अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

अष्टमोऽध्यायः: नवमः खण्डः

एवं विरोचनगतं विशेषं दर्शयित्वा देवराजगामिनं विशेषमाह –
अथेत्यादिना ।

द्वयो­स्तु­ल्येऽपि प्राजा­प­त्य­वा­क्य­श्र­वणे देवराजस्यैव कथं पथि तदनुसन्धानं वृत्त­मि­त्या­श­ङ्क्याऽऽह –
दैव्येति ।

स्मरणफलमाह –
स्मरन्नेवेति ।

प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छायात्मग्रहणे दोष­द­र्श­न­मि­त्या­श­ङ्क्याऽऽह –
उदशरावेति ।
यदर्थो देहा­दे­र­ना­त्म­त्व­ज्ञा­प­ना­येति यावत् । कादा­चि­त्क­त्व­व्य­भि­चा­रि­त्वा­दि­र्न्यायः तदेकदेशो व्यभि­चा­रि­णोऽ­ना­त्म­त्वम् ।

न्यायै­क­दे­श­दृ­ष्टि­फ­ल­मा­चष्टे –
येनेति ।

दोष­द­र्श­न­मे­वाऽऽ­का­ङ्क्षा­द्वारा स्फोरयति –
कथमित्यादिना ।

उदाहृते वाक्ये विवक्षितमर्थं कथयति –
यथेति ।

परिष्कृतो भव­ती­त्ये­त­द्व्या­चष्टे –
नखेति ।
एवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तदपगमवदित्यर्थः । शरी­रेऽ­स्मि­न्नन्धे सति च्छाया­त्माऽ­प्यन्धो भवतीति सम्बन्धः ।

किमिति देहस्याऽऽन्ध्ये छाया­त्म­न­स्त­दि­ष्ट­मि­त्या­श­ङ्क्याऽऽह –
नखलोमादिभिरिति ।
तैः सह चक्षुरादीनां तुल्य­त्वा­द्दे­हा­व­य­व­त्वस्य देहेनखाद्यभावे छायायामपि तद­भा­वा­भ्यु­प­ग­मा­द्देहे चक्षु­रा­द्य­भा­वेऽपि च्छायाया तदभावो युक्त इत्यर्थः ।

स्राम­श­ब्द­स्या­पु­न­रु­क्त­मर्थं कथयति –
स्रामः किलेति ।

पदार्थमुक्त्वा वाक्यार्थमाह –
स्राम इति ।

पार­त­न्त्र्या­द­ना­त्मत्वं छायाया दर्शयित्वा तत्रैव हेत्वन्तरमाह –
तथेति ॥१॥

विना­शि­त्वा­दि­यु­क्ति­द­र्श­न­फ­ल­मु­प­स­म्ह­रति –
अत इति ।

दोषं दृष्ट्वा यथोक्तरीत्या किं कृत­वा­नि­त्य­पे­क्षा­या­माह –
इत्येवमिति ।

सर्वज्ञो हि प्रजा­प­ति­रि­न्द्रा­भि­प्रायं जानन्नेव किमर्थं प्राकृ­त­व­त्पृ­च्छ­ती­त्या­श­ङ्क्याऽऽह –
विजानन्नपीति ।

आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्य­भि­प्रा­य­वि­शे­षेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह –
यद्वेथेति ।
तथा च प्रजा­प­ति­प्र­श्ना­नु­रो­धे­नेति यावत् । इन्द्रविषयः स्वशब्दः।

शिष्ययोः श्रवणसाम्येऽपि प्रति­प­त्ति­वै­षम्ये निमित्तं पृच्छति –
नन्विति ।

आचा­र्य­म­तो­प­न्या­स­द्वारा परिहरति –
तत्रेति ।

तत्र प्रति­प­त्ति­वि­शेषे दृष्टान्तेन निमित्तविशेषं दर्शयति –
यथेति ।
आचा­र्यो­क्त­बुद्ध्या तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्ये­त्यर्थः ।

विरो­च­न­स्ये­न्द्र­व­च्छा­या­त्म­ग्र­ह­ण­मा­चा­र्यो­क्त­बुद्ध्या नाभूदित्याह –
न तथेति ।

