वर्युप्रभृतीनामभवत्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन प्रतिसन्दधानो ब्रह्मा कर्तॄन्परिपालयतीति सम्बन्धः ॥९॥
ऋत्विजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तमाह –
मौनेति ।
ज्ञानातिशयस्तच्छब्दार्थः । कर्तॄनभिरक्षतीति सम्बन्धः ।
उक्तमर्थं दृष्टान्तेन प्रकटयति –
योद्धॄनित्यादिना ।
प्रकरणार्थमुपसंहरति –
एवमिति ॥१०॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तदशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतयां च्छान्दोग्योपनिषद्भाष्यटीकायां चतुर्थोऽध्यायः ॥