आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: दशमः खण्डः
अथोद्गीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमाप्तिरेव युक्तेत्याशङ्क्याऽऽह –
उद्गीथेति ।
इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवक्षितं चेत्तदेवोच्यतां किमनया कथयेत्याशङ्क्याऽऽह –
आख्यायिका त्विति ।
मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसञ्चारेऽपि न व्यभिचारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन सम्बन्धः । कुत्सितगतिप्राप्तौ हेतुरन्नालाभादिति ।
प्रद्राणकशब्दार्थं धातूपन्यासद्वारा कथयति –
द्रा कुत्सायामिति ॥ १ ॥
यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्व्याकरोति –
अस्मादिति ।
यदित्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । एतेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥ २ ॥
हन्त – कुल्माषा भक्षिताश्चेदित्यर्थः ॥ ३ ॥
किं प्रत्युवाचेत्याकाङ्क्षापूर्वकमाह –
किमित्यादिना ।
अनुपानाभावेऽपि तुल्यं जीवनराहित्यमित्याशङ्क्याऽऽह –
काम इति ।
अन्योच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रुतेस्तात्पर्यमाह –
अतश्चेति ।
चाक्रायणस्य विदुषोऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्थां प्राप्तस्य जीवितसन्देहमापन्नस्येत्यर्थः । विद्याधर्मयशोवतो ज्ञानादिप्रयुक्तख्यातिं प्रपन्नस्येत्येतत् । स्वात्मोपकारे परोपकारे च सामर्थ्यं निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमात्रकारणं कुत्सितं चेष्टितमित्यर्थः ।
उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह –
तस्यापीति ।
एतत्कर्मेत्यभक्ष्यभक्षणोक्तिः ।
ननु ज्ञानिनो यथेष्टचेष्टाऽत्रानुज्ञायते । मैवम् । सर्वान्नानुमतिश्चेत्यादिन्यायविरोधादित्याह –
ज्ञानेति ।
तस्मिन्नभिप्राये लिङ्गं दर्शयति –
प्रद्राणकेति ।
चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदमापन्नः सन्कुल्माषानुच्छिष्टान्भक्षितवानिति प्रतिभाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच्च नासावत्र विवक्षित इत्यर्थः ॥ ४ ॥
स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् , सङ्ग्रहशीलत्वं वा । अत एवाग्रे दृश्यते ते ॥ ५ ॥
तस्याः कर्म कुल्माषाणां परिरक्षणम् , यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह –
यजमानत्वादिति ।
राज्ञो यजमानत्वद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रयुक्तमित्यर्थः ।
अन्येषामुपद्रष्टृत्वसम्भवे कुतस्त्वामेव राजा मानयिष्यतीत्याशङ्क्याऽऽह –
स चेति ॥ ६ ॥
हन्तेत्यन्नलेशलाभश्चेदेवं धनलब्धिद्वारा जीवनहेतुरित्यर्थः ॥ ७ ॥
राज्ञो यज्ञस्तत्रेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशङ्क्याऽह –
उद्गातृपुरुषानिति ।
स्तुवन्त्यस्मिन्निति सप्तम्या सम्वाददेशो वा निर्दिश्यते ॥ ८ ॥
किमर्थमामन्त्रणं तदाह –
अभिमुखीकरणायेति ।
विदुषः समीपे देवतामविद्वान्प्रस्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे सम्बन्धः ।
नन्वविद्वान्निन्दाया विवक्षितत्वाद्विद्वत्समीपवचनमकिञ्चित्करमिति चेन्नात्याह –
तत्परोक्षेऽपीति ।
तस्येत्यवद्वान्प्रस्तोतोच्यते ।
मा भूत्कर्ममात्रविदां कर्मण्यधिकार इति चेन्नेत्याह –
तच्चेति ।
तेनोभौ कुरुत इत्यादिश्रुताविति शेषः ।
अविदुषामपि कर्माधिकारे हेत्वन्तरमाह –
दक्षिणेति ।
तदेव व्यतिरेकद्वारा स्फोरयति –
अनधिकारे चेति ।
तस्यैव समुच्चयफलत्वादित्यर्थः ।
ननु दक्षिणमार्गस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्तत्वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह –
न चेति ।
यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह –
यज्ञेनेति ।
इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह –
तथोक्तस्येति ।
देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवेत्यर्थः ।
विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह –
न सर्वत्रेति ।
अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापीकूपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्सन्निधिमन्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः ।
तत्र हेतुमाह –
अनुज्ञेति ।
भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनादर्शनादेत एव मया समतिसृष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधिकार इत्यर्थः ।
उक्तमर्थमुपसंहरति –
कर्ममात्रेति ।
विद्वत्समीपे तदनुज्ञामलब्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमयितुमितिशब्दः ।
मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतृविषयं वाक्यं व्याख्यातमित्यनुवदति –
मूर्धेति ॥ ९ ॥
तृष्णीमित्यस्यार्थमाह –
अन्यच्चेति ।
तत्र हेतुमाह –
अर्थित्वादिति ।
तत्तद्देवताविषयविज्ञानार्थित्वेन कर्मान्तरमकुर्वन्तश्चाक्रायणाभिमुखाः स्थिता इत्यर्थः ॥ १० – ११ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्ययस्य दशमः खण्डः ॥