अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: एकादशः खण्डः

प्रधा­न­वि­द्या­मु­प­दि­श्या­ङ्ग­वि­द्या­वि­धा­ना­यो­प­क्र­मते –
संभूयेति ।
अनन्तरं प्रधा­न­वि­द्यो­प­दे­शा­दिति शेषः । अग्निविद्यां वक्तु­मा­र­ब्धा­ना­म­ग्नीनां मध्ये प्रथममिति श्रुता­व­थ­श­ब्दार्थः ।

पृथि­व्या­दि­च­तु­ष्ट­य­म­नू­द्या­ग्न्या­दि­त्य­यो­र­वा­न्त­र­भेदं दर्शयति –
तत्रेति ।
एव­म­ग्न्या­दि­त्य­यो­स्ता­दा­त्म्य­मि­ती­ति­श­ब्दार्थः ।

य एष आदित्ये पुरुषो दृश्यते सोऽह­म­स्मी­त्ये­ता­व­तैव तयो­स्ता­दा­त्म्य­सिद्धेः स एवाहमस्मीति पुन­रु­क्ति­र­न­र्थि­के­त्या­श­ङ्क्याऽऽह –
पुनरिति ।

भोज्यत्वं लक्षणं स्वभावो ययो­स्त­यो­र्गा­र्ह­प­त्येन यथा सम्बन्धस्तथा गार्ह­प­त्या­दि­त्य­योर्न सम्बन्धः किन्तु तादात्म्यलक्षण एवेत्यत्र हेतुमाह –
अत्तृत्वेति ।

पृथिव्यादावपि तादात्म्यं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
पृथिवीति ।
आभ्या­म­ग्न्या­दि­त्या­भ्या­मिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथो­क्ता­र्थ­वि­शे­ष­सि­द्ध्य­र्थ­मिति भावः ॥१॥

उक्ताया विद्याया गार्ह­प­त्य­वि­ष­याया द्विविधं फलं दर्शयति –
स यः कश्चिदित्यादिना ।

कस्यै­त­त्फ­ल­मि­त्य­पे­क्षा­या­मु­क्त­मेव संक्षिपति –
य एतमेवमिति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतु­र्था­ध्या­य­स्यै­का­दशः खण्डः ॥