अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

पञ्चमोऽध्यायः: द्वितीयः खण्डः

वागादीनां स्वामी श्रैष्ठ्या­दि­गुणः प्राणोऽस्मीति विद्यादिति प्रधा­न­वि­द्या­मु­प­दिश्य तद्द­र्श­ना­ङ्ग­भू­ता­न्न­वा­सो­दृ­ष्टि­वि­धा­नार्थे प्रक्रमे प्रथ­म­म­न्न­दृष्टिं विधातुं प्रसङ्गं प्रकुरुते –
स होवाचेति ।

मुख्यस्य प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह –
मुख्यमिति ।
यदि­द­मि­त्यु­क्त­मेव च यत्पदं वाक्या­र्थ­क­ल्प­नार्थं यद­न्न­मि­त्य­त्रा­नू­द्यते ।

तद्वा एत­दि­त्या­द्यु­त्त­र­वा­क्यस्य पूर्व­वा­क्या­द­र्थ­भे­दा­भा­व­मा­श­ङ्क्याऽऽह –
प्राणस्येति ।

प्राणशब्दं विहा­या­न­श­ब्द­प्र­योगे तात्पर्यमाह –
सर्वप्रकारेति ।
अन चेष्टा­या­मि­ति­धा­तु­ज­स्या­न­श­ब्द­स्यो­पा­दानं सर्व­प्र­का­र­चे­ष्टया प्राणस्य व्याप्ति­गु­ण­प्र­द­र्श­ना­र्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्तं प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वो­क्त­धा­तु­जन्म नामेति यावत् ।

उक्तमेवार्थं समर्थयते –
प्रादीति ।
अनशब्दस्येति शेषः । न प्राणस्य सर्व­चे­ष्टा­प्ति­रि­त्ये­व­का­रार्थः । तथा च प्राणा­दि­श­ब्दो­पा­दाने विशे­ष­व्या­प्ति­रे­वेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वा­न्ना­ना­म­त्तु­र्ना­म­ग्र­ह­ण­मिति सम्बन्धः ।

तदेव व्याचष्टे –
सर्वान्नानामिति ।

ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्नं चेत्तद्विदुषो भक्ष्या­भ­क्ष्य­वि­भा­गा­सिद्धौ तद्विषयं शास्त्रं विरु­ध्ये­ते­त्या­श­ङ्क्याऽऽ­ध्या­त्मिकं रूपं हित्वाऽऽ­धि­दै­वि­केन रूपेण तस्य सर्वान्नत्वे विभा­ग­शा­स्त्र­मा­ध्या­त्मि­क­प­रि­च्छे­द­वि­ष­य­त्वे­ना­वि­रु­द्ध­मि­त्याह –
प्राण­भू­त­त्वा­दिति ।

प्राणभूतो विद्वानित्यत्र श्रुत्यन्तरं संवादयति –
प्राणादिति ॥१॥

प्राण­वि­द्या­ङ्ग­त्वे­ना­न्न­दृ­ष्टि­रु­प­दिष्टा । संप्रति तदङ्गत्वेन वासोदृष्टिं प्रस्तौति –
स होवाचेति ।

अत्रापि प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च कल्पितमेवेत्याह –
पूर्ववदिति ।

अपां प्राणं प्रति वासोरूपत्वे गमकमाह –
यस्मादिति ।

वासो­दृ­ष्टि­फ­ल­मा­चष्टे –
लम्भुक इति ।

अनग्नो ह भवतीत्यस्य पौन­रु­क्त्य­मा­श­ङ्क्या­र्थ­वि­शे­ष­माह –
वासस इति ।

आचमनान्तरं प्राणविदो विधीयत एवं­वि­द­शि­ष्य­न्ना­चा­मे­दिति श्रुते­रि­त्या­श­ङ्क्याऽऽह –
भोक्ष्य­मा­ण­स्येति ।
आदिपदेन प्रतिवचने गृह्येते ।

