अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: पञ्चदशः खण्डः

शाण्डि­ल्य­वि­द्यया सम­न­न्त­र­ग्र­न्थस्य सम्बन्धो नास्ती­त्या­शङ्क्य व्यवहितेन सम्बन्धं दर्शयितुमनुवदति –
अस्येति ।

सम्प्र­त्यु­त्त­र­ग्र­न्थस्य तात्पर्यं वक्तुं भूमिकां करोति –
न वीरेति ।

तत्र बृह­दा­र­ण्य­क­श्रुतिं प्रमाणयति –
तस्मादिति ।
पुत्रस्य लोक्यत्वादिति यावत् । अनुशासनेन विषयीकृतस्य पुत्रस्य लोक­प्रा­प्ति­सा­ध­न­त्वात् । अनुशासनं वेदाध्ययनम् ।

पुत्र­ज­न्मो­क्त्य­न­न्त­र­मेव किमि­त्ये­त­द्वि­ज्ञानं नोप­दि­ष्ट­मि­त्या­श­ङ्क्याऽऽह –
अभ्यर्हितेति ।
गाय­त्र्यु­पा­धि­क­ब्र­ह्मो­पा­स­नस्य कौक्षेये ज्योतिष्यारोप्य पर­ब्र­ह्मो­पा­स­न­म­भ्य­र्हितं तस्य च मनो­म­य­त्वा­दि­गु­ण­क­ब्र­ह्मो­पा­स­न­म­न्त­र­ङ्गम् । तथा च तद्वचनेन वैय­ग्र्या­द­न­न्त­र­मेव कोशविज्ञानं नोक्तमिति । निवृत्ते तु व्यासङ्गे तद्दृ­ष्टि­रि­दानीं यथो­क्त­फ­ल­सि­द्ध्य­र्थ­मु­च्यत इत्यर्थः । कोशशब्देन हिर­ण्या­दि­नि­क्षे­पा­धारा मञ्जूषोच्यते ।

कथं त्रैलोक्यात्मनः कोशत्वं तत्राऽऽह –
कोश इवेति ।

अने­क­ध­र्म­सा­दृश्यं विशदयति –
स चेति ।

तथाऽपि कथमविनाशित्वं तत्राऽऽह –
सहस्रेति ।
त्रैलोक्यात्मनि कोश­दृ­ष्टि­स्त­त्रापि भूमौ बुध्न­दृ­ष्टि­रि­त्यु­क्तम् । कोशस्य च सापे­क्ष­म­वि­ना­शित्वं ध्येयत्वेन दर्शितम् ।

सम्प्रति दिक्षु कोशकोणदृष्टिः कर्तव्येत्याह –
दिशो हीति ।

दिवि कोश­स्यो­र्ध्व­बि­ल­त्व­बुद्धिं दर्शयति –
द्यौरिति ।

यथोक्ते कोशे वसु­धा­न­त्व­दृष्टिं दर्शयति –
यथोक्तेति ।

तदेव समर्थयते –
तस्मिन्निति ॥१॥

कोश­को­ण­त्वे­नो­क्तासु दिक्ष्व­वा­न्त­र­वि­भा­ग­माह –
तस्येत्यादिना ।

दिशां विशि­ष्ट­ना­म­व­ती­ना­म­नु­चि­न्त­नी­य­त्व­मुक्त्वा तत्सम्बन्धिनं वायुं तद्व­त्स­म­म­र­ण­ध­र्माणं चिन्तयेदित्याह –
तासामित्या दिना ।
पुरो­वा­ता­दी­त्या­दि­श­ब्द­स्त­था­वि­ध­लौ­कि­क­वै­दि­क­प्र­यो­ग­सं­ग्र­हार्थः ।

यथोक्तस्य विज्ञानस्य फलवत्त्वमिदानीं दर्शयति –
स य इति ।
यथो­क्त­गु­ण­मि­त्यस्य प्रक­टी­क­र­ण­म­मृ­त­मिति ।

सफ­ल­मु­पा­स­न­मु­प­दि­ष्ट­मु­प­सं­ह­रति –
यत इति ॥२॥

दीर्घायुष्ट्वं पुत्रस्य काम­य­मा­न­स्त्रै­लो­क्या­त्मानं कोशाकारं परिकल्प्य तस्य चतस्रो दिशो विशि­ष्ट­ना­म­व­ती­स्तासां स्त्रीत्वं तत्सम्बन्धेन वायुं तद्व­त्स­म­म­र­ण­ध­र्माणं चिन्तयेदिति प्रधा­नो­पा­स्ति­रुक्ता । सम्प्रति तदङ्गं जपं दर्शयति –
अरिष्टमित्या दिना ।
अमुना तेन पुत्रेण निमित्तीभूतेन दीर्घायुष्ट्वं निमि­त्ती­कृ­त्ये­त्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं दर्शयितुं पुनरुपात्तं निमि­त्त­नि­वे­द­नार्थं च पुनः पुनर्मन्त्रेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥३॥

अरि­ष्ट­मि­त्या­दि­म­न्त्रस्य प्रागेव व्याख्या­त­त्वा­त्प्रा­ण­मि­त्या­दि­म­न्त्र­मा­दाय व्याचष्टे –
स यदिति ।
सशब्दो वक्तृविषयः ।

प्राणस्य सर्वात्मत्वे वाक्य­शे­षा­नु­गुण्यं दर्शयति –
यथेति ।
तत्सा­र्वा­त्म्य­म­तः­श­ब्दार्थः ॥४ - ५- ६॥

कदा पुनरेषां मन्त्राणां जप इत्यपेक्षायां पूर्वो­क्त­प्र­धा­न­वि­द्या­न­न्त­र­मि­त्याह –
उपरिष्टादिति ।
ध्यात्वो­प­रि­ष्टा­दिति सम्बन्धः यथोक्ते विज्ञाने जपे वाऽऽदरः ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य पञ्चदशः खण्डः ॥