अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: दशमः खण्डः

सप्र­प­ञ्च­ब्र­ह्मो­पा­स­न­मुक्त्वा कार्य­ब्र­ह्मो­पा­स­न­मु­च्चितं कार­ण­ब्र­ह्मो­पा­सनं वक्तुं खण्डा­न्त­र­म­व­ता­र­यति –
पुनरिति ।
न केवलं ब्रह्म­वि­द्या­शे­ष­त्वा­दि­त्यर्थः ।

पूर्ववदिति ।
यथा पूर्व­स्मि­न्खण्डे श्रद्धा­त­प­सो­र्ब्र­ह्मो­पा­स­ना­ङ्ग­त्व­प्र­द­र्श­ना­याऽऽ­ख्या­यि­के­त्युक्तं तद्वदित्यर्थः ॥१॥

तप्त इति ।
भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः ।

विव­क्षि­त­शु­श्रू­षा­क­र­ण­मेव विशदयति –
कुशलमिति ।

किमिति भवत्या मां ब्रूही­द­मि­दा­नी­मु­च्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्ति­मा­नि­त्या­शङ्क्य भगवति स्नेहादित्याह –
भगवानिति ।
अग्नी­न्प­रि­च­र­मा­ण­ब्र­ह्म­चा­रि­णोऽ­स­मा­व­र्त­न­म­तः­श­ब्दार्थः । गर्हापरिहारो द्विती­ये­ना­तः­श­ब्देन परामृश्यते ।

आचा­र्य­शु­श्रू­षा­परं शिष्यं देव­तै­वा­नु­गृ­ह्णा­तीति ज्ञापयितुमारभते –
तस्मा इति ॥२॥

आचा­र्य­भि­प्रा­य­म­जा­नतः शिष्यस्य दुःखप्राप्तिं दर्शयति –
स हेति ।
अतिगमनं वस्तु­स्व­रू­प­म­तीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् ।

कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह –
कर्तव्येति ।
कामा एव व्याधय इत्यर्थः ॥३॥

आचा­र्य­प्र­वा­सा­त्त­ज्जा­याया ब्रह्म­चा­रि­ण्य­नु­ग्र­हा­त्तस्य चान­श­ना­ध्य­व­सा­या­द­न­न्त­र­मि­त्य­थ­श­ब्दार्थः । हन्तेति यद्यर्थः, अस्मद्भक्तं ब्रह्म­चा­रि­ण­मु­पेक्ष्य देशान्तरं गतस्तर्हीति यावत् । अथ पुन­रे­त्याऽऽ­चार्यो ब्रह्म­वि­द्या­मस्मै विवक्षितां च वक्ष्यति किं त्वर­ये­त्या­श­ङ्क्याऽऽह –
दुःखितायेति ।

ब्रह्म­वि­द्या­सा­ध­न­स­म्प­त्ति­मस्य दर्शयति –
तपस्विन इति ॥४॥

प्राणो ब्रह्मेति भवद्भिरुक्तं तदहं विजानामीति सम्बन्धः । तत्र हेतुमाह –
प्रसिद्धेति ।

प्राणपदस्य प्रसि­द्धा­र्थ­त्व­मेव समर्थयते –
यस्मिन्निति ।
एवंभूतः प्राणशब्द इति शेषः ।

प्राणशब्दस्य प्रसि­द्धा­र्थ­त्वेऽपि कुतो ब्रह्मत्वं तस्मि­न्प्र­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह –
अत इति ।
कार्यकरणसंघाते नष्टेऽ­ग्र­ह­णा­दि­त्य­तः­श­ब्दार्थः । स्वकी­य­ज्ञा­न­स­मु­च्च­या­र्थ­श्च­कारः ।

विजा­ना­म्य­ह­मि­त्यु­क्त­मु­प­सं­ह­रति –
तेनेति ।

स्वेनाज्ञातं ब्रह्मचारी दर्शयति –
कं चेति ।

तस्या­ज्ञा­न­मा­क्षि­पति –
नन्विति ।
प्राणशब्दस्य वायु­वि­शे­ष­वि­ष­य­त्वेन प्रसि­द्धा­र्थ­त्व­व­दि­त्य­पे­रर्थः ।

ब्रह्म­चा­रि­णोऽ­भि­प्रायं दर्श­य­न्नु­त्त­र­माह –
नूनमिति ।

ननु विरु­द्धा­र्थ­त्वा­द­ग्नीनां वाक्यं भव­त्व­प्र­मा­ण­मि­त्या­श­ङ्क्याऽऽह –
कथं चेति ।

विरु­द्धा­र्थ­त्व­प्र­ती­ते­रा­प्त­वा­क्यस्य चाप्रा­मा­ण्या­यो­गा­द्युक्तं ब्रह्म­चा­रि­णोऽ­ज्ञा­न­मिति निगमयति –
अत इति ।

स्वस्य विशेषणत्वं कस्य च विशे­ष्य­त्व­मि­त्य­ङ्गी­कारे फलं कथयति –
इत्येवमिति ।

कस्य विशेषणत्वं स्वस्य विशे­ष्य­त्व­मि­त्ये­व­मपि विशे­ष­ण­वि­शे­ष्य­त्व­म­व­ग­न्त­व्य­मि­त्याह –
यदेवेति ।

