आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: तृतीयः खण्डः
त इमे सत्याः कामा इत्यादेस्तात्पर्यमाह –
यथोक्तेति ।
आह समनन्तरा श्रुतिरिति शेषः ।
तमेवानुक्रोशं दर्शयति –
कष्टमिति ।
अनृतमपिधानमिवापिधानं तेषांमिति सम्बन्धः ।
किं तदनृतं तदाह –
बाह्येति ।
कथं तदपिधानमात्मस्थानां कामानामित्याशङ्क्याऽऽह –
तन्निमित्तमिति ।
उक्तमर्थमाकाङ्क्षापूर्वकमुत्तरं वाक्यमवतार्योपपादयति –
कथमित्यादिना ।
तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टुमिच्छन्नपि यस्मान्न लभते तस्मादनृतापिधानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥१॥
इतश्च तेषामलाभे निमित्तमनृतापिधानमेवेत्याह –
अथ पुनरिति ।
यथोक्तेन विधिनेत्युपास्तिप्रकारोक्तिः ।
आत्मस्थानां कामानामनृतापिधानत्वमुक्तं निगमयति –
अत्रेति ।
यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतापिधानाः । सत्यामविद्यायामनुपलम्भाद्विद्यया तत्प्रशमने चोपलम्भादित्यर्थः ।
यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे –
कथमिवेत्यादिना ।
तत्र स्वायत्तस्याप्यप्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः ।
दार्ष्टान्तिकं व्याकरोति –
एवमेवेति ।
अलाभप्रकारमभिनयति –
एषोऽहमिति ।
तत्र हेतुमाह –
अनृतेनेति ।
यथोक्तेन मिथ्याज्ञानशब्दितानाद्यनिर्वाच्याज्ञानकृतेन तृष्णाप्रभेदेन तन्निमित्तेनेच्छाप्रचारेणेत्यर्थः । तस्मात्प्रजानां स्वात्मभूतब्रह्मलोकालाभ इति शेषः ।
स्वरूपादनृतेन हृतत्वमेव स्फोरयति –
अविद्यादीति ।
प्रकृतमाक्रोशमुपसंहरति –
अत इति ॥२॥
अनुक्रोशद्वारा यथोक्तब्रह्मध्यानानुष्ठाने प्रयत्नस्य कर्तव्यतोक्ता, सम्प्रति नामादाविव हृदये ब्रह्मदृष्ट्यारोपमात्रमिति शङ्कां वारयितुमनन्तरवाक्यमवतार्य व्याकरोति –
स वा इत्यादिना ।
कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह –
तस्येति ।
यथोक्तावगतिफलमाह –
अहरहरिति ।
एवंविदिति विशेषणममृष्यमाणः शङ्कते –
नन्विति ।
अनेवंविदोऽपि सुषुप्तिकाले ब्रह्मप्राप्तिमङ्गीकरोति –
बाधमेवमिति ।
तर्हि किमित्येवंविदिति विशेषणमित्याशङ्क्याऽऽह –
तथाऽपीति ।
विद्वदविदुषोर्विशेषमेव दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भवत्यन्यस्त्वविद्वानस्मीति देहादिकमेव जानन्न सदेव भवतीति योजना । देहपातेऽपीत्यपिशब्देन जीवदवस्था दृष्टान्तिता ॥३॥
संप्रसादस्य विदुषो यन्मुक्त्यालम्बनं शुद्धं ब्रह्म तत्तादात्म्योपदेशेनोपास्यं स्तोतुं संप्रसादशब्दार्थं कथयति –
सुषुप्तेति ।
सम्यक्प्रसीदतीति संप्रसादो विद्वानिति शेषः ।
स्वाभाविकमेवाऽऽत्मनः स्वास्थ्यं कथं सुषुप्ते प्रसीदतीति विशेष्यते तत्राऽऽह –
जाग्रदिति ।
जहातीति सुषुप्तः पुरुषः संप्रसाद इति विशेषव्युत्पत्तिबलेन संप्रसादशब्दः सौषुप्तसर्वजीवसाधारणस्तत्कथमेष संप्रसाद इति सन्निहितविद्वत्परामर्शस्तत्राऽऽह –
