आनन्दगिरिटीका (छान्दोग्य)
द्वितीयोऽध्यायः: दशमः खण्डः
अथ खल्वात्मसंमितमित्यादेस्तात्पर्यमाह –
मृत्युरिति ।
अनन्तरमित्यस्यापेक्षितं निक्षिपति –
आदित्येति ।
स्वशब्देन सामोच्यते तस्यावयवा हिङ्कारादयस्तन्नामाक्षराणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः ।
यथा परमात्मावगमो मृत्योर्मोक्षणहेतुस्तथेदमुपासनमपीत्यर्थान्तरमाह –
परमात्मेति ।
कीदृगत्रोपासनं विवक्षितमित्यपेक्षायां सदृष्टान्तमुत्तरमाह –
यथेत्यादिना ।
उद्गीथ इत्युद्गीथभक्तेर्नाम तदक्षराणीति यावत् । सामत्वं तेषां नामाक्षराणामित्यध्याहार्यम् । तदुपासनं तेषामक्षराणामादित्यदृष्ट्योपासनमित्यर्थः । मृत्युगोचराक्षरसंख्यैकविंशतित्वलक्षणा । साऽस्त्येकाऽनेकेष्वक्षरेषु । तत्सामान्येन तेष्वक्षरेष्वादित्यदृष्ट्या मृत्युमादित्यमित्यर्थः । अतिक्रमणाय तत्साधनमुपासनमिति शेषः ।
अतिमृत्यु मृत्योरत्ययहेतुत्वादित्युक्तमेव स्पष्टयति –
मृत्युमिति ।
नामाक्षराणि कथ्यन्त इति शेषः ॥१॥
आद्यक्षरयोः आदिभक्तिनामाक्षरयोरिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रतिहारनाम्ना तुल्यमेवेत्यर्थः ॥२ -३॥
ननु यथोक्तया रीत्या चतुर्विंशत्यक्षराणि तत्कथं तानि ह वा एतानि द्वाविंशतिरक्षराणीति तत्राऽह –
एवमिति ॥४॥
आदित्यस्यास्माल्लोकादेकविंशत्वे श्रुत्यन्तरं प्रमाणयति –
द्वादशेति ।
हेमन्तशिशिरावेकीकृत्य पञ्चर्तव इत्युक्तम् । आदित्यस्याहोरात्राभ्यां पौनःपुन्येन मृत्युहेतुत्वमस्मिन्लोके दृश्यते । तदयं लोको मृत्युविषयत्वाद्दुःखात्मकस्तदभावाद्ब्रह्मलोकः सुखात्मक इति मत्वाऽऽह –
मृत्युविषयत्वादिति ॥५॥
पूर्वेणोत्तरस्य पौनरुक्त्यमाशङ्क्याऽऽह –
उक्तस्यैवेति ।
व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धिसौकर्यार्थमनन्तरग्रन्थेनोच्यते । तत्र पौनरुक्त्यमित्यर्थः । जयमनु परो जयो भवतीति सम्बन्धः ।
परो हास्येत्युपात्तं वाक्यं व्याकरोति –
एवंविद इति ।
फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदुपेतसामोपासनस्य समाप्त्यर्थोऽभ्यास इत्यर्थः ॥६॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य दशमः खण्डः ॥