आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: पञ्चमः खण्डः
कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् ।
कथमन्नोपयोगात्प्रागेव मनसः सिद्धत्वात्तन्मनो भवतीत्युच्यते तत्राऽऽह –
मनोरूपेणेति ।
मनसोऽन्नोपचितत्ववचनाद्वैशेषिकपरिभावाऽपि दूषिता वेदितव्येत्याह –
ततश्चेति ।
मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्याशङ्क्याऽऽह –
यदपीति ।
केनाभिप्रायेण तर्हि विशेषणमित्याशङ्क्याऽऽह –
किं तर्हीति ।
तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्यत्वमित्याशङ्क्याऽऽह –
यच्चेति ।
यद्वा चक्षुरादिष्वसत्स्वपि मनसः सत्त्वोपलम्भात्तदपेक्षया तस्य नित्यत्वमेष्टव्यमित्याशङ्क्याऽऽह –
यच्चेति ।
आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्क्याऽऽह –
सदिति ॥१॥
भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपामपि त्रैविध्यमाह –
तथेति ॥२॥
कथं तेजसोऽग्न्यादित्यादेरशनमित्याशङ्क्य विशिनष्टि –
तैलेति ।
मज्जाशब्दार्थमाज –
अस्थीति ।
योऽणिष्ठः सा वागित्युक्तं व्यक्तीकरोति –
तैलघृतादीति ॥३॥
भुक्तस्यान्नस्य पीतानामप्यपामशितस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्धमतस्तेषामन्नादिमयत्वं युक्तिमित्याह –
यत इति ।
तेषामन्नादिमयत्वं व्यतिरेकासिद्धिमाश्रित्याऽऽक्षिपति –
नन्विति ।
आखुप्रमुखानां स्फुटोदपादानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकान्तर्भावसम्भवात्प्राणादेरम्मयत्वाद्युपपन्नमित्युत्तरमाह –
नैष दोष इति ।
सर्वस्यान्नादेस्त्रिवृत्कृतत्वस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसम्भवादेकैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः ।
उक्तमेव व्यक्तीकरोति –
न हीत्यादिना ।
उक्तरीत्या मनाअदेरन्नादिमयत्वप्रत्यायनद्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेतकेतुश्चोदयतीत्याह –
इत्येवमिति ।
सर्वेषां सन्निधानाविशेषेऽन्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह –
नाद्यापीति ।
पार्थिवमेवोपचिनोतीति विशेषमाशङ्क्याऽऽह –
यस्मादिति ।
एकस्मिन्नुदरे प्रविष्टानामन्नादीनां मिश्रीभूतत्वान्मनसश्च सर्वभूतगुणव्यञ्जकत्वेन सर्वभूतारब्धत्वात्पार्थिवत्वासिद्धेर्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मादेवमभिप्रायः श्वेतकेतोरत इति योजना ।
मन आदेरन्नादिमयत्वमुपपादयितुमुत्तरग्रन्थमवतारयति –
तमेवमिति ।
यत्त्वं मन आदेरन्नादिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽत्रान्नादिमयत्वे तस्य दृष्टान्तमुच्यमानं शृण्विति योजना ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चमः खण्डः ॥