अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: चतुर्थः खण्डः

पूर्वेण सम्बन्धं दर्श­यि­तु­मु­त्त­रस्य तात्पर्यमाह –
सर्वमिति ।
एकीकृत्य कार­ण­रू­पे­णै­क्य­मा­दा­ये­त्यर्थः ।

तर्हि तस्मि­न्ब्र­ह्म­दृ­ष्टि­रेव विधीयतां किमि­त्या­ख्या­यिका प्रणीयते तत्राऽऽह –
श्रद्धातपसोरिति ।

ब्रह्म­च­र्य­वा­स­स्यो­द्देश्यं फलं दर्शयति –
स्वाध्यायेति ।

आचार्यो हि माणवकमुपनयते विज्ञा­त­कु­ल­गो­त्र­मे­वेति मन्वानः पृच्छति –
किङ्गो­त्रोऽ­ह­मिति ॥१॥

अति­थ्य­भ्या­ग­ता­द्य­धि­कृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रा­दी­न्ना­पृ­च्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रा­दि­प्र­श्ना­भावे हेत्वन्तरमाह –
यौवन इति ।

यद्यपि तस्यामवस्थायां लज्जया गोत्रादि नाप्रा­क्षी­स्त­थाऽपि कालान्तरे किमिति पितरं न पृष्ट­व­ती­त्या­श­ङ्क्याऽऽह –
तदैवेति ।

तथाऽपि किमि­त्य­न्य­म­भिज्ञं नाप्रा­क्षी­रि­त्या­श­ङ्क्याऽऽह –
अत इति ।

प्रथमं लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्यो­प­र­त­त्वा­त्प­श्चान्न दुःख­बा­हु­ल्या­दन्यं प्रति प्रश्न इति स्थिते प्रश्नाभाव फलमाह –
साऽहमिति ।

किं तर्हि तव ज्ञानमस्ति तदाह –
जबाला त्विति ।

एवं स्थिते किमाचार्यं प्रति मया वक्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
स त्वमिति ।

नापृष्टः कस्य­चि­द्ब्रू­या­दिति न्यायं सूचयति –
यदीति ॥२॥

मातृ­व­च­न­श्र­व­णा­न­न्तरं किं कृत­वा­नि­त्य­पे­क्षा­या­माह –
स हेति ।

आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावादृते न सिद्ध्य­ती­त्य­भि­म­न्वा­ना­यो­क्तम् –
अत इति ।

किमनया काकदन्तपरीक्षया भवता त्वह­मु­प­ने­त­व्योऽ­स्मी­त्या­श­ङ्क्याऽऽह –
विज्ञातेति ।

मातरं पृष्ट्वा विज्ञा­याऽऽ­ग­म्य­ता­मि­त्या­श­ङ्क्याऽऽह –
किं त्वित्यादिना ॥३ – ४॥

ब्राह्मणस्य वाऽनृतं विना कथ­मा­र्ज­सं­यु­क्त­व­च­न­मि­त्या­श­ङ्क्याऽऽह –
ऋजवो हीति ।

क्षत्रि­या­दी­ना­मपि केषा­ञ्चि­दा­र्ज­व­म­स्ती­त्या­श­ङ्क्याऽऽह –
नेतर इति ।

ऋजुवचनत्वेन ब्राह्मणत्वं प्रतिजानीते –
यस्मादिति ।
उपनीयाध्याप्य चेति शेषः ।

तस्या­नु­ग्र­हार्थं शुश्रू­षा­मा­दि­ष्ट­वा­नि­त्याह –
कृशानामिति ।

आचार्यनियोगश्च शिष्येण सफलीकर्तव्य इत्याशयेनाऽऽह –
इत्युक्त इति ।
सम्पन्ना बभू­वु­स्त­दै­न­मृ­ष­भोऽ­भ्यु­क्त­वा­निति सम्बन्धः ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य चतुर्थः खण्डः ॥