अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: प्रथमः खण्डः

पूर्वो­त्त­र­प्र­पा­ठ­कयोः सङ्गतिं दर्शयति –
ओमि­त्ये­त­दि­त्या­दिना ।
सर्वथाऽपि सामावयवविषयत्वे स्तोभा­क्ष­र­वि­ष­यत्वे चेत्यर्थः । इतिशब्दो हेत्वर्थः । यस्मा­दे­क­दे­श­वि­ष­या­ण्यु­पा­स­नानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्त­व्या­नी­त्यर्थः । एक­दे­शो­पा­स्ति­व्या­ख्या­न­न्त­र्य­म­थ­श­ब्दार्थः ।

कथ­मु­क्त­व­क्ष्य­मा­णो­पा­स­न­यो­रिदं पौर्वापर्यं तत्राऽह –
युक्तं हीति ।

समस्तस्योपासनं साद्विति वचनादवयवोपासनं निन्दि­त­त्वा­द­न­नु­ष्ठे­य­मि­त्या­श­ङ्क्याऽऽह –
समस्त इति ।

अर्थादस्ति निन्देति शङ्कते –
नन्विति ।

पूर्वत्रापि साधुत्वस्य विद्यमानस्यैव विशे­ष­ण­त्वे­ना­नु­पा­दा­ना­न्ना­र्था­दपि निन्देति परिहरति –
न साध्विति ।

यत्खल्वित्यादि व्याख्यातुं पातनिकामाह –
साधुशब्द इति ।

वाक्यमवतार्य व्याचष्टे –
कथमित्यादिना ॥१॥

किं पुनरेवं विवेककरणे कार­ण­मि­त्या­श­ङ्क्याऽऽह –
तत्तत्रेति ।
विवे­क­क­र­णो­पा­य­भे­द­वि­क­ल्पा­र्थ­मु­ते­त्यु­भ­यत्र पदम् ।

साम्नै­न­मि­त्या­दिना साधु­ने­त्या­दि­वा­क्यस्य पौन­रु­क्त्य­मा­शङ्क्य व्याख्या­न­व्या­ख्ये­य­भा­वा­न्मै­व­मि­त्याह –
शोभनेति ।
शोभनकार्यदर्शने सतीति यावत् ।

तत्रैव हेत्वन्तरमाह –
बन्धनादिति ।

असाम्नेत्यादि व्याचष्टे –
यत्रेति ॥२॥

कार्यगम्यं साधु­त्व­म­सा­धुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति –
अथेति।
कार्यात्तस्य साधु­त्वा­दि­वि­वे­का­न­न्त­र्य­म­थ­श­ब्दार्थः । स्वसंवेद्यं साधु­त्व­म­सा­धुत्वं चेति शेषः ।

तत्र साधुत्वं स्वानु­भ­व­सि­द्ध­मि­त्ये­त­द्व्यु­त्पा­द­यति –
सामेति ।

यत्सा­ध्वि­त्या­दि­वा­क्यस्य पूर्वेण पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह –
एतदिति ।

असामेत्यादि व्याचष्टे –
विपर्यय इति ।
बतेत्याहुरिति सम्बन्धः ।

किं तैरुक्तं भवति तदाह –
यदसाध्विति ।

साधुशब्दः शोभ­न­वा­ची­त्यु­क्त­मु­प­सं­ह­रति –
तस्मादिति ।
तयो­रे­का­र्थ­त्व­म­तः­श­ब्दार्थः ॥३॥

उपासकमेव विशिनष्टि –
समस्तमिति ।
आगच्छेयुरिति यत्त­त्क्षि­प्र­मे­वेति क्रिया­वि­शे­ष­णत्वं यदित्यस्य द्रष्टव्यम् ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य प्रथमः खण्डः ॥