आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: पञ्चदशः खण्डः
प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति –
नामोपक्रममिति ।
प्रकृतश्रुतिवशात्तदुपक्रमे यस्य जगतोऽस्ति तत्तथा पाठक्रममेवाऽऽश्रित्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचित्कमुपादानोपादेयत्वं निमित्तनैमित्तिकत्वमपि क्वाचित्कमेव । उत्तरोत्तरभूयस्तया पूर्वस्मात्पूर्वस्मान्नामादेरुत्तरोत्तरवागादिभूयस्त्वेनेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा ।
आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह –
बिसमिवेति ।
बिसशब्दो मृणालविषयः । यथोक्तं जगद्यस्मिन्नर्पितं स एष भूयानिति सम्बन्धः ।
सर्वस्य जगतस्तस्मिन्नर्पितत्वमेव दृष्टान्तद्वारा स्पष्टयति –
येन चेति ।
सर्वतो व्यापिनेत्यस्यैव स्फुटीकरणमन्तर्बहिर्गतेनेति ।
प्राणस्याऽऽशायाः सकाशाद्भूयस्त्वमाकाङ्क्षापूर्वकं समर्थयते –
कथमित्यादिना ।
लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् ।
उपाधितद्वतोरैक्यमभिप्रेत्य विशिनष्टि –
प्रज्ञात्मनीति ।
तस्यैवाध्यात्ममधिभूतमधिदैवं चावस्थानं सूचयति –
दैहिक इति ।
प्राणान्तरं व्यावर्तयति –
मुख्य इति ।
यथोक्तेऽस्मिन्प्राणे सर्वं समर्पितमित्युत्तरत्र सम्बन्धः ।
प्रज्ञात्मनीति परमात्मोपाधित्वं प्राणस्योक्तं तदुपपादयति –
यस्मिन्निति ।
तस्मिन्सर्वं समर्पितमिति पूर्ववत्सम्बन्धः ।
किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य परमात्मोपाधित्वमुपगतमित्याशङ्क्याऽऽह –
यश्चेति ।
प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।
ईश्वरं प्रति प्राणस्यैवोपाधिकत्वे हेत्वन्तरमाह –
यस्त्विति ।
अत्रापि पूर्ववदन्वयः ।
प्राणश्छायावदीश्वरमनुगच्छतीत्यत्र श्रुत्यन्तरं प्रमाणयति –
तद्यथेति ।
भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्जनकेन्द्रियेषु वेत्यर्थः ।
भवतु तासां प्राणेऽर्पितत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्यनुगतिस्तत्राऽऽह –
स एष इति ।
कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथोक्तविशेषणवैशिष्ट्यमतःशब्दार्थः ।
व्याख्यातं भागमनूद्यावशिष्टमंशं व्याकरोति –
एवमिति ।
प्राणः प्राणेन यातीत्यस्यार्थमाह –
अत इति ।
सर्वास्पदत्वादिति यावत् ।
प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति –
सर्वमिति ।
दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति –
प्राण इति ।
तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणाभिन्नत्वात्प्राणायैवेत्युक्तम् । प्राणस्य सर्वात्मत्वमतःशब्दार्थः ॥१॥
प्रसिद्धिरनतिक्रमणीयेति शङ्कते –
कथमिति ।
अन्वयव्यतिरेकाभ्यां पित्रादिशब्दानां प्राणविषयत्वान्न प्रसिद्धेरुल्लङ्घनमित्याह –
उच्यत इति ।
अन्वयव्यतिरेकावेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
पित्रादिषु प्राणे सति पित्रादिशब्दानां प्रयुज्यमानत्वमन्यथा चाप्रयुज्यमानत्वं तदित्युच्यते । त्वंकारादियुक्तमित्यादिपदेन तिरस्कारप्रभेदो गृह्यते ।
पित्रादिष्वप्रियवादिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –
पितृहेति ॥२॥
सति प्राणे पित्रादिषु पित्रादिशब्दानां प्रयुज्यमानत्वमित्यन्वयमुक्त्वा व्यतिरेकमाह –
अथैनानेवेति ।
समस्य पुञ्जीकृत्य व्यत्यस्यावयवान्विभज्येत्यर्थः । यद्यपीत्युपक्रमादेवमपीत्येतत्तथाऽपीत्यस्मिन्नर्थे द्रष्टव्यम् ।
तदेवातिक्रूरं कर्म विशिनष्टि –
समासेति ।
अवयवविभजनमादिशब्दार्थः । तद्देहसंबद्धमित्यत्र तच्छब्दः क्रूरपित्रादिविषयः । यद्यपि त्यक्तप्राणेष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूरकर्मानुष्ठानेऽपि शिष्टगर्हादृष्टेरिति भावः ।
उक्तान्वयव्यतिरेकफलमुपसंहरति –
तस्मादिति ॥३॥
प्राणस्यैव पित्रादिसंज्ञकत्वे किं स्यादित्याशङ्क्याऽऽह –
तस्मात्प्राणो हीति ।
प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह –
स वा इति ।
प्राणविदतिवादी भवतीति सम्बन्धः ।
कथं प्राणवित्त्वमित्यपेक्षायामाह –
एवमिति ।
सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः ।
तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह –
मननविज्ञानाभ्यां हीति ।
उक्तान्वयव्यतिरेकाख्योपपत्तिसहकृताद्वाक्याद्यत्प्राणविषयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फलसाक्षात्करणं दर्शनमिति भेदः । मननविज्ञाने विना दर्शनासंभवोऽतःशब्दार्थः । एवं मननादिद्वारेणेति यावत् ।
अतिवादित्वं व्युत्पादयति –
नामादीति ।
नापह्नुवीतेत्युक्तं व्यक्तीकरोति –
कस्मादिति ।
यद्यस्मादयं विद्वानात्मत्वेन सर्वेश्वरं प्राणोऽस्मीत्युपगतवांस्तस्मादपह्नवे हेत्वभावादात्मनोऽतिवादित्वं नापह्नुवीतेति(त्यर्थः) ॥४॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