अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: नवमः खण्डः

ब्रह्मविदिव भासीत्युक्ते कीदृशी ब्रह्म­वि­दि­त्य­पे­क्षा­या­माह –
प्रसन्नेन्द्रिय इति ।
सत्यकामस्यापि तल्ल­क्ष­ण­व­त्त्व­म­तः­श­ब्दार्थः ।

मां त्वदा­चा­र्य­म­व­ज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्य­त्वे­नाऽऽ­दा­या­नु­शा­सनं कृत­वा­न्य­द­नु­शा­स­नात्ते ब्रह्मविद्या जातेति साक्षेपं पृच्छति –
कस्त्वामिति ।

मनुष्येभ्य सकाशादन्ये मामनुशिष्टवन्त इति सामा­न्य­प्र­तिज्ञां विभजते –
देवता इति ।

देव­ता­ना­मे­वो­प­दे­ष्टृत्वं व्यतिरेकद्वारा विशदयति –
कोऽन्य इति ।

प्रतिज्ञां निगमयति –
अत इति ।

मया तर्हीदानीं न किञ्चिदस्ति तव कर्त­व्य­मि­त्या­शङ्कां वारयति –
भगवानिति ॥२॥

इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह –
किञ्चेति ।

तदेव कारणं दर्शयति –
श्रुतमिति ।
अस्मिन्नर्थं आचार्यादेव विद्या श्रौत­व्यै­वे­त्ये­वं­ल­क्षणे ।

श्रुतमेव विशदयति –
आचार्यादिति ।
विदिता प्राप्तेति यावत् । आचार्याधीना धीरेव फल­व­ती­त्य­तः­श­ब्दार्थः । विद्या­न्त­र­मा­चा­र्ये­णो­क्त­मिति शङ्कामेवकारेण वारयति ।

दैवतैराचार्येण च सत्यकामायोक्तां विद्या­म­स्मा­न्प्रति श्रुति­र्ज्ञा­प­यति –
अत्रेति ।
न विगतं किन्तु पूर्वेण विद्या वाय्वा­दि­भि­रा­चा­र्येण चोपदिष्टेति शेषः । तत्रापि पाद­च­तु­ष्ट­या­नु­ध्या­न­स­मु­च्चि­त­मे­क­मेव विज्ञानं तत्फलं च संहृ­त्यै­क­वि­ज्ञा­न­फ­ल­त्वेन परि­णे­य­मे­कै­क­पा­दो­पा­स­नस्य कृता­र्थ­त्वा­हे­तु­त्वा­दि­त्या­चा­र्यो­प­दे­श­स्यैव सार्थकत्वमिति द्रष्टव्यम् ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य नवमः खण्डः ॥