आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: अष्टमः खण्डः
आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजापतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते –
नन्विति ।
उपक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरभिप्रायमाह –
उच्यत इति ।
तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह –
नैवेति ।
छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरियं निश्चिता प्रवृत्तेत्यर्थः ।
तयोस्तत्राऽऽत्मप्रत्ययस्य निश्चितत्वे गमकमाह –
येनेति ।
प्रव्रजनेऽपि शान्तहृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्क्याऽऽह –
नहीति ।
तेन विपरीतग्राहित्वेनेति यावत् ।
उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबुद्धित्वादित्याशङ्क्य प्राजापत्यमभिप्रायमाह –
विपरीतग्राहिणौ चेति ।
कथमिदं प्रजापतेरभिमतमित्यधिगतमत आह –
विपरीतेति ।
प्राजापत्ये प्रश्ने देवासुरराजयोर्विपरीतग्रहणमनुवदति –
तौ हेति ॥१॥
तदपनयनप्रकारं सूचयति –
तौ ह पुनरिति ।
छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्रयोजनाभावादित्यर्थः ।
उक्तोदाहरणेन च्छायायां देहे चेन्द्रविरोचनयोरात्मप्रत्ययो नापनीतो भवतीति शङ्कते –
कथमिति ।
छायायास्तत्कारणस्य चाऽऽगन्तुकत्वादनात्मत्वमत्र विवक्षितमित्युत्तरमाह –
साध्वलंकारेति ।
पूर्वमुदकादिसम्बन्धावस्थायामिति यावत् ।
व्यभिचारित्वाच्च च्छायातत्कारणयोरनात्मत्वमित्याह –
शरीरैकदेशानामिति ।
उपपत्तिभ्यां सिद्धमर्थं निगमयति –
इत्युदशरावादाविति ।
न केवलं छायातत्कारणयोरेवानात्मत्वं किं तूक्तन्यायेनाहंकारादीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रसङ्गादतिदिशति –
न केवलमिति ।
आत्मत्वाभिमतमहंकारादीति शेषः । मोहादादात्मीयत्वाभिमतमित्यध्याहार्यम् ।
एतेनेति सूचितमेव हेतुं दर्शयति –
कादाचित्कत्वादिति ।
अनात्मेत्यनात्मत्वमनात्मीयत्वोपलक्षणार्थम् ।
तर्हि तयोर्यथोक्तरीत्या विपरीतग्रहणस्यापगतत्वात्किमुत्तरेण प्रजापतिवाक्येनेत्याशङ्क्याऽऽह –
एवमिति ॥२॥
तथैवेत्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे –
यथेति ।
आवां स्व इतीदमुदाहरणं यथैवेति सम्बन्धः । अक्षिवाक्यादुदशराववाक्यात्साध्वलंकारवाक्याच्च च्छायातद्धेत्वोरन्यतरस्यैवाऽऽत्मत्वमभ्यासादिति भ्रमातिशयः सुतरामित्युक्तः ।
प्रजापतिवाक्यमुत्थापयति –
यस्येत्यादिना ।
वाक्यव्याख्यानमतिदिशति –
पूर्ववदिति ।
एषशब्देन तयोरभिप्रेतमेवाऽऽत्मानं छायाख्यं देहाख्यं च परामृश्य प्रजापतिरनुमोदितवानित्याशङ्क्याऽऽह –
नत्विति ।
तौ ह शान्तहृदयावित्यादिवाक्यस्य तात्पर्यमाह –
य आत्मेत्यादीति ।
संस्कृतौ तावद्भवतामिति शेषः ।
संस्कृतयोरपि तयोरात्मविषये कथं विवेको भविष्यतीत्याशङ्क्याऽऽह –
मद्वचनमिति ।
उपेक्षायां कारणान्तरमाह –
पुनरिति ।
किमिति शान्तहृदयत्वं तुष्टहृदयत्वेन व्याख्यायते हृदयगतः शम एव किं न विवक्ष्यते तत्राऽऽह –
न त्विति॥३॥
यदि प्रजापतिस्तावुपेक्षितवान्किमिति तर्हि तौ हान्वीक्ष्येत्यादिवाक्यमित्याशङ्क्याऽऽह –
एवं तयोरिति ।
प्रजापतिरुवाचेति सम्बन्धः ।
तर्हि किमिति तावाहूय नोक्तवानित्याशङ्क्याऽऽह –
प्रत्यक्षवचनेनेति ।
कर्तृत्वेन सम्बन्धार्थमुक्तमेव पुनरनुवदति –
प्रजापतिरिति ।
किमसावूचिवानित्यपेक्षायामाह –
अनुपलभ्येति ।
यथोक्तं प्रजापतिवाक्यं श्रुत्वाऽपि गच्छतोरिन्द्रविरोचनयोर्विरोचनगतमवान्तरविशेषमाह –
स्वगृहमिति ।
पित्रा तथोक्तत्वेऽपि किमस्माभिस्तत्र कर्तव्यमित्याशङ्क्याऽऽह –
तस्मादिति ।
तथा पूजनीत्यत्ववदिति यावत् । तथेत्युक्तप्रकारोक्तिः ।
तथाऽपि प्रार्थिता सर्वलोककामावाप्तिरसिद्धेत्याशङ्क्याऽऽह –
इह लोकेति ॥४॥
विरोचनसम्प्रदायस्याविच्छिन्नत्वं दर्शयति –
तस्मादिति ।
देहात्मवादस्याऽऽसुरत्वादिति यावत् । तत्संप्रदायस्तेषां विरोचनप्रभृतीनामसुराणां संप्रदायो देहात्मत्वोपदेशः ।
किमित्यात्मत्वादिरहितमासुरमाहुरित्यपेक्षायामाह –
आसुराणां हीति ।
प्रकृतोपनिषत्कार्यं कथयति –
तयेति॥५॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्याष्टमः खण्डः॥