अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

पञ्चमोऽध्यायः: चतुर्थः खण्डः

ननु यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथम्येन प्रतिवदता क्रमो निराकृतस्तत्र किं कारणमत आह –
पञ्चम्यामिति ।
अर्थ­क्र­म­म­नु­सृत्य पाठ­क्र­मोऽ­भि­धा­तव्य इत्यर्थः ।

ननु वाज­स­ने­य­केऽ­ग्नि­हो­त्र­प्र­क­र­णेऽ­ग्नि­हो­त्रा­हु­त्य­पू­र्व­प­रि­णामं जगदित्युक्तं तदेवेहापि विवक्ष्यत इति चेत्किमनेन पिष्ट­पे­ष­ण­न्या­ये­ने­त्या­श­ङ्क्या­र्थ­भेदं वक्तु­म­ग्नि­हो­त्र­प्र­क­र­ण­स्थि­त­म­र्थ­म­नु­व­दति –
अग्नि­हो­त्रा­हु­त्यो­रिति ।

उक्तप्रकारमेव प्रद­र्श­य­न्प्र­थमं याज्ञवल्क्यस्य जनकं प्रति पट्प्र­श्ना­नु­त्था­प­यति –
तं प्रतीति ।
कार्या­र­म्भ­स्त­च्छ­ब्दार्थः । अग्नि­हो­त्रा­हु­त्य­न्ना­पू­र्व­प­रि­णामो जगदिष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुत­यो­रा­हु­त्यो­र­स्मा­ल्लो­का­दु­त्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्ठा । प्रतिष्ठितयोः स्वाश्रये सम्पाद्यमाना तृप्तिः । तृप्ति­मा­पा­द्या­व­स्थि­तयोः पुनरिमं लोकं प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथममुं लोकं प्रत्यु­त्था­न­शीलो भवतीति कार्या­र­म्भ­म­धि­कृत्य पट्प्रश्नाः प्रवृत्ता इत्यर्थः ।

तत्रैव वाजसनेयके याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति –
तेषां चेति ।
अपूर्वरूपे खल्वाहुती यज­मा­न­मु­त्क्रा­मन्तं परि­वे­ष्ट्यो­त्क्रा­मतः । ते च धूमादिना यज­मा­नेऽ­न्त­रि­क्ष­मा­वि­शति तदा­श्रि­त­त्वा­त्त­दा­वि­शतः । ते पुन­र­न्त­रि­क्ष­स्थ­य­ज­मा­ना­नु­कू­ल­तया स्थिते स्वय­म­न्त­रि­क्षा­धि­क­रणे तदाहवनीयमिव कुर्वाते । आहु­त्य­धि­क­र­ण­स्याऽऽ­ह­व­नी­य­त्वात् तत्र वायुं समिधमिव कुरुतः । वायु­नाऽऽ­न्त­रि­क्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिव मरी­ची­रे­वाऽऽ­द­धाते । मरी­ची­ना­म­न्त­रिक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तन्निष्ठं यजमानं फलोन्मुखमादधाते । ते पुन­र­न्त­रि­क्षा­दु­त्क्रा­मति यजमाने सहोत्क्रामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समि­ध­मि­त्या­द्य­न्त­रि­क्ष­व­दे­वो­क्तम् । यथा वाऽऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलो­क­स्थ­य­ज­मानं फलदानेन सुखिनमातन्वाते । ते चाऽऽरब्धक्षये ततो द्युलो­का­द्य­ज­माने पृथि­वी­गा­वि­श­त्य­ब्भूते सहाऽऽवर्तेते । पृथिवीं चाऽऽविश्य व्रीह्यादिना स्वाश्रयं श्लेपयित्वा रेतःसिघ्मं पुरु­ष­मा­श्र­य­द्वा­रे­णाऽऽ­वि­शतः । पुरुषाच्च रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भीभूतं कर्मा­नु­ष्ठा­न­योग्यं देह­भा­गि­न­मा­पा­द­यतः । ततोऽसौ पारलौकिकं कर्मा­नु­ष्ठा­यान्ते लोकं प्रत्यु­त्था­न­शीलो भवति । इति सर्वं जन­के­नो­क्त­मि­त्यर्थः ।