सर्व­प्रा­णि­भो­ग्येऽन्ने तस्या­न्न­मि­ति­दृ­ष्टि­व­दा­च­म­नी­या­स्वप्सु तस्य विधीयते वासो­दृ­ष्टि­रि­त्युक्तं व्यतिरेकद्वारा विवृणोति –
यदीति ।
ताद­र्थ्ये­ना­न­ग्न­ता­र्थ­त्वे­नेति यावत् ।

अथ पूर्व­म­न्न­दृ­ष्टि­रेव विधीयते सर्वा­न्न­भ­क्ष­णस्य प्रमा­ण­वि­रु­द्ध­त्वा­दिह त्वपू­र्व­मा­च­म­न­म­वि­रो­धा­द्वि­धी­य­ता­मि­त्या­श­ङ्क्याऽऽह –
तुल्ययोरिति ।

एकस्याऽऽचमनस्य शुद्ध्य­र्थ­त्व­म­न­ग्न­ता­र्थत्वं च वक्तुमशक्यं विरो­धा­दि­त्या­श­ङ्क्याऽऽह –
यत्त्विति ।
विरोधो यथा स्यात्तथेति यावत् ।

तर्हि कीदृगाचमनं विवक्षितमित्याह –
किं तर्हीति ।

प्रयतस्य भावः प्रायत्यं तदर्था याऽऽचमनक्रिया तत्सा­ध­न­भू­ता­स्वप्सु वासःसङ्कल्पनं क्रियान्तरमत्र विधि­त्सि­त­मि­त्याह –
प्रायत्येति ।

क्रियाभेदे फलितमाह –
तत्रेति ।
अन्या­र्था­स्व­प्स्व­न्या­र्थ­त्व­चि­न्तने प्रमा­ण­वि­रो­धा­द्वि­धि­यो­गेन वासो­र्थ­मा­च­म­ना­न्त­र­मेव विधेयं तत्र चान­ग्न­ता­र्थ­त्व­चि­न्त­न­मु­चि­त­मिति शङ्कार्थः ।

वासो­र्था­पू­र्वा­च­म­न­वि­धाने तत्रा­न­ग्न­ता­र्थ­त्व­दृ­ष्टि­वि­धाने च वाक्य­भे­द­प्र­स­ङ्गा­त्प्र­सि­द्धा­च­म­न­सा­ध­न­भू­ता­स्वप्सु वासोदृष्टिपरमेव च वाक्य­मि­त्यु­त्त­र­माह –
नेत्यादिना ।
वासो­र्थ­त्व­म­न्या­र्थत्वं दृष्ट्य­र्थ­त्व­मि­त्युक्ते प्रमाणस्यैकस्य वाक्य­स्या­प्र­मा­ण­त्व­प्र­स­ङ्गा­दिति यावत् ॥२॥

तद्धै­त­दि­त्या­दि­वाक्यं न विधानार्थं नापि फलवचनं तथा च व्यर्थ­मि­त्या­श­ङ्क्याऽऽह –
तदेतदिति ।

स्तुतिमेव प्रश्नपूर्वकं विवृणोति –
कथमिति ।
जीवते पुरुषाय प्राणविद्याविदे तद्दर्शनं ब्रूया­त्त­दाऽ­स्मि­न्म­हा­फलं भवतीति किमु वक्तव्यमिति योजना ॥३॥

गोदो­ह­न­व­द­धि­कृ­ता­धि­का­र­मिदं कर्म प्राण­वि­दोऽ­स्मि­न्न­धि­का­रोऽ­स्ती­त्याह –
यथोक्तेति ।
अनन्तरं प्राण­वि­द्या­नि­ष्प­त्ते­रिति शेषः ।

