अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: चतुर्विंशः खण्डः

प्रासङ्गिकं हित्वा प्रकृतमनुसंधते –
सामेति ।
पञ्चविधं सप्तविधं च यज्ञाङ्गीभूतं साम तस्यो­पा­स­न­व­च­ना­दो­ङ्का­रस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्त्यं ब्रह्म­प्र­ती­क­त्वा­त्कै­व­ल्य­हे­तु­त्वेन तमेव महीकृत्य प्रस्तु­त­य­ज्ञा­ङ्ग­भू­त­सा­मा­दि­वि­ज्ञा­न­वि­धा­ना­र्थ­मु­त्त­र­वा­क्य­मि­त्यर्थः ।

साम­हो­म­म­न्त्रो­त्थानं सामा­दि­ज्ञा­न­वि­धि­त्सया, तदपरिज्ञाने दोषमाह –
ब्रह्मेत्यादिना ।

तेषां प्रातः­स­व­ने­शा­न­त्वेऽपि यजमानस्य का हानि­रि­त्या­श­ङ्क्याऽऽह –
तैश्चेति ।
यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण सम्बन्धः । तृतीयो लोको द्युलोकाख्यः ।

अस्तु तत्तद्देवानां तत्त­ल्लो­क­व­शी­का­र­स्त­थाऽपि यजमानस्य लोकित्वे किम­या­त­मि­त्या­श­ङ्क्याऽऽह –
इति यजमानस्येति ॥१॥

परि­शि­ष्ट­लो­का­भा­वोऽ­तः­श­ब्दार्थः । तर्हि देह­पा­ता­दू­र्ध्व­मि­त्ये­तत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
लोकायेति ।

लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्वार्थं यज्ञा­द्य­नु­ष्ठा­न­मि­त्या­श­ङ्क्याऽऽह –
लोकाभावे चेति ।

अज्ञो यज्ञं स्वर्गा­दि­सा­ध­नी­भूतं कथं कुर्या­दि­त्या­क्षे­पा­द­वि­द्व­त्क­र्मा­नु­ष्ठा­न­नि­न्दा­परं वाक्य­मि­त्या­श­ङ्क्याऽऽह –
सामादीति ।

अथेतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह –
स्तुतये चेति ।

इत­श्चा­वि­द्व­त्क­र्तृत्वं निषे­द्धु­म­श­क्य­मि­त्याह –
आद्ये चेति ।
मट­ची­ह­ते­ष्वि­त्यादौ विदुषः सन्निधाने तद­नु­ज्ञा­म­न्त­रे­णा­वि­दुषः कर्म कर्तुमयुक्तम् । प्रत्य­वा­य­प्र­स­ङ्गात् । तदसन्निधौ तु तेनापि क्रियमाणं कर्म न दुष्य­ती­त्यु­प­पा­दि­त­मि­त्यर्थः । अथशब्दो हेत्वर्थः । सामाद्यविज्ञाने यस्मा­द्य­ज्ञा­द्य­क­र­ण­मेव प्राप्तं तस्मादित्यर्थः ॥२॥

ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति –
किं तदित्यादिना ।
अप्रगीतमृग्जातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकः तस्येति यावत् ।

उपा­क­र­णा­दि­त्य­स्या­र्थ­माह –
प्रारम्भादिति ।

जघ­ने­ने­त्ये­त­द्व्या­चष्टे –
पश्चादिति ।
स गार्हपत्यस्य पृष्ठत उद्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानविषयः ॥३॥

राज्याय त्वद्दर्शनेन त्वदनुज्ञया पृथि­वी­प्र­यु­क्त­भो­गा­ये­त्यर्थः ॥४॥

पृथिव्यां क्षियति वसतीति पृथि­वी­क्षि­त्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव किं स्यादि­त्या­श­ङ्क्याऽऽह –
एष वै मम यजमानस्येति ॥५॥

स्वाहाशब्दो मन्त्र­स­मा­प्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वेतैः साम­हो­म­म­न्त्रो­त्था­नै­रि­त्यर्थः ॥६॥

यथा पृथि­वी­लो­क­ज­यो­पायो दर्शि­त­स्त­थाऽ­न्त­रि­क्ष­लो­क­ज­यो­पा­योऽपि प्रदर्श्यत इत्याह –
तथेति ॥७ – ८॥

अन्तरिक्षे क्षिय­ती­त्य­न्त­रि­क्ष­क्षि­द्वा­यु­स्तस्मै वायवे ॥९ – १० ॥

यथा पृथि­व्य­न्त­रि­क्ष­यो­रा­प्त्यु­पा­य­स्तथा द्युलो­का­प्त्यु­पा­योऽ­प्यु­च्यत इत्याह –
तथेति ।
स्वारा­ज्य­म­न्त­रिक्षे स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥११ – १२ – १३॥

किमिदं सामा­द्या­र्त्वि­ज्य­माहो याजमानिकमिति वीक्षायामाह –
याजमानं त्विति ।
आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥१४ – १५॥

सामा­दि­वि­ज्ञा­न­फलं कथयति –
एष हेति ।

य एवं वेदेत्यस्य व्याख्या –
यथोक्तस्येति ।
यथोक्तं सामादीत्येतत् । एव­मि­त्यु­क्त­प्र­का­रोक्तिः । तस्य यज्ञ­या­था­त्म्य­वि­द­स्त­द­नु­वि­द­स्त­द­नु­ष्ठा­न­द्वारा तत्फलं सम्भवतीत्यर्थः ॥१६॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य चतुर्विंशः खण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां छान्दो­ग्यो­प­नि­ष­द्भा­ष्य­टी­कायां द्वितीयोध्यायः ॥