अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: षष्ठः खण्डः

मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणत्वे दृष्टान्तमाह –
दध्न इति ॥१॥

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेति ।
खजो मन्थास्तेन मध्यमानस्य दध्नो यथाऽणिमा तथा यथो­क्त­स्या­न्नस्य योऽणिमेति योज्यम् ।

कथं तन्मनो भवतीत्युच्यते प्रागपि मनसः सिद्ध­त्वा­दि­त्या­श­ङ्क्याऽऽह –
मनोऽऽवयवैरिति ॥२-४॥

मन आदे­र­न्ना­दि­म­य­त्व­मु­प­सं­ह­रति –
अन्नमयं हीति ।
अतो भवदभिप्रायादिति यावत् । एतत्सर्वमिति प्राण­स्या­म्म­यत्वं वाचस्तेजोमयत्वं चोच्यते ।

हृदयप्रदेशे प्राणा­दि­सं­नि­धा­ना­वि­शेषे कथं मनस एवान्नरसेनोपचय इत्ये­त­न्ना­द्यापि समाहितमिति मत्वाऽऽह –
मनस्त्विति ।

मनसो विशे­ष­तोऽ­न्न­म­य­त्व­मु­प­पा­द­यि­तु­मु­त्त­र­ग्र­न्थ­मु­त्था­प­यति –
तथेति ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य षष्ठः खण्डः ॥