अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: चतुर्थः खण्डः

चतुर्थं मधु निदर्शयति –
अथेति ।

किं तत्क­र्मे­त्या­श­ङ्क्याऽऽह –
इतिहासेति ।
तद्ध्या­थ­र्व­णा­ना­मा­ङ्गि­र­सानां च प्रसिद्धं ब्राह्मणं तद्विहितं कर्म पुष्पं पुष्प­स्था­नी­य­मि­त्यर्थः ।

यदा प्रसि­द्ध­यो­रि­ति­हा­स­पु­रा­ण­यो­रु­पा­दानं तदाऽपि न दूषणमित्याह –
तयोश्चेति ।
अश्वमेधकर्मणि जामि­ता­प­रि­हा­रार्थं पारिप्लवो नाना­वि­धो­पा­ख्या­न­स­मु­दायो यत्र तत्पा­रि­प्ल­व­मा­च­क्षी­ते­ति­वि­धि­व­शा­त्प्र­यु­ज्यते । तासु रात्रिषु तस्यैव कर्मणोङ्गत्वेन मनुर्वैवस्वतो राजे­त्ये­वं­प्र­का­र­यो­र्वि­नि­यो­गस्य पूर्वतन्त्रे पारि­प्ल­वा­र्था­धि­क­र­णे­नैव सिद्ध­त्वा­त्त­त्त­त्स­म्बन्धि कर्म पुष्पमित्यर्थः ।

अस्यापि मधुनः शास्त्र­प्र­त्य­क्ष­ता­माह –
मध्वेतदिति ॥१ –३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य चतुर्थः खण्डः ॥