अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: अष्टमः खण्डः

अवशिष्टं पादान्तरं तर्हि कथं ज्ञाय­ता­मि­त्या­श­ङ्क्याऽऽह –
हंसोऽपीति ।

मद्गुशब्दस्य वाच्य­म­र्थ­म­न्वा­चष्टे -
मद्गुरिति ।

तस्य कथं सत्यकामं प्रत्यु­प­दे­ष्टृ­त्व­मत आह –
स चेति ॥१॥

तं मद्गु­रु­प­नि­प­त्ये­त्यत्र मद्गुशब्दार्थं पूर्वोक्तमेव स्मारयति –
मद्गुः प्राण इति ।

प्राणः कले­त्या­द्या­य­त­न­वा­नि­त्ये­व­मिति यथोक्तगुणं समर्थयते –
आयतनमित्यादिना ।
तद्यस्मिन्पादे वर्तते सोऽय­मा­य­त­न­वा­न्नाम पाद इति द्रष्टव्यमिति योजना ॥२-३॥

द्विविधं विद्या­फ­ल­म­भि­धत्ते –
तं पादमिति ।
तथै­वाऽऽ­य­त­न­व­त्त्व­गु­णा­क्रा­न्त­त्वे­नै­वे­त्यर्थः ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतु­र्था­ध्या­य­स्या­ष्टमः खण्डः ॥