अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: द्वादशः खण्डः

गार्ह­प­त्यो­प­दे­शा­न­न्त­र्य­म­थ­श­ब्दार्थः । अबा­दि­च­तु­ष्ट­य­म­नूद्य दक्षिणाग्नौ चन्द्रे च विशेषं दर्शयति –
तत्रेति ।

अन्वा­हा­र्य­प­च­न­च­न्द्र­म­सो­स्ता­दा­त्म्ये­ना­ब­न्नेन नक्षत्राणां च ताभ्यां भोज्यत्वेन सम्बन्ध इति वक्तुं पुनर्वचनमित्याह –
स एवेति ।

कथं पुन­र­न्वा­हा­र्य­प­च­न­च­न्द्र­म­सो­स्ता­दात्म्यं तत्राऽऽह –
अन्न­स­म्ब­न्धा­दिति ।
प्रसिद्धं हि दर्श­पू­र्ण­मा­स­यो­र­न्वा­हा­र्य­प­चने हविः श्रवणम् । ते चन्द्रं प्राप्यान्नं भवन्तीत्यादौ चन्द्रमसि प्रसि­द्धोऽ­न्न­स­म्बन्धः । तस्मा­त्त­यो­स्ता­दा­त्म्य­मि­त्यर्थः ।

तयोरेकत्वे हेत्वन्तरमाह –
ज्योतिष्ट्वेति ।

तत्रैव हेत्वन्तरमाह –
दक्षिणेति ।
अन्वाहार्यपचनो हि दक्षि­णा­ग्नि­रु­च्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्त­र­दि­ग­धि­ष्ठा­तु­रपि तस्य तत्स­म्ब­न्धा­नि­वा­र­णा­त्त­द्युक्तं तयो­रै­क्य­मि­त्यर्थः ।

अपां नक्षत्राणां च चन्द्र­व­द­न्वा­हा­र्य­प­च­नेन तादा­त्म्य­मा­श­ङ्क्याऽऽह –
अपामिति ।
पूर्व­व­त्पृ­थि­व्य­न्न­यो­स्त­यो­र्गा­र्ह­प­त्या­दि­त्या­भ्या­म­न्न­त्वेन सम्बन्धवदिति यावत् । सम्ब­न्धोऽ­न्वा­हा­र्य­प­च­न­च­न्द्र­मो­भ्या­मिति शेषः ।

कथं नक्ष­त्रा­णा­म­न्नत्वं तत्राऽऽह –
नक्षत्राणामिति ।

कथं पुनरपामन्नत्वं तदाह –
अपामिति ।
दक्षि­णा­ग्ने­र्द­क्षि­णाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्य­न्न­त्व­व­दि­त्यु­दा­ह­र­णार्थः । स य एतमेवं विद्वा­नि­त्या­द्य­न्य­दि­त्यु­क्तम् ॥१ -२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य द्वादशः खण्डः ॥