आनन्दगिरिटीका (छान्दोग्य)
द्वितीयोऽध्यायः: द्वादशः खण्डः
समग्रप्राणवतो मन्थनकर्तृत्वसम्भवात्प्राणदृष्ट्यनन्तरं मन्थनादिदृष्टिमवतारयति –
अभिमन्थतीत्यादिना ।
उपशमः संशमश्चेत्यर्थभेदाभावात्पुनरुक्तिमाशङ्क्य सावशेषनिरवशेषत्वाभ्यां विशेषमाह –
उपशम इति ।
कथं पुना रथन्तरसाम्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किञ्चिन्निमित्तमुपलभ्यतेऽत आह –
मन्थने हीति ।
मन्थनं निमित्तीकृत्याग्नेरुत्पत्तौ रथन्तरसाम्नो गीयमानत्वदर्शनादग्नौ तस्य प्रतिष्ठितत्वसिद्धिरित्यर्थः ॥१॥
नन्वत्र ब्रह्मचर्यसीति फलमुक्तं बृहदुपासने तु तेजस्वी भवतीति वक्ष्यते । न च ब्रह्मवर्चसतेजसोर्भेदस्तथा च बृहद्रथन्तरोपासनयोर्न फलवैषम्यमत आह –
वृत्तेति ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वादशः खण्डः ॥