वाक्यशेषं पूरयति –
तस्येति ।

महत्त्वद्वारा विष­यो­प­भो­ग­का­मु­कस्य कर्मविधायि शास्त्रं श्येना­दि­शा­स्त्र­व­द­न­र्थ­फ­ल­मे­वे­त्या­श­ङ्क्याऽऽह –
महत्त्वे हीति ।
तस्येति प्रकृ­त­म­न्था­ख्य­क­र्मोक्तिः । काला­दी­त्या­दि­शब्दो द्रव्या­दि­सं­ग्र­हार्थः । दैक्षं दीक्षायां भवं मौञ्ज्य­भ्य­ञ्ज­नादि न सर्व­मे­वा­य­म­नु­ति­ष्ठति । प्रकृतिधर्मा हि विकृ­ता­व­नु­व­र्तन्ते । प्रकृ­ति­व­द्वि­कृतिः कर्तव्येति न्यायात् । न चेदं कर्म कस्य­चि­द्वि­कृ­ति­रतो यथो­क्त­ध­र्म­व­त्त्व­मे­वात्र विव­क्षि­त­मि­त्यर्थः ।

दीक्षि­त्वे­त्य­नेन विवक्षितं धर्मान्तरमाह –
उपसदिति ।
उपसदो नामेष्टयः प्रवर्ग्याहस्सु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं सम्पाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्वमेव दधिमधुनोः सम्बन्धिपात्रे प्रक्षिप्येति सम्बन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु विकल्पः ।

कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह –
श्रुत्य­न्त­रा­दिति ।
औदुम्बरे केशाकारे कंसे चमसे वेति वाजसनेये श्रव­णा­त्स­र्व­शा­खा­प्र­त्य­य­न्या­ये­ना­पे­क्षितं पात्रमत्र गृहीतमित्यर्थः । आवसथसम्बन्धी लौकि­कोऽ­ग्नि­रा­व­सथ्यो विविक्षितो यस्मि­नौ­पा­स­नाख्यं कर्म क्रियते । आज्यस्य हुत्वेति सम्बन्धः । आवा­प­स्था­न­मा­हु­ति­प्र­क्षे­प­प्र­देशो गृह्योक्तः ॥४॥

वसिष्ठाय स्वाहे­त्या­दि­वाक्यं पूर्ववाक्येन तुल्या­र्थ­मि­त्याह –
समानमिति ।

तुल्यत्वमेव स्पष्टयति –
वसिष्ठायेति ।
स्वाहेति मन्त्रं समुच्चार्य हुत्वेति सम्बन्धः । तथैव प्रथ­म­हो­मा­न­न्त­र­मि­त्यर्थः ॥५॥

आहु­त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रा­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह –
अन्नेन हीति ।

प्रति­ज्ञा­तेऽर्थे प्रश्नपूर्वकं हेतुमाह –
कुत इति ।
अतश्चामो नामासीति पूर्वेण सम्बन्धः ।

हेतुं व्याचष्टे –
यस्मादिति ॥६॥

अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति –
मन्त्रस्येति ।
मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः ।

तत्कथं सवितुः स्यात्प्राणस्य हि मन्थ­द्र­व्य­म­न्न­मि­त्युक्तं तत्राऽऽह –
प्राणमिति ।
उच्यते सवितुर्भोजनमिति शेषः ।

प्राणा­दि­त्य­यो­रे­कत्वे फलितं वाक्यार्थमाह –
आदित्यस्येति ।
मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः ।

प्रार्थनाविषयं भोजनमेव विशिनष्टि –
येनेति ।
तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि ।

स्थिति­का­र­ण­त्व­मुक्त्वा जनकत्वं पक्षान्तरमाह –
अतिशयेनेति ।
जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् ।

किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह –
विशिष्टेति ।

शुद्धधीत्वं ध्यान­का­र­ण­मुक्त्वा प्रकृ­त­क­र्म­व­त्प्रे­प्सि­त­म­हत्त्वे हेतुत्वादपि ध्यान­म­नु­ष्ठे­य­मि­त्याह –
अथवेति ।
सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः ।

मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽ­च­म­न­पू­र्व­क­मग्नेः पश्चिमभागे कृष्णा­जि­न­व्य­व­हि­तायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह –
पीत्वेति ।

शयानस्य कर्तव्यं दर्शयति –
वाचंयम इति ।

तस्य स्वप्ने कथ­ञ्चि­दु­त्त­म­स्त्री­द­र्शने शुभागमः सूच्यत इत्याह –
स एवंभूत इति ॥७-८॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य द्वितीयः खण्डः ॥