आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: द्वादशः खण्डः
वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत आह –
वायुरिति ।
कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्क्याऽऽह –
कारणं हीति ।
तेजसो वायुसहितादाकाशस्य भूयस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति –
कथमित्यादिना ।
इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह –
किंचेति ।
तद्भूयस्त्वफलमाह –
अत इति ॥१॥
कथमाकाशोपासकस्य प्रकाशव्याप्तलोकप्राप्तिरित्याशङ्क्याऽऽह –
प्रकाशाकाशयोरिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वादशः खण्डः ॥