संप्रसादशब्द इति ।
तस्य सौषुप्तसर्वजीवसाधारणत्वेऽपि प्रक्रमवशाद्विद्वानेवैष संप्रसाद इति व्यपदिश्यते । यथा सन्निहितोऽर्थो यत्नविशेषादेष इति शब्दशक्तिवशादुच्यते तथेहापीत्यर्थः । एष एवंवित्प्रकृतः संप्रसादः स विद्वानिति यावत् । विवेकानन्तर्यमथशब्दार्थः ।
समुत्थानशब्दस्य मुख्यार्थत्वं वारयति –
न त्विति ।
देहाद्व्युत्थितस्यापि स्वेन रूपेणामिनिष्पत्तिर्भविष्यतीत्याशङ्क्याऽऽह –
न हीति ।
कुतोऽयं स्वरूपेऽभिनिष्पत्तिप्रयोगस्तत्राऽऽह –
प्रागिति ।
एतच्छब्दः सम्यग्ज्ञानविषयः । अनात्मस्वरूपप्रतिपत्तिभ्रान्तिनिवृत्त्यपेक्षया स्वरूपसंपत्तिरुपचरितेत्यर्थः ।
किं तत्स्वरूपमिति तदाह –
अशरीरता हीति ।
यथा मिथ्यारूप्यतादात्म्यनिवृत्तौ स्वाभाविकेनारूप्यात्मना शुक्तिरवतिष्ठते तथा शरीरतादात्म्यभ्रान्तिनिवृत्तौ तदभावोपलक्षितं स्वच्छं स्वरूपमेवावस्थितं भवतीत्यर्थः ।
एष आत्मेति होवाचेत्यत्रैषशब्दार्थमाह –
यत्स्वमिति ।
कोऽसावुक्तिकर्तेत्याकाङ्क्षायामाह –
स ब्रूयादिति ।
न केवलमात्मत्वमेव प्रकृतस्य ज्योतिषः किन्तु रूपान्तरत्वमस्तीत्याह –
किञ्चेति ।
अविनाशित्वे हेतुमाह –
भूमेति ।
तथाऽपि कथमविनाशित्वं तत्राऽऽह –
यो वा इति ।
इतिशब्दो हेत्वर्थः । यस्माद्यथोक्तलक्षणं ब्रह्म तस्मात्तदुपासनामर्हतीत्यर्थः ।
उपास्यस्य ब्रह्मणो नाम निर्दिशति –
तस्येति ।
उक्तस्य पुनरुक्तिरनर्थिकेत्याशङ्क्य परिहरति –
किमर्थमित्यादिना ॥४॥
उपास्यस्तुत्यर्थं नामोक्त्वा तादर्थ्येनैव नामाक्षराणि प्रस्तौति –
तानीति ।
तानि कानीत्यपेक्षायामाह –
एतानीति ।
कथं तकार इत्युच्यत ईकारस्यापि तत्र भावादित्याशङ्क्याऽऽह –
ईकार इति ।
तत्र हेतुमाह –
ह्रस्वेनेति ।
दीर्घमीकारमुद्दिश्य ह्रस्वं पुनरनुवदन्नविवक्षितत्वमेव नामाक्षरेषु तस्य सूचयतीत्यर्थः ।
त्रयाणामक्षराणामवान्तरभेदं दर्शयति –
तेषामिति ।
निर्धारणे षष्ठी । वर्णविभागानन्तर्यमथशब्दार्थः । तकारस्याक्षरसामान्यान्मर्त्यत्वम् ।
कथमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता नियमयतीत्याकाङ्क्षायां नियमनस्वाभाव्येनेत्याह –
आत्मन इति ।
यमित्यक्षरस्य नियमनस्वाभाव्यमेव साधयति –
यद्यस्मादिति ।
तस्य तत्स्वभावत्वेऽनुभवमनुकूलयति –
संयते इवेति ।
यमा यमित्यक्षरेणेत्यर्थः ।
तस्य पूर्वाभ्यामुपरिष्टाद्भावित्वं तन्नियामकत्वे हेतुरिति मत्वाऽऽह –
एतेनेति ।
लक्ष्येते पूर्वे अक्षरे इति शेषः ।
ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह –
ब्रह्मेति ।
फलवाक्यस्थमेवंवित्पदं व्याकरोति –
एवमिति ।
वाक्यं तु न व्याख्येयं प्रागेव व्याख्यातत्वादित्याह –
अहरिति ॥५॥
॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाध्यायस्य तृतीयः खण्डः ॥