अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: तृतीयः खण्डः

तृतीयं मधु कथयति –
अथेति ।
ऋचां यजुषां च मधु यथा कथितं तथेति यावत् ।

तस्य शास्त्र­प्र­त्य­क्षत्वं दर्शयति –
एतदिति ॥१ -३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य तृतीयः खण्डः ॥