अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: द्वादशः खण्डः

समग्रप्राणवतो मन्थ­न­क­र्तृ­त्व­स­म्भ­वा­त्प्रा­ण­दृ­ष्ट्य­न­न्तरं मन्थ­ना­दि­दृ­ष्टि­म­व­ता­र­यति –
अभि­म­न्थ­ती­त्या­दिना ।

उपशमः संश­म­श्चे­त्य­र्थ­भे­दा­भा­वा­त्पु­न­रु­क्ति­मा­शङ्क्य साव­शे­ष­नि­र­व­शे­ष­त्वाभ्यां विशेषमाह –
उपशम इति ।

कथं पुना रथ­न्त­र­सा­म्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किञ्चि­न्नि­मि­त्त­मु­प­ल­भ्य­तेऽत आह –
मन्थने हीति ।
मन्थनं निमि­त्ती­कृ­त्या­ग्ने­रु­त्पत्तौ रथन्तरसाम्नो गीय­मा­न­त्व­द­र्श­ना­दग्नौ तस्य प्रति­ष्ठि­त­त्व­सि­द्धि­रि­त्यर्थः ॥१॥

नन्वत्र ब्रह्मचर्यसीति फलमुक्तं बृहदुपासने तु तेजस्वी भवतीति वक्ष्यते । न च ब्रह्म­व­र्च­स­ते­ज­सो­र्भे­द­स्तथा च बृह­द्र­थ­न्त­रो­पा­स­न­योर्न फलवैषम्यमत आह –
वृत्तेति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य द्वादशः खण्डः ॥