आनन्दगिरिटीका (छान्दोग्य)
चतुर्थोऽध्यायः: चतुर्थः खण्डः
पूर्वेण सम्बन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह –
सर्वमिति ।
एकीकृत्य कारणरूपेणैक्यमादायेत्यर्थः ।
तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह –
श्रद्धातपसोरिति ।
ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति –
स्वाध्यायेति ।
आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति –
किङ्गोत्रोऽहमिति ॥१॥
अतिथ्यभ्यागताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह –
यौवन इति ।
यद्यपि तस्यामवस्थायां लज्जया गोत्रादि नाप्राक्षीस्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्क्याऽऽह –
तदैवेति ।
तथाऽपि किमित्यन्यमभिज्ञं नाप्राक्षीरित्याशङ्क्याऽऽह –
अत इति ।
प्रथमं लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभाव फलमाह –
साऽहमिति ।
किं तर्हि तव ज्ञानमस्ति तदाह –
जबाला त्विति ।
एवं स्थिते किमाचार्यं प्रति मया वक्तव्यमित्याशङ्क्याऽऽह –
स त्वमिति ।
नापृष्टः कस्यचिद्ब्रूयादिति न्यायं सूचयति –
यदीति ॥२॥
मातृवचनश्रवणानन्तरं किं कृतवानित्यपेक्षायामाह –
स हेति ।
आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावादृते न सिद्ध्यतीत्यभिमन्वानायोक्तम् –
अत इति ।
किमनया काकदन्तपरीक्षया भवता त्वहमुपनेतव्योऽस्मीत्याशङ्क्याऽऽह –
विज्ञातेति ।
मातरं पृष्ट्वा विज्ञायाऽऽगम्यतामित्याशङ्क्याऽऽह –
किं त्वित्यादिना ॥३ – ४॥
ब्राह्मणस्य वाऽनृतं विना कथमार्जसंयुक्तवचनमित्याशङ्क्याऽऽह –
ऋजवो हीति ।
क्षत्रियादीनामपि केषाञ्चिदार्जवमस्तीत्याशङ्क्याऽऽह –
नेतर इति ।
ऋजुवचनत्वेन ब्राह्मणत्वं प्रतिजानीते –
यस्मादिति ।
उपनीयाध्याप्य चेति शेषः ।
तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह –
कृशानामिति ।
आचार्यनियोगश्च शिष्येण सफलीकर्तव्य इत्याशयेनाऽऽह –
इत्युक्त इति ।
सम्पन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति सम्बन्धः ॥५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्थः खण्डः ॥