आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: नवमः खण्डः
यथेत्यादिदृष्टान्तमवतारयति –
यत्पृच्छसीति ।
प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सम्पद्य सत्सम्पन्नाः स्मो वयमिति यन्न विदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभूतं दृष्टान्तमुच्यमानं श्रुणु त्वमिति योजना ।
यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याह –
यथेति ।
पुनर्मधुपदं क्रियापदेन सम्बन्धप्रदर्शनार्थम् ।
मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति –
कथमित्यादिना ।
नानागतीनां नानाफलानामित्येतत् ।
बहूनां रसानां कथमेकतेत्याशङ्क्याऽऽह –
मधुत्वेनेति ।
तदेव स्पष्टयति –
मधुत्वमिति ॥१॥
ते यथेत्यादि व्याचष्टे –
ते रसा इति ।
उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथा हीत्यादिना ।
इहेति प्रकृतदृष्टान्तोक्तिः ।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ॥२॥
रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतनावतामेवं दृष्टान्तः स्यादित्याशङ्क्याऽऽह –
यस्माच्चेति ।
चेतनानामपि सुषुप्त्यादौ जाड्यास्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् ।
सता सम्पन्नानामपि तत्स्यादित्याशङ्क्याऽऽह –
संसारिण इति ॥३॥
स य एषोऽणिमेत्याद्यवतारयति –
ताः प्रजा इति ।
इतः सद्विज्ञानरहितेभ्यः सकाशादिति यावत् । यमणुभावमिति यच्छब्दोऽध्याहर्तव्यः ।
प्रश्नान्तरं दृष्टान्तबलादुत्थापयति –
यथेति ।
सतोऽहमागतोऽस्मीत्युत्थितस्य ज्ञानाभावं दृष्टान्तेनोपपादयितुमुत्तरग्रन्थमुत्थापयति –
इत्युक्त इति ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य नवमः खण्डः ॥