तथाऽपि कथ­म­र्थ­भे­द­सि­द्धि­रि­त्या­श­ङ्क्यो­क्त­मेव संक्षिप्याऽऽह –
तत्रेति ।
वाजसनेयकं सप्तम्यर्थः ।

प्रकृ­त­श्रु­ते­र­र्थ­वि­शेषं दर्शयति –
इह त्विति ।
पञ्चधा द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­त्प्र­का­रै­रिति यावत् ।

पञ्चा­ग्नि­स­म्ब­न्ध­म­व­तार्य प्रथमपर्यायस्य तात्पर्यमाह –
इहेति ।
अयं लोको भूलो­क­स्त­स्मि­न्नि­त्यर्थः ।

आहु­त्यो­र­प्स­म­वा­यि­त्व­सि­द्ध्यर्थं विशिनष्टि –
पय आदीति ।

तयोः श्रद्धा­त्व­सि­द्ध्यर्थं श्रद्धापुरःसरे इत्युक्तम् । तयो­र­धि­क­र­णोऽ­ग्नि­रि­त्या­दि­क­ल्प­नो­प­यो­गि­त्वेन विशे­ष­णा­न्त­र­मा­दत्ते –
आहवनीयेति ।

तयोः स्वातन्त्र्यं परिहरति –
कर्त्रादीति ।
अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलो­का­ख्योऽ­ग्नि­स्त­त्स­म्ब­न्ध­मिति तच्छ­ब्दोऽ­ग्नि­वि­षयः ।

अन्य­च्चे­त्युक्तं स्पष्टयति –
समिदादीति ।
आदिशब्दो धूमा­र्चि­र­ङ्गा­रा­दि­वि­षयः ।

पर्या­य­ता­त्प­र्य­मु­क्त्वाऽऽ­क्ष­राणि व्याकरोति –
असावित्यादिना ।
इहे­त्ये­त­ल्लो­क­नि­र्देशः पूर्वेण सम्बध्यते । तदु­त्था­ना­दि­त्यत्र तच्छ­ब्दे­नाऽऽ­दित्यो गृहीतः ॥१॥

अध्या­त्मा­धि­दै­व­वि­भा­गेन देवान्विशदयति –
यजमानेति ।

प्रत्य­य­वि­शे­ष­त्वेन श्रद्धाया होम्य­त्वा­नु­प­प­त्ति­रि­त्या­शङ्क्य श्रद्धां व्याकरोति –
अग्निहोत्रेति ।

किञ्च प्रश्न­प्र­ति­व­च­न­यो­रे­का­र्थ­त्वा­त्प्रश्ने चापां होम्यतया श्रुत­त्वा­त्प्र­ति­व­च­नेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह –
पञ्चम्यामिति ।

अप्सु श्रद्धाशब्दस्य वृद्ध­व्य­व­हा­र­प्र­यो­गा­भा­वा­न्नै­व­मि­त्या­श­ङ्क्याऽऽह –
श्रद्धेति ।

कथमापः श्रद्धाशब्देन प्रसि­द्ध­व­दु­च्यन्ते तत्राऽऽह –
श्रद्धामिति ।
श्रद्धा­पू­र्व­क­हो­म­मु­द्दिश्य पयः­सो­मा­ज्या­दि­सा­धनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः ।

तथाऽपि यजमानानां कथं फलवत्वमत आह –
यजमानाश्चेति ।
आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः ।

तदेव स्पष्टयति –
आहु­ति­भा­व­ना­भा­विता इति ।
तत्सं­स्तु­ता­स्त­द­नु­सा­रि­ण­स्त­दा­श्रया इत्यर्थः ।

तद्भा­वि­त­त्व­फ­ल­माह –
आहुतिरूपेणेति ।
तेनाऽऽकृष्टत्वं वशीकृतत्वम् ।

आहुतिभाविता इत्युक्तं स्पष्टयति –
श्रद्धेति ।
तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोम­भू­ता­स्त­त्स­मी­पस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः ।

कथं सोमसारूप्यं कर्मिणां फल­मि­त्या­श­ङ्क्याऽऽह –
तदर्थमिति ।

यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गति­रि­त्या­श­ङ्क्याऽऽह –
अत्रेति ।
आहवनीयोऽग्निः सप्तम्यर्थः ।

सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –
तां त्विति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य चतुर्थः खण्डः ॥