आनन्दगिरिटीका (छान्दोग्य)
चतुर्थोऽध्यायः: द्वितीयः खण्डः
क्षत्तृवचने श्रुते सतीति सप्तम्यर्थः । धनार्थितां च बुद्ध्वेति पूर्वेण सम्बन्धः । उहशब्दस्य पूर्ववदत्राप्येवकारोऽर्थः ॥१॥
अत्रापि विनिग्रहार्थत्वसम्भवे किमित्यानर्थक्यमित्याशङ्क्य तवैवेत्येवकारादेव विनिग्रहसिद्धिरित्याह –
एवशब्दस्येति ।
गार्हस्थ्यार्थिनस्तव कर्मानुष्ठानार्थमिदं धनं तिष्ठतादिति चेन्नेत्याह –
न ममेति ।
शूद्रशब्देन जानश्रुतेः संबोधनमनुचितमिति चोदयति –
नन्विति ।
तस्याशूद्रत्वे हेत्वन्तरमाह –
विद्याग्रहणायेति ।
तस्य श्रुतिद्वारा विद्याधिकारो नास्तीत्यपशूद्राधिकरणे निर्धारितमित्याशयेनाऽऽह –
शूद्रस्य चेति ।
जानश्रुतेः सति क्षत्रियत्वे शूद्रसम्बोधनमयोग्यमित्युपसंहरति –
कथमिति ।
न जातिशूद्रो जानश्रुतिः किंतु क्षत्रियोऽस्मिन्गौणः शूद्रशब्द इत्येकीयमतोपन्यासेन परिहरति –
तत्रेति ।
तेन शुगाविष्टत्वेनासौ जानश्रुतिः शुचा हेतुना रैक्वमाद्रवतीति शूद्रः श्रुत्वा वा हंसवाक्यं रैक्वमाद्रवतीति नैमित्तिकं तत्र शूद्रपदमित्यर्थः ।
तथाऽपि किमिति शूद्रपदेन राजानमृषिः संबोधयतीत्याशङ्क्याऽऽह –
ऋषिरिति ।
उक्तप्रकारद्वयसमाप्तावितिशब्दः ।
प्रकारान्तरेण जानश्रुतेः शूद्रत्वं गौणं व्युत्पादयति –
शूद्रवद्वेति ।
न च शुश्रूषया तेन शूद्र इति शेषः ।
मुख्यं शूद्रत्वं क्षत्तृसंबन्धेन व्यावर्तयति –
न त्विति ।
क्षत्रिये जानश्रुतौ शूद्रशब्दप्रवृत्तौ निमित्तान्तरमाह –
अपरे पुनरिति ।
तत्र गमकं दर्शयति –
लिङ्गञ्चेति ।
यदृषेर्मतमधिकधनार्थित्वमिति यावत् । अधिकं षट्शतेभ्यः सकाशादिति शेषः ॥३॥
विद्यादाने तस्या द्वारत्वं तद्दातुश्च वरज्ञानदानतीर्थतां जानन्नुवाचेति सम्बन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह –
ब्रह्मचारीति ।
तस्या द्वारतां विद्यादाने तद्दातुस्तीर्थतां च जानन्नुवाचेत्युक्तमनुवदति –
एवं जानन्निति ।
किमुक्तमित्यपेक्षायामाह –
आजहारेति ।
तत्र वैधर्म्यदृष्टान्तमाह –
पूर्ववदिति ।
अल्पधनहरणानिच्छायां कारणापेक्षायां शूद्रेति सम्बोधनवदित्यर्थः ।
रैक्वेण ग्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेत्यस्मान्प्रति श्रुतिर्ज्ञापयति –
ते हैत इति ।
महावृषेषु महापुण्येष्विति यावत् ॥४ -५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वितीयः खण्डः ॥