यथो­क्त­वि­शे­ष­ण­वि­शे­ष्य­भावे फलमाह –
एवं चेति ।

यद्वा­वे­त्या­दि­वा­क्या­र्थ­मु­क्त­मेव प्रति­प­त्ति­सौ­क­र्यार्थं संक्षिपति –
सुखमिति ।

इत­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­त्व­मा­क्षि­पति –
नन्विति ।
अन्य­त­र­दे­वे­त्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्वाव कमि­ती­त­र­द्वि­शे­ष­ण­म­ति­रि­क्त­म­धि­क­म­किं­चि­त्क­र­मिति योजना । यदि तु यदेव खं तदेव कमिति खेन कं विशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु ।

यद्वाव कमिति पूर्व­वि­शे­ष­ण­म­किं­चि­त्क­र­मि­त्याह –
यदेवेति ।
वाश­ब्दोऽ­ति­रि­क्त­मि­त्ये­त­द­नु­क­र्ष­णार्थः ।

विशे­ष­ण­यो­र­र्थ­वत्त्वं पूर्वोक्तं सिद्धान्ती स्मारयति –
नन्विति ।
तथा च सुखस्य लौकि­क­सु­खा­द्व्या­वृ­त्त्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकि­का­का­शा­द्व्या­वृ­त्त्यर्थं यद्वाव कमिति विशेषणमर्थवदिति शेषः ।

अन्य­त­र­वि­शे­ष­ण­व­शा­दपि यथो­क्त­व्या­वृ­त्ति­सि­द्धे­र­किं­चि­त्करं विशेषणद्वयमिति शङ्कते –
सुखेनेति ।
यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्वि­शे­ष­ण­त्वा­यो­गात् । सुखमपि लौकि­क­सु­खा­द्व्य­व­च्छि­द्यते । लौकि­क­सु­ख­स्याऽऽ­का­श­वि­शे­ष­ण­त्वा­नु­प­पत्तेः । अतः सुखे­नाऽऽ­का­श­स्याऽऽ­का­शेन सुखस्य वा विशे­षि­त­त्व­सा­म­र्थ्या­त्प्रा­प्तैव सुखा­का­श­यो­र्लौ­कि­क­सु­खा­का­शाभ्यां व्यावृ­त्ति­रि­त्य­न्य­त­र­देव विशे­ष­ण­म­र्थ­व­दि­त्यर्थः ।

किमन्यतरस्यैव विशेषणस्य व्याव­र्त­क­त्व­मि­त्या­पा­द्यते किं वा तस्यै­वा­र्थ­व­त्त्व­मिति तत्राऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमेवमिति ।

द्वितीयं दूषयति –
न त्वित्यादिना ।

विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिद्ध्यतीति चेन्नैवं दण्डी प्रैषा­न­न्वा­हे­ति­व­द्वि­शे­ष­ण­स्या­न्य­था­सि­द्ध­त्वा­दि­त्याह –
विशेषणेति ।

द्वयोरपि विशे­ष­ण­यो­र­र्थ­वत्त्वं निगमयति –
अत इति ।
विधान्तरेण ध्येय­त्वा­स­म्भ­वा­दि­त्य­तः­श­ब्दार्थः । खमिव सुखे­ने­त्य­पे­रर्थः ।

इतश्च सुखा­का­श­यो­रि­त­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­त्व­मे­षि­त­व्य­मि­त्याह –
कुतश्चेति ।

कुतः­श­ब्दो­पा­त्त­मि­तः­श­ब्दार्थं स्फुटयति –
कंशब्दस्येति ।
खं ब्रह्मेति खंशब्दस्य ब्रह्म­श­ब्द­स­म्ब­न्ध­व­दि­त्य­पे­रर्थः ।

गुण­गु­णि­नो­रु­भ­यो­रपि ध्येय­त्व­सि­द्ध्य­र्थ­मि­त­रे­त­र­वि­शे­ष­ण­वि­शे­ष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रह्म­श­ब्द­स­म्ब­न्धा­दपि स्वीक­र्त­व्य­मि­त्युक्तं व्यतिरेकद्वारा साधयति –
यदि हीति ।
उक्तरीत्या द्वयोरपि ध्येय­त्व­म­तः­श­ब्दार्थः । ब्रह्मचारिणो मोहो नामा­न्यो­न्य­वि­शे­ष­ण­वि­शे­ष्य­त्वा­ग्र­ह­णा­दा­का­श­स्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः ।

प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथ­मु­पा­ख्या­यि­का­या­मिदं निर्व­ह­ती­त्या­श­ङ्क्याऽऽह –
तदेतदिति ।

आकाशस्य प्राण­स­म्ब­न्धित्वं कया विध­ये­त्य­पे­क्षा­या­माह –
आश्रयत्वेनेति ।
कार्य­ब्र­ह्मो­पा­स­न­स­मु­च्चितं कार­ण­ब्र­ह्मो­पा­स­न­मु­प­सं­ह­र्तु­मि­ति­शब्दः ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य दशमः खण्डः ॥