कथं तर्हि तस्याऽऽ­त्म­द­र्श­न­मि­त्या­श­ङ्क्याऽऽह –
देह एवेति ।
आचार्येणाऽत्मा देह एवोक्त इति बुद्ध्या तत्रैव विरो­च­न­स्याऽऽ­त्म­ज्ञा­न­मा­सी­दि­त्यर्थः ।

इन्द्रस्य छायात्मग्रहणे देवा­न­प्रा­प्त­स्यै­व­मा­र्ग­मध्ये दोष­द­र्श­न­व­द्वि­रो­च­न­स्या­सु­रा­न­प्रा­प्त­स्या­ध्वनि देहात्मदर्शने दोषदर्शनं च न प्रवृत्तमित्याह –
नापीति ।

दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह –
तद्वदेवेति ।

विद्या­ग्र­ह­णौ­प­यि­कस्य सामर्थ्यस्य प्रतिबन्धभूतो यो रागा­दि­दो­ष­स्त­द­ल्प­त्वा­पे­क्ष­मि­न्द्रस्य च्छाया­या­मा­त्म­ग्र­ह­ण­मि­त्युक्तं व्यक्तीकरोति –
इन्द्र इति ।

यथो­क्त­दो­ष­भू­य­त्वा­पेक्षं गृह्णतो विरो­च­न­स्या­भि­प्रायं दृष्टान्तेन दर्शयति –
यथेत्यादिना ।

उक्तमर्थं बृह­दा­र­ण्य­क­श्रु­त्य­व­ष्ट­म्भेन स्पष्टयति –
स्वचित्तेति ।
देवा­न्म­नु­ष्या­न­सु­रांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्येऽपि तद­र्थ­वि­शे­षा­व­धा­रणं स्वचि­त्त­गु­ण­दो­ष­व­शा­देव बृहदारण्यके ख्यापितं तथेहापीत्यर्थः ।

तत्र वा कथं तुल्येऽपि श्रव­णेऽ­र्थ­वि­शे­ष­बु­द्धि­स्त­त्राऽऽह –
दाम्यतेति ।
अदान्ता हि वयं स्वभावस्तेन दाम्य­ते­त्य­स्मा­न्प्रति पितोक्तवानिति देवानां मतिराविरासीत् । स्वभावतो लुब्धा वयं तेन दत्ते­त्य­स्मा­न्प्र­त्यु­क्त­वा­न्पि­तेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावस्तेन दय­ध्व­मि­त्य­स्मा­न्प्रति प्रजा­प­ति­रू­चि­वा­नि­त्य­सु­राणां प्रति­प­त्ति­र्ब­भूव । तदेवं दका­र­मा­त्र­श्र­व­णा­दा­त्म­चि­त्ता­नु­रो­धेन विचित्रा तेषां मनीषा प्रवृत्ता तथे­न्द्र­वि­रो­च­न­यो­रपि भविष्यतीत्यर्थः ।

अथे­न्द्र­वि­रो­च­न­यो­र्यु­क्ति­द­र्श­ना­वि­शे­षा­द­र्थ­प्र­ति­प­त्ते­र­प्य­वि­शेषः स्यादिति चेन्नेत्याह –
निमित्तान्यपीति ।
युक्ति­द­र्श­ना­न्यपि स्वचि­त्त­गु­ण­दो­षा­ल्प­त्व­ब­हु­त्वा­पे­क्षा­ण्य­त­स्त­यो­स्त­द­पेक्षं प्रति­प­त्ति­वै­ष­म्य­म­वि­रु­द्ध­मि­त्यर्थः ॥२॥

इन्द्राभिप्रायं बुद्ध्वा प्रजा­प­ति­र­नु­मो­दि­त­वा­नि­त्यु­क्त­मि­दा­नी­म­नु­मो­द­न­वाक्यं व्याकरोति –
एवमेवेति ।
इन्द्रा­भि­प्रा­य­वि­षय एष शब्दः ।

अनु­व्या­ख्या­स्या­मी­त्युक्तं श्रुत्वा श्रोतु­का­म­मु­प­ग­त­मि­न्द्रं­प्र­त्याह –
यस्मादिति ॥३॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य नवमः खण्डः ॥