अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

सप्तमोऽध्यायः: पञ्चदशः खण्डः

प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति –
नामोपक्रममिति ।
प्रकृ­त­श्रु­ति­व­शा­त्त­दु­प­क्रमे यस्य जगतोऽस्ति तत्तथा पाठ­क्र­म­मे­वाऽऽ­श्रि­त्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचि­त्क­मु­पा­दा­नो­पा­दे­यत्वं निमि­त्त­नै­मि­त्ति­क­त्व­मपि क्वाचित्कमेव । उत्त­रो­त्त­र­भू­य­स्तया पूर्व­स्मा­त्पू­र्व­स्मा­न्ना­मा­दे­रु­त्त­रो­त्त­र­वा­गा­दि­भू­य­स्त्वे­नेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा ।

आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह –
बिसमिवेति ।
बिसशब्दो मृणालविषयः । यथोक्तं जग­द्य­स्मि­न्न­र्पितं स एष भूयानिति सम्बन्धः ।

सर्वस्य जग­त­स्त­स्मि­न्न­र्पि­त­त्व­मेव दृष्टान्तद्वारा स्पष्टयति –
येन चेति ।
सर्वतो व्यापि­ने­त्य­स्यैव स्फुटी­क­र­ण­म­न्त­र्ब­हि­र्ग­ते­नेति ।

प्राण­स्याऽऽ­शायाः सका­शा­द्भू­य­स्त्व­मा­का­ङ्क्षा­पू­र्वकं समर्थयते –
कथमित्यादिना ।
लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् ।

उपा­धि­त­द्व­तो­रै­क्य­म­भि­प्रेत्य विशिनष्टि –
प्रज्ञात्मनीति ।

तस्यै­वा­ध्या­त्म­म­धि­भू­त­म­धि­दैवं चावस्थानं सूचयति –
दैहिक इति ।

प्राणान्तरं व्यावर्तयति –
मुख्य इति ।
यथो­क्तेऽ­स्मि­न्प्राणे सर्वं सम­र्पि­त­मि­त्यु­त्त­रत्र सम्बन्धः ।

प्रज्ञात्मनीति पर­मा­त्मो­पा­धित्वं प्राणस्योक्तं तदुपपादयति –
यस्मिन्निति ।
तस्मिन्सर्वं समर्पितमिति पूर्व­व­त्स­म्बन्धः ।

किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य पर­मा­त्मो­पा­धि­त्व­मु­प­ग­त­मि­त्या­श­ङ्क्याऽऽह –
यश्चेति ।

प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।

ईश्वरं प्रति प्राण­स्यै­वो­पा­धि­कत्वे हेत्वन्तरमाह –
यस्त्विति ।
अत्रापि पूर्ववदन्वयः ।

प्राण­श्छा­या­व­दी­श्व­र­म­नु­ग­च्छ­ती­त्यत्र श्रुत्यन्तरं प्रमाणयति –
तद्यथेति ।
भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्ज­न­के­न्द्रि­येषु वेत्यर्थः ।

भवतु तासां प्राणेऽ­र्पि­तत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्य­नु­ग­ति­स्त­त्राऽऽह –
स एष इति ।
कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथो­क्त­वि­शे­ष­ण­वै­शि­ष्ट्य­म­तः­श­ब्दार्थः ।

व्याख्यातं भाग­म­नू­द्या­व­शि­ष्ट­मंशं व्याकरोति –
एवमिति ।

प्राणः प्राणेन याती­त्य­स्या­र्थ­माह –
अत इति ।
सर्वा­स्प­द­त्वा­दिति यावत् ।

प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति –
सर्वमिति ।

दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति –
प्राण इति ।
तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणा­भि­न्न­त्वा­त्प्रा­णा­यै­वे­त्यु­क्तम् । प्राणस्य सर्वा­त्म­त्व­म­तः­श­ब्दार्थः ॥१॥

प्रसि­द्धि­र­न­ति­क्र­म­णी­येति शङ्कते –
कथमिति ।

अन्व­य­व्य­ति­रे­काभ्यां पित्रा­दि­श­ब्दानां प्राण­वि­ष­य­त्वान्न प्रसि­द्धे­रु­ल्ल­ङ्घ­न­मि­त्याह –
उच्यत इति ।

अन्व­य­व्य­ति­रे­का­वेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
पित्रादिषु प्राणे सति पित्रा­दि­श­ब्दानां प्रयु­ज्य­मा­न­त्व­म­न्यथा चाप्र­यु­ज्य­मा­नत्वं तदित्युच्यते । त्वंका­रा­दि­यु­क्त­मि­त्या­दि­प­देन तिरस्कारप्रभेदो गृह्यते ।

पित्रा­दि­ष्व­प्रि­य­वा­दिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –
पितृहेति ॥२॥

सति प्राणे पित्रादिषु पित्रा­दि­श­ब्दानां प्रयु­ज्य­मा­न­त्व­मि­त्य­न्व­य­मुक्त्वा व्यतिरेकमाह –
अथैनानेवेति ।
समस्य पुञ्जीकृत्य व्यत्य­स्या­व­य­वा­न्वि­भ­ज्ये­त्यर्थः । यद्य­पी­त्यु­प­क्र­मा­दे­व­म­पी­त्ये­त­त्त­थाऽ­पी­त्य­स्मि­न्नर्थे द्रष्टव्यम् ।

तदेवातिक्रूरं कर्म विशिनष्टि –
समासेति ।
अव­य­व­वि­भ­ज­न­मा­दि­श­ब्दार्थः । तद्दे­ह­सं­ब­द्ध­मि­त्यत्र तच्छब्दः क्रूर­पि­त्रा­दि­वि­षयः । यद्यपि त्यक्त­प्रा­णे­ष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूर­क­र्मा­नु­ष्ठा­नेऽपि शिष्ट­ग­र्हा­दृ­ष्टे­रिति भावः ।

उक्ता­न्व­य­व्य­ति­रे­क­फ­ल­मु­प­सं­ह­रति –
तस्मादिति ॥३॥

प्राणस्यैव पित्रा­दि­सं­ज्ञ­कत्वे किं स्यादि­त्या­श­ङ्क्याऽऽह –
तस्मात्प्राणो हीति ।

प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह –
स वा इति ।
प्राणविदतिवादी भवतीति सम्बन्धः ।

कथं प्राण­वि­त्त्व­मि­त्य­पे­क्षा­या­माह –
एवमिति ।
सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः ।

तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह –
मन­न­वि­ज्ञा­नाभ्यां हीति ।
उक्ता­न्व­य­व्य­ति­रे­का­ख्यो­प­प­त्ति­स­ह­कृ­ता­द्वा­क्या­द्य­त्प्रा­ण­वि­षयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फ­ल­सा­क्षा­त्क­रणं दर्शनमिति भेदः । मननविज्ञाने विना दर्श­ना­सं­भ­वोऽ­तः­श­ब्दार्थः । एवं मन­ना­दि­द्वा­रे­णेति यावत् ।

अतिवादित्वं व्युत्पादयति –
नामादीति ।

नाप­ह्नु­वी­ते­त्युक्तं व्यक्तीकरोति –
कस्मादिति ।
यद्यस्मादयं विद्वा­ना­त्म­त्वेन सर्वेश्वरं प्राणोऽ­स्मी­त्यु­प­ग­त­वां­स्त­स्मा­द­प­ह्नवे हेत्व­भा­वा­दा­त्म­नोऽ­ति­वा­दित्वं नाप­ह्नु­वी­ते­ति(त्यर्थः